भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 27

27.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शाक्योत्पत्तीर्नाम षड्विंशः पल्लवः ॥
27. श्रोणाकोटीविंशावदानम् ।
स को ऽपि सत्त्वस्य विवेकबन्धोः पुण्योपसन्नस्य महान् प्रभावः ।
नापैति यः कायशतेषु पुंसः कस्तूरिकामोद इवांशुकस्य

27.2

जिने सर्वजगज्जन्तुसंतापकरुणाह्रदे ।
पुरे राजगृहे वेणुवनान्तरविहारिणि

27.3

श्रीमानभूद्भूमिपतिश्चम्पायां पोतलाभिधः ।
जहार धनदर्पान्ध्यं धनेन धनदस्य यः

27.4

अजायत सुतस्तस्य मनोरथशतान्वितः ।
धनानामीप्सितावाप्त्य सुखसख्यो विभूतयः

27.5

श्रवणर्क्षेण जातस्य स सूनोस्तस्य जन्मनि ।
प्रीत्या ददौ दरिद्रस्य कोटीनां विंशतिं तदा

27.6

स श्रोणकोटिविंशाख्यः शिशुः ख्यातस्तदाभवत् ।
विभवः सुकृतेनैव येन वंशो विभूषितः

27.7

प्राप्तविद्यः स सर्वार्थैः सह वृद्धिमुपागतः ।
चकार सुखविश्रान्तिं व्यवहारधरः पितुः

27.8

स कदाचित्प्रभापुञ्जमिअव् सूर्यस्य मण्डलात् ।
अवतीर्णं पुरप्रातं मौद्गल्यायनमब्रवीत्

27.9

को भवानर्कसंकाशः प्रकाशितदिगन्तरः ।
त्रिदशेशः शशाङ्को वा देवो वा द्रविणेश्वरः

27.10

स तं बभाषे न सुरः शिष्यो भगवतस्त्वहम् ।
बुद्धस्य विबुधाधीशवन्द्यमानगुणश्रियः

27.11

स्वच्छं तस्य प्रयच्छन्तं पिण्डपातं महामुनेः ।
सत्त्वशुद्धोदयावाप्तं भोग्यं भगवतः प्रियम्

27.12

इति श्रोणस्य भगवन्नाम्ना श्रवणगामिना ।
रविभक्रस्य जात्यापि रोमाञ्चः समजायतः

27.13

प्राग्जन्मवासनायुक्तः स्वभावो यस्य यः स्थितः ।
स तस्योदीरणेनापि स्फुट एव विभाव्यते

27.14

स तस्मै विंशतिस्थालीभागं नाकजनोचितम् ।
प्रहिणोद्भक्तिसंसक्तश्रद्धायुक्तेन चेतसा

27.15

ततस्तं प्रेषितं तेन भगवान् भक्तिसंसदा ।
अनुग्रहाग्रहव्यग्रः समग्रं स्वयमग्रहीत्

27.16

अस्मिन्नवसरे भक्त्या स्थालीभागं नृपोचितम् ।
समादाय स्वयं राजा बिम्बिसारः समाययौ

27.17

श्रोणप्रहीतभोगानामामोदं तत्र पार्थिवः ।
आघ्राय शक्रप्रहितं सर्वं दिव्यममन्यत

27.18

पात्रशेषं भगवता दत्तमास्वाद्य भूपतिः ।
श्रोणेन प्रेषितं श्रुत्वा तदनु विस्मयं ययौ

27.19

भगवन्तं प्रणम्याथ राजधानीं नरेश्वरः ।
प्रविश्याचिन्तयत्स्फीतां दिव्यां श्रोणस्य संपदम्

27.20

गच्छामि तं स्वयं गत्वा द्रष्टव्यो ऽसौ अम्हायशाः ।
इति निश्चित्य सचिवैः स यात्रारम्भमादिशत्

27.21

पोतलः क्षितिपं ज्ञात्वा स्वयमागमनोद्यतम् ।
नीतिज्ञं पुत्रमेकाण्ते श्रोणकोटिमभाषत

27.22

पुत्र त्वाम् द्रष्टुमायाति वर्णाश्रमगुरुर्नृपः ।
इत्येष भृशमुत्कर्षः सदोषः प्रतिभाति मे

27.23

क्षितीशा लक्षतां यातंपक्षपातोद्यता इव ।
अविलम्बितमाघ्नन्ति शरा इव गुणच्युताः

27.24

भृत्यानामपि विद्वेष्यो भवत्यतिशयोन्नतिः ।
अभिमानैकसाराणां किं पुनः पृथिवीभूजाम्

27.25

रूपे वयसि सौभाग्ये प्रभावे विभवे श्रुते ।
स्वसुतस्यापि संघर्षान्नोत्कर्षं सहते जनः

27.26

जने द्वेषमये पुत्र गुणमाच्छाद्य जीव्यते ।
आच्छादितगुणः पद्मः प्रियस्तीक्ष्णरुचेरपि

27.27

उद्धतः कस्य न द्वेष्यः प्रणतः कस्य न प्रियः ।
द्रुमं पातयति स्तब्धं नम्त्रं रक्षति मारुतः

27.28

स चाभिगम्यो भूपालस्त्वां यदि स्वयमेष्यति ।
तदेषं दर्पमोहस्ते श्रेयसे न बह्विष्यति

27.29

तस्मादितः स्वयं गत्वा प्रणम्यं प्रणम प्रभुम् ।
नक्षत्रराशिसदृशं दत्वा हारमुपायनम्

27.30

पितुः श्रुत्वेति वचनं श्रोणकोटिर्हहीपतिम् ।
प्रययौ नावमारुह्य द्रष्टुं रत्नविभूषितः

27.31

स राजधानीमासाद्य प्राप्य दृष्ट्वा च भूपतिम् ।
ददौ हारं पर्णम्यास्मै हर्षहासमिव श्रियः

27.32

तं दृष्ट्वा स्वयमायातं नृपतिः स्निग्धया दृशा ।
हेमरोमाङ्कचरणं विस्मयादित्यभाषत

27.33

अहो पुण्यमहेशाख्यः को ऽपि त्वं सत्त्वबाम्धवः ।
यस्य संदर्शनेनैव मनोवृत्तिः प्रसीदति

27.34

गुणेभ्यः परमैश्वर्यमैश्वर्यात्सुखमुत्तमम् ।
सुखेभ्यः परमारोग्यमारोग्यात्साधुसंगमः

27.35

अपि दृष्टस्त्वया साधो भगवान् वेणुकानने ।
तत्पादपद्मयुगलं द्रष्टुमर्हसि मे मतः

27.36

इत्युक्ते क्षितिनाथेन सौजन्यात्पक्षपातिना ।
तं श्रोणकोटीविंशो ऽपि प्रणयात्प्रत्यभाषत

27.37

अस्मादतुल्यकल्याणात्प्रसादाद्देवदेव ते ।
अधुना योग्यतायाता भगवद्दर्शने मम

27.38

इत्युक्ते तेन सहितः प्रतस्थौ स्थितिकोविदः ।
भक्त्या तथागतं द्रष्टुं पद्भ्यामेव महीपतिः

27.39

अस्पृष्टपादस्य भुवा श्रुणस्याजन्मवासरात् ।
महार्हवस्त्रैः प्रस्थाने भृत्यैराच्छादिता मही

27.40

भगवद्भक्तिविनयाद्गौरवाच्च स भूपतेः ।
वस्त्राण्यवारयद्भृत्यैरवाच्च इव क्षितौ

27.41

वारितेष्वथ वस्त्रेषु दिव्यवस्त्रैर्वृता मही ।
अप्रयत्नोपकरणाः संपदः पुण्यशालिनाम्

27.42

निवार्य दिन्यवस्त्राणि भूमौ तेनार्पिते पदे ।
विचचालाचला पृथ्वी सशैलवनसागरा

27.43

ततः स भूमिपतिना सह प्राप्य जिनाश्रमम् ।
भगवन्तं विलोक्यास्य विदधे पादवन्दनम्

27.44

उपविष्टस्य तस्याग्रे हृष्टस्यालोकनामृतैः ।
चक्रे शमविवेकस्य भगवानभिषेचनम्

27.45

आशयानुशयं धातुं प्रकृतिं च विचार्य सः ।
सत्यसंदर्शनायास्य विदशे धर्मदेशनाम्

27.46

सत्कायदृष्टिशैलो ऽस्य तया विंशतिशृङ्गवान् ।
ज्ञानवज्रेण निर्भिन्नः स्रोतःप्राप्तिपदस्पृशः

27.47

प्रव्रज्यायां ततस्तस्य जातायां सहसा स्वयम् ।
भगवन्तं प्रणम्याथ विस्मितः प्रययौ नृपः

27.48

तीव्रव्रते ऽपि श्रोणस्य कदाचित्समजायत ।
वासनाशेषसंस्काराद्बन्धभोगसुखस्मृतिः

27.49

स तमाहूय भगवान् विलक्षं प्राह सस्मितः ।
को ऽयं परिवितर्कस्ते प्रतिसंलीनचेतसः

27.50

विश्लिष्टात्यन्तकृष्टा वा तन्त्री बह्वति विस्वरा ।
समा माधुर्यमायाति तस्मात्साम्यं समाश्रयेत्

27.51

इत्यादेशाद्भगवतः सर्वसाम्यमुपागतः ।
स प्राप विमलज्ञानं पश्चात्तापविवर्जितः

27.52

तस्य तामद्भुतां सिद्धिं विलोक्य पृथुविस्मयाः ।
पप्रच्छुर्भिक्षवः सर्वे भगवन्तंस चाभ्यधात्

27.53

श्रोणस्य श्रूयताम् श्रेयःकर्म जन्मान्तरार्हितम् ।
न ह्यपुण्यानुभावानां भवन्त्यद्भुतसंपदः

27.54

विपश्वी भगवान् सम्यक्संबुद्धः सुगतः पुरा ।
पुरीं बन्धुमतीं नाम जनचारिकया ययौ

27.55

तत्र भक्त्या सुकृतिभिर्भक्तायोपनिमन्त्रितः ।
वारेण प्रत्यहं गेहं ययौ तेषां सहानुगः

27.56

ततो दरिद्रःसंप्राप्तवारो ब्राह्मणदारकः ।
इन्द्रसोमाभिधश्चक्रे यत्नात् यद्योग्यभोजनम्

27.57

स प्रयत्नेन महता भोज्यं भक्तिपवित्रितम् ।
आछाद्य वस्त्रैर्वसुधां प्रह्वस्तस्मै न्यवेदयत्

27.58

तद्भोगप्रणिधानेन जातः सो ऽयं महाधनः ।
सौवर्णरोमचरणः श्रोणकोटी सुरोपमः

27.59

न वस्त्ररहिता भूमिः स्पृष्टानेन कदाचन ।
कम्पस्तच्चरणस्पर्शादत एवाभवद्भुवः

27.60

इति सुगतवचः सुधावदातं दशनमयूखमिवोन्मिषत्स्वभावम् ।
प्रणिहितहृदयः परं निपीय स्थिरकुशलाय बभूव भिक्षुसंघः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc