भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 23

23.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां पितापुत्रसमादानम् नाम द्वाविंशतितमः पल्लवः ॥
23. विश्वंतरावदानम् ।
चिन्तारन्तादध्करुचयः सर्वलोकेष्वनिन्द्या
वन्द्यास्ते ऽन्यैः पुरुषमणयः के ऽप्यपूर्वप्रभावाः ।
येषां नैव प्रियमपि परं पुत्रदारादि दत्वा
सत्त्वार्थानाम् भवति वदनम्लानता दैन्यदूती

23.2

भगवान् भिक्षुभिः पृष्टः पुरा शाक्यपुरे जिनः ।
जगाद पूर्ववृत्तान्तं देवदत्तकथान्तरे

23.3

पुरी बभूव विश्वाख्या विश्वासवसतिः श्रियः ।
विश्वोपकारसक्तस्यसुकॄतस्येव जन्मभूः

23.4

संजयाख्यो ऽभवत् तस्याममित्रतिमिरांशुमान् ।
नेत्रानन्दसुधासूतिर्विचित्रचरितो नृपः

23.5

तस्य विश्वंतरो नाम वदान्यस्तनयो ऽभवत् ।
अपूर्वत्यागिना येन हृतं कल्पतयोर्यशः

23.6

ईर्ष्याविरहितास्तुल्यं विदग्धेन प्र्साधिताः ।
सत्येन भारती येन दानेन श्रीः श्रुतेन धीः

23.7

अद्यापि यस्य दिक्कान्ताकर्णाभरणताम् गतम् ।
विभाति केतकीगर्भपलाशविशदं यशह्

23.8

स कदाचिद्ददौ दिव्यरत्नालकारमर्थिने ।
अथं विजयसाम्राज्यमनोरथहरं त्विषा

23.9

दत्ते रथवरे तस्मिन् विस्मयेनाखिलो जनः ।
बभूवाक्राण्तहृदयश्चिन्तया च नरेश्वरः

23.10

महामात्यानथाहूय हर्षहीनो महीपतिः ।
उवाचोपचितोद्वेगचिन्ताक्रान्तमनोरथह्

23.11

दत्तो रथः कुमारेण स जैत्रः शत्रुमर्दनः ।
यत्प्रभावार्जिता सेयं महारथवरूथिनी

23.12

लक्ष्मी सुखनिषण्णा मे याता निश्चलताम् तया ।
रथे सौर्यपथे तस्मिन् जयकुzन्जे च कुञ्जरे

23.13

इति राजवचः श्रुत्वा तमभाषन्त मन्त्रिणः ।
राजन् दोषस्तवैवायं वात्सल्येन प्रमाद्यतः

23.14

धर्मः कस्य न हर्षाय दानं कस्य न संमतम् ।
किं तु मूलहताद्वृक्षान्निवर्तन्ते पलार्थिनः

23.15

विक्रीतः परदेशे च रथस्तेन द्विजन्मना ।
इत्युक्त्वा मन्त्रिणः सर्वे शल्यविद्धा इवाभवन्

23.16

अथ कालेन संप्राप्ते वसन्ते मदनोत्सवे ।
विपाके सुकृतस्येव हृदयानन्ददायिनि

23.17

स्वयंग्रहोपजीव्यस्य मधोर्मधुकरार्थिनः ।
लोकः पुष्पवनैर्यातो यशोभिरिव शुभ्रताम्

23.18

अशोकं लोकसच्छायमुपकारोद्यतं द्रुमम् ।
मधु विधूतं संनद्धे कलिकालं कृतं जगत्

23.19

राजपुत्रः समारुह्य कुञ्जरं राजवर्धनम् ।
ययौ फुल्लान् वने द्रुष्टुमर्थिकल्पतरुस्तरून्

23.20

व्रजन्तं प्रति सामन्तप्रयुक्तातं द्विजाः पथिः ।
बभाषिरे समभ्येत्य स्वस्तिवादपुरःसराः

23.21

चिन्तामणिर्गीयसे त्वं श्लाघ्यो जगति जङ्गमः ।
यस्य संदर्शनेनार्थी गाढमालिङ्ग्यते श्रिया

23.22

द्वावेव विश्रुतोत्कर्षविदेषौ भद्रजन्मनि ।
दानार्द्रहस्तस्त्वं लोके गजश्चायं स्थिरोन्नतिः

23.23

अस्मभ्यं सुकृत्प्दार कुञ्जरो ऽयं प्रदीयताम् ।
त्वदन्येन वदान्येन दातुमेष न शक्यते

23.24

इत्यर्थितस्तैः सोत्साहः स तेभ्यस्तु ददौ द्विपम् ।
सजीवमिव साम्राज्यं सशङ्खध्वजचामरम्

23.25

दत्वा बोधिप्रधानेन प्रणिधानेन शुद्धधीः ।
रथरत्नं द्विपेन्द्रं च सो ऽभूदानन्दनिर्भरः

23.26

श्रुत्वैव नृपतिर्दत्तं विश्रुतं जयकुzन्जरम् ।
रक्षाप्रकाररहितां राजलक्ष्मीममन्यत

23.27

स राज्यभ्रंशभीतेन कुपितेन महीभुजा ।
निष्कासितः कुमारो ऽथ प्रतस्थे प्रणिपत्य तम्

23.28

माद्रीदयितया सार्धं जालिनं नाम दारकम् ।
कृष्णाभिधां तथा कन्यामादाय स ययौ वनम्

23.29

वने ऽपि शेष ं स ददौ वाहनादिकमर्थिने ।
समं हि महतां सत्त्वं संपत्सु च विपत्सु च

23.30

माद्य्रां कदाचिद्यातायां पुष्पमूलफलाप्तये ।
ब्राह्मणःकश्चिदभ्येत्य राजपुत्रमभाषत

23.31

परिचारकाहीनाय चतुरौ बालकाविमौ ।
देहि मह्यं महासत्त्वं सर्वदो ह्यसि विश्रुतः

23.32

श्रुत्वैतदविचार्यैव दारकौ दयितौ परम् ।
दत्वा स तस्मै सहसा सेहे तद्विरहव्यथाम्

23.33

धनपुत्रकलत्रादि लोके कस्य नवल्लभम् ।
दानादन्यद्वदान्यानां न दयावताम्

23.34

अथ माद्री समभ्येत्य बालकौ बालवत्सला ।
अपश्यन्ती पुरः पत्युः पतितापन्नमूर्च्छिता

23.35

सा लब्धसंज्ञा दीप्तेन व्याप्ता शोककृशानुना ।
शिशुप्रदानवृत्तान्तं श्रुत्वैवाभूत्पलापिनी

23.36

तस्याश्चेतसि दुःखाग्निरपत्यस्नेहदुःसहः ।
प्रियप्रेमानुसृत्यैव प्रययौ पुटपाकताम्

23.37

अत्राण्तरे समभ्येत्य विप्ररूपः सुरेश्वरः ।
भृत्यार्थी दयिताम् पत्नीं राजपुत्रमयाचत

23.38

याचितस्तेन सहसा शुचं जायावियोगजाम् ।
धिया संस्तभ्य सत्त्वाब्धिः स तस्मै विततार ताम्

23.39

सद्यः प्रदानतरलां संत्रस्तां हरिणीमिव ।
सो ऽवदद्दयितामन्तः कलयन् बोधिवासनाम्

23.40

समाश्वासिहि कल्याणि न शोकं कर्तुकर्हसि ।
स्वप्नप्रणयकल्पो ऽयमसत्यः प्रियसंगमः

23.41

शुश्रूषया द्विजस्यास्य धर्मे ते रमताम् मतिः ।
विलोललोकयात्रायां धर्मः स्थिरसुहृत् सताम्

23.42

दृष्ट्वा सर्वे स्वजनसुजना बान्धवाश्चानुभूताः
न्यस्ता कण्ठे क्षणपरिमलम्लायिनी मित्राला ।
दारे पुत्रे क्षपितमनिशं यौवनं जीवितं च
प्राप्तो नाप्तश्तिरपरिचयः को ऽपि धर्मादृते ऽन्यः

23.43

इत्युक्त्वा वल्लभां लोभपरित्यागादुवाह सः ।
द्युतिं वदनपद्मेन धैर्यवृत्तिं च चेतसा

23.44

वियोगशोकविकलां माद्रीं दृष्ट्वा कृपाकुलः ।
निजरूपं समाधाय शचीपतिरुवाच् अताम्

23.45

विषादं मा कृथाह् पुत्रि देवो ऽहं त्रिदशेश्वरः ।
अर्थिभ्यस्त्वा ददात्येष तस्मादसि मयर्थिता

23.46

अधुना सैव पत्युस्त्वं न्यासीभूता मयार्पिता ।
तं ददात्येष नान्यस्मौ दीयते कथम्

23.47

करिष्यामि तवावश्यं दारकाभ्यां समागमम् ।
इत्युदीर्य सहस्राक्षः सहसाण्तरधीयतः

23.48

अथ तौ दारकौ विप्रः समादायार्थलिप्सया ।
विश्वामित्रपुरं गत्वा लोभाद्वोक्रेतुमुद्यतह्

23.49

विश्यामित्रः परिज्ञाय राजपुत्रस्य दारकौ ।
जग्राह महतार्थेन बाष्पसंरुद्धलोचनः

23.50

कालेन त्रिदिवं याते विश्वामित्रमहीपतौ ।
भेजे विश्वंतरो राज्यं पौरामात्यगणार्थितः

23.51

राज्ये विरक्तस्य तस्य दानव्यसनिनः परम् ।
सत्त्वेन वर्धमानर्द्धिर्न कश्चिद् याचको ऽभवत्

23.52

तद्वित्तपूर्णविभवो ब्राह्मणः सो ऽपि जम्बुकह् ।
कृतघ्नः स्वप्रभावान्मे संपदित्यभ्यधाज्जनम्

23.53

विश्वंतरः स एवाहम् देवदत्तः स च द्विजः ।
उक्त्वेति चक्रे भगवान् भिक्षूणां दानदेशनाम्

23.54

आलम्बनं श्वभ्रशतावपाते घोरान्धकारे सुचिरप्रकाशः ।
आश्वासनं दुःसहदुःखकाले दानम् नराणां परलोकबन्धुः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc