भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 29

29.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां धनपालावदानं अष्टविंशः पल्लवः ॥
29. काशीसुन्दरावदानम् ।
जयति स सत्त्वविशेषः सत्त्ववताम् सर्वसत्त्वसुखहेतुः ।
देहदलने ऽपि शमयति कोपाग्निं शान्तिमुच्चैर्यः

29.2

धर्मोपदेशे भगवान् कौण्डिन्यस्याग्रवर्तिनः ।
भिक्षोः कथाप्रसङ्गेन पृष्ट्प् भिक्षुभिरभ्यधात्

29.3

ब्रह्मदत्तस्य तनयो वाराणस्यां महीपतेः ।
काशिसुन्दरनामा व कालभूश्च बभुवतुः

29.4

यौवराज्यभरैकर्हः कुमारः काशिसुन्दरः ।
धर्माधर्ममयं राज्यं विचार्याचिन्तयच्चिरम्

29.5

क्षणक्षयिणि तारुण्ये जीविते वीचिचञ्चले ।
राज्ये स्वप्नविवाहे ऽस्मिन् मोहमूले न मे मतिः

29.6

रागप्रलापबहुले मायाम्फमहे मुहुः ।
वेश्यारोदननिःसारे संसारे नास्ति सत्यता

29.7

प्रव्रज्यामनघस्तस्मादगारादनगारिकम् ।
निस्त्रिंशवृत्तिसंसक्ताभिरागः किं विभूतिभिः

29.8

राजसूनुर्विचिन्त्येति विवेकविमलाशयः ।
उवाचाभ्येत्य भूपालमरण्यगमनोत्सुकः

29.9

मम संभोगवर्गो ऽयं राजन्नैवोपयुज्यते ।
यौवराज्याभिषेकार्हः समारम्भो निवार्यताम्

29.10

क्रोधाग्नितप्ताः सुतरामेतास्तात न मे मताः ।
बद्धबन्धभयायासजनन्यो राजसंपदः

29.11

व्याप्ताः क्रूरतराचारैर्ज्वलिताः पार्थिवश्रियः ।
कुर्वन्ति कस्य नोद्वेगं श्मशानाग्निशिखा इव

29.12

छत्रसंछादिता लोकाश्चामरानिललोलिताः ।
पतन्ति पातकश्वभ्रे मदक्षीबाः क्षितीश्वराः

29.13

मृदुभोगांशुकाभ्याससुकुमारे महीभुजाम् ।
काये पतति पर्यन्ते क्लेशः कुलिशदारुणः

29.14

चिन्तासंततसंतापतीव्रतृष्णाप्रलापिनाम् ।
राज्यज्वरजुषां नैषां मोहमूर्च्छा निवर्तते

29.15

वक्राणां रत्नदीप्तानां द्विजिहानां पदे पदे ।
छिद्रसंदर्शिनां राज्ञां व्यापारः परमारणम्

29.16

नृपवंशशतोच्छिष्टां मन्यते मामनन्यगाम् ।
इतीव श्रीः क्षीतीशानां हारचामरहासिनी

29.17

व्यञ्जितव्यजनोच्छ्वसा लक्ष्मीर्मुक्ताश्रुसंततिः ।
राज्ञां मोहाभृतातीतभूपतिस्मरणादिव

29.18

तस्माद्व्रजामि प्रव्रज्याविवर्जितजनस्थितिः ।
संतोषशीतलच्छायं संतापशमनं वनम्

29.19

अविश्रान्तस्य संसारपथपान्थस्य दुर्वहः ।
कायो ऽस्य यत्सदापायः किं पुनः पृथिवीभरः

29.20

इति पुत्रवचः श्रुत्वा भूप्तिर्भृशमप्रियम् ।
प्रव्रज्याशब्दचकितः सोद्वेगस्तमभाषतः

29.21

अस्य वंशस्य महतः साम्राज्यस्य वृद्धये ।
आशानिबद्धवृद्धेन त्वयि पुत्र मया परम्

29.22

वत्स संकल्पभन्गं मे न काले क्र्तुमर्हसि ।
इदं तव महच्छायं यौवनं न वनोचितम्

29.23

समन्त्राभ्यासयुक्तानाम् शक्तानां साधुदर्शने ।
जितेन्द्रियाणां सरव्त्र नृपाणामवनं तपः

29.24

स्वपदे ऽपि सरोजस्य निःसङ्गसलिलस्थितिः ।
दृष्ट्वा वने ऽप्यशोकस्य ललनाचरणाहतिः

29.25

स्वगेहसुलभैर्भोगैर्यावद्दृष्टिविसूचिका ।
तावदेते परित्युक्तं शक्यन्ते विषयाः क्षणम्

29.26

सुखमन्तः परित्यज्य स्वजनं गृहनिर्गतः ।
अभ्यस्तभोगचिरहक्लेशं न सहते जनः

29.27

श्रूयते स्मर्यते धर्मः क्रियते च सुखाद् गृहे ।
वने शुष्यन्ति शुष्काणां श्रवणास्मरणक्रियाः

29.28

क्षरत्क्षतजपादस्य दर्भसंदर्भसूचिभिः ।
ततः किं दुःखमपरं परलोले भविष्यति

29.29

भुञ्जानं जनमीक्षन्ते याताश्चर्मास्थिशेषताम् ।
परदतं सदाश्नन्ति प्रेता इव तपस्विनः

29.30

वने निवसनं पुत्र पांशुप्रावरणं समम् ।
पालनं ब्रह्मचर्यस्य मकराकरशोषणम्

29.31

दावाग्निधूमविकटभ्रुकुटिमुखेषु गोनासवासघनघूकगुहागृहेषु ।
सिंहाहतद्विरदलोहितलोहितेषु त्यक्त्वा गृहं भवति कस्य धृतिर्वनेषु

29.32

कामी संयममिच्छति स्मरति च श्यामारतेः संयमी
तृप्तस्तीव्रतरव्रतेषु रमते भक्ष्यं क्षुधा काङ्क्ष्ःअति ।
एकाकी जनमीहते जनवनोद्वेगी वनं वाञ्छति
त्यक्त्वान्वेषणतत्पराः पुनरपि प्राप्यावमानं जनाः

29.33

न मां पुत्र परित्यज्य गहनं गन्तुमर्हसि ।
भवन्तु तव शत्रूणां वनवासमनोरथाः

29.34

व्यक्तमौक्तिकहासिन्यः करवाललता इव ।
त्यक्ता न पुनरायान्ति मानिन्यो नृपसंपदः

29.35

इत्युक्रो ऽप्यसकृत् पित्रा निश्चयान्न चचाल सः ।
वज्ररत्नशिखाकल्पः संकल्पो हि महात्मनाम्

29.36

जननीभिरमात्यैश्च बन्धुपौरमहत्तमैः ।
स प्रार्थितो ऽप्यभून्मौनी निराहारो दिनत्रयम्

29.37

राजभोगी तपस्वी वा जीवत्वेष निजेच्छया ।
कामानुवर्ती लोलो ऽयमित्यूचिः सचिवा नृपम्

29.38

स कथंचिदनुज्ञातः साश्रुनेत्रेण भूभुजा ।
ययौ पौरजनाक्रन्दमौनी मुनितपोवनम्

29.39

वैराग्यपरिपाकेण तत्र मैत्रीपवित्रिताम् ।
भेजे स सर्वसत्त्वेषु विवेकदयितां दयाम्

29.40

बभूवुस्तत्प्रभावेण तत्र सर्ववनौकसां ।
जातिवैराजलत्यागशीतलाश्चित्तवृत्तयः

29.41

त्यक्ते प्राणवधे प्रसक्तहरिणीवृन्दैः पुलिन्दैः परं
सिंहैर्वारणदारणन्युपरमे सर्वाङ्गसङ्गीकृते ।
मायूरावरणैर्दरिद्रजघना मुक्ताकलापोज्झितास्
तत्रोच्छ्वासविरागशुष्यदधरा जाताः किराताङ्गनाः

29.42

क्षमां त्यक्त्वाब्धिवसनां सरव्भूतक्षमाश्रितः ।
सो ऽभवत् क्षान्तिवादीति विशुतः काशिसुन्दरः

29.43

अत्रान्तरे महीहर्षे ब्रह्मदत्ते दिवं गते ।
उद्वेग इव भूतानां भूपालः कलिभूरभूत्

29.44

अथदभ्रभ्रमद्भृङ्गभ्रूभङ्गमलिनाननः ।
मुनिसंयमविद्वेषी वसन्तः प्रत्यदृश्यत

29.45

मदनोन्मादभुतस्य प्रोद्भूतस्य मृगीदृशाम् ।
मानविध्वंसदूतस्य चुतस्य रुरुचे रुचिः

29.46

रक्ताशोकस्य पार्श्वस्थलतालिङ्गनशङ्कितः ।
ईर्ष्यालुरिव पुष्पाणि जहार मलयानिलः

29.47

उद्यानयौवने तस्मिन् काले कोकिलसंकुले ।
सान्तःपुरो नृपः प्रायाद् वनालोकनकौतुकी

29.48

नानावर्णपतत्पुष्पप्रकारप्रचितानि सः ।
पश्यन् वनानि रम्याणि शनैः प्राप तपोवनम्

29.49

वनस्थलीषु कान्तासु तत्र कन्यासखश्चिरम् ।
विहृत्य रतिविश्रान्तः क्षस्णं निद्रामवाप्तवान्

29.50

अपूर्वकुसुमस्मेराश्चिन्वानास्तत्र मञ्जरी ।
अन्तःपुराङ्गनाश्चेरुः संचारिण्यो लता इव

29.51

अत्रान्तरे क्षान्तिवादी विविक्तोद्देशनिर्वृतः ।
एकान्ते निश्चलस्तस्थौ शान्तिमन्तर्विचिन्तयन्

29.52

अमन्दानन्दचिष्यन्दी वन्दनीयो मनीषिणाम् ।
कृशो ऽप्यकृशसौन्दर्यः शशीव प्रथमोदितः

29.53

परिणाममनोज्ञेन रेखासंस्थानशोभिना ।
पुराणचित्ररूपेण नैव शून्या तदाकृतिः

29.54

तं दृष्ट्वा राजललनाश्चित्तदर्पणमार्जनम् ।
तत्रैव निश्चलास्तस्थुस्ताश्चित्रलिखिता इव

29.55

प्रबुद्धो ऽथ नृपः क्षिप्रं नापश्यद्दयिताः पुरः ।
ददर्श वनमन्विष्य परिवार्य स्थिता मुनिम्

29.56

भुजङ्गस्ता विलोक्यैव श्वसन्नीर्ष्याविषाकुलः ।
विससर्ज वरोचूपहलाहलमिवोत्कटम्

29.57

कस्त्वं मुनिव्यञ्जनया चित्रकृत्रिममात्रया ।
मुष्णासि मुग्धगृदया नूनं नारीप्रतारकः

29.58

परस्त्रीहरणे ध्यान जपस्तद्विघ्नवारणे ।
धूर्तानां परमोपायः सरलाश्वासनं तपः

29.59

मुखमाधुर्यधूर्तस्य वृत्तिर्वल्कलिनस्तव ।
अहो नु मोहजननी वने विषतरोरिव

29.60

मुनिकल्पसमाकल्पश्चरितं पुनरीदृशम् ।
सिद्धिं संभावितां वापि वेत्ति कस्तत्त्वमान्तरम्

29.61

इत्युक्ते भूभुजा क्रोधादक्रोधमधुराशयः ।
निर्विकारेण मनसा क्षान्तिवादी जगाद् तम्

29.62

क्षान्तिवादी मुनिरहं न मां शन्कितुमर्हसि ।
एतासु निर्विशेषो मे कान्तासु च तलासु च

29.63

इति तेनोक्तमाकर्ण्य क्षान्तं पश्यामि ते ऽधुना ।
इति ब्रुवाणश्चिच्छेद हस्तौ तस्यासिना नृपः

29.64

विशसे ऽपि क्षमाशीलं निविकारं विलोक्य तम् ।
चकर्त चरणौ तस्य प्रशमाय समत्सरः

29.65

प्रदिशन्त्यशिवं मार्गे जिह्वया दूषयन्ति च ।
लुम्पन्त्यङ्गानि पर्यन्ते खलाः कौलेयका इव

29.66

ताडने ऽपि क्षमासक्ताः स्कन्धच्छेदे ऽपि मौनिनः ।
शीतलास्तीव्रतापे ऽपि सरलाः सरला इव

29.67

निकृत्तपाणिचरणः स संस्तभ्य पृथुव्यथाम् ।
रक्षन् मन्युमनःक्षोभं क्षमया समचिन्तयत्

29.68

त्यक्तान्यकर्मणानेन च्छिन्नान्यङ्गाणि मे यथा ।
संसारविषमक्लेशच्छेदं कुर्यामहं तथा

29.69

कोपमोहादवज्ञाय नृपतौ भ्रातरं मुनिम् ।
पुरीं प्रयाते रजसा शोकम्लानेव भूरभूत्

29.70

ततस्तद्दुःखकुपिता राज्ञे तत्क्षान्तिदेवता ।
चक्रे नगर्यां दुर्भोक्षमरकावृष्टिविप्लवम्

29.71

नैमित्तिकेभ्यो विज्ञाय राजामुनिपराभवात् ।
देवताकोअपजं दोषं तं प्रसादयितुं ययौ

29.72

निपत्य पादयोस्तस्य क्षमस्वेत्यभिधाय सः ।
पश्चात्तापविषादेन निश्चेतन इवाभवत्

29.73

तमब्रवीत्क्षान्तिवादी राजन् मन्युर्न मे ऽण्वपि ।
कर्मरेखापरिच्छेदादीदृशी भवितव्यता

29.74

सर्वाणि न गणयति स्वच्छन्दा भवितव्यता ।
न धैर्यं न गुणं नार्थं न तपो नापि गौरवम्

29.75

अन्त्रस्थितप्रसवबीजपरंपराणि भिन्नानि कालपरिपाकविचित्रितानि ।
जन्मस्थले विपुलमूलबलस्य जन्तुर्भुङ्क्ते फलानि निजकर्ममहीरुहस्य

29.76

त्वयि तस्मान्न मे कश्चिद् विकारो ऽस्ति महीपते ।
सत्येनानेनमे पश्य रुधिरं क्षीरतां गतम्

29.77

अङ्गच्छेदे ऽप्यकलुषि बभूव यदि मे मनः ।
सत्येनैतेन श्चिष्टानि तान्येवाङ्गानि सन्तु मे

29.78

इति शुद्धधियस्तस्य तीब्रसयोपयाचनात् ।
श्लिष्टान्यङ्गानि तान्येव सहसा स्व् आस्थ्यमाययुः

29.79

मुकुटस्पृष्टचरणस्तमुवाच नृपस्ततः ।
मुने महाप्रभावो ऽसि तपसा तत्किमिच्छसि

29.80

पुण्यहस्तावलम्बेन म्फान्धं करुणानिधे ।
पापावसाने पतितं मां त्वमुद्धर्तुमर्हसि

29.81

इत्यर्थितः क्षितीशेन प्रत्यभाषत तं मुनिः ।
संतारणाय मग्नानां बद्धानामपि मुक्तये

29.82

आश्वाशनाय भीतानां निर्वाणाय विमुह्यताम्

29.83

यदा तु सम्यक्संबोधिं तामवाप्नोष्यनुत्तराम् ।
मोहच्छेदं करिष्यामि तदा ज्ञानासिना तव

29.84

प्रययौ मुनिरित्युक्त्वा तमामन्त्र्य स्वमाश्रमम् ।
तमेव मनसा ध्यायन् राजधानीं नृपो ऽप्यगात्

29.85

क्षान्तिवादी स एवाहं कौण्डिन्यः कालभूरयम् ।
आसाद्य सम्यक्संबोधिमृद्धृतो ऽयं मयाधुना

29.86

इति सुगतमुखारविन्दनिर्मितमधुरमधुप्रतिमं वचः प्रसन्नम् ।
भ्रमरभव इवोदितप्रमोदः किमपि बभूव निपीय भिक्षुसंघः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc