भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 22

22.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां जेतवनप्रतिग्रहावदानं नाम एकविंशं पल्लवः ॥
22. पितापुत्रसमादानम् ।
अहो महार्हं मणिवन्महत्त्वं भव्या भजन्ते गुणगौरवेण ।
विना गुणं यद्वपुषाम् गुरुत्वं स्थूलोपलानामिव निष्फलं तत्

22.2

श्रीमान् पुरा शाक्यपुरे नरेन्द्रः शुद्धोदनः शुद्धिसुधानिधानम् ।
वैराग्ययोगात्सुगतत्वमाप्तं स्मृत्वा सुतं सुत्सुकतामवापं

22.3

सो ऽचिन्तयत्पुण्यगुणाधिवासं सरस्वतीवाससरोरुहश्रि ।
मनः प्रसादस्य विलाससौधं द्रक्षामि सूनोर्वदनं कदाहम्

22.4

एहीति तद्दर्शनलालसेन ये ये मया जेतवनं विसृष्टाः ।
ते ते तदालोकननिर्निमेषं तत्रैव तिष्ठन्त्यमृतं पिबन्तः

22.5

संप्रेषितस्तस्य मया स नाययौ यो ऽप्यात्मतुल्यं प्रणयादुदायी ।
स लेखहस्तस्त्रिदिवाभिरामे तत्रैव लेखत्वमिराभियातः

22.6

संदेशवाक्यं प्रहितं मया यत् तद्विस्मृतं तस्य मुखेन नूनम् ।
सर्वो हि नाम स्वहिताभिलाषी धत्ते परार्थे किल शीतलत्वम्

22.7

विलोकनेनैत्य निषिञ्च तूर्णं पीयूषपूरेण ममाङ्गसङ्गम् ।
निःसङ्गतो विश्रमतां मुहूर्तं दयाविधेयः कुरु बन्धुकार्यम्

22.8

इत्येतदाकर्ण्य कथाम् स कुर्यात् क्षणं विलम्बं मम दर्शने ऽपि ।
तच्चेतसः पल्लवपेशलस्य न हि स्वभावः प्रणयावभङ्गः

22.9

मनोरथेनेति पुरः प्रयाते तद्दर्शनायेव धराधिनाथे ।
प्रव्रज्या व्यञ्जिततत्प्रसादः समाययौ हर्षरसादुदायी

22.10

दृष्ट्वा तमानन्दविपूर्णमानसं प्रव्रज्यया तत्सदृशानुभावम् ।
उत्कण्ठितः कुण्ठितधैर्यवृत्तिः संमोहमूर्च्छां नृपतिः प्रपेदे

22.11

स लब्धसंज्ञः शिशिरैः पयोभिः पप्रच्छ तं किं नु समेष्यतीति ।
सो ऽप्यब्रवीद्देव दिनैर्भवन्तमसंभृतैः सादरमेष्यतीति

22.12

ततः प्रयातेषु दिनेषु केषु व्योम्ना शनैर्भिक्षुगणानुयातः ।
सहाययौ नाकसदाम् निकायैः सर्वार्थसिद्धैर्भगवान् कुमारः

22.13

द्युसुन्दरीपाणिसरोजमुक्तमन्दारमालाकलितश्चकाशे ।
स्वर्गीयगङ्गास्फुटफेनकूटविलासहासाङ्ग इवामराद्रिः

22.14

संघट्टभिन्नाभ्रसखैः स्खलिद्भिः सशब्दजाम्बूनदकिङ्किणीकैः ।
बभुर्विमानैः ककुभां मुखानि भक्त्येव शास्तुर्विहितस्तवानि

22.15

निरन्तरैरन्तरिवार्कतारैः सुरैः सविद्याधरसिद्धसंघैः ।
पर्याप्तसंसक्तसितातपत्रैर्व्याप्तः समाप्तिं गगनं जगाम

22.16

तं सर्वलोकोपकृतिप्रपन्नं सर्वाकृतिं सर्वमयावभासम् ।
समापतन्तं नभसो ऽथ दिग्भ्यः क्षितेश्च सर्वे ददृशुः क्षणेन

22.17

प्रहर्षराशिं जनलोचनानां पुण्यप्रमाणं सुकृतोत्सवानाम् ।
लोकस्तमालोकनिधिं विलोक्य समुल्ललन्नुच्छलिताद्भुतोर्मिः

22.18

आश्चर्यभूतं रुचिरप्रभावमुदायिना सूचितमाकलय्य ।
जगद्गुरुं भूमिपतिः कुमारं कृताञ्जलिस्तं प्रणनाम दूरात्

22.19

अथावतीर्यार्यजनानुयातः संपूज्यमानः प्रणयेन राज्ञा ।
स्फीटप्रभाभासितदिग्विभागां न्यग्रोधिनीं रत्नभुवम् विवेश

22.20

हेमासनं शासनसंनिविष्टलोकत्रयः संगतपादपीठम् ।
स तत्र रत्नाङ्कुरचित्रपत्रं भास्वद्वपुर्मेरुन्

22.21

तन्मानसेन्दोर्नयनामॄतौघं मनोरथप्रार्थनयोपयातम् ।
विलोकयन्निर्वृतिनिर्निमेषः क्षणं क्षितीशस्त्रिदशत्वमाप

22.22

स तं जगादाश्रुनिरुद्धकण्ठः सोत्कर्षहर्षाकुलितं कुमारम् ।
हाराग्ररत्नप्रतिबिम्बसक्तं प्रवेशयन् प्रीतिरसादिवान्तः

22.23

संतोषशीताचलवत् स्वभावात् सर्वे रमन्ते कुशलस्थलीषु ।
कृतस्त्वयास्माकमयं तु कस्मात् सत्सूपकारी विरहोपदेशः

22.24

स्नेहात्प्रमोदाद्गुणगौरवाच्च धीर्धावतीयं त्वयि मे प्रसह्य ।
आलिङ्गनाय स्थिरसंगमाय पादप्रणामाय च तुल्यमेव

22.25

यद्वस्तु किंचिद्गदितं मया तत् श्रोतव्यमेव प्रणयोपरोधात् ।
गुणोज्झितं वा विरसक्रमं वा न स्नेहमोहस्य भवत्यवाच्यम्

22.26

प्रत्यर्णरत्नप्रतिबिम्बितार्कप्रौढप्रभाप्रावरणान्यमूनि ।
त्वं हेमहर्म्याणि विहाय कस्मात् विगाहसे शून्यवनान्तराणि

22.27

कान्ताकरावर्जितहेमकुम्भसत्सौरभाम्भःप्रवराभिषिक्तः ।
एकः कथं स्नासि विकासिपांशुसंतप्ततोयासु मरुस्थलीषु

22.28

गण्डस्थलात् कुण्डलरत्नकान्ति किं लम्बितं मण्डनमेव वेत्सि ।
कस्मादकस्मात्तव निःसुखस्य न चन्दनं नन्दनमिन्दुशुभ्रम्

22.29

महाविताने शयने नृपार्हे शेषे न किं शेषविशेषशुभ्रे ।
लक्ष्मीनवालिङ्गनभोगयोग्या कथं तनुस्ते सहते कुशय्याम्

22.30

कान्तास्मितोर्मिप्रतिमांशुकार्हं किं चीवरस्योचितमेतदङ्गम् ।
पाणौ च लीलाकमलास्पदे ऽस्मिन् पात्रं कथं ते प्रियमद्य जातम्

22.31

अयं विहारस्तव कण्ठपीठः सोत्कण्ठकान्ताभुजबन्धनार्हः ।
संभोगलक्ष्मीक्षपितप्रमोदः करोत्यकस्मात् प्रणयावभङ्गम्

22.32

रूपं विलक्षीकृतपुष्पचापं मत्तेभकुम्भोच्चकुचा विभूतिः ।
रतेर्विलास्प्पवनं वयश्च केनासमस्ते कलितो विरागः

22.33

श्रत्वेति तं शीलनिधिर्बधाषे शशाङ्कलेखाललितस्मितेन ।
संक्रान्तनानानृपरत्नरागां कुर्वन्नलक्षामिव राजलक्ष्मीम्

22.34

राजन् जरारोगहतेव न स्यात्तरङ्गलोला यदि जीववृत्तिः ।
तत्कस्य न स्यादनिशं प्रहर्षपीयूषवर्षी विषयाभिलाषः

22.35

शमामृतास्वादनसुस्थिराणामपातनं शून्यवनान्तभूमेः ।
विभूतिलीलामदविह्वलानां हर्म्याणि पर्यन्तनिपातनानि

22.36

सकुङ्कुमैः स्नान्तिः नृपाः पयोभिः सरागतां यैः सततं प्रयान्ति ।
संतोषशीलस्तु मनः प्रसादशुद्धाम्बुधौता विमलीभवन्ति

22.37

श्रोत्रं श्रुतेनैवन कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणाकुलानां परोपकारेण न चन्दनेन

22.38

एतानि मोहाहतवल्लभानि संसक्तमुक्तांशुसितस्मितानि ।
सतां न भोग्यानि भवन्ति भूभृदुच्छिष्टशिष्टानि विभूषणानि

22.39

रागातुराणां रितुपापितानां निद्रा धनध्यानवतां न नाम ।
शय्यासु सुस्पर्शवतीषु राज्ञा सर्वत्र शान्तः सुखमेव शेते

22.40

निर्मोककान्तेन वराम्शुकेन भुजङ्गवृत्तिर्न तु चीवरेण ।
पात्रं पवित्राणि समाप्लितानि पीयूषमैत्राण्यशनानि सूते

22.41

छत्राणि वक्र्क्रं भृशमप्रकाशं मनिविलोलं व्यजनानिलौघाः ।
संसक्तजाङ्यं हृदयं नृपाणां कुर्वन्ति हारा हरिचन्दनार्द्राः

22.42

वियोगरोगानुगता विभूतिः कान्ताह् क्षणान्ता विरसो विलासः ।
यस्मिन्नपायः सततानुशायी स कस्य भोगः सुभगोपयोगः

22.43

जाड्यं सजृम्भं जनयत्यजस्रं तनोति तृष्णाभ्रममोहमूर्च्छाः
करोत्यसह्यं सरसत्वमेव भोगोपभोगः प्रसभप्रयोगः

22.44

यदा सुखश्रीर्नवचन्द्रलेखा प्रभातपुष्पाण्यपि यैवनाणि ।
कर्मोर्मिमालाग्रहणं शरीतं तदा ममायं गमितो ऽनुरागः

22.45

सचामराह् सध्वजपुञ्जपट्टाः सवाजिवाला द्विपकर्णतालाः ।
स्वभावलोलाः किल राजलक्ष्म्यः सर्वे विलासाह् क्षणभङ्गसङ्गाः

22.46

उक्त्वेति तत्तत्कुशलाय राज्ञश्चित्तप्रसादं परमं विधाय ।
स शान्तिकल्लोलसुधाप्रवाहं किरन् दृशा पार्षदमालुलोके

22.47

मनीषिणां शाक्यकुलोद्गतानां सप्तायुतानि प्रतिपाद्य धर्मम् ।
चक्रे सहस्राणि च सप्त तत्र संप्राप्तपर्याप्तविशेषभाञ्जि

22.48

शक्लोदनाद्यैः कुशलोपपन्नैः गणे ऽथ तत्तुल्यसहस्रसंख्यैः ।
द्रोणोदनाद्यैरमृत्प्दनाद्यैश्चित्तप्रसादः सुमहानवाप्तः

22.49

केचिद्ययुः श्रावकबोधियुक्तप्रत्येकबोधौ निरताश्च केचित् ।
सम्यक् तथानुत्तरबोधिसक्ताः परे बभूवुर्गगनप्रसन्नाः

22.50

स्रोतः परिप्राप्तफलं ततो ऽन्ये सकृत्तथागामिफलं तथान्ये ।
अन्ये ऽप्यनागांइफलं तदापुरर्हत्फलं क्लेशविमुक्तिमन्ये

22.51

एकस्तु तत्रार्जितपापशापस्तमःसमूहोपहितप्रमोहः ।
मायेयमित्याह हसन् जनानां सत्यस्थितिं संसदि देवदत्तः

22.52

नृपं तु वात्सल्यनिलीनमेव पुत्रोदयात्प्रत्युपजातदर्पम् ।
मौद्गल्यभिक्षुर्जिनशासनेन महर्द्धिभिर्वीतमदं चकारम्

22.53

दृष्ट्वापि राजा भगवत्प्रभावं नात्यद्भुतम् पौरुषमेव मेने ।
अभ्यासलीनानि जनस्य नूनं सोत्कर्षकृत्यानि न विस्मयाय

22.54

अथापरेद्युर्भगवान् सुरेन्द्रसंपादिते हेममहाविमाने ।
सुमेरुशीर्र्ष्णीव समानकान्तौ सिंहासने रत्नमये न्यषीदत्

22.55

ब्रह्मेन्द्रमुख्येषु ततः सुरेषु तत्रोपविष्टेषु पृथुप्रभेषु ।
बभुस्तदुष्णीषशिखाविलासैश्चन्द्रांशुमालाजटीला इवाशाः

22.56

अन्योन्यसंघट्टविलोलहारैर्धनावहारैस्त्रिदशैर्विशद्भिः ।
निरन्तराम् ताम् भवमेत्य राजा द्वारेषु मार्गान्न चतुर्षु लेभे

22.57

सभ्रूभ्रमैस्तत्र कुवेरमुख्यैर्निवार्यमाणाभिमतप्रवेशह् ।
विच्छायवक्रः स्खलिताभिधायी भूभृत्परं निष्प्रतिभो बभूव

22.58

प्रवेशितस्तैर्जिनशासनेन कदाचिदासाद्य तदग्रभूमिम् ।
शुद्धोदनस्त् अप्रणिपत्य मूर्ध्ना चित्तप्रसादेन पुरो ऽस्य तस्थौ

22.59

शास्ता तु तस्मै चतुरार्यसत्यप्रबोधिकां धर्मकथाम् दिदेश ।
ज्ञानेन या विंशतिशृङ्गमस्य सत्कायदृग्भूधरमप्यब्ःआङ्क्षीत्

22.60

ततः स गत्वा कृतकृत्यजन्मा शुक्लोदनं प्राप्त भजस्व राज्यम् ।
स्वस्याव्रतीत्तं भगवत्प्रदिष्टं तच्छासनं मोदयितुं न राज्यम्

22.61

द्रोणोदने राज्यपराङ्भुखे ऽपि वैराग्ययोगादमृतोदने च ।
जग्राह शुद्धोदनसंप्रदिष्टां तां राजलक्ष्मीमथ भद्रकाख्यः

22.62

राजार्हभोगैरथ पूजयित्वा जिनः जनेशः शुचिसंप्रणितैः ।
न्यग्रोधधाम प्रतिपाद्य चास्मै शुद्धोदनं शुद्धमनोरथो ऽभूत्

22.63

द्रोणोदनस्यापि सुतौ युवानौ राजाज्ञया प्रेरणया च मातुः ।
एकस्तु यः प्रव्रजितो ऽनिरुद्धः परो महान्नाम गृही बभूव

22.64

अथाभवच्चेतसि भद्रक्स्य राज्ञो विरक्तस्य वनाभिलाषः ।
विवेकभाजां प्रशमप्रवृत्तं नवापि लक्ष्मीर्न मनो रुणद्धि

22.65

ततः समाहूय स देवदत्तं राज्याभिषेकप्रतिपन्नचित्तम् ।
उवाच मे प्रव्रजनस्य कालः समागतः किं भवताभिधेयम्

22.66

तं प्रत्युवाचात्तविवेकदम्भः सुसंवृतं संसदि देवदत्तः ।
राजन्न राज्ये ऽस्ति ममाभिलाषः प्रव्रज्यया त्वत्सदृशो भवामि

22.67

श्रुत्वेति राजा कुटिलस्य तस्य मिथ्याविनीतस्य कदर्थवाक्यम् ।
उदीरितं शाक्यगणस्तवायं संकल्पसाक्षीति हसन्नुवाच

22.68

अथार्थतापोपहतः प्रदध्यौ भोगानुरागादिति देवदत्तः ।
मया किमेतदविपातमुक्तं भजेत वा प्रव्रजितो ऽपि राज्यम्

22.69

राज्यं समुत्सृज्य निजं व्रजन्तः शाक्यं कुमाराः सह भद्रकाद्याः ।
शुद्धोदनं निर्ययुरायवृत्तप्रीतिं पुरस्कृत्य रथैर्द्विपैश्च

22.70

व्रजत्सु सर्वेष्वथ देवदत्तः किरीटसक्तं पृथिपद्मरागम् ।
जहार रक्ताक्तमिवामिषार्थी श्येनः प्रभापल्लविताम्बरार्कम्

22.71

नैमित्तिकैरुक्तमथास्य लक्ष्मदृष्ट्वा तदुग्रं नरकप्रयाणम् ।
चित्तं सदोषं किल दुर्निमित्तं निमित्तमन्यत् पुनरुक्तमेव

22.72

कोकालिखण्डोत्कटमोरकाणां तिथ्यादिनाम्नाम् मददुर्मदानां ।
संसूचितान्यत्यधिकानि तत्र तथाविधानैर्बहुलक्षणानि

22.73

भूपप्रमोदादथ भद्रको ऽपि तैर्देवदतप्रमुखैः सहैव ।
प्रव्रज्यया चीवरपात्रयोगात् चकार वैराग्यमयीमिव क्ष्माम्

22.74

राज्ञस्तथा राजकुमारकाणामुत्सृष्टहाराङ्गदकुण्डलानाम् ।
सास्रो विरागादवतार्य तेषां केशानुपाली किल कल्पको ऽभूत्

22.75

मूर्खः स नीचो ऽपि जिनाज्ञयैव प्रव्रज्यया पूज्यतरो बभूव ।
चित्तप्रसादस्य परस्य मन्ये न कारणं पण्डितता नजातिः

22.76

सामीचिकायामथ भद्रको ऽपि ज्ञात्वा नृपः पार्षदिकं तमेनम् ।
नीचस्य पादौ कथमस्य वन्दे महीपति सन्निति निश्चलो ऽभूत्

22.77

तमब्रवीदस्खलिताभिमानं विकल्पभिन्नं भगवान् विहस्य ।
प्रव्रज्यया मोहमहानुवन्धी संत्यज्यते जातिमयो ऽभिमानः

22.78

श्रुत्वेति राज्ञा सह राजपुत्रैः कृते प्रणामे पृथिवी चकम्पे ।
न देवदत्तः परुषाभिधायी पदौ ववन्दे भगवद्गिरास्य

22.79

कम्पात् क्षितेर्विस्मितमानसेन पृष्टस्ततो भिक्षुगणेन शास्ता ।
उवच राजा किल कल्पस्य जन्मान्तरे ऽप्यस्य कृतः प्रणामः

22.80

पुरा युवा काशिपुरे विलोक्य भद्राभिधानाम् गणीकां दरिद्रः ।
सेवाम् व्यघात् सुन्दरकस्तदास्यै रागो हि सर्वव्य्सनोपदेष्टा

22.81

तया विसृष्टः कुसुमोच्चयाय पुनह्पुनर्भृङ्ग इवाधिकार्थी ।
तत्सङ्गमानङ्गमनोरथेन श्रान्तः स बभ्राम वनान्तरेषु

22.82

अत्रान्तर श्रान्ततरः क्षितीशः प्राप्तो वनान्तं मॄगयारसेन ।
तं ब्रह्मदत्तः प्रसमीक्ष्य गीतं तस्याशृणोच्छन्नतनुर्लताभिः

22.83

नवनवकुसुमाशया किमेवं मधुकरं तापहतो ऽसि गच्छ तूर्णम् ।
विकसितकमलाननाब्जिनी सा भवति हि संकुचिता दिनावसाने

22.84

तस्या हि गीतं नॄपतिर्निशम्य स्मितप्रभाघट्टितहारकान्तिः ।
उवाच तं तीव्रकरार्कतापः को ऽयं सखे गीतरसाभिओयोगह्

22.85

सो ऽप्यब्रवीद्भूमिपते न नाम तप्तो रविस्तप्ततरस्तु कामः ।
स्वकर्मदुःखानि विहन्ति लोके न ग्रीष्मदग्धानि मरुस्थलानि

22.86

इत्यर्थवद्वाक्यगुणार्पणेन स भूपतेर्वल्लभतामवाप ।
संवादसंस्पर्शसुभाषितं हि केषाम् च् असत्कारपदं न याति

22.87

तेनाथ राजा विजने श्रमातुरः शीतोपचारैरपनीततापः ।
प्रीत्या तमादाय ततः सहैव स्वराजधानीमगमत् कृतज्ञह्

22.88

तत्रास्य जीवप्रद इत्युदन्तसंतोष संपूरितचित्तवृत्तिः ।
राज्यार्धदानाभिमुखः स तस्थौ चित्तानुवृत्तस्य किमस्य देयम्

22.89

राज्यार्धदानप्रसृते ऽथ तस्मिन् नाचिन्तयत् सुन्दरकः कृपायाम्
भद्रां विना राज्यसुखेन किं मे धन्यो हि तत्प्रीतिसुधाभिषिक्तः

22.90

मह्मं न राज्याद्यपि रोचते ऽर्धमखण्डिताल्पापि हि शोभते श्रीः ।
एकार्थयोगे हि सदा विवादः द्वयोर्हि भोगैः कलिरेव मूर्तः

22.91

तस्मान्नृपं कुण्ठमहं निपात्य समस्तराज्येन भवामि पूर्णः ।
क्षणं विचिन्त्येत्यनुतापतप्तः तीव्रं मनः स्वस्य पुनः प्रदध्यौ

22.92

किं चिन्तितं निन्द्यपरं मयैतत् को ऽयं प्रकारः खलु तीक्ष्णतायाः ।
कृतघ्नसंकल्पकलङ्कलेपादहो नु लज्जा निजचेतसो ऽपि

22.93

स्वस्त्यस्तु राज्याय नमः सुखेभ्यः संमोहमाता क्षमतां च लक्ष्मीः ।
येषामनास्वादितचिन्तितानामेवंविधा धीः प्रथमः स्वभावः

22.94

भ्रमं विधत्ते विदधाति मूर्च्छां निपातयत्येव तमस्तनोति ।
आघ्रातमात्रैव करोति पुंसामहो विनाशं विषवल्लरी श्रीः

22.95

चिरं विचिन्त्येति स जातचित्तः प्रत्येकबोधिर्विमलः प्रभाते ।
अभ्यर्थमानो ऽपि नरेश्वरेण राज्यं न् अजग्राह निवृत्ततृष्णः

22.96

प्रत्येकबुद्धत्वमवाप्तमेनं कालेन दृष्ट्वा नृपतिर्महर्द्धिः ।
तत्पादपद्मच्युतमौलिमाल्यश्चित्तप्रसादोचितमित्यवेचत्

22.97

स को ऽपि सत्कर्मविपाकजन्मा वन्द्यो विवेकः प्रशमाभिषेकः ।
यस्य प्रभावाद्विरतस्पृहाणां त्याज्येव रत्नाकरमेखला भूः

22.98

श्रुत्वेति राज्ञा कथितं तदर्थजातं तदभ्यर्थनया विधाय ।
तत्कल्पकः शान्तिपदं प्रपेदे सेवान्तरङ्गः किल गङ्गपालः

22.99

प्राप्तं तमयुत्तमकर्मयोगात् प्रव्रज्यया सज्जनपूज्यभावम् ।
राजा ववन्दे प्रणतः पृथिव्याः कम्पस्तदाभूदपि षड्विकारः

22.100

सो ऽयं राजा विहितविनतिर्भद्रको ब्रह्मदत्तो
पश्योपाली स किल कुशली कल्पको गङ्गपालः ।
इत्याश्चर्यं भगवदुदितं भिक्षवस्ते निशम्य
स्वच्छं चित्तं सुकॄतशरणे मेनिरे हेतुमेव

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc