भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 26

26.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां मारचिद्रावणावदानम् नाम पञ्चविंशः पल्लवः ॥
26. शाक्योत्पत्तिः ।
वंशः स को ऽपि विपुलः कुशलानुबन्धी यश्चारुवृत्तमुचितं गुणसंग्रहस्य ।
रत्नं विशुद्धरुचिसूचितसत्प्रकाशं मुक्तामयं जगदलंकरणं प्रसूते

26.2

न्यग्रोधारामनिरतं पुरा कपुलवास्तुनि ।
शाक्याः स्ववंशं पप्रच्छुर्भगवन्तं तथागतम्

26.3

तैः पृष्टः स्वकुलोत्पत्तिं स मौद्गल्यायनं पुरः ।
वक्तुं न्ययुङ्क्त कृत्वास्य विमलज्ञानदर्शनम्

26.4

स विलोक्य यथातत्त्वमतीतं ज्ञानचक्षुषा ।
तानवोचत संस्मृत्य श्रूयतां शाक्यसंभवः

26.5

अशेषे ऽस्मिन् जलमये जगत्येकार्णवे पुरा ।
स्थिते पवनसंस्पर्शात्पयः पय इवाभवत्

26.6

जले तस्मिन् घनतया याते कठिनताम् शनैः ।
अभूद्वर्णरसस्पर्शशब्दगन्धमयी मही

26.7

तस्यामाभास्वरा देवाश्च्युताः कर्मपरिक्षयात् ।
तत्तुल्यवर्णसंभूताः सत्त्वाः सत्त्वबलाधिकाः

26.8

अङ्गुल्या रसमास्वाद्य तत्तृष्णातीव्रमोहिताः ।
आहारदोषात्संप्रापोउर्गुरुरूक्षविवर्णताम्

26.9

अन्नप्रसविनी तेषां क्रमेणाभूद्वसुंधरा ।
तमोभिश्च विलुप्तानाम् क्षेत्राग

26.10

ततस्तेषां क्षतत्राणात् क्षत्रियः क्षितिपालने ।
महासंमतनामाभूज्जनस्य महतो मतः

26.11

तस्यान्वये महत्यासीनृपः श्रीमानुपोषधः ।
अम्लानकीर्तिकुसुमः पारिजात इवोदधौ

26.12

चक्रवर्ती सुतस्तस्य मान्धाताभूदयोनिजः ।
जगत्येकातपत्रस्य यस्य वंशो महानभूत्

26.13

वंशे सहस्रवंशस्य कृकिस्तस्याभवन्नृपः ।
चित्तप्रसादमकरोद् भगवान् यस्य काश्यपः

26.14

इक्ष्वाकुरन्वये तस्य तस्य चाभूद् विरूढकः ।
प्रीत्या कनीयसः सूनोर्ज्येष्ठास्तेन विवासिताः

26.15

एकीभूय ततः सर्वे स्वदेशविगतस्पृहाः ।
कुमाराः कपिलाख्यास्य महर्षेराश्रमं ययुः

26.16

ध्यानकालाण्तरायाणां बाल्यादुच्चैः प्रलापिनाम् ।
सो ऽन्यत्र निर्ममे तेषां पुरं कपुलवास्त्विति

26.17

कालेन पुत्रवात्सल्यादनुतापेन भूपतिः ।
आनीयन्तां कुमारास्ते सचिवानित्यभाषत

26.18

तमूर्चुर्मन्त्रिणः सर्वे राजन् प्राप्तपुरोत्तमाः ।
प्रत्यानेतुमशक्यास्ते जातापत्यपृथुश्रियः

26.19

इति तेषां पितुस्तत्र शक्याशक्यविचिन्तने ।
बभूवुः शाक्यसंज्ञास्ते नॄपुरस्तेषु वंशकृत्

26.20

तद्वंशेषु पञ्चपञ्चसहस्रेषु महीभुजाम् ।
अतीतेषु क्षितिपतिः श्रीमान् दशरथो ऽबह्वत्

26.21

तस्यान्वये सिंहहनुर्बभूव पृथिवीपतिः ।
न रणे सिंहमिव यं सेहिरे राजकुञ्जराः

26.22

ज्येष्ठः शुद्धोदनस्तस्य सुतः शुक्लोदनः परः ।
द्रोणोदनस्तदनुजः कनीयानमृतोदनः

26.23

कन्याश्चतस्रः शुद्धाख्या शुक्ला द्रोणामृता तथा ।
शुद्धोदनस्य भगवान् सूनुर्नन्दस्तथापरः

26.24

शुक्लोदनस्य तनयौ द्वौ तिष्याख्यो ऽथ भद्रिकः ।
द्रोणोदनस्य द्वौ पुत्रावनिरुद्धो महांस्तथा

26.25

आनन्ददेवदत्ताख्यावमृतोदनसंबह्वौ ।
शुद्धासुतः सुप्रशुद्धः शुक्लासूनुश्व मालिकः

26.26

द्रोणापुत्रश्च भद्राणिर्वैशाल्यख्यो ऽमृतासुतः ।
राहुलो भगवत्सूनुर्यस्मिन् वंशः प्रतिष्ठितः

26.27

इत्युज्ज्वलज्ञानमयेन तेन वंशं यथावत्कथितं निशम्य ।
शाक्या बभूवर्भगवत्प्रभावैः
संभावितोत्कर्षविशेषशुद्धाः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc