अवदानकल्पलता · अध्याय 24
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां विश्वंतरावदानम् नाम् अत्रयोविंशः पल्लवः ॥
24. अभिनिष्क्रमणावदानम् ।
हसति सकललोलालोकसर्गाय भानुः परमममृतवृष्टयै पूर्णतामेति चन्द्रः ।
इयति जगति पूज्यं जन्म गृह्णाति कश्चित् विपुलकुशलसेतुः सत्त्वसंतारणाय
पुरा शुद्धोदनः श्रीमान् राजा शाक्यपुरे ऽभवत् ।
यशःशशाङ्कजनकः सुधासिन्धुरिवापरः
खलासक्ता स्वभावेन लक्ष्मीर्गुणिगणार्पिता ।
आश्चर्यकारिणा येन कृता सत्पक्षपातिनी
अद्याप्यखिलदिक्तीर्यवनासक्तैर्विवेकिभिः ।
यशोभिः शुचिभिर्यस्य मुनिव्रतमिवोह्यते
स्यामहं शुद्धमातेति पुरा प्रणिधितः किल ।
विश्वकर्मसुतो मर्त्यमाजगामामलद्युतिः
कीर्तिः सत्पुरुषस्येव तस्याभूद्वल्लभा परम् ।
महामायाभिधा देवी चन्द्रस्येव कुमुद्वती
सापश्यद्दन्तिनं श्वेतं स्वप्ने कुक्षौ विहायसा ।
गतमारोहणं शैले प्रणतिं च महाजनात्
अत्रान्तरे बोधिसत्त्वस्तुषितात् त्रिदशालयात् ।
गर्भं तस्याः समापेदे स्वयं लोकानुकल्पया
वहन्ती बोधिसत्त्वं सा गर्भे भुवननन्दनम् ।
इन्दुं दुग्धाब्धिवेलेव बभूव पाण्डुरद्युतिः
इक्ष्वाकुराजवंश्येन तेन गर्भस्थितेन सा ।
भूर्निधानवतीवाभूद् भव्यलक्षणलक्षिता
बभूव दोहदस्तस्या दानपुण्यमयोदयः ।
अङ्कुरे ऽप्यविसंवादि सहकारस्य सौरभम्
अत्घ कालेन संपूर्णं सा लुम्बिनीवने स्थिता ।
असूत तनयं देवी दिवाकरमिवादितिः
मातुर्गर्भमलास्पृष्टं कुक्षिं भित्त्वा स निर्गतः ।
तां चक्रे ऽथ स्वभावेन स्वस्थाङ्गी विगतव्यथाम्
निर्गच्छन्नेव रुद्धो ऽसौ बलजिज्ञासया क्षणम् ।
शक्रेण वज्रसाराङ्गस्तस्याशक्यत्वमाययौ
जातमातः शुइशुर्गत्वा स्वयं सप्त पदानि सः ।
दिशो विलोकयन्नूचे सुव्यक्ताक्षरया गिरा
इयं निर्वृतिः पूर्वा च गतिर्लोकेषु दक्षिणा ।
पश्चिमा जातिरप्येषा संसारादियमुत्तरा
इति तस्य ब्रुवाणस्य पृथिवी समकम्पत ।
तमक्षयबलं धर्तुमशक्तेव जगद्गुरुम्
छत्रं तस्य यशः शुभ्रं सत्त्वस्मेरं सचामरम् ।
व्योमाम्बुधाराधौतस्य जगृहुस्तस्य देवता
अस्मिन्नवसरे पृष्टः स् वस्त्रीयेणासिताभिधः ।
नारदेन प्रभां दृष्ट्वा किष्किन्धाद्रिस्थितो मुनिः
कस्मादर्कशतालोक इवालोकः प्रदृश्यते ।
तमोदरिद्रां येनेति गिरयः सगुहागृहाः
विस्मयादिति तेनोक्तः सो ऽवदद्दिव्यलोचनः ।
जातः पुण्यप्रभासो ऽयं बोधिसत्त्वस्य जन्मनि
अचिरेणैव तं वत्स द्रक्षावः कुशलाप्तये ।
इत्युक्त्वा मुनिरानन्दाद् विश्रान्तिसुखितो ऽभवत्
पुत्रजन्मनि सर्वार्थसिद्धिं शुद्धोदनः परम् ।
दृष्ट्वा सर्वार्थसिद्धो ऽयमिति नामास्य निर्ममे
शाक्यवर्धननामाभूद् यक्षः शाक्यपुराश्रयः ।
यत्प्रणामेण शाक्यानां शिशवो निरुपद्रवाः
तत्स्थित्या प्रेषितः पित्रा प्रणामाय सगुह्यकः ।
तं बोधिसत्त्वमालोक्य निपपातास्य पादयोः
अथोत्सङ्गे समादाय हृष्टस्तं पृथिवीपतिः ।
लक्षणानि निमित्तज्ञैस्तस्य देहे व्यलोकयत्
लक्षणज्ञास्ततः सर्वे नृपमूचुः सविस्मयाः ।
देव दिव्यकुमारो ऽयं लक्षणैरुपलक्ष्यते
जायते लक्षणैरेतैर्विश्वविश्रान्तशासनः ।
शक्राधिपश्चक्रवर्ती भगवान् स तथागतः
दीर्घाङ्गुलिदलौ चक्रलाञ्छनौ सुप्रतिष्ठितौ ।
अरुणौ चरणावस्य कान्तौ कमलकोमलौ
राजहंस इव प्रांशुः सजालाङ्गुलिपल्लवः ।
एष जानुयुगः श्रीमानाजानुभुजभूषितः
सकोशबस्तिगुह्यश्च न्यग्रोधपरिमण्डलः ।
दक्षिणावर्तरोमाङ्कः परिणाहसमोन्नतिः
रजोमललवास्पृष्टस्तजाम्बूनदद्युतिः ।
हस्तपादांसकण्ठाग्रस्पष्टसप्तच्छदाकृतिः
सिंहपूर्वार्धकायश्च बृहत्स्पष्टाङ्गविग्रहः ।
चत्वारिंशत्समाप्रोतशुक्लदन्तः सुनासिकः
दीर्घप्रतनुजिह्वश्च मेघदुन्दुभिनिश्वनः ।
अभिनीलाक्षगोक्ष्मः सहजोष्णीषमस्तकः
सितोर्णाङ्को भ्रुवोर्भागः स्वस्तिकोरःस्थलोज्ज्वलः ।
लेखाशृङ्गाब्जहस्तो ऽयं छत्राकारशिराः शिशुः
राजन्नयम् ते तनयश्चक्रवर्ती भविष्यति ।
सम्यक्संबोधिसंबुद्धः सर्वज्ञो वा भविष्यति
इत्युक्त्वा तेषु जातेषु लेभे हर्षं महीपतिः ।
सप्तभिदिवसैः शास्तुर्जननी त्रिदिवं ययौ
तस्य जन्मनि शाक्यानां मुनीनामिव शान्तता ।
दृष्ट्वा यदा शाक्यमुनिर्नामाभूत्स तदा शिशुः
देवानामपि देवो ऽयमिति निश्चित्य तेजसा ।
देवातिदेव इत्यस्य नाम चक्रे महीपतिः
नारदेनाथ सहितस्तत्त्वदर्शी तपोवनात् ।
तं समभ्याययौ द्रष्टुमादरादसितो मुनिः
स बोधिसत्त्वं बालार्कमिव कल्पप्रकाशनम् ।
दृष्ट्वा विकासिवक्र्क्रश्रीर्लेभे कमलतुल्यताम्
सो ऽब्रावीद्विहितातिथ्यं नृपतिं प्रणतं मुनिः ।
राजन् गुणगणेनेव स्पृहणीयो ऽसि सूनुना
एतानि लक्षणान्यस्य मोक्षलक्ष्मीसमागमम् ।
वदन्ति चक्रवर्तिश्रीःफलं नैषां विनश्वरम्
अस्य बोधिप्रभावेण संबुद्धस्य् मुखाम्बुजम् ।
धन्य पद्माकरस्येव नेत्रपात्रं करिष्यति
विबुधाः शुद्धसत्त्वस्य बोधिदुग्धमहोदधेः ।
धन्या वागमृतैरस्य भविष्यन्त्युपजीविनः
पुण्यभाजि जगत्यस्मिन्नेक एवास्मि वञ्चितः ।
एतत्संदर्शनं यस्य पूर्णकालस्य दुर्लभम्
इत्युक्त्वा नृपमामन्त्र्य गत्वा व्योम्ना तपोवनम् ।
सुप्रसन्नं मनः कृत्वा देहत्यागमचिन्तयत्
स पर्यन्तोपदेशाय नारदेनाभिचोदितः ।
तमुवाचामृतं वत्सं कुमारः कथयिष्यति
अधिगम्यामृतं तस्मान्नृपसूनोरनामयम् ।
तरिष्यसि भवाम्बोधिमित्युक्त्वा तनुमत्यजत्
श्रीरसत्क्रियां तस्य कृत्वा सपदि नारदः ।
ययौ वाराणसीं सिद्ध्यै लेभे कात्यायनाभिधाम्
वर्धमानः कुमारो ऽथ सर्वविद्यासु पारगः ।
लिपिप्रवीणो ऽभिनवाम् लिपिं ब्राह्मीं विनिर्ममे
नागायुतसमप्राणे तस्मिन् जगति विश्रुते ।
वैशालिकैः प्रियायास्मै प्रेषितो मत्तकुञ्जरः
भविष्यति चक्रवर्तीत्यस्य प्रातमुपायनम् ।
देवदत्तः परिद्वेषात् तं जघान महागजम्
च्युतं चकर्षं द्विदतं नन्दः सप्त पदानि तम् ।
कुमारस्तु तदुत्क्षिप्य प्राकाराद् बहिरक्षिपत्
एकनारावनिर्भिन्नसप्ततालमहीतलः ।
छेद्यभेद्यास्त्रशस्त्रेषु स एवातिशयं ययौ
तततुल्यगुणां पत्नीं राजसूनुर्यशोधराम् ।
अवाप विश्रुतां लोके शुद्धशील इवोन्नतिम्
अत्रान्तरे महावातविच्युतः सप्तयोजनः ।
सरित्प्रवाहसंरोधं विदधे विपुलद्रुमः
सां स्फारतरुसंरुद्धा रोहिका नाम निम्नगा ।
शीलभ्रष्टेव वनिता प्रययौ प्रतिलोमताम्
राजपुत्रस्तमुत्क्षिप्य भङ्क्त्वा विक्षुप्य तं द्रुमम् ।
न्यवारयत् प्रजामत्स्यजलकल्लोलविप्लवम्
ततः कदाचिदुद्याने हंसं निशितयन्त्रिणा ।
देवदत्तेन निहतं कुमारः समजीवयत्
संतापं तद्विवादेन देवदत्तो ऽधिकं ययौ ।
न सहन्ते हि कुटिलास्तुल्यकुलगोणोन्नतिम्
कदाचिद् गोपिका नाम कुमारं राजकन्यका ।
कन्दर्परूपमालोक्य किमप्यौत्सुक्यमाययौ
शुद्धोदनः सुतस्थैतां ज्ञात्वा चित्तोचितां वधूम् ।
अपूरयद्विवाहेन मन्मथस्य मनोरथम्
नैमित्तिकास्ततो ऽभ्येत्य नृपमूचुः सुनिश्चयाः ।
पुत्रस्ते चक्रवर्ती वा मुनिर्वा सप्तमे ऽहनि
तच्छ्रुत्वा नृपतिः सूनोश्चक्राव्र्तिपदाप्तये ।
प्रव्रज्याचकितश्चिन्तां दिनसंख्यामयीं ययौ
लोलां सर्वः स्र्हियं वेत्ति शान्तस्थिरसुखामपि ।
अत्थापि भोगरक्तानां संपत्स्वेवादरः परम्
ततः कदाचिदुद्यानविहाराय नृपात्मजः ।
प्रययौ रथमारुह्य वल्गुतुङ्गतुरङ्गमम्
स विवर्णं जराजीर्णम् कीर्णशीर्णशिरोरुहम् ।
सुशुष्कपरुषाकारं ददर्श पुरुषं पथि
स तं दृष्ट्वा निजं कायमालोक्याचिन्तयच्चिरम् ।
अहो पर्याप्तपाको ऽयं कायस्यास्य जुगुप्सितः
वयः पर्याप्तमाप्तो ऽपि पर्याप्तं नाश्रयत्ययम् ।
अतीव पलितव्याजाज्जरा वृद्धं हसत्यसौ
शरीरे संततस्नायुपाशप्रोतास्थिपञ्जरे ।
वृद्धः पुष्णाति मन्ये ऽहमहो मोहविहङ्गमम्
सारथे किं करोत्येष किं न याति तपोवनम् ।
अस्ंकोचमेति वृद्धस्य देहेन सह सा मतिः
वृद्धो ऽवलम्बते यष्टिं न तु धर्ममयीं धियम् ।
जराकुटिलकायस्य स्वभावो निर्विवेकता
जुगुप्सां जनयत्येष वृद्धः प्रस्खलिताक्षरैः ।
वचोभिश्च्युतदन्ताभैर्गलल्लालालवाकुलैः
नष्टा दृष्टिः कृशः कायः शक्तिर्लुप्ता हता श्रुतिः ।
तथापि मोहाद् दृष्टैव वृद्धस्य तरुणीप्रिया
धत्ते धवलतां वृद्धः किमेतामतिगर्हिताम् ।
लोला परं विरक्तापि यद्यस्यातिप्रिया तनुः
इति चिन्तयतस्तस्य निर्वेदः समजायत ।
मन्यमानस्य सापायं कायं निचयमापदाम्
पुनश्च समये ऽन्यस्मिन्नपश्यद् व्याधितं नरम् ।
विपक्ककूणपप्रायं सपूयमिव पाण्डरम्
स प्रदध्यौ तमालोक्य समुद्दिश्य निजां तनुम् ।
अहो नु सहजैवास्मिन् काये रोगगणोद्गतिः
इदमेव महच्चित्रमियं मांसमयी तनुः ।
न याति क्लेदवैक्लव्यं क्षणं पर्युषीते ऽपि यत्
इति ध्यात्वा स सोद्वेगः शरीरविचिकित्सया ।
बभूव राज्यसंभोप्गरागे विगतितादरः
अथान्यस्मिन् क्षणे माल्यवस्त्राच्छादितविग्रहम् ।
ददर्श देहसत्कारव्यग्रबन्धुजनं शवम्
तं दृष्ट्वा सहसोद्वेगदयादुःखघृणाकुलः ।
चिरं निःसारसंसारपरिहारमचिन्तयत्
एष प्रेतवनं याति संसक्तां हृदये वहन्
अहो नु विषयाभ्यासविलासाध्यवसायिनाम् ।
नृणामन्त्यक्षणे कष्टा काष्ठपाषाणतुल्यता
उद्वेगवारिभवसागरबुद्बुदे ऽस्मिन् कालानिलाकुलितकर्मलताग्रपुष्पे ।
मायावधूनयनविभ्रमसंविभागे पुंसां क एष वपुषि स्थिरताभिमानः
नोक्तं किंचित् परहितयुतं न श्रुतं धर्मयुक्तं
नैव घ्रातं कुशलकुसुमं सत्यरूपं न दृष्टम् ।
नैव स्पृष्टं शमपदमिति व्यक्तमासक्तचिन्ता-
विश्रान्तो ऽयं वहति सहसा निश्चलत्वं गतायुः
राजसूनुर्विचिन्त्येति शरीरं विपदाप्लुतम् ।
अशेषविषयासङ्गे पराम् नः स्नेहताम् ययौ
अथाग्रे निर्मितं देवैः स शुद्धावासकायिकैः ।
व्यलोकयत् प्रव्रजितं पात्रकाषायधारिणम्
तं दृष्ट्वैव बभूवास्य प्रव्रज्याभिमुखी मतिः ।
ईप्सितालोकनप्रीत्या स्वभावो हि विभाव्यते
विराग्यकारणम् तत्र नृपसूनोः पदे पदे ।
विलोक्य सारथिः सर्वं क्षितिपाय व्यनेदयत्
कुमारो ऽथ पितुर्वाक्यात् ग्रामालोकनकौतुकी ।
व्रजन् पथि निधानानि विवृतानि व्यलोकयत्
तत्पूर्वपुरुषन्यस्तैः स्त्रीकरैरुत्थितान्यपि ।
यदा स नाग्रहीत्तानि तदा विविशुरम्बुधिम्
ततः स कर्षकान् पांशुव्याप्तपाण्डुशिरोरुहान् ।
विदीर्णपाणिचरणान् क्षुत्पिपासाश्रमातुरान्
हलकद्दालविषमोल्लेखपक्षव्रणादितान् ।
विलोक्य क्लेशविवशान् बभूव करुणाकुलः
विधाय दयया तेषां द्रविणौरदरिद्रताम् ।
स वृषाणां वृषरतः क्लेशमुक्तिमकारयत्
ततः प्रतिनिवृत्तो ऽथ सानुजः पार्थिवात्मजः ।
मध्याह्नपृथुसंतापे तरलस्तरणित्विषः
रथघोषोन्मुखशिखिश्यामीकृतदिगन्तरः ।
स्वेदवारिकणाकीर्णः प्रभास्निग्धवनस्थलीम्
सो ऽवरुह्य रथात्तत्र गण्डस्खलितकुण्डलह् ।
विश्राण्त्यै विश्रुतयशा जम्बुच्छायामशिश्रियत्
स बभारोरसि व्यक्तां स्वेदाम्बुकणसंततिम् ।
वपुराश्लेषललितां हारस्येव कुटुम्बिनीम्
छायासु परिवृत्तासु शनकैः सर्वशाखिनाम् ।
तस्य जम्बूतरुच्छाया न चचाल तनुस्तनोः
सा तस्य शीतलच्छाया तापक्लान्तिमवारयत् ।
संसारविरतस्येव तीव्रवैराग्यवासना
पुत्रदर्शनसोत्कण्ठस्तं देशमथ भूपतिः ।
आजगाम गजोत्सर्पत्रस्तभ्रमरचामरः
छायां स निश्चलां दृष्ट्वा कुमारस्य प्रभावतः ।
गौरवाद्भुतसंप्राप्तः प्रणतं प्रणनाम तम्
ततः स सहितः पित्रा नगरं गन्तुमुद्यतः ।
अपश्यत् पुरपर्यन्ते श्मशानं शवसंकुलम्
स दृष्ट्वा कुणपाकीर्णमशिवं शिवकाननम् ।
सोद्वेगं सारथिं प्राह स्थगितस्यन्दनः क्षणम्
सारथे पश्य जन्तूनां कायापायमतीं दशाम् ।
दृष्ट्वेदमपि रागार्द्रं मनो मोहप्रमादिनाम्
परस्त्रीदर्शनात्तृप्तं नेत्रमास्वाद्य सादरम् ।
अस्यासत्यवती जिह्वा पश्य काकेन कृस्यते
अस्याः स्तनमुखन्यस्तनखोल्लेखसुखस्थितिः ।
ख्ण्डयत्यधरं गॄध्रः कामीव मदनिर्भरह्
एते दृष्टनिषक्टवायसशकृन्निष्ठिविनः पादपा
मूर्च्छन्तीव विपाकपूयकुणपाघ्राणेन निष्कूणिताः ।
दृष्ट्वा गृध्रविदार्यमाणमसकृत् कीर्णार्द्रतन्त्र शवं
भूयो वातविलोलपल्लवकरैराच्छादयन्तीव च
क्षीबस्येवाचलस्य द्रुतहृतहृदया जम्बुकी कण्ठसक्ता
रक्ताभिव्यक्तकामा कमपि नखमुखोल्लेखमासुत्रयन्ती ।
आस्वाद्यास्वाद्य यूनः क्षणमधरदलं दत्तदन्तव्रणाङ्कं लग्नानङ्गक्रियायामियमतिरभसोत्कर्षमाविष्करोति
इत्युक्त्वा जातविरतिर्भवबीभत्सकुत्सया ।
कलयन् क्लेशनिर्वाणं प्रविवेश पुरान्तरम्
तत्र हर्म्यगतापश्यत् तं कन्याभिजनोज्ज्वला ।
मृगजा नाम मृगजानोदिनी मृगलोचना
सरागतरला दृष्ट्ः श्रोत्रसंचारिणी परम् ।
अभूत्तद्दर्शने तस्याः सहसैव विरेकिणी
सा तदालोकनेनैव बाला लज्जासहिष्णूना ।
स्मरेणेव समाकृष्टा सखीं प्राह पुरःस्थिताम्
का धन्या ललना लोके स्पर्शेनास्य शशित्विषः ।
यस्या मदनसंतप्ता तनुर्निर्वाणमेष्यति
निर्वाणशब्दं श्रुत्वैव राजपुत्रः समीहितम् ।
तां ददर्शोन्मुखः पद्मवनानीव दिशन् दृशा
स तस्यास्तेन वचसा वपुषा व प्रसादितः ।
हारं सुवृत्तं चित्तं च विक्षेपास्यै गुणोज्ज्चलम्
आलोकनानुकूल्येन भावं विज्ञाय भूपतिः ।
पुत्रस्यान्तःपुरपदे तामादाय न्यवेशयत्
षण्णां काण्तासहस्राणां वृतमन्तःपुरं ततः ।
विवेश राजतनयः प्रियां शान्तिं विचिन्तयन्
अत्राण्तरे नरपतिं प्राहुर्नैमित्तिकाः स्फुटम् ।
मुनिर्वा चक्रवर्ती वा प्रातस्ते बह्विता सुतः
ततः संचिन्त्य नृपतिः प्रव्रज्याम् चकितः परम् ।
अकारयत् पुरद्वारगुप्तिं रुद्धगमागमाम्
द्रोणोदनमुखान् भ्रातॄन् द्वारेषु विनिवेश्य सः ।
नगरस्य स्वयं मख्ये तथा सामात्यसैनिकः
राजपुत्रादथ प्राप्तगर्भा देवी यशोधरा ।
वभाषे शारदीव द्यौः प्रत्यासन्नेन्दुपाण्डुरा
एकरात्रावशेषे ऽथ नगरद्वाररक्षणे ।
शमप्रवृत्तार्कमभूत् प्रव्रज्याभिमुखं दिनम्
चिरं विचर्य संसारं शान्तिं याते दिवस्पतौ ।
काषायाम्बरमालम्ब्य ययौ संध्यावदृश्यताम्
अशेषाशातमोमोहविरामविमलां शनैः ।
इन्दुर्गामुदितश्चक्रे पूर्णालोकविलोकिनीम्
सरागतापे वभसश्चेतसीव गते रवौ ।
शुद्धेन्दुहृदयस्याभूत् प्रसादः को ऽप्यविप्लवः
अथास्मिन्नन्तरे कान्तासंततान्तःपुरोदरे ।
रत्नहर्म्यप्रविष्टेन्दुद्युतिसंदोहहासिनि
निःसारविरसं सर्वं राजसूनुर्विलोकयन् ।
जगाअ गगनस्वच्छस्वच्छन्दोच्छलितस्मृतिः
गणो ऽयं नारीणां मदनदहनोल्कापरिकरः
परित्याज्यस्तीव्रव्यसनशतसंतापसचिवः ।
इदानीं युक्ता मे तरुतललताशीतलरे
परित्यक्तागारप्रशमसुखसारे परिणतिः
एताश्चन्द्रद्युतिमदमया यामि नार्यो वने ऽस्मिन्
निद्रामुद्रानियमितदृशः संस्तरस्रस्तवत्राः ।
स्वप्नोत्पन्नानुचितवचनाः केशसंछादितांसाः
क्षिप्रं मन्दानिलविचलितान् लज्जयन्तीव दीपान्
सरलस्रस्तगात्राणां निर्लज्जानां विवाससाम् ।
सुप्तानां च मृतानां च भेदः को नाम देहिनाम्
इति तस्य ब्रुवाणस्य संजाते गमनोद्यमे ।
मिथः कथा समभवन्नगरद्वाररक्षिणाम्
भो भोः कः को ऽत्र जागर्ति जाग्रतो नास्ति विप्लवः ।
प्रभुचित्तग्रहव्यग्राः समग्रा एव जाग्रति
जागर्ति संसारगृहे मनीषी मोहाण्धकारे स्वपिति प्रमत्तः ।
ज्जीवितमेव लोके मृतस्य सुप्तस्य च को विशेषः
इति मर्ह्यस्थितः श्रुत्वा रात्रौ राजसुतः कथाः ।
प्रस्थितं सत्पथेनेव निजं मेने मनोरथम्
निवॄत्तेर्लक्षणं दृष्ट्वा स स्वप्नं क्षणनिद्रया
ततः प्रबुद्धा सहसा त्रस्ता देवी यशोधरा ।
तत्कालोपनतं स्वप्नं दयिताय न्यवेदयत्
पर्यङ्काभरणान्गानि स्वप्ने भग्नानि मे विभो ।
श्रीर्व्रजन्ती मया दृष्ट्वा चन्द्रार्कौ च तोरिहितौ
इत्याकर्ण्य स तामूचे मुग्धे सत्यविवर्जितः ।
संसार एव स्वप्नो ऽयं स्वप्ने स्वप्नो ऽपि कीदृशः
स्वप्ने ऽद्य नाभिसंजाता लता व्याप्ता विहारसा ।
मेरूपधानशिरसा पूर्वपश्चिमवारिधौ
भुजाभ्यां चरणाभ्याम् च दक्षिणाब्धिर्मया धृतः ।
भद्रे स्वप्नः शुभो ऽयं ते स्त्रीणां भर्तुशुभं शुभम्
इत्युक्ते बोधिसत्त्वेन नोचे किंचिद् यशोधरा ।
पुनश्च निद्राभिमुखी बभूव मीलितेक्षणा
शक्रब्रह्ममुखाः सर्वे समेत्याथ सुधाभुजः ।
चक्रिरे बोधिसत्त्वस्य सत्त्वोत्साहप्रपूरणम्
तैर्देवपुत्राश्चत्वारः समादिष्टा महाजवाः ।
सहाया गमने तस्य भूशैलाब्धिधृतिक्षमाः
शक्रादिष्टेन यक्षेण पाञ्चिकाख्येन निर्मितैः ।
सहर्म्यासक्तसोपानैरवतीर्य विनिर्ययौ
सुप्तं सारथिमादाय छन्दकाख्यं प्रबोध्य सः ।
उत्सादमिव जग्राह कण्ठकाख्यं तुरङ्गमम्
तं तीक्ष्णरुचिरं लक्ष्मीकटाक्षतरलं हरिम् ।
स चक्रे संयमालीनं मूर्धि संस्पृश्य पाणिना
शमोद्यमे सुमनसा स् अको ऽप्यन्तर्बहिः समह् ।
शिशवो ऽपि विमुञ्चन्ति यत्प्रभावेण चापलम्
बलजिज्ञासया न्यस्तं तेनाथ चरणं क्षितौ ।
न ते कम्पयितुं शेकुर्देवपुत्राः सविस्मयाः
छन्दकेन सहारुह्य निस्तरङ्गं तुरङ्गमम् ।
स जगाहे महद्व्योम विमलं स्वमिवाशयम्
प्रययौ तरलावर्तिनर्तितोष्णीषपल्लवः ।
संसर्पिपवनोल्लसैः शोकोच्छ्वास इव श्रियः
तस्याभरणरत्नांशुलेखाभिः शबलं नभः ।
जग्राह सूत्रपत्रालीविचित्रम्जिव चीवरम्
कीर्णाश्रुबिन्दुकलिता विलोलनयनोत्पलाः ।
व्रजन्तं ददृशुर्दृश्यास्तमन्तःपुरदेवताः
संसारमिव विस्तीर्णं पुरं सनृपबान्धवम् ।
दूरात् प्रदक्षिणीकृत्य क्षम्यतामित्यभाषत
क्षपायां क्षणशेषायाम् जने निद्राभिमुद्रिते ।
तं ददर्श महान्नाम प्रबुद्धो राजबान्धवः
दिवि दृष्ट्वा व्रजन्तं तं शशाङ्कशङ्कया हृतः ।
ऊचे चिरं विचार्योच्चैर्बाष्याzन्चितविलोचनह्
चित्रमेतद् विरक्तव्तं बन्धुजीवोपमस्य ते ।
कुमार रुचिराकार न युक्तं युक्तकारणम्
वंशोत्कर्षविशेषार्थू निबद्धाशः पिता त्वयि ।
कस्मान्निराश क्रियते सर्वाशाभरण त्वया
इति शाक्यस्य महतः श्रुत्वा वाक्यं नृपात्मजः ।
तमूचे बान्धवप्रीतिर्बन्धो वन्धनशृङ्खला
अयं कायः क्षयं याति मिथ्यागृहसुखप्रियः ।
विषयोग्रविष्र्तानाममृतायतनं वनम्
हस्ताकृष्टस्त्रिफणिफणभृन्मस्तकन्यस्तमृत्यु
कण्ठाबद्धित्कटविषलतापल्लवालोलमालः ।
दीप्ताङ्गारप्र्करगहनं गाहते दुर्गमार्गं
संसारे ऽस्मिन् विषयनिचये सप्रमोदः प्रमादी
इत्युदीर्य व्रजन् व्योम्ना विलङ्घ्य नगरं क्षणात् ।
बहिर्भूतलमभ्येत्य स ययौ वाजिना जवात्
महता शाक्यमुख्येन बोधितस्याथ भूपतेः ।
अन्तःपुरे च कान्तानामुद्भूतः करुणः स्वरः
अथ ब्रह्मेन्द्रधनदप्रमुखस्त्रिदशैर्वृतः ।
राजसूनुर्वनं प्राप गत्वा द्वादशयोजनम्
अवरुह्याथ तुरगात्ग् विमुच्याभरणानि सः ।
उवाच सूचितानन्दश्छन्दकं वदनत्विषा
गृहीत्वाबह्रणानि त्वं हयं च व्रज मन्दिरम् ।
मेदानीमस्ति मे कृत्यमेतैर्मायानिबन्धनैः
वने ऽस्मिन्नहमेकाकी शमसंतोषबान्धवः ।
एकः संजायते जन्तुरेक एव विपद्यते
विषमविषययोगं भोगमुत्सृज्य रे कः सरसरति विशेषक्लेशशोषप्रवृत्तः ।
परिभवभुवने ऽस्मिन्नेष नः संनिवेशः शमितमदनकान्तिः शान्तिमेव श्रयामि
इत्युक्त्वाभरणान्यस्य दीप्तान्यङ्के मुमोच सः ।
त्यक्तशोकान्वितानीव मुक्तापक्कणसंचये
चूडां निस्कृष्य खङ्गेन स चिक्षेप नभःस्थले ।
शक्रश्च तम् समादाय निनाय दिवमादरात्
केशः क्लेश इवोत्कृत्तो यत्र तेन महात्मना ।
केशप्रतिग्रहं चैत्यं सद्भिस्तत्र निवेशितम्
छन्दको ऽप्यश्वमादायं प्रयातः सप्तभिर्दिनैः ।
शनैः प्राप पुरोपान्तं शोकार्तः समचिन्तयत्
शून्यं तुरगमादाय परित्यज्य नृपात्मजम् ।
द्रष्टुं शक्नोमि नृपतिं कथं पुत्रप्रलापिनम्
विचिन्त्येति हयं त्यक्त्वा स तत्रैव व्यलम्बत ।
शून्यासनः परं वाजी मूर्तः शोक इवाविशत्
तं दृष्ट्वान्तः पुरजनः सामात्यश्च महीपतिः ।
प्रतिप्रलापमुखराश्चक्रिरे निखिला दिशः
उद्भूतार्तस्वरैः कण्ठैः सोत्कण्ठैः स विषादवान् ।
सर्वैर्गृहीतकीर्णाश्रुर्वाजी जीवितमत्यजत्
स बोधिसत्त्वसंस्पर्शपुण्यप्राप्तिपवित्रितः ।
जग्राह ब्राह्मणकुले जन्म संसारमुक्तये
शक्रदत्तं कुमारस्तु यत्र काषायमग्रहीत् ।
काषायग्रहणम् तत्र चैत्यं चक्रे महाजनः
विभवमभववृत्त्यै जन्म जन्मप्रमुक्त्यै
विजनमपि जनानां मोहगर्तान्निवृत्त्यै ।
इति स कुशलकामः काममुत्सृज्य भेजे
गुणकृतजनरागः श्लाघ्यतां त्यक्तरागः
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0