भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 25

25.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायामभिनिष्क्रमणावदानं चतुर्विशः पल्लवः ॥
25. मारविद्रावणावदानम् ।
जयन्ति ते जन्मभयप्रमुक्ता भवप्रभावाभिभवाभियुक्ताः ।
यैः सुन्दरीलोचनचक्रवर्ती मारः कृतः शासनदेशवर्ती

25.2

ततस्तपोवने चास्मिन् बोधिसत्त्वे तपोजुषि ।
तदुपस्थापकाः पञ्च वाराणस्यां प्रवव्रजुः

25.3

स्पृहणीयो मुनीन्द्राणामथ शाक्यमुनिः शनैः ।
स्वयं सेनायनीग्रामं जनचारिकया ययौ

25.4

तत्र सेनाभिधानस्य कन्ये गृहपतेः सुते ।
नन्दा नन्दबलाख्या च चारुवृत्ते बभूवतुः

25.5

शुद्धोदनस्य भूभर्तुस्ते श्रुत्वा विश्रुतं सुतम् ।
चक्राते तद्विवाहार्थं व्रतं द्वादशवार्षिकम्

25.6

आमोदिनीनां हृदये सदा सूत्रवदास्थितः ।
मालानामिव बालानामभिलाषः स्वभावजः

25.7

धेनूनां पीतदुग्धानां दुग्धं ताभ्यां पुनः पुनः ।
गृहीट्वा स्फटिकस्थाल्या व्रतान्ते पायसं शुभम्

25.8

विधिवत्पायसे सिद्धे विप्ररूपः सुरेश्वरः ।
तं समभ्याययौ देशं देवश्च कमलासनः

25.9

हर्षादतिथिभागे ऽथ कन्यकाभ्याम् समुद्धृते ।
शक्रो ऽवदत्सर्वगुणोदयायाग्रे प्रदीयताम्

25.10

मत्तो ऽयमधिकस्तावद्ब्रह्मणः प्रथमो ऽपि च ।
इत्युक्ते सुरराजेन प्रोवाच चतुराननः

25.11

मत्तो ऽधिको देव आस्ते शुद्धावासनिकायिकः ।
इत्युक्ते ब्रह्मणा ते ऽपि जगदुर्गगनस्थिताः

25.12

सर्वप्रतिविशिष्टो ऽसौ बोधिसत्त्वस्तपःकृशः ।
नद्यां निराजनाख्यायां विगाह्य सलिले स्थितः

25.13

एतदाकर्ण्य कन्याभ्यामाहूय मणिभाजने ।
अवतीर्यार्पितं भक्त्या तदस्मै मधुपायसम्

25.14

बोधिसत्त्वस्तदादाय रत्नपात्रीं ददौ तयोः ।
दत्तेयं न पुनर्ग्राह्येत्युक्त्वा जगृहतुर्न ते

25.15

सा तेन नद्यां निक्षिप्ता नागैर्नीता प्रभावती ।
विक्षोभ्याप्याहृता तेभ्यस्तार्क्ष्यरूपेण वज्रिणा

25.16

प्रसादी बोधिसत्त्वो ऽथ कन्यायुगलमभ्यधात् ।
दानस्य प्रणिधानेन भवत्योः किं समीहितम्

25.17

ते तमूचतुरानन्दनिधिः शुद्धोदनात्मजः ।
सर्वार्थसिद्धो ऽभिमतः कुमारः पतिरावयोः

25.18

उद्यमं मारलीलायाः सरसं तद्वचस्तयोः ।
न लिलिम्प मनस्तस्य पाद्मं दलमिवोदके

25.19

स जगाद कुमारो ऽसौ न किं प्रव्रजितः श्रुतः ।
न तस्य लोलनयनाः प्रियाह् श्रिय इव स्त्रियः

25.20

इत्यनीप्सितमाकर्ण्य दीर्घं निश्वस्य कन्यके ।
ऊचतुर्दानधर्मो ऽयं सिद्धौ तस्यैव जायताम्

25.21

अदृष्टस्नेहसंश्लिष्टः प्रविष्टो ऽन्तः पराङ्भुखः ।
न नाम सुचिराभ्यस्तः पक्षपातो निवर्तते

25.22

इति तद्वचनं श्रुत्वा बोधिसत्त्वः प्रसन्नधीः ।
प्रयातस्ते समामन्त्र्य विश्रान्त्यै काननान्तरम्

25.23

पायसामृतभागेन लब्धदिव्यबलोदयः ।
प्रच्छायतरुसुच्छायमारुरोह महीधरम्

25.24

पर्यङ्कबन्धमाधाय तत्र तस्मिन् सुखं स्थिते ।
अहंकार इवात्युच्चशिराह् सो ऽद्रिर्व्यगीर्यत

25.25

विशीर्णभूधरे तस्मिन् स प्रदध्यौ विषण्णधीः ।
सपक्षालानि कर्माणि मया कानि कृतान्यहो

25.26

इति चिन्ताशतोच्छ्वासं तमूचुर्व्योमदेवताः ।
न त्वया विहितं साधो कर्म किंचिदसांप्रतम्

25.27

अच्छिन्नोत्तप्तकुशलं धर्तुं न क्षमते क्षितिः ।
स त्वमुत्तप्तकुशलः प्रोच्चशैलशताग्द्गुरुः

25.28

निरञ्जनीं समुत्तीर्य सरितं व्रज निश्चलम् ।
सिद्धिदं बोधिसत्त्वानाम् देशं वज्राअस्नाभिधम्

25.29

देवतादिष्टमार्गेण प्रस्थितस्यास्य भूतले ।
पादन्यासैरभूत्तस्य हेमपद्मपरंपरा

25.30

पृथिवी व्रजतस्तस्य प्रोल्लसत्सलिलाकुला ।
रणन्ती कांस्यपात्रीव प्रोन्ननाम ननाम च

25.31

तानि तानि निमित्तानि प्रवृत्तानि ददर्श सः ।
येषामनुत्तरज्ञाननिधानसाधनं फलम्

25.32

निरञ्जनाय भुवने नागो ऽन्धः कालिकाभिधः ।
बुद्धोत्पादितदृरभूमेः शब्दमाकर्ण्य निर्ययौ

25.33

सर्वलक्षणसंपन्नं दीप्तजाम्बूनदद्युतिम् ।
स बोधिसत्त्वमालोक्य प्रोवाच रचिताzन्जलिः

25.34

नलिननयन कान्तस्त्वं वने यौवने ऽस्मिन्
विहरसि विरहार्तिं संपदामर्पयित्वा ।
अशमशमविशेषोन्मेषसंतोषहेतुर्
भवसि भवसमुद्रे देहिनां सत्यसेतुः

25.35

अथामुञ्चन्त्येते भयतरलतामत्र हरिणाः
यथा लीलाचक्रं विहरति समीपे खगगणः ।
ससत्त्वासत्त्वाना किमपि हृदयाश्वाससदनं
तथा मन्ये बौद्धं वपुरिदमनायाससुखदम्

25.36

करिकलभकह् पद्मप्रीत्या करोति हरेः करं
सुखयति शिखी स्निग्धालापं कलापशिखानिलै ।
भवति हरिणी लोलापाङ्गा पुरः प्रणयोन्मुखी
प्रशमसमयस्येयं पुण्यप्रसादमयी स्थितिः

25.37

अद्यैव बुद्धत्वमवाप्य शुद्धं त्वं बोधिमेष्यत्य(?)खिलां त्रिलोकीम् ।
सद्यःप्रसादप्रमदावदातां कुमुद्वती पूर्ण इवामृतांशुः

25.38

अन्योन्यं दिननाथदीप्तमहसः सद्यस्तवालोकनाल्
लोकानां कनलप्रबोधकलया दिव्यप्रकाशस्पृशाम् ।
निर्याती हॄदयान्निबद्धमधुपश्रेणिव संबन्धन-
त्रस्तान्तर्न पुनः करिष्यति पदं मोहान्दकारावलिः

25.39

इति ब्रुवाणां विनयान्नागराजः प्रसन्नधीः ।
बोधिसत्त्वं समाभास्य समुत्तीर्य नदीं ययौ

25.40

वज्रासनपदं प्राप्य बोधिमूलमनाकुलम् ।
दक्षिणाग्रैः कुशैश्चक्रे शक्तदत्तैः स संस्तरम्

25.41

तत्रोपविश्य पर्यङ्कबद्धो निश्चलनिश्चयः ।
मन्थावसानविश्रान्तः स दुग्धाब्धिरिवाबभौ

25.42

असाधारः क्षमाधारः स धीरसरलाकृतिः ।
रुरुचे काञ्चनरुचिः परो मेरुरिवाचलः

25.43

असावक्षयपर्यन्तः पर्यङ्को ऽयं मम स्थिरः ।
बबन्धेति स संकल्पं कृत्वा प्रतिमुखीं स्मृतिम्

25.44

अत्राण्तरे समभ्येत्य मारः संयममत्सरः ।
लेखहारस्तत्र तूर्णं बोधिसत्त्वमभाषतः

25.45

अकामकामता केयं लोके बन्धनदा मता ।
अकालकलिकाकारा मतिस्ते कास्य कामना

25.46

गृहीतं हतशङ्केन देवदत्तेन ते पुरम् ।
निरुद्धन्तःपुरश्रेणीर्बद्धः शुद्धोदनो नृपः

25.47

इति श्रुत्वैव वचनं शोकामर्षविषोज्झितः ।
अशिक्षितविकारेण चेतसा स व्यचिन्तयत्

25.48

अहो बतान्तरायं मे मारः कर्तुं समुद्यतः ।
नर्तयत्येष दुर्वृत्तः शिस्वण्डिक्रीडयाजगत्

25.49

मार मार विरामस्ते दौर्जन्यस्य न जायते ।
एकेन हिंसायज्ञेन प्राप्तेयं कम्रता त्वया

25.50

यज्ञदाणतपःश्लाघां नात्मनः कर्तुमुत्सहे ।
स्वगुणोदीरणम्लानं पुण्यपुष्पं हि शीर्यति

25.51

इति निर्भत्सितस्तेन चित्तस्तेनः शरीरिणाम् ।
सामर्षः प्रययौ मारः समारम्भाद् हतोद्यमः

25.52

अथादृश्यन्त ललिता लालित्याञ्चितलोचनाः ।
भ्रमद्भृङ्गरङ्गिण्यः कान्ताश्चूतलता इव

25.53

चारुतच्चरितातृप्तास्तिस्रस्ताः कामकन्यकाः ।
सरागं पादनलिनीन्यासैश्चक्रुस्तपोवनम्

25.54

विलोचनेन हरिणी करिणी गतिविभ्रमैः ।
तत्र ताभिर्मुखाम्भोजैर्नलिनी मलिनीकृता

25.55

यौवनाभरणैरङ्गौरनुरागाविलेपनैः ।
लावण्यवसनैस्तासां कामो ऽभूदप्यचेतसाम्

25.56

वज्रासनसमाधानध्याननिश्चललोचनम् ।
तं विलोक्याभवत् तासां विस्मयध्यानधारणा

25.57

ता बोधिसत्त्वसंकल्पान् मदरागमयं वयः ।
परित्यज्यैव सहसा सलज्जा भेजिरे जराम्

25.58

प्रतीपगमनात्तासामथ भग्नमनोरथः ।
मन्मथः प्रथितारम्भः सैन्यसंब्ःआरमाददे

25.59

सर्वप्रहरणैर्व्याप्तं नानाप्राणिमुखैर्भयैः ।
षट्त्रिंशत्कोटीविपुलं बलं तस्य समुद्ययौ

25.60

स्वयमाकर्णनिष्कृष्टकोपक्रूरशरासनः ।
मारः स्फारविकारेण बोधिसत्त्वं समाद्रवत्

25.61

शस्त्रवृष्टिस्तदुत्सृष्टा सह पांशुविषाश्मभिः ।
प्रययौ बोधिसत्त्वस्य मन्दाराम्बुजतुल्यताम्

25.62

पुनर्मारबलोत्सृष्टा शस्त्रवृष्टिर्घृतक्षमे ।
चक्रिरे देवतास्तस्य वज्रप्रतिसमाश्रयम्

25.63

स्मरो ऽपि नष्टसंकल्पः समाधेः श्रोत्रकण्टकम् ।
घण्टापटुरटत्पत्रं निर्ममे स्फटीकद्रुमम्

25.64

तं तारमुखरं वृक्षं मारं च सबलायुधम् ।
चक्रवाटे समुत्क्षिप्य चिक्षिपुर्व्योमदेवताः

25.65

भगवानथ संप्राप्तप्रसन्नज्ञाननिर्मलः ।
सर्ववित्सर्वगः सरव्जातिस्मृतिपरो ऽभवत्

25.66

स तत्रानुत्तरज्ञानसम्यक्संबोधिमापितः ।
ददर्श सर्वभुताणि गतिं कर्मोर्मिनिर्मिताम्

25.67

अथ शाक्यपुरे मारः प्रवादमसृजद्दिवः ।
बोधिसत्त्वः प्रयातो ऽस्तं तपःक्लेशवशादिति

25.68

तत्र शुद्धोदनो राजा पुत्रस्नेहविषातुरः ।
निपपात तमाकर्ण्य वज्राहत इव क्षितौ

25.69

अन्तःपुरे सहनृपे प्राणत्यागकृतक्षणे ।
सुवृत्तपक्षपातिन्यस्तमूचुर्व्योमदेवताः

25.70

पुत्रस्तवामृतं पीत्वा सम्यक्संबुद्धताम् गतः ।
तेनावलोकितस्यापि नास्ते भृत्युभयं कुतः

25.71

इति सान्तःपुरामात्यः श्रुत्वा नरपतिर्वचः ।
अभूत्प्रत्यागतप्राणः सुधासिक्त इव क्षणात्

25.72

तस्मिन् महोत्सवानन्दे बोधिसत्त्ववधूः सुतम् ।
कान्तं यशोधआसूत राहुग्रस्ते निशाकरे

25.73

राहुलाख्यः स बालो ऽपि नृपतेर्जन्मशङ्किनः ।
जनन्या सशिलः शुद्ध्यै निक्षिप्तो ऽम्भसि पुप्लुवे

25.74

भगवानपि सप्ताहं स्थितो निश्चलविग्रहः ।
वज्रपर्यङ्कबन्धेन देवानाम् विस्मयं व्यधात्

25.75

स ब्रह्मकायिकाख्याभ्याम् देवताभ्यां विरोधितः ।
अवदत्परमानन्दसुधासंदोहसुन्दरः

25.76

अहो तव मया ज्ञाता पूर्वमेषा सुखस्थितिः ।
यया सुरासुरैश्वर्यसुखं दुःखगणायते

25.77

लावण्याम्भःप्लाविताङ्गास्तरुण्यः पीयूषार्द्रः स्वर्गसंभोगवर्गः ।
अस्याशेषत्यागहेलासुखस्य स्पर्धाबन्धे पांशुनिःसार एव

25.78

संतप्तो ऽहं विषयविषमक्लेशसंसारपान्थः
क्लान्तः शान्त्याश्रितिमुपगतश्चन्दनच्छाययेव ।
संजातेयं सकलकरणव्यापिनी निर्वृतिमे
विश्रान्तानाम् शमहिमवने किं सुखस्योपमानम्

25.79

अस्मिन्नवसरे पुण्यपरिपाकेण तद्वनम् ।
वणिजौ पृथुसार्थेन प्राप्तौ त्रपुसभल्लिकौ

25.80

देवताप्रेतितौ भक्त्या भगवन्तमुपेत्य तौ ।
प्रणतौ पिण्डपातो ऽयं गृह्यतामित्यभाषताम्

25.81

दयाविधेयः सर्वज्ञस्तदाकर्ण्य व्यचिन्तयत् ।
पूर्वैः पात्रे गृहीतो ऽयं न पाणी पात्रवर्जिते

25.82

इति चिन्तयतस्तस्य महाराजाभिधाः सुराः ।
दत्वा स्फटिकपात्राणि चत्वारि त्रिदिवं ययुः

25.83

कृत्वाथ भगवान् पात्रे पिण्डपातप्रतिग्रहम् ।
अनुग्रहं तयोश्चक्रे शरण्यत्रयशासनात्

25.84

विततसुकृतसाक्षी पुण्यनिक्षेपदक्षः क्षयितविपदशेषः प्रार्थनाकल्पवृक्षः ।
भवति कुशलमूलैः कस्यचिद्भाग्यभाजः शुभपरिणतिदीक्षादक्षिणः साधुसङ्गः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc