भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 20

20.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां श्रोणकोटिकर्णावदानं नामोनविंशतितमः पल्लवः ॥
20. आम्रपाल्यवदानम् ।
द्विजिह्वसङ्गे कथमस्ति वृत्तिरनेकमुख्ये कथमस्ति सौख्यम् ।
कर्मान्तबन्धे ऽस्ति कथं स्वशक्तिः प्रज्ञाप्रकर्षे कथमस्त्यपायः

20.2

मिथिलायां विदेहेषु जलसत्त्वाभिधो नृपः ।
अभूद् भुजभुजङ्गस्य विश्रान्तपृथिवीभरः

20.3

खण्डो नाम महामात्यस्तस्याखण्डलसंपदः ।
बभूवाशेषषाङ्गुण्यपरिज्ञानबृहस्पतिः

20.4

नीतिज्ञगौरवात्तस्य नृपे व्यक्तं नलोकिनि ।
सदाभवन्मुखप्रेक्षी सर्वः कार्यवशाज्जनः

20.5

गतानुगतिकत्वेन प्रवाहप्रणयी भरः ।
वर्धते वार्यमाणस्य स्वजनस्य जलस्य च

20.6

सर्वं तन्मयमालोक्य जनं मात्सर्यमूर्च्छिताः ।
मन्त्रिणः संहतास्तस्य विनिपातमचिन्तयन्

20.7

ते प्रविश्याश्रमम् राज्ञस्तां तस्य प्रबह्विष्णूताम् ।
मुहुः शङ्कास्पदं कृत्वा शशंसुर्भेदकोविदाः

20.8

तद्गिरा शङ्कितो राजा तस्य वैमुख्यमाययौ ।
अबलाबालभूपाला वर्णप्रत्ययाः परम्

20.9

अशङ्क्यादपि शङ्कन्ते शङ्कादोषे ऽप्यशङ्किताः ।
अविशेषज्ञचपला भूपालाः काकशङ्किनः

20.10

प्रभोर्विरक्तिलिङ्गानि विलोक्यामात्यपुंगवः ।
स्वसुतौ गोपसिंहाख्यौ सशङ्कः स्वैरमब्रवीत्

20.11

धूर्तैर्मे वीतविश्वासः पिशुनैर्नृपतिः कृतः ।
प्रत्ययं नैति हृदये विदार्यापि प्रदर्शिते

20.12

विरक्तः स्थगितालापदर्शनश्रवणः प्रभुः ।
शेफ इव वृद्धस्य यातः शिथिलतां मम

20.13

पिशुनोद्भूतभेदस्य प्रेम्णः संधिर्न विद्यते ।
न मणिः श्लिष्याति पुनः पाषाणशकलीकृतः

20.14

द्विजिह्णकुटिलक्रान्तः प्रभुश्चन्दनपादपः ।
न यात्यर्थक्रियाकारी गुणवानपि सेव्यताम्

20.15

कथं नृपनिधानार्थी कुशलं भजते नरः ।
घोरद्वेषविषाविष्टद्विजिह्वाघातविह्वलः

20.16

तस्माद्व्रजामः संत्यज्य द्वेषदोषेण भूपतेः ।
शङ्काशल्यमये वृत्ते मे ऽस्मिन् देशे स्थितेन किम्

20.17

दक्षा रक्षाक्षमाः शूराः प्रभुतार्थाः सुसंहताः ।
सन्तः सन्ति विशालायां वासस्तत्र ममेप्सितः

20.18

इति ब्रुवाणः पुत्राभ्यां तथेत्युक्तः स सानुगः ।
उद्यानगतिमानेन प्रययौ सपरिच्छदः

20.19

प्रयाणं नृपतिर्ज्ञात्वा निवर्तनसमुद्यतः ।
यत्नेनापि न तं प्राप नोत्सृष्टं लभ्यते पुनः

20.20

मूर्खाः सत्सु कृतावज्ञा विमुह्यन्ते क्षणेन तैः ।
याति तेषां तु सर्वत्र को ऽपि नार्थी कृतार्थताम्

20.21

धीमानमात्यः प्राप्तो ऽथ कृष्टो वैशालिकैर्गुणैः ।
पूजितः प्रणयाचारैः संघमुख्ये पदे स्थितः

20.22

तद्बुद्धिविभवाप्तश्रीः सो ऽथ तत्प्रमुखो गणः ।
कदाचिदनयाल्लेखे न पराबह्वपात्रताम्

20.23

अथ कालेन सिंहस्य मन्त्रिसूनोः कनीयसः ।
अजायत सुता कान्ता चैला नाम गुणोचिता

20.24

द्वितीया चोपचैलाख्या सुता जातास्य सुन्दरी ।
नन्मन्येव तयोः प्राह निमित्तज्ञो विचक्षणः

20.25

चैलायास्तनयो भावी पितृहन्ता महीपतिः ।
गुणवानुपचैलायाः पूर्णलक्षह्णवानिति

20.26

ज्येष्ठो मन्त्रिसुतः शौर्याद्गोपः प्रौढमदोद्धतः ।
उद्यानमर्दनक्षेपैर्गणानां द्वेष्यताम् ययौ

20.27

तत्पितुर्गौरवात्तस्मै सानुजाय विमन्यवः ।
विशालशालतामन्ते जीर्णोद्यानद्वयं ददुः

20.28

सुगतप्रतिमां चक्रे तत्रैकः सुकृतोचिताम् ।
विहारं वैभवोदारं भुवनाभरणं परः

20.29

अथ पित्रा बलोत्सिक्तः सुतः प्रत्यन्तमण्डले ।
गणकोपभयाद्गोपः कर्मान्तोपार्जने धृतः

20.30

कालेन त्रिदिवं याते तस्मिन् मन्त्रिवरे गणैः ।
कनीयसस्तु साधुत्वात् सिंहस्तस्य पदे धृतः

20.31

गोपः पितुरसंप्राप्य पदं गणविमानितः ।
तद्देशवासविरसः परिहारमचिन्तयत्

20.32

वास्तव्य कण्टकाकीर्णे व्याघ्राघ्राते वरं वने ।
अनेकस्वामिसंभिन्नजने न तु विशृङ्खले

20.33

नानामतक्रियालापः कथमाराध्यते गणः ।
समीहितं यदेकस्य दतन्यस्मै न रोचते

20.34

इत्मानी स संचिन्त्य गत्वा राजगृहं पुरम् ।
बिम्बिसारं नरपतिं गुणश्रियमशिश्रियत्

20.35

स तेन मानितः प्रीत्या तस्य विश्रम्भभूरभूत् ।
चिररुच्येव तत्कालमाभाति गुणसंगतिः

20.36

राज्ञो ऽथ बिम्बिसारस्य वल्लभा पञ्चतां ययौ ।
तद्वियोगाग्निसंतप्तं तं विचिन्त्य स बुद्धिमान्

20.37

उपचैलां सुतां भ्रातुस्तद्विवाहोचिता वधूम् ।
गूढचारी तदादेशात् वैशालकपुरीं यय

20.38

कन्या गणोपभोग्यौव न कस्मैचित्प्रदीयते ।
इति वैशालिकैः पूर्वं स्वदेशे नियमः कृतः

20.39

तत्पुरे द्वाररक्षायै यक्षस्थानावलम्बिनी ।
परप्रवेशे कुरुते शब्दं घण्टी पटीयसी

20.40

स प्रविश्य ततो भ्रातुर्गूढमुद्यानचारिणीम् ।
उपचैलां समाहतुं गतश्चैलामवाप्तवान्

20.41

यातस्तं रथमारुह्य घण्टाशब्दादभिद्र्युतम् ।
स हत्वा वीरपुरुषानवाप नृपतेः पुरम्

20.42

तमूचे देवकन्येयं प्राता विमनसात्मना ।
पितृहन्ता सुतो ह्यास्या निमित्तज्ञेन सूचितः

20.43

तस्मादेषा नरपतेर्महिषी न तवोचिता ।
त्वयि जीवति जीवन्ति प्रजानां सर्वसंपदः

20.44

इत्युक्तस्तेन तां दृष्ट्वा त्युक्तं नैव शशाक सः ।
निरुद्धः कर्मणा ह्येव तन्मुखालेख्यलेखया

20.45

सो ऽवदत् क्क कदा दृष्ट पुत्रेण निहतः पिता ।
स्वयं मयाभिषेक्तव्यः सुतो यद्य् भविष्यति

20.46

इत्युक्त्वा नृपतिः कन्यां परिणीयाभवत्सुखी ।
कृतकर्मोर्मिनिर्माणे प्रभवन्ति न बुद्धयः

20.47

भोगिनस्तस्य कालेन तस्याम् सूनुरजायत ।
ज्योतिष्कचरिते यस्य वृत्तमुक्तं पितृद्रुहः

20.48

तपोवनमृगाधानमृगयाव्यसने वने ।
एवंविधो ह्यभूत्तस्य मुनिशापः सुताकृतिः

20.49

अत्रान्तरे महान्नाम वैशालिकगणाग्रणीः ।
कन्यामाम्रवनात्प्राप कदलीस्कन्धनिर्गताम्

20.50

सा तस्य भवने कान्ता वर्धमाना शनैः शनैः ।
विदधे विपुलां प्रीतिं दानचिन्तां अच् चेतसि

20.51

प्रणयादाम्रपालीति बन्धुभिः सा कृताभिधाः ।
सूनुहीनमिन त्यक्त्वा बाल्यं यौवनमाददे

20.52

तद्विवाहोद्यतस्याथ न सेहे तत्पितुर्गणः ।
गणोपभोग्या कन्येति समयस्य व्यतिक्रमम्

20.53

पितरं दुःखसंतप्तं समेत्याथ जगाद् सा ।
भवामि गणभोग्यैव किं त्वेष समयो यदि

20.54

एकस्योपरि नान्यस्य प्रवेशः स्वपदे स्थितिः ।
पणः कार्षापणशतैः पञ्चभिः प्रत्यहं मम

20.55

सप्ताहेनैव विचयः कर्यो वेश्मनि नान्यदा ।
इत्यस्मिन् समये व ध्यः सर्वश्चैव व्यतिक्रमी

20.56

इति तत्समयं ज्ञात्वा तत्पितुर्वचसा गणः ।
अकारोद् बाढमित्युक्त्वा दृढनिश्चयमादरात्

20.57

ततः सरत्नभवने वराभरणभूषिते ।
हेमहर्म्यसमारूढा दिदेश दिनचन्द्रिकाम्

20.58

ततः पणीकृतः कामी यो यस्तां समुपाययौ ।
तस्य तस्याभवत् तस्याः प्रभावेणौजसः क्षयः

20.59

द्रष्टुमेव न शेकुस्ते किं पुनः स्प्रष्टुमाकुलाः ।
भुजङ्गभोगसंरुद्धां तां चन्दनलतामिव

20.60

ततः सा सुन्दरी भेजे यौवनस्यापि यौवनम् ।
गुरुणा स्तनभारेण मध्यभङ्गभयप्रदम्

20.61

स्मरसंभोगरहितं तत्तस्या रूपमद्भुतम् ।
श्वभ्रहेमलतापुष्पमिव निष्फलतां ययौ

20.62

कौतुकाशाविनोदाय नानादेशान्तरागतैः ।
अकारि चित्रकारैर्भूपालप्रतिकृतिर्गृहे

20.63

विधाय चित्रलिखितान् सा क्रमेण नरेश्वरान् ।
ददर्श बिम्बिरासय रूपं रतिपतेचिव

20.64

तमालोक्यैव सहसा समुद्भूतमनोभवा ।
स येन लिखितस्तत्र तं पप्रच्छ कुतूहलात्

20.65

को ऽयं सखे प्रीतिलतामाधवो वसुधापतिः ।
प्रीणाति लोचने यस्य सुधापरिचिता रुचिः

20.66

धन्या का नाम भूभर्तुरस्य प्रणयभागिणी ।
लक्ष्यं सौभग्यजं गर्वमुर्वश्याः संहृतं यया

20.67

इति पृष्टतया स्वैरं तामूचे चित्रकोविदः ।
भूपतिर्बिम्बसारो ऽयं सारं सुकृतसंपदाम्

20.68

शुअर्यरूपतुलारोहे देवाः के नाकनायकाः ।
शङ्के करोति नैवास्य मन्मथो वा मनोरथम्

20.69

इत्युक्ते तेन सा तस्थौ भूपालन्यस्तलोचना ।
सहसैवाभिलाषेण नवीनाभिमुखीकृता

20.70

अत्रान्तरे बिम्बिसारः स्वैरवेश्मनि निजने ।
कथान्ते गोपमवदत् किंचित्स्मितसिताधरः

20.71

श्रूयतां यन्मम सखे किंचिन्मनसि वर्तते ।
निर्यन्त्रमित्रस्वच्छन्दवादः को ऽपि सुधारसः

20.72

वैशालिकौर्वरारोहा गणैः साधारणिकृता ।
रम्भोरूः श्रूयते कान्ता रम्भागर्भसमुद्भवा

20.73

कव्क्_20.तत्प्रभावविनष्टाशैस्तेजस्विप्रणयोचिता ।
सा तैर्न दूषिताद्यापि मातङ्गैरिव पद्मिनी

20.74

श्रवणादेव सानन्दमपर्युषितकौतुकम् ।
न करोति मनः कस्य तत्स्त्रीरत्नमयोनिजम्

20.75

अभिलाषि मनस्तस्यां श्रोताय जातंमे सह चक्षुषा ।
तद्गुणश्रुतिधन्याय श्रोत्राय स्पृहयाम्यहम्

20.76

इत्युक्ते भूमिपतिना गोपस्तं प्रयभाषत ।
भुजङ्गगणसंरुद्धः स राजन् मान्मथो निधिः

20.77

अत्यल्पस्खलितं प्राप्य दुःसहापातदुर्गमः ।
एष ते विषमः पन्था दर्शितो विषमेषुणा

20.78

लभते सा न निर्गन्तुं न युक्तं गमनं च ते ।
किमस्मिन् विरतोपाये वदाम्युभयसंशये

20.79

इत्युक्तस्तेन नृपतिर्नोत्कण्ठाग्राहमत्यजत् ।
विद्वांसो ऽप्युचिताम् नीतिं न स्मरन्ति स्मरातुराः

20.80

वैशालिकपुरीं यातो गोपेन सहितो ऽथ सः ।
प्रविवेशान्यवेशेन मन्दिरं हरिणीदृशः

20.81

सा चित्रदर्शनेनैव दृष्ट्वा परिचितं दृशोः ।
नरनाथं सवैलक्ष्यलक्षणं क्षितिमैक्षत

20.82

लज्जानिरुत्तरे तस्याः कम्पव्यतिकरे परम् ।
रणन्ती रसना चक्रे स्वागतं नृपतेरिवः

20.83

विलोक्य धन्यतामानी तत्र चित्रे निजं वपुः ।
तां लावण्यनदीं राजा नयनाञ्जलिना पपौ

20.84

लज्जावेशेन सुन्दर्यामाभिजात्येन भूपतौ ।
आबद्धमैनयोः क्षिप्रं गोपस्तां सस्मितो ऽवदत्

20.85

अयं ते चित्रलिखिताकारध्यानावधानतः ।
व्यक्तं भक्षिविशेषेन देवः प्रत्यक्षतां गतः

20.86

त्वयायं लिखितश्चित्रे त्वमनेन तु चेतसि ।
न जाने युवयोः को नु प्रयातः प्रेमदूतताम्

20.87

इत्यादिभिः कथाबन्धैः परीपूर्णप्रमोदयोः ।
यद्यदेव स्मरादिष्टम् तत्तदास्वादताम् गतम्

20.88

घण्टारवाकुले लोके राजा प्रच्छन्नकामुकह् ।
सप्तरात्रमनालोक्ये तस्थौ तद्भवने रहः

20.89

लतेव पुष्पिता काले तस्माद्गर्भमवाप्य सा ।
चक्रे विदितवृत्तान्तं तं लज्जावनता शनैः

20.90

आसन्ने विश्मविचये दत्वास्मै नृपतिर्ययौ ।
भाविपुत्रपरिज्ञानप्रत्ययादङ्गुलीयकम्

20.91

याते भास्वद्वपिषु नृपतौ संमते लोचनानां सद्यः प्रोद्यद्विरहतिमिराक्रान्तिमीराक्रान्तिमीलन्मुखाब्जा ।
साभूत्सायंतनतनुतरापारवाताभिभूता
शोकोच्छ्वासव्यतिकरवती हासहीना निशेव

20.92

कपोलं पाणिपद्मेन संकल्पेन महीपतिम् ।
नवं तानवमङ्गेन वहन्ती निमिमील सा

20.93

ततः कालेन कल्याणी प्रतिबिम्बोपमं पितुः ।
अजीजनत्सा नतयं विनयं साधुधीरिव

20.94

वर्धमाने शनैस्तस्मिन् काले बिम्ब इवैन्दवे ।
बिम्बिसारस्य पुत्रो ऽयमिति लोकेषु पप्रथे

20.95

अपवादपरैस्तैस्तैस्तं प्रत्यनुचित्तैर्यदा ।
बाधन्ते शिशवः क्रीडाप्रसङ्गे ऽमर्षसंयताः

20.96

ततः सा प्रेषयामास पुत्रं विद्यार्जनोचितम् ।
वणिक्सार्थेन महता साङ्गुलीयं पितुः पदम्

20.97

बिम्बिसारो ऽपि संप्राप्य सदृशाकारमात्मजम् ।
हर्षदृप्तः परिष्वज्य चक्रे तस्य परिग्रहम्

20.98

वृत्ताण्ते विश्रुते तस्मिन्नाम्रपाल्याह् सकौतुकैः ।
भिक्षुभिर्भगवान् पृष्टस्तत्कथामवदज्जिनः

20.99

पुरे राजगृहे राजवल्लभोद्यानकानने ।
बभूव मालती नाम पूर्वमुद्यानपालिका

20.100

सा कदाचित् प्रसादार्द्रं पुरः प्राप्तं यदृच्छया ।
प्रत्येकबुद्धं राजषिं चूतपुण्पैपूजयत्

20.101

अयोनिजा नृपस्याहं पत्नी स्यामिति तत्र सा ।
प्रणिधानं पुरश्चक्रे तस्य चित्तप्रसादिनी

20.102

पुण्यपुष्पफलभोगशालिनी सैव दिव्यतनुराम्रपालिका ।
इत्युदारचरिता निशम्य ते भिक्षवः सपदि विस्मयं ययुः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc