अवदानकल्पलता · अध्याय 2
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रभासावदानं नाम प्रथमः पल्लवः समाप्तः ॥
2. श्रीसेनावदानम् ।
ते जयन्ति जगत्यस्जिन् पुण्यचन्दनपादपाः ।
छेदनिर्घर्षदाहे ऽपि ये परार्थेषु निर्व्यथाः
गणनीया गुणगणैरस्त्यरिष्टाभिधा पुरी ।
स्पर्धया शक्रनगरी यस्या न स्याद्गरीयसी
तस्यां बभूव भूपालः श्रीसेन इति विश्रुतः ।
समग्रगुणरत्नानां रत्नाकर इवाकरः
परोपकारशक्तस्य चतुरस्य प्रभावतः ।
अनुरक्ता दिशः सर्वाः सूर्यस्येव प्रभावतः
यशोभि शोभितं येन धनदानसुगन्धिभिः ।
गजैश्च भूतिधवलैर्जगत्कल्पद्रुमैरिव
कलालयो ऽपि सरलः सरलो ऽपि महामतिः ।
यो बभूव प्रजापुण्यैर्मतिमानप्यवञ्चकः
यावत्तपति तिग्मांशुर्यावद्वहति मारुतः ।
तावदाज्ञा च कीर्तिश्च यस्याप्रतिहताभवत्
शमव्यायामविदुषां षस्ङ्गुणज्ञानचक्षुषाम् ।
यं द्वादशसहस्राणि मन्त्रिणां पर्युपासते
तस्मिन्धर्मपरे राज्ञि बभूव सुकृती जनः ।
भर्तृतुल्या भवन्त्येव गुणैः स्त्रिय इव प्रजाः
तस्य पुण्याधिवासेन जनास्त्रिदिवगामिनह् ।
विमानैः शक्रनगरीं निःसंचाराः प्रवक्रिरे
दृष्ट्वा मनुजलोकेन सुरलोकसमावृतिम् ।
जातवैरः क्षितिओपतौ शतक्रतुरचिन्तयत्
सेनेव लक्ष्मी वसुधेषु चारस्याश्चर्यकर्तव्य च दत्तनित्यम् ।
कल्याणशीलेन च स र्वचेतन्यप्रव्यहासामन अस्मकाश्च (?)
तस्याखण्डितचेतसः दद्धिद्वल्यानुभावपाम् (?) ।
कर्तव्या धैर्याजिज्ञासा मया मायाविधायिना
इति संचिन्त्य सुचिरं सर्वैरनुगतः सुरैः ।
रूपं शक्रः परावर्त्य मर्त्यलोकमवातरत्
अत्रान्तरे प्रजाकार्यपर्यालोचनतत्परः ।
राज्यरक्षागुरुर्मन्त्री नृपमूचे महामतिः
राजन् विरजसा राज्यराजमानेन निर्जितः ।
निर्व्याजदानैर्भवता लज्जते त्रिदशेश्वरः
परस्य पूर्णगुणतामात्मनस्तद्विहीनताम् ।
दृष्ट्वा को नाम नायाति मात्सर्यस्य विधेयताम्
ईर्ष्यालवः परोत्कर्षसंघर्षस्य जुषो जनाः ।
प्रायेणोद्वेगमायान्ति महताम् सुकृतेष्वपि
सर्वस्वदानमर्यादादानव्यसनिनो ऽस्तु ते ।
पुत्रदारात्मदाने तु संकल्पो ह्यतिसाहसः
दृश्यन्ते दारुणास्ते ते स्वप्नाः साध्वसहेतवः ।
जगतः सूच्यते तीव्रं यैश्चूडामणिखण्डनम्
दैवज्ञानां प्रवादश्च श्रूयते तत्त्ववादिनाम् ।
शरीरं पृथिवीपालो दास्यतीति सुदुःसहः
शरीरदानं सर्वार्थिसार्थनैष्फल्यकारणम् ।
सर्वप्रदो भवत्येव तिष्ठन् कल्पमहीरुहः
तस्मादस्मान्महीपाल विरम त्यागसाहसात् ।
रक्षारत्नं हि जगतः प्रजायत्तं वपुस्तव
इति मन्त्रिरेणोक्तमाकर्ण्य वसुधाधिपः ।
तमूचे सत्त्वधवलस्मितघौताधरद्युतिः
उक्तं हितं म्हामात्य भवता सचिवोचितम् ।
किं त्वर्थिनवैमुख्यसंतापं नाहमुत्सहे
देहीति वादिषु गिरो निषेधपरुषाक्षराः ।
स्फुरन्ति वदने येषां सजीवास्ते गतासवः
इदमस्मादवाप्स्यामीत्याधाय हृदि याचकः ।
प्राप्यः प्रयाति वैमुख्यं यस्मिन् किं तेन जीवता
धिग्जन्म पुण्यहीनस्य तस्य निष्करुणात्मनः ।
यस्यार्तजनसंतापश्रवणे शीतलं मनः
एतदर्थमयं कायः सापायो ऽपि सतां प्रियः ।
यत्कस्यचित् क्कचिद् याति कदाचिदुपकारिताम्
श्रुत्वेति नृपतेर्वाक्यममात्यः सत्त्वशालिनः ।
नोवाच किंचिदचलां विचिन्त्य भवितस्यताम्
ततः कदाचिद्भूभर्तुस्तस्य लीलाविहारिणः ।
जायां जयप्रभां नाम रतिं रतिपतेरिव
दूराद् यदृच्छयायातां चित्तसासङ्गवागुराम् ।
मुनिरध्यापकः कान्ताम् ददर्श विनिमेषदृक्
प्राग्जन्माभ्याससंबन्धस्नेहात्परिचितामिव ।
तां दृष्ट्वा स धृतेः प्राप धैर्यराशिरनीशताम्
तस्य वीतस्पृहस्यापि वासनोल्लसितं मनः ।
उत्सृज्य भववैमुख्यमभिलाषभुवं ययौ
इयं हि सततस्यूता संततप्रीतितन्तुभिः ।
नापैति सर्वजन्तूनां प्राग्जन्माभ्यासवासना
तदाश्रमपदं प्राप्तः समाप्ताध्ययनव्रतः ।
शिष्यो माणवकः प्राह दक्षिणा गृह्यतामिति
स तमूचे न मे वत्स वने वृत्तिः प्रयोजनम् ।
तथापि यदि निर्बन्धः श्रूयतां यदभीप्सितम्
श्रीसेनस्य क्षितिपतेयदि देवी जयप्रभा ।
लभ्यते भवता दातुं तदसौ मम दक्षिणा
इत्युक्तं गुरुणा श्रुत्वा शिष्यः कम्पितमानसः ।
अशक्यप्रार्थनालाभे संशयाकुलितो ऽभवत्
स गत्वा सततस्वेच्छाविवृतद्वारमर्थिनाम् ।
विवेश स्वैरविश्रम्भभवनं भूभृतां प्रभोः
अलभ्यार्थार्थनादैन्यचिन्तातिक्लिष्टमानसः ।
नम्राननो ऽतिवैलक्ष्याद् वीक्षमाण इव क्षितिम्
तं दृष्ट्वार्थिनमायातं प्रहृष्टो ऽभून्महीपतिः ।
सुधाप्रदानसन्नद्धसमुद्भूतिरिवाम्बुधिः
किं तवेप्सितमित्युक्त्वा पूजितः स महीभुजा ।
उवाचानुचिताख्यानवैलज्जस्खलिताक्षरः
अनर्थितपरः पूर्वमर्थिकल्पतरोस्तव ।
गर्वर्थमर्थितां यातः सुदुर्लभपदे ऽप्यहम्
मम विद्याव्रते पूर्णे दक्षिणाभिमता गुरोः ।
राजन् जयप्रभा देवी दीयता यदि शक्यते
इत्युक्रे मुनिशिष्येण सहसैव महीपतेः ।
स्नेहदानसाविद्धं द्विधाभूतमभून्मनः
स जगाद् विजं दन्तज्योतिषाग्रविसारिणा ।
गृह्यतां दयिता स्वच्छवाससाच्छादयन्निव
अविचार्य मया देयमीप्सितं तव यद्गुरोः ।
वियोगचकितं चेतः सत्यं न गणयाम्यहम्
इत्युक्त्वाहूय दयिताम् राजा राजीवलोचनाम् ।
सदा हृदयसंसक्ताम् जीववृत्तिमिवापराम्
निवारितो ऽपि गुरुणा वियोगव्यसनाग्निना ।
निषिद्धो ऽप्यतिवृद्धेन स्नेहेन स्मरबन्धुना
प्रददौ मुनिशिष्याय सहसा हरिणीमिव ।
किमेतदिति सायाससंत्रासतरलेक्षणाम्
दत्तायां त्यागशीलेन प्रियायां पृथिवीभुजा ।
चकम्पे त्यागभीतेव भूमिर्लोलाब्धिमेखला
यत्कृते दुर्दशां देहे सेहिरे दुःसहामपि ।
इन्द्रचन्द्रादयो देवास्ताह् प्रियाः कस्य न प्रियाः
शीलं केचिद्धनं केचिद्धर्मं केचित्तपः परे ।
लज्जां केचित्तनुं केचित्त्यजन्ति योषितां कृते
यदेव रागसर्वस्वं पुंसां जीवितजीवितम् ।
तदेव स्फीटसत्त्वानाम् दाने तृणलवायते
तामादाय गते तस्मिन् विरहाकुलितो नृपः ।
विरहेण सुखद्वेषी मनोभव इवाभवत्
शिष्येण मुनिरानीताम् दृष्ट्वा भूपतिवल्लभाम् ।
रहितां जीवितेनेव परलोकभुवं गताम्
गाढानुशयसंतप्तः परं लज्जानिमीलितः ।
अचिन्तयदनौचित्यमात्मनः कर्मवुप्लवात्
अहो नु बालकेनेव मया केवलचापलात् ।
निःशन्कमयशःपङ्के स्वयमात्मा निपतितः
इयं प्रजानां जननी भर्म्याणां धर्मकारिणा ।
वर्णाश्रमगुरोर्जायाम् मया दुःखानले ऽर्पिता
किं तु नाकलितं शीलं न स्मृतः संयमो मया ।
गणितं नैव वैराग्यं विवेको नावलोकितः
अहो ऽत्र निर्विचाराणां सन्मार्गविमुखं मनः ।
असंयमासवक्षीबमपथेष्वेव धावति
इति संचित्य स मुनिर्वैलक्ष्यक्षपितद्युतिः ।
अभ्येत्य राजदयितामुवाच विनताननः
समाश्वसिहि हे मातर्न शोकं कर्तुकर्हसि ।
भवितव्यतयैवायं क्लेशस्ते दुर्नयश्च मे
त्यक्त्वा हि श्रमसंतापमस्य तीरतरोरधः ।
अधुनैव निजं धाम सहास्माभिर्गमिष्यसि
इत्युक्ते मुनिना देवी सीक्तेवामृतवृष्टिभिः ।
अवाप्तजीवितधृतिस्तत्याज भयसंभ्रमम्
श्रुत्वैतत् त्रिदिवव्यापि दातुश्चरितमद्भुतम् ।
राज्ञः सत्त्वदयाम् ज्ञातुं वासवः समुपाययौ
भक्षिताधःशरीरार्धो व्याघ्रेण विजने वने ।
पुत्रैश्चतुर्भिराक्रन्दैर्गृहीतो ब्राःमणाकृतिः
प्रस्रवद्भूरिरूधिरो लम्बमानान्त्रमण्डलह् ।
कृच्छेष्वपगतप्राणः पापैरिव दृढीकृतः
प्रत्यग्रामिष्यागन्धेन क्रव्यादैर्भृशमन्वितः ।
लुब्धपार्थिवचौरोत्थैरनर्थैरर्थवानिव
नगरान्तरमासाद्य स ययौ पुरवासिनाम् ।
कारुण्यदैन्यदुःखार्तो स्मयाविस्मयहेतुताम्
स शोक इव साकारः स त्रास इव दुःसहः ।
विदधे साध्वसायासं सहसा पौरयोषिताम्
सो ऽर्थिसंदर्शनस्थानस्थितस्याथ महीपतेः ।
पुत्ररूपैश्चतुर्भिस्तैर्न्यस्तो ऽग्रे मञ्चिकार्पितह्
तं दृष्ट्वा वैशसावेशविषमक्लेशविह्वलम् ।
निष्कूणिताननवनो जनो ऽभून्मीलितेक्षणह्
स कम्पविह्वलं वक्षो मुक्तमुद्यम्य दक्षिणम् ।
भुजं जगाद भूपालं व्यथाशिथिलिताक्षरः
स्वस्ति तुभ्यं महीपते ब्राह्मणो ऽहमिमां दशाम् ।
तीव्रपाप इव प्रातः पश्य मां करुणानिधे
संसारेघोरगहने वने व्याघ्रेण भक्षितः ।
जीवाम्यवश्यभोग्यत्वाद्दुःखस्यास्य गरीयसः
अस्मिन्नपि विपत्तापे तीव्रक्लेशसहिष्णवः ।
विमुञ्चन्ति न मां प्राणाः सहृदः सज्जना इव
ददाति यदि ते कश्चित् छित्त्वा देहार्धमात्मनः ।
तत्ते जीवितमस्तीति मामूचे व्योमदेवता
79 ॥
को ददाति जगत्यस्मिन् जीवितं करुणानिधे ।
प्रायेण स्वसुखान्वेषी परार्थविमुखो जनः
सर्वदा सर्वदातारं दीनव्यसनबान्धवम् ।
देहदाने ऽप्यविमुखं त्वामस्मि शरणं गतः
एकस्त्वमेव लोके ऽस्मिन् जातः सुकृतपादपः ।
निर्व्याजमादरोदारं दानं यस्य फलोद्गतिः
किमन्यैर्वा वदान्यस्य कीर्तितैर्भवतो गुणैः ।
दानमेवाहतो यस्य लोके सुकृतडिण्डिमः
आपन्नार्तिपरित्राणपवित्रचरितव्रताः ।
प्रायन्ते पुण्यपण्येन विपत्काले भवद्विधाः
अमन्दानन्दसुहृदो हरिचन्दनशीतलाः ।
हरन्ति सन्तः संतापं दक्षिणाः पवना इव
पूर्णेन्दुसुन्दरादस्मादुदिता वदनात्तव ।
ज्योप्त्स्नेव जीवयत्येव वाणी पीयूषवर्षिणी
इत्युक्तस्तेन सहसा हृदि संक्रान्ततद्व्यथः ।
संमोहमूर्च्छितं राजा तमूचे वाचमाकुलम्
समाश्वसिहि मुञ्च त्वं बह्यं प्राणवियोगजम् ।
प्रयच्छामि शरीरार्धमविचार्यैव ते द्विज
धन्यस्य् अयात्ययं कायः परोपकृतये क्षतिम् ।
क्षणक्षयी हि देहो ऽयं रक्ष्यमाणो ऽपि नाक्षयः
इत्युक्तवति भूपाले समुत्कम्पितमानसः ।
वज्राहत इवोवाच महामात्यो महामतिः
अहो नु साहसाभ्यासादायासव्यसनी प्रभुः ।
हितं न गणयत्येव प्रजापुण्यपरिक्षयात्
प्रजानां भूतये शक्तः को ऽन्यस्त्वत्सदृशो गुणी ।
यद्भक्तिमुखरो भृत्यः श्रोता कर्ता च भूपतिः
न करोति हितं स्वामी गजलीलानिमीलितः ।
गणनीयाः सुभृत्यानामियत्यो भोगसंपदः
भान्ति त् ए सुचिरं कर्णे यैः कृता मधुमञ्जरी ।
कल्याणकर्णिकाकीर्णा वाणी विनयवादिनाम्
राक्षसो ऽयं पिशाचो च छद्मना ब्राह्मणाकृतिः ।
रक्षारत्नस्य जगतां शरीरैरर्थिताम् गतह्
यदि नाम न मायेयं कृता तेन महीयसी ।
तत्कथं कृत्तदेहस्य क्षणमप्यस्ति जीवितम्
अविचार्यैव सुकृतं क्रियते दुर्ग्रहेण यत् ।
तदात्मपीडाओपरुषं परलोके ऽपि निःसुखम्
शक्यमेव सदा दद्यादशक्यं दीयते कथम् ।
सर्वस्वदेहदानादिप्रवाद एव शोभनः
कर्णामृतमिदं दूराद्यन्महार्थिमणिप्रदः ।
संप्राप्तानां पुनस्तत्र पानमस्यान्यतो ऽर्थिनाम्
रक्ष्यः सर्वप्रयत्नेन परेषामपि जीवितैः ।
प्रजानां जीवितं राजन्नर्थिचिन्तामणिर्भवान्
प्रसीद दयस्वास्मासु देव मा साहसं कृथाः ।
न् अकाचशकलस्यार्थे क्रियते चात्मविक्रयः
इत्युक्त्वा पादयोः पत्युः पपातामात्यपुंगवः ।
शरीरदानसंकल्पान्नोच्चचाल च भूपतिः
सो ऽवदत् प्रणयस्मेरचिकसद्दशनद्युतिः ।
जीवितस्नेहसंमोहतमह् परिहरन्निव
केवलं भक्तिसंयुक्तमुक्तं व्यक्तमिदं त्वया ।
न सहे ऽहं महामात्य विप्रस्य प्राणसंशयम्
हारैस्तुषारैः कमलैर्मृणालैरिन्दुचन्दनैः ।
निवर्तते ऽन्तःसंतापो नार्थिवैमुख्यदुःखजः
सर्वथा सर्वदुःखार्तिहरणोद्यतचेतसः ।
न बोधेरन्तरायं मे सुमते कर्तुमर्हसि
जन्मान्तरे ऽपि ददतो देहं मे न व्यथाभवत् ।
स्मराम्यतीतवृत्तस्य सम्यक्संबोधिचेतसा
पुरा दृष्ट्वोद्यताम् व्याघ्रीं क्षुत्क्षामां पोतभक्षणे ।
तद्रक्षायै मया दत्तं शरीरमविक्षरिणा
शिबिजन्मनि चान्धाय दत्तं नेत्रयुगं मया ।
रक्षितश्च स्वदेहेन कपोतः श्येनकाद्भयात्
चन्द्रप्रभावतारे च रौद्राक्षायार्पितं शिरः ।
सर्वस्वपुत्रदारादि दत्तं चान्येषु जन्मसु
इत्युक्ते बोधिसत्त्वेन् अभूभुजामात्यपुंगवः ।
न सजीवो न् अनिर्जीव इवाभूद्व्यथितेन्द्रियः
अलङ्घ्यशासनेनाथ राज्ञा क्रकचधारया ।
नियुक्तौ पलगण्डाख्यौ शरीरच्छेदकर्मणि
तौ तीव्रशोकविवशौ शक्रमायाविमोहितौ ।
कथंचिदिव भूभर्तुर्देहच्छेदे समुद्यतौ
नृपतेर्निर्विकारस्य क्रूरक्रकचधारया ।
विदार्यमाणे देहार्धे पृथिवी समकम्पत
भ्रष्टोल्का रक्तवसना विर्घातच्युततारका ।
द्यौः सशब्दं रुरोदेव कीर्णाश्रुकणसंततिः
वैशसालोकनेद्भूततीव्रदुःखासहिष्णुना ।
तूर्णं रजःपटेनेव रविणा पिहितं मुखम्
तस्मिन् प्रजाह् प्रजानाथे क्रकचाक्रान्तविग्रहे ।
चक्रन्दुः पूरिताक्रन्दा दिग्वधूमिः प्रतिस्वनैः
अक्षुब्धसत्त्वमालोक्य नृपं शक्रो द्विहाकृतिः ।
विस्मयानुशयाक्रान्तचित्तश्चिरमचिन्तयत्
अहो महामतेरस्य करुणाकोमलं मनः ।
प्राप्तं परार्थपीडासु वज्रादपि कठोरताम्
सागरादपि गम्भीरं मेरोरपि समुन्नतम् ।
त्रिदिवादपि साश्चर्यमहो वृत्तं महात्मनाम्
अहि प्राणप्रवासे ऽपि सत्त्वं सत्त्वमहोदधेः ।
साधोरिव विपत्पाते महत्त्वं नावहीयते
इति चिन्तयति क्षिप्रं सहस्राक्षे क्षितिप्रभोः ।
नाभेरधःशरीरार्धं निकृत्तमपतत् क्षितौ
स द्विधाभूतदेहोअपि हर्षोत्साहमयो ऽभवत् ।
सर्वभूतपरित्राणसत्त्वेन धृतजीवितः
तदाज्ञया शरीरार्धे श्लेष्टे संपूर्णविग्रहः ।
स्वस्थक्षतिः समुत्थाय ब्राःमणस्तमभाषत
अहो विराजसे राजन् पून्जं विरजसस्तव ।
निर्व्याजदेहदानेन विशेषं तु ब्न्हवद्यशः
त्वन्मनोमणिवैमल्यतुल्यं किंचिदकुर्वतः ।
उपमानेन दारिद्य्रमहो मुग्धस्य वेधसः
कृत्तः सुवृत्तः सरलः परार्थे मधुराशयः ।
सहसे दुःसहां पीडामिक्षुकाण्ड इवोन्नतः
इत्युक्त्वा ब्राह्मणाकारः शक्रस्त स्मृतिजन्मभिः ।
संजीवनैषधिजातैः सुधास्यन्दैरपूरयत्
ततः प्रकटिताकारः परितोषात्पुरंदरः ।
सुश्लिष्टनिजदेहार्धं प्रशशंस महीपतिम्
अथाब्मरान्निपतितः सितकुसुमसंचयः ।
तत्कालोल्लासितक्षोणीहर्षहास इवाबभौ
अत्रान्तरे मुनिस्तस्मौ प्रियां जायां जयप्रभाम् ।
आदायाभ्येत्य तद्वृत्तं जाताश्चर्यो न्यवेदयत्
पूतया संगतः पत्नया स्वकीर्त्येव विशुद्धया ।
उवाच पृष्टः शक्रेण निकारे निर्विकारितह्
ततः सिंहासने दिव्यए विश्वकर्मविनिर्मिते ।
रत्नवर्षसमाकीर्णे जम्बुद्वीपे स भूपतिः
अभिषिक्तः सुरेन्द्रेण प्रसाद्य दयितासखः ।
दानपुण्यप्रभावोत्थकुशलव्यापितप्रजः
समाप्तसत्त्वसंसारसंतारणकृतव्रतह् ।
सम्यक्संबोधिसंबुद्धमनाः प्रमुदितो ऽभवत्
मैत्रं चेतस्तरुणकरुणं सत्त्वसिद्धं विशुद्धं आपन्नार्तिप्रशमनफलस्फूईतमात्मप्रदानम् ।
दृष्ट्वा राज्ञह् प्रमुदसलिलक्षालिताक्षो विलक्षः
शक्रः प्रायादमरनगरीं पूरितां तद्यशोभिः
इति स विबुधवृन्दैः सिद्धयक्षोरगेन्द्रैः पुलकरुचिरवर्चैरर्च्यमानप्रभावः ।
अवनिमवनशक्तः कल्पयन्नाककल्पामबह्वविभवशोभामाप्तवान् बोधिसत्त्वः
पूर्वावतारसंवादे दानोत्कर्षमुदाहरन् ।
उपदेशाय भिक्षूणामित्याह भगवान् जिनह्
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0