भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 21

21.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां आम्रपाल्यवदानं नाम विंशतितमः पल्लवः ॥
21. जेतवनप्रतिग्रहावदानम् ।
दृष्टं मुष्टिनिविष्टपारदकणाकारं नराणां धनं
धन्यो ऽसौ यशसा सहाक्षयपदं यद्यस्य विद्योतते ।
दीनानाथगणार्पणोपकरणीभूतप्रभूतश्रियः
पुण्यारामविहारचैत्यभगवद्बिम्बप्रतिष्ठादिभिः

21.2

श्रीमान् बभूव श्रावस्त्यां दत्तो नाम गृहाभिपः ।
सुतस्तस्य सुदत्तो ऽभूदाकरः पुण्यसंपदाम्

21.3

स बाल्य एवालंकारं याचकेभ्यः सदा ददौ ।
प्राग्जन्मवासनाभ्यासः कस्य केन निर्वायते

21.4

नित्यमाभरणत्यागात्परं पित्रा निवारितः ।
नदीसमुद्धृतान्यस्मै सदैवान्यान्यदर्शयत्

21.5

निधिदर्शी स सर्वत्र पितरि त्रिदिवं गते ।
दीनानाथप्रदानेन बभूवानाथपिण्डदः

21.6

कृतदानह् स कालेन पुत्रवान् पुत्रव्त्सलः ।
अभूत् पुत्रविवाहार्थी कन्यान्वेषणयत्नवान्

21.7

कन्यकां याचितुं कांचित् पुरं राजगृहं ततः ।
मधुस्कन्धाभिधं दक्षं ब्राह्मणं विसर्सर्ज सः

21.8

आसाद्य मगधान् राजगृहं नगरमेत्य सः ।
महाधनं गॄहपतिं ययाचे कन्यकाम् द्विजः

21.9

अनाथपिण्डदो नाम श्रावस्त्यामस्ति विश्रुतः ।
तत्पुत्राय सुजाताय कन्यायाम् देहीत्युवाच सः

21.10

सो ऽब्रवीदेश संबन्धः परमो ऽस्मत्कुलोचितः ।
वंशे ऽस्माकं तु कन्यानाम् शुक्लमादीयते महत्

21.11

शतं शतं रथाग्र्याणां गजाश्वाश्वतरस्य च ।
दाशीनिचयनिष्कानां दीयतां यदि शक्यते

21.12

इत्युक्ते तेन तं विप्रं सस्मितः प्रत्यभाषत ।
अनाथपिण्डदगृहे दास्ये शुल्कं तदल्पकम्

21.13

ब्राह्मणेनाखिले तस्मिन् कन्याशुल्के प्रतिश्रुते ।
तमादराद्गृहपतिर्भोजनाय न्यमन्त्रयत्

21.14

स भुक्त्वा विविधं तत्र भक्ष्यभोज्यमयन्त्रितः ।
रात्रौ विसूचिकाक्रान्तश्चुक्रोश विपुलव्यथः

21.15

ये ऽन्नमश्नन्ति लौल्येन निशि निद्रासुखापहम् ।
जन्मकर्म कथं कुर्युः परलोकसुखाय ते

21.16

तत्याजाशुचिभीत्या तं गृहात्परिजनो बहिः ।
आस्पदं नैरपेक्ष्यस्य जात्या दासजनः शठः

21.17

शुभेन कर्मणा तस्य संप्राप्तस्तेन वर्त्मना ।
समौद्गल्यायनः शारिपुत्रः कारुण्यपेशलः

21.18

तं वंशस्य दलाग्रेण निर्लिख्यापि तथा मृदा ।
प्रक्षाल्य धर्ममादिश्य तौ तस्य ययतुः शनैः

21.19

सो ऽपि चित्तं तयोरग्रे प्रसाद्य त्यक्तविग्रहः ।
चतुर्महाराजिकेषु देवेषु समाजायत

21.20

तत्र विश्रवणादेशान्मर्त्यलोके निकेतने ।
स चक्रे शिबिरद्वारे पूजाधिष्ष्ठानसंनिधिम्

21.21

लेखविज्ञातसंबन्धविश्चयो ऽथ यथोदितम् ।
अनाथपिण्डदः शुल्कमादाय स्वयमाययौ

21.22

स संबन्धिगृहं प्राप्य ददर्शाश्चर्यकारिणीम् ।
शिखराकारराजार्हभक्ष्यसंभारसंपदम्

21.23

स विस्मयाद्गृहपतिं पप्रच्छ स्वच्छमानसः ।
भूरिभक्ष्य्प्त्सवः को ऽयमपि राजा निमन्त्रितः

21.24

स तं बभाषे भगवान् बुद्धः संघपरिग्रहः ।
मया निमन्त्रितः संघे सो ऽयम् मम महोत्सवः

21.25

इति बुद्धाभिधानेन जातरोमाzन्चकण्टकः ।
इन्दुस्यन्दिरिवाल्किन्नः सहसैव बभूव सः

21.26

अविदितपरमार्थे कस्यचिन्नाममात्रे
स्फुरति सहजभावः को ऽपि जन्मानुबन्धः ।
अभिनवघननादे व्यक्तहर्षभिलाषः
स्पृशति ललितनृत्योद्वृत्तवृत्तिं मयूरः

21.27

सो ऽवदद्वदनाम्भोजसंजाताभिनवद्युतिः ।
क एष भगवान् बुद्धः कश्च संघो ऽभिधीयते

21.28

इति पृष्टो गृहपतिस्तेन प्रोवाच सस्मितः ।
अहो बत न जानीषे शास्तारं भुवनत्रये

21.29

संसारपाशभीतानां शरण्यं शरणैषिणाम् ।
जिन यस्तं न जानाति स लोके वञ्चितः परम्

21.30

किं तेन मोहलीनेन विफलीकृतजन्मना ।
अज्ञानतरणोपायं वयो येन व्ययीकृतम्

21.31

गोतमो भगवान् बुद्धः शाक्यराजकुलद्भिवः ।
संबुध्यानुत्तरं सम्यक्संबोधिमनगारिकः

21.32

पश्चात् प्रव्रजितानाम् च तस्यैवानुग्रहात्परम् ।
भिक्षूणां गतरागाणाम् समूहः संघ उच्यते

21.33

स एष बुद्धप्रमुखः संघः स्वकुशलैषिणाः ।
मया पुण्यपणं प्राप्यं प्रणयेन निमन्त्रितः

21.34

इति तद्वचनं श्रुत्वा तत्स्मृत्वानाथपिण्डदः ।
बुद्धालम्बनभावेन निशि निद्रां समाययौ

21.35

रजन्यां यामशेषायां समाकृष्ट इवेत्सुकः ।
प्रभातमिति स ज्ञात्वा पुरद्वारेण निर्ययौ

21.36

शिबिकाद्वारमासाद्य संप्राप्त इव देवताम् ।
मधुस्कन्धेन निर्दिष्टं श्रेयःपन्थानमाप्तवान्

21.37

भगवांस्तं ततः प्राप्य स तृष्णार्त इवामृतम् ।
बभूवानुपमास्वादं प्रमोदामोदनिर्वृतः

21.38

तं दृष्ट्वा सादरं दूरात् छायातरुमिवाध्वगः ।
अवाप गतसंतापः श्रान्तिं विश्रान्तिशीतलाम्

21.39

तस्य तद्दर्शनेव विमलाभिगतः मनः ।
शरत्समागमेनेव घनध्वान्तोज्झितं नभः

21.40

स को ऽपि पुण्यशीलानामनुभावः प्रसादिनाम् ।
भवन्ति यत्प्रसादेन निर्विघ्नाश्चित्तवृत्तयः

21.41

सो ऽचिन्तयदहो मोहविहीनस्य हि मे तथा ।
अनुच्छेदविकारो ऽयं जातः प्रशमसंपदः

21.42

वञ्चितो ऽस्मि न यत्पूर्वं दृष्तो ऽयं भगवान् मया ।
नाधन्यानामियं याति मूर्तिर्लोचनगोचरम्

21.43

अमृतमधिरोदारा दृष्टिर्द्युतिः शशिपेशला तरुणकरुणायत्ता वृत्तिः प्रसादमयी मतिः ।
अयमतिशयं प्रत्यासन्नः करोति विरागतां विगतरजसां निःसंसारः प्रियो ऽपि परिग्रहः

21.44

इति चित्तप्रसादेन चिन्तयन्नुपसृत्य सः ।
विदधे तस्य सानन्दः पादपद्माभिवन्दनम्

21.45

भगवानपि तत्प्राप्तिप्रसादानन्दलक्षणम् ।
उवाह वदनच्छायं पूर्णकारुण्यपूरितम्

21.46

दृष्टिमाश्वासजननीं कामंकामपि तस्य सः ।
विससर्जोज्ज्वलां जन्मरजःशुद्ध्यै सुधानदीम्

21.47

अथास्य भगवान् भ्रद्रां विदधे धर्मदेशनाम् ।
चतुर्णामार्यसत्यानां प्रतिभावविधायिनीम्

21.48

स शासनाद्धि संव्यस्तसमस्तक्लेशसंततिः ।
निजं जन्म निवेद्यास्मै प्रणतस्तमभाषतः

21.49

अतिक्रान्तो ऽस्मि भगवन् भवन्तं शरणं गतः ।
विपन्नवासनाभ्यासः संसारे न रमे परम्

21.50

करोत्यकुशलं दूरे शुभमाशु प्रयच्छति ।
सूचयत्युचिताचारं महतमवलोकनम्

21.51

सुखार्हं त्वद्विहाराय विहारं परमादरात् ।
रत्नसारपुरोदारं स्वपुरं कारयाम्यहम्

21.52

करोतु तत्र भगवान् सततं स्थित्यनुग्रहम् ।
धनैरासेवितो ऽस्माभिः सपर्यापरिचर्यया

21.53

इत्यर्थनां तथेत्यस्य भगवान् प्रत्यपद्यत ।
प्रणयुप्रार्थनाभङ्गप्रगल्भा न हि साधवः

21.54

भगवन्तमथामन्त्र्य श्रावस्तीं स पुरीं ययौ ।
तदादिष्टेन सहितः शारिपुत्रेण भिक्षुणा

21.55

तत्र जेतकुमारेण हिरण्यार्घोण भूयसा ।
दत्तं काञ्चनमादाय विहारं तमसूत्रयत्

21.56

भक्त्युत्साहादथारम्भकृतसाहाय्यकह् सुरैः ।
विहारं त्रिदिवाकारं चकारानाथपिण्डदः

21.57

तत्र जेतकुमारो ऽपि भक्त्या भगवतः परम् ।
यशःपुण्यप्रतिष्ठायै विदधे द्वारकोष्ठकम्

21.58

अथ् अतीर्थ्यास्तमालोक्य विहारारम्भमद्भुतम् ।
सापवादविवादेन चक्रुर्द्वेषाकुलाः कलिम्

21.59

रक्ताक्षप्रमुखस्तेषाम् मात्सर्यात्क्षुद्रप्रण्डितः ।
सपक्ष इव कृष्णाहिश्चकितः पुरतः सदा

21.60

रुद्धे विहारसंभारे तेन वादजयावधि ।
अनाथपिण्डदगिरा शारिपुत्रः समाययौ

21.61

रक्ताक्षो ऽथ तमाहूय प्रभावोत्कर्षदर्शने ।
इन्द्रजालबलोत्फुल्लं सहकारमदर्शयत्

21.62

शारिपुत्रप्रभावोत्थैर्विपुलैस्तन्मुखानिलैः ।
उन्मूलितः शकलतां तीर्थ्योत्साह इवाप सः

21.63

रक्ताक्षविहितां फुल्लकमलां पद्मिनीं ततः ।
पङ्कशेषां द्विपश्चक्रे शारिपुत्रविनिर्मितः

21.64

रत्काक्षवक्षोनिक्षिप्तः सप्तशीर्षमहोरगः ।
शारिपुत्रेण निक्षिप्तस्तार्क्ष्यपक्षाग्रमारुतैः

21.65

तदाहूतो ऽथ वेतालः शारिपुत्रेण कीलितः ।
प्रेरितो मन्त्रविर्त्येण रक्ताक्षं हन्तुमुद्ययौ

21.66

वेतालाभिहतस्त्रासान्नश्यन्मानमदज्वरः ।
शरणं पादपतितः शारिपुत्रं जगाम सः

21.67

रक्ताक्षस्तेन भङ्गेन शरण्यं शरणं गतः ।
प्रव्रज्यायाम् वीतरागः शुद्धां बोधिस्मवाप्तवान्

21.68

तीर्थ्यास्त्वन्ये परिद्वेषक्रोधपारमितांशवः ।
तत्र कर्मकरव्याजात्तस्थुर्भिक्षवधोद्यताः

21.69

ते ऽथ धर्मद्रुहः काले शारिपुत्रेण लक्षिताः ।
तद्दृष्टिपातमात्रेण बभूवुर्मैत्रमानसाः

21.70

आशयानुशयं धातुं प्रकृतिं च विचार्य सः ।
धर्मदेशनया तेषां दिदेशानुत्तरां दशाम्

21.71

अथ तस्य विहारस्य निर्विघ्नारम्भकर्मणि ।
अनाथपिण्डदं प्राह शारिपुत्रः स्मिताननः

21.72

विहारसूत्रपातस्य तुल्य एव क्षणे महान् ।
हौमो विहारः संवृत्तस्तुषिते देवसद्मनि

21.73

एतदाकर्ण्य संजातप्रसादद्विगुणान्तरः ।
हेमरत्नवरागारं विहारं समकारयत्

21.74

विभवैरथ राजार्हैः पथि तेनोपकल्पितैः ।
विज्ञप्तिस्त्रिदिवैः सार्धमाययौ भगवान् जिनह्

21.75

तदागमनहर्षेण प्रसन्ने भवनत्रये ।
अनाथपिण्डदस्तस्मै वारिधारामपातयत्

21.76

तस्मिन् यदा न प्रदेशे वारिधारा पपात सा ।
तदा भगवतो वाक्यात् त्वरितं पतितान्यतः

21.77

तं दृष्ट्वा कौतुकात् पृष्टो भिक्षुभिर्भगवान् पुनः ।
उवाच श्रूयतामेतद् वारिस्तम्भस्य कारणम्

21.78

अनेन पूर्वबुद्धेभ्ये अस्मिन्नेवेदमास्पदम् ।
प्रतिपादितमित्येषा वारिधारान्यतश्च्युता

21.79

अनेनैव पुरा सम्यक्संबुद्धाय विपश्यिने ।
अयमेव वरारामप्रदेशः प्रतिपादितः

21.80

बुद्धाय शिखिने प्रादात् पुष्यजन्मन्ययं पुनः ।
ततो ददौ विश्वभुवे जिनाय रघिजन्मनि

21.81

भवदत्ताभिधो भूत्वा ककुच्छन्दाय दत्तवान् ।
ददौ बृहस्पतिर्भूट्वा कनकाख्याय तायिने

21.82

काश्यपाय पुनश्चायं प्रादादाषाढजन्मनिः ।
अनेनैवाधुना मह्यं देशो ऽयं प्रतिपादितः

21.83

कालेन सुधनाख्यो ऽयं मैत्रेयाय प्रदास्यति ।
सत्त्ववान् क्षान्तिशीलत्वान्निधानान्येष पश्यति

21.84

पुनश्चायं गॄहपतिर्भूत्वा हेमप्रदाभिधः ।
चक्रे प्रत्येकबुद्धस्य संस्कारं परिनिर्वृतौ

21.85

रत्नकुम्भे तदस्थीनि धृत्वा तत्प्रणिधानतः ।
अधुना रत्नकोशार्हः संजातो ऽयं सुवर्णभास्

21.86

श्रुत्वेति शास्तुर्वचनाभिधानं ते भिक्षवः सारमिवामृतस्य ।
कर्तुः प्रतिष्ठार्जितपूर्णपुण्यपुष्पाधिवासेन भृशं ननन्दुः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc