अवदानकल्पलता · अध्याय 28
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां श्रोणकोटीविंशावदानं सप्तविंशः पल्लवः ॥
28. धनपालावदानम् ।
दौर्जन्यदुःसहविशालखलापकारैर्नैवाशये विकृतिरस्ति महाशयानाम् ।
व्यालोल्वणक्षितिभृदाकुलितो ऽपि सिन्धुर्नैवोत्ससर्ज हृदयादमृतस्वभावम्
पुरे पुरा राजगृहे बह्गवान् वेणुकानने ।
कलन्दकनिवासाख्ये विजहार मनोहरे
तत्र वित्रासितानेकशत्रिनिस्त्रिंशबान्धवः ।
अजातशत्रुनामाभूद् बिम्बिसारसुतो नृपः
शाक्यवंश्यः सुहृत्तस्य देवदत्ताभिधो ऽभवत् ।
क्षुद्रमन्त्रेण यस्यासीत् स वेताल इवोत्कटः
स कदाचित्सुखासीनं रहः प्राह महीपतिम् ।
न राजन् फलितो ऽद्यापि ममापि त्वत्समाश्रयः
निथोपचाररहितः सुखनिर्यन्त्रतन्त्रयोः ।
मिथो मनोरथत्राणान्मित्रशब्दः प्रवर्तते
य एष शाक्यश्रमणः सुखे वेणुवने स्थितः ।
तं हत्वा प्राप्तुमिच्छामि तत्पदं देववन्दितम्
क्षीयते न यया शत्रुर्लभ्यते न यया यशः ।
वर्धते न यया मानः किं तया मित्रसंपदा
महाधनाभिधानेन तत्पौरेण निमन्त्रितः ।
स पुरं प्रातरागन्ता दाम्भिकः सह भिक्षुभिः
राजमार्गं प्रविशतः स तस्य व्यालकुञ्जरः ।
उत्सृज्यतामभिमुखः क्रोधान्धो धनपालकः
इत्युक्ते देवदत्तेन नृपतिर्मित्रवत्सलः ।
बुद्धप्रभावं संचिन्त्य नाह किंचिदवाङ्भुखः
देवदत्तो ऽपि निर्गत्य राजसौहार्ददुर्मदः ।
प्राह हस्तिमहामात्रं हारं दत्वास्य तोषणम्
श्रमणः प्रातरागन्ता पुरं भिक्षुशतैर्वृतः ।
प्रेरणीयस्त्वया तस्मै गज इत्याह भूपतिः
देवदत्तवचः श्रुत्वा तथेत्युचे द्विपाधिपः ।
श्रेणी हि मेषमूर्खाणामेकयातानुपातिनी
ज्ञात्वापि तमभिप्रायं सर्वज्ञः पापचेतसाम् ।
प्रातः समाययौ सार्धं भिक्षूणां पञ्चभि शतैः
अथ हस्तिपकोत्सृष्टः कृष्टप्रासादपादपः ।
तमभ्यधावदाविद्धः क्रोधान्धः क्रूरकुञ्जरः
अनायत्तः परिचयादङ्कुशस्य गुरोरपि ।
खलविद्धानिव द्वेषी मदेन मलिनीकृतः
सेवव्यसनसक्तानामसकृत्कर्णचापलात् ।
प्राणापहारी भृङ्गाणां भृत्यानामिव दुष्पतिः
मन्दरोपद्रवे तस्मिन् द्रुमद्रोहिण्यभिद्रुते ।
विद्रुते सहसा लोके हाहाकारो महानभूत्
तस्याञ्चत्कर्णतालानिलतुलितसरत्सान्द्रसिन्दूरपूरैः
संपूर्णे राजमार्गे च्युतचकितवधूरक्तवस्त्रासमानैः ।
उद्दण्डोच्चण्डशुण्डभ्रमणरवलसत्साध्वसायासिताशा
व्यालोलालकाभभ्रमरमिलद्विभ्रमः संभ्रमो ऽभूत्
पुरप्रमाथव्यथिते जने कोलाहलाकुले ।
आरुरोह महाहर्म्यं देवदत्तः प्रमत्तधीः
भगवद्ग्रहणं द्रष्टुं सो ऽभवद्भृशमुत्सुकः ।
उन्मूलनेन गुणिनां मातङ्गः परितुष्यति
विद्रुतेषु गजत्रासात् तेषु सर्वेषु भिक्षुषु ।
आनन्द एक एवाभूद् भिक्षुर्भगवतो ऽन्तिके
तत्र पञ्चाननाह् पञ्च निर्ययुर्भगवत्करात् ।
करालकेसरसटास्तन्नखांशुचिता इव
द्विपस्तद्गन्धमाग्राय पर्दापस्मारवारणम् ।
अभूत् स्रुतशकृन्मूत्रः सहसैव पराङ्मुखः
जवेन विद्रुतस्तत्र दन्ती दर्पदरिद्रताम् ।
प्राप्तः प्रदीपदहनाः स ददर्श दिशो दश
स विलोक्य जालवह्निज्वलज्ज्वालाकुलं जगत् ।
पादपद्मान्तिकं शास्तुः शीतलं समुपाययौ
संकोचाभिरुचेः सचिन्तमनसः प्रध्वस्तवक्त्रद्युतेर् दैन्यापन्नविहीनदानमधुपप्रारब्धकोलाहलः ।
लोभान्धस्य महाव्ययोत्सव इव क्लेशोष्मनिश्वासिनस् तस्याभूत्परितापनिश्लथगतेर्भारायमाणः करः
तं पादमूलमायान्तं भीतं कारुण्यसागरः ।
शास्ता करेण पस्पर्श चक्रस्वस्तिकलक्ष्मणा
कुम्भविन्यस्तहस्तस्तं प्रोवाच भगवान् जिनः ।
पुत्र स्वकर्मणैनेमां प्राप्तो ऽसि त्वमिमां दशाम्
विवेकालोकहलदः कायो ऽयं मांसभूधरः ।
भारस्ते मोहसंभारः पापादुपनतः परः
इत्युक्ते करुणर्द्रेण भितो भगवता गजः ।
स लब्धश्चासमालानलीनो निश्चलताम् ययौ
देवदत्तस्य संकल्पे कुञ्जरे च महोत्कटे ।
भग्ने निर्विघ्नहर्षो ऽभूत्समुद्गताद्भुतो जनः
ततः कृत्वा गृहपतेर्गृहे भोज्यप्रतिग्रहम् ।
भगवान् भिक्षुभिः सार्धं काननं गन्तुमुद्ययौ
अभिसृत्य गजेन्द्रो ऽपि जिनस्य चरणाब्जयोः ।
कृत्वा करेण संस्पर्शं वपुस्तत्याज कौञ्जरम्
चातुर्महाराजिकेषु देवेषु विशदद्युतिः ।
उपपन्नः स सहसा सुगतं द्रष्टुमाययौ
स्वमाश्रमपदं प्राप्तं भगवन्तमुपेत्य सः ।
प्रणनामार्कसंकाशं प्रदीप्तमणिकुण्डलः
तस्य केयूरमुकुटप्रभापल्लवपूरिताः ।
शक्रचापैरिव व्याप्ता विरेजुर्घनराजयः
विनयादुपविश्याग्रे स शास्तुः स्रस्तकल्मषः ।
तं दिव्यपुष्पैराकीर्य सत्त्व शुभ्रैरभाषतः
भगवन् भवतः पादपद्मसंस्पर्शनेन मे ।
दुर्दशादुःखसंतापः शान्तः संतोषशालिनः
शमश्लाघ्या कापि व्यसनविषदोषोष्मशमनी
सुधावृष्टिर्दृष्टिर्बत भगवतः स्निग्धमधुरा ।
यया स्पृष्टस्पृष्टं खरतरविकारव्यतिकरं
विमुत्यान्तःशान्तिं श्रयति हतमोह पशुरपि
इति तस्य ब्रुवाणस्य भगवान् भवशान्तये ।
सत्यदर्शनसंशुद्धां विदधे धर्मदेशनाम्
मौलिमुक्तांशुशुभ्रेण शिरसा चरणद्वयम् ।
स शास्तुः प्रययौ नत्वा हसन्निव भवभ्रमम्
गते तस्मिन् मुखशशिप्रकाशितनभस्तले ।
भगवान् भिक्षुभिः पृष्टस्तद्वृत्तान्तमभाषत
पूर्वकल्पान्तरे शास्तुः काश्यपाख्यस्य शासने ।
अभूत्प्रव्रजितो ऽप्येष शिक्षापदनिरादरः
अनादरात्कुञ्जरताभोगः संघोपसेवनात् ।
सत्यदृष्टिबलेनान्ते संप्राप्तः शासनग्रहः
प्राग्जन्मविहितं कर्म कस्यचिन्न निवर्तते ।
कर्मोपदिष्टसंबन्धभक्तिभोगैः सचेतसः
तस्मिन् व्यतिकरे घोरे सर्वैस्त्यक्रो ऽस्मि भिक्षिभिः ।
न त्वानन्देन तत्रापि श्रूयताम् पूर्वसंगतिः
शशाङ्कशीतसरसि भ्रातरौ रुचिरौ पुरा ।
पूर्णमुखः शुखश्चेति राजहंसौ बभूवतुः
कदाचिद्ब्रह्मदत्तस्य वाराणस्यां महीपतेः ।
ब्रहममतीं पुष्करिणीं रम्यां पूर्णमुखो ययौ
स तस्यां लोलकमलकिञ्जल्कपरिपिञ्जरः ।
विजहार सरोजिन्यां हंसानां पञ्चभिः शतैः
पूर्वपुण्यानुभावेन तं रूपातिशयोज्ज्वलम् ।
ददर्शं कार्याण्युत्सृज्य जनो निश्चललोचनह्
तं श्रुत्वा भूपतिस्तत्र स्थितं तद्दर्शनोत्सुकः ।
कुशलान् ग्रहणे तस्य व्यसृजज्जालजीविनः
तस्मिन् गृहीते नलीनीलीलास्मितसितत्विषि ।
शतानि पञ्च हंसानां त्यक्त्वा तं प्रययुर्जवात्
एकस्तु तस्य सौजन्यादबद्धो ऽपि सुबद्धवत् ।
तदर्थं व्यथितस्तस्थौ प्रेमपाशवशीकृतः
ततस्तैः प्रापितं राजा राजहंसं विलोक्य तम् ।
स्नेहबद्धं द्वितीयं च विस्मितस्ताववलोकयत्
हंसः पूर्णमुखः सो ऽहमानन्दस्तस्य चानुगः ।
गतास्तदद्य च त्यक्त्वा मां गंसा एव भिक्षवः
पूर्वस्मिन्नबह्वत्काले वाराणस्यां महीपतिः ।
तुत्तुर्नाम मनःपट्टे लिखितं यद्यशः परैः
सहस्रयोधस्तस्याभूद् दाक्षिणात्यो निरत्ययः ।
करदण्डीति विख्यातः संग्रामाग्रेसरः प्रियः
कदाचिद् घोरसमरे पञ्चामात्यशतानि तम् ।
नृपं त्यक्त्वा ययुर्भीत्या करदण्डी तु नात्यजत्
अहमेव स भूपालः सचिवास्ते च भिक्षवः ।
करदण्डी स एवायमानन्दो न जहाति माम्
जन्मान्तरे ऽपि सिंहो ऽहं मासं कूपे निपातितः ।
उपेक्षितः क्षणाद्भृत्यैः शृगालैर्ये ऽद्य भिक्षवः
एकेन च नखैः खातं दीर्घं कृत्वास्मि मोक्षितः ।
जम्बुकेन स एवायमानन्दो ऽद्य ममानुगः
कूटपाशनिबद्धस्य मृगयूथपतेः पुरा ।
लुब्धकागमने एव जग्मुस्तदनुगा मृगाः
अनुरक्ता न तत्याज तं मृगी साश्रुलोचना ।
प्रीतिशृङ्खलया बद्धा याता निस्पन्दतामिव
अथ लुब्धकमायान्तं दृष्ट्वा मृगवधोद्यतम् ।
सावदन्मम बाणेन प्रथमं हर जीवितम्
इति स्पष्टगिरा तस्याः स्नेहेन च स विस्मितः ।
मुमोच लुब्धकः प्रीत्या हरिणं हरिणीसखम्
मॄगयूथपतिः सो ऽहमानन्दः सा कुरङ्गिका ।
इत्येष प्रीतिसंबन्धः प्राग्वृत्तमनुवर्तते
श्रुत्वेति वाक्यं सुगतस्य सर्वे लज्जानिलीना इव भिक्षवस्ते ।
सानन्दमानन्दमुखारविन्दं प्रभाभिरामं ददृशुः स्पृहार्द्राः
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0