भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 19

19.1

इति क्षेमेन्द्रविरचितां बोधिसत्त्वावदानकल्पलतायां शारिपुत्रप्रजज्यावदानम् नामाष्टादशः पल्लवः ॥
19. श्रोणकोटिकर्णावदानम् ।
स को ऽपि पुण्यातिशयोदयस्य वरः प्रभावः परमाक्षयो यः ।
प्रत्यक्षलक्ष्यः शुभपक्षसाक्षी जन्मान्तरे लक्षणतामुपैति

19.2

रम्ये पुरा भगवति श्रावस्त्यां जेतकानने ।
अनाथपिण्डदारामे विहारिणि तथागते

19.3

बभूव वासवग्रामे बलसेनाभिधो गृही ।
पूरिताशः फलभरैश्छायातरुरिवार्थिनाम्

19.4

जायायां जयसेनायां काले कमललोचनः ।
अजायत सुतस्तस्य पुण्यैर्मीर्त इवोत्सवः

19.5

सजहा रत्नदीपार्चिरभूत्कर्णस्य कर्णिका ।
नाभून्मूल्यतुला यस्य हेमकोटिशतैरपि

19.6

श्रवणानक्षत्रजातो ऽसौ रत्नकोट्यर्हकर्णिकाः ।
स श्रोणकोटिकर्णाख्यः कुमारो ऽभूद्गुणोचितः

19.7

स निर्मलरुचिः कान्तः कलाभिं परिपूरितः ।
अमन्दानन्दनिष्यन्दी न कस्येन्दुरिवाभवत्

19.8

स युवा वार्यमाणो ऽपि पित्रा धनदसंपदा ।
जननी साश्रुनयना परं पुरुषया गिरा

19.9

प्रियंवदो ऽपि निर्भर्त्स्यो विषवर्षीव चन्द्रमाः ।
महासार्थेन रत्नार्थी दूरद्वीपान्तरं ययौ

19.10

मकराकरमुत्तीर्य व्रजतस्यस्य निर्जने ।
कर्मोर्मिविप्लवेनाभूत् स्वसार्थविरहः पथि

19.11

सार्थो ऽपि तमनासाद्य विनिवृत्तं शुचा शनैः ।
स्वदेशमर्जितक्लेशः प्रविवेश विशृङ्खलाः

19.12

सो ऽपि तप्तमरुश्रेणीलक्षणां दक्षिणां दिशम् ।
श्रान्तः प्रशान्तविश्रान्तिर्वापिगाहं व्यगाहत

19.13

सो ऽचिन्तयदहो वित्ते प्रतिनित्तार्जनोद्यमः ।
ममायमनयेनैव जातक्लेशः फलोदयः

19.14

अहो धनार्जनावेशः संतोषविरहान्नृणाम् ।
सर्वापवादसंवादो निन्द्यानाम् विपदां पदम्

19.15

हेमाचले ऽपि संप्राप्ते न पर्याप्तिर्हनार्जने ।
संसारे वासनाभ्यासद्वेषमोहः शरीरिणाम्

19.16

पृथुप्रयासविरसा दीपिता श्रीरिवायता ।
तृष्णां तनोति नितरामियंमरुमहीतले

19.17

अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे ।
ममापि जनयन्त्येव मोहं मरुमरीचिकाः

19.18

इयं तृष्णा श्रमश्चायमिमा निरुदका भुवः ।
किं करोमि क्क गच्छामि पश्यामि ज्वलिता दिशः

19.19

इति संचिन्त्य स शनैः प्रसर्पन् सलिलाशया ।
आयासमिव साकारं ददर्श पुरमायसम्

19.20

घोरं द्वारि स्थितं तत्र संत्रासस्येव सोदरम् ।
ददर्श पुरुषं कालकरालं रक्तलोचनम्

19.21

स तेन पृष्टः पानीयं यदा नोवाच किंचन ।
तदा स्वयं प्रविष्टेन प्रेतलोको विलोकितह्

19.22

दग्धकष्ठोपमान् धूलिमललिप्तान्निरम्बरान् ।
शुष्कास्थिन्सायुशेषाङ्गान् प्रेतान् दृष्ट्वा स विव्यथे

19.23

तैर्याचितह् स पानीयं पानीयविरहार्दितः ।
परित्यज्य निजामार्तिमभूत्तद्दुःखदुःखितः

19.24

तीव्रतृष्णातुरानूचे स तानार्तप्रलापिनह् ।
ममास्मिन् मरुकान्तारे निष्कृपस्य कुतः पयः

19.25

कृच्छ्रे ऽस्मिन् दुःसहे न्यस्ताः के यूयं केन कर्मणा ।
युष्मदप्रक्रियबन्धश्चातः कृच्छ्रश्चराम्यहम्

19.26

निद्रा निःशल्यकल्पस्य सुखसिक्तेव तस्य या ।
नार्तान्नपश्यति दृष्ट्वा तेषां क्लेशक्षये क्षमा

19.27

ते तमूचुर्विरुद्धेन कर्मणा मोहसंचयात् ।
अनिवर्त्य वयं मर्त्याः क्षिप्ता व्यसनसंकटे

19.28

अधिक्षेपात् क्षेपक्षतिपतरधैर्यैर्मदभराद् अनार्यैर्मानव्यसनेर्ष्याभिरवार्यव्यतिकरैः ।
कृतास्माभिर्नित्यं सुहनहृदये निर्दयतया
वचोभिर्नाराचैर्विषपरिचितैः शल्यकलना

19.29

दानं नदत्तं हृतमेव वित्तं हिंसानिमित्तीकृतमेव चित्तम् ।
अस्मार्भिरङ्गैर्विहिता विकाराः परस्य दारापहृतिप्रकाराः

19.30

ते वयं कुहकासक्ता दक्षाः क्षुद्रेषु कर्मसु ।
प्रयाताः प्रेतनगरे घोरे ऽस्मिन् क्लेशपात्रताम्

19.31

इति तेषां वचः श्रुत्वा सो ऽन्यत्र च तथाविधान् ।
प्रेतान् दृष्ट्वानभिप्रेतान् करुणकुलितो ऽभवत्

19.32

निर्गम्य दुर्गमात् तस्मात् पुरात्पुण्यबलेन सः ।
विमलं शीतलच्छायमाससाद वनान्तरम्

19.33

अथ दूरध्वसंतप्तः परिश्रान्तः शनैः शनैः ।
निपपाताचलादन्धस्तृष्टार्त इव भाष्करः

19.34

दिने पुण्य इव क्षीणे निःशेषाशाप्रकाशके ।
संमोहमलिनं लोके तमः पापमिवोद्ययौ

19.35

क्षीणभृङ्गविहङ्गानां नलिनीनां प्रसङ्गिनी ।
विकासास्ंपसा मुद्रा निद्रेव समजायत

19.36

कारुण्यादिव शीतांशुर्ज्योत्स्नामृतशलाकया ।
स्फारतारं जगन्नित्रं चक्रे वितिमितं ततः

19.37

क्षयोदयपरावृत्तिर्द्र्शितानेकविभ्रमः ।
संसारदिनयामिन्योर्जहासेव सुधाकरः

19.38

नेत्रानन्दसुधावर्षे सुखस्पर्शे निशाकरे ।
दिग्वधूवदनादर्शे हर्षे मूर्त इवोतिते

19.39

श्रोणकोटिर्ददर्शाग्रे विमानमाननद्युतिम् ।
कौतुकादन्यरूपेण स्वर्गाद्भुवमिवागतम्

19.40

तस्मिन्नपश्यत्समदाश्चतस्रस्त्रिदशाङ्गनाः ।
दिशश्चन्द्रोदयानन्दविहारायेव संगताः

19.41

तासां मध्ये वराकारं रममाणं व्यलोकयत् ।
तरुणप्रेमसंभारमिव साकारताम् गतः

19.42

रत्नमण्डलेयूरकिरीटिकचिराम्शुभिः ।
आलिखन्तमिवाश्चर्यममर्यादं दिशां मुखे

19.43

तस्य तामद्भुताम् दृष्ट्वा संभोगसुखसंपदम् ।
मेने स सुकृताख्यस्य तरोः स्फीतां फलश्रियम्

19.44

प्रीत्या तेन कृतातिथ्यः स्वादुपानाशनादिभिः ।
तां श्रोणकोटिकर्णो ऽथ निनाय रजनीं सुखम्

19.45

ताराकुसुमवातालिप्रभा प्राभातिकी ततः ।
अनित्यतेव शशिनश्चक्रे लक्ष्मीपरिक्षयम्

19.46

क्षयं क्षपायां यातायाम् भानौ भुवनचक्षुषि ।
उदिते सर्वभूतानाम् सुखदुःखैकसाक्षिणि

19.47

विमानं सुरनार्यश्च क्षस्णाददृश्यतांययुः ।
विनष्टवदनच्छायः पुरुषश्चापतत्क्षितौ

19.48

ततस्तस्यापतत् पृष्ठे शुनां संघो ऽतिभीषणः ।
त्रैलोक्यशापपापोत्थः क्लेशराशिरिवाखिलः

19.49

स तैग्रीवामुखारब्धमांसग्रासाग्रकर्षणैः ।
आक्रन्दिरुधिरक्षीरैर्भक्ष्यमाणः क्षयं ययौ

19.50

दिनान्ते पुनरायान्तं तद्विमानमपश्यत ।
चतस्रो ऽप्सरासस्ताश्च पुरुषः स च कान्तिमान्

19.51

तं श्रोणकोटिकर्णो ऽथ पप्रच्छात्यन्तविस्मितः ।
सखे किमेतदाश्चर्यं दृश्यते कथ्यतामिति

19.52

स तेन पृष्टः प्रोवाच वयस्य श्रूयतामिदम् ।
त्वां श्रोणकोटिकर्णाख्यं जानामि सुकृतोचितम्

19.53

अभवं वासवग्रामे दुष्कृती पशुपालकः ।
पशूनां मांसमुत्कृत्य विक्रीतं सतत मया

19.54

पिण्डपाताय संप्राप्तो मामार्यः करुणानिधिः ।
कात्यायनाख्यः प्रोवाचः विरमास्मात् कुकर्मणः

19.55

हिंसामयो ह्ययं क्लेशो दुःसहः साहसैषिणाम् ।
स्वशरीरे पतत्येव छिन्नमूल इव द्रुमः

19.56

इत्यहं वार्यमाणो ऽपि तेनानार्यः कृपात्मना ।
यदा न विरतः पापात् तदा स प्राह मां पुनः

19.57

दिवा त्वं कुरुषे हिंसां सर्वथा यदि निर्दयः ।
रात्रौ शीलसमादानं गृहाण समयान्मम

19.58

इत्युक्त्वा तेन यत्नेन सर्वसत्त्वहितैषिणा ।
दत्ता शीलसमादानमयी पुण्यमतिर्मम

19.59

कालेन कालवशगः प्राप्तः सो ऽहमिमां दशाम् ।
तप्ताङ्गारसुधावर्षैरिव कीर्णो दिवानिशम्

19.60

रात्रौ शीलसमादानफलं हिंसाफलं दिने ।
चर्या मत्पुण्यपापाभ्याम् पतितः सुखदुःखयोः

19.61

तस्य मे कुरु कारुण्यं सखे कलुसकारिणः ।
गत्वा स्वदेशंमत्पुत्रं ब्रूहि मद्वचसा रहः

19.62

अस्ति मे गृहकोटान्ते निखातं हेमभाजनम् ।
तदुद्धृत्य परित्यक्तपापवृत्ति विधीयताम्

19.63

आर्यकात्यायनो नित्यं पिण्डपातेन पूज्यताम् ।
इत्युक्तस्तेन विनयात् तथेत्युक्त्वा जगाम सः

19.64

स ददर्श व्रजन् दिव्यविमानमपरं पुनः ।
रत्नपद्मलताकान्तं द्वितीयमिव नन्दनम्

19.65

तस्मिन् साङ्गमिवानङ्गं संगतं दिव्ययोषिता ।
अपश्यद्वासरारम्भे पुरुषं रत्नभूषितम्

19.66

तेन प्रीत्युपचारेण कृतातिथ्यस्तथैव सः ।
दिनं निनाय दीर्घं च क्लेशमध्ये सुधामयम्

19.67

अथ व्योमविमानाग्रात् पतिते पद्मिनीपतौ ।
अपूर्यत जगद् घोरैर्दुःखैरिव तमोभरैः

19.68

ततः क्षपापतिर्ज्योत्स्नां वमन्नेव क्षपाजडः ।
शनकैः पाण्डुरोगीव गौरद्युतिरदृश्यत

19.69

सुकुमारे दिनालोके रात्रौ राक्षसयोषिता ।
भक्षिते ऽलक्ष्यत शशी कपालबलसंनिभः

19.70

व्याप्ते चन्द्रिकया लोके कालचन्द्रनचर्चया ।
विमानमगमत् क्कापिसा च स्वर्गमृगेक्षणा

19.71

विमानपतितः सो ऽपि पुरुषः सर्वरूपया ।
शनैः सप्तभिरावर्तैः शतपद्या विवेष्टितः

19.72

सा तस्य मूर्ध्नि विवरं कृत्वा मस्तिष्कशोणितम् ।
आस्वादयन्ती शनकैश्चकार शुषिरं शिरः

19.73

अथारुणकरच्छन्ने सोच्छ्वासवदाने दिने ।
बीभत्सदर्शनक्लेशादिव मीलिततारके

19.74

प्रादुरासन् पुनर्दिव्यविमानं सा च कामिनी ।
युवा स चाद्भुततनुर्दिव्याभरणभूषितः

19.75

पृष्टो ऽतिविस्मयात् तेन स्ववृत्तान्तं जगाद् सः ।
द्विजो ऽहं वासवग्रामनिवासी मनसाभिधः

19.76

तरुणी प्रातिवेश्यस्य पत्नी मलयमञ्जरी ।
अभून्मम भुजङ्गस्य स्वैरिणी वल्लभा भृशम्

19.77

परदाररतेर्ग्रामे व्यग्रा मे क्षमते मतिः ।
मिनग्ना विषयग्रामे समग्रा मे क्षयं गता

19.78

आर्यकात्यायनः पापं ज्ञात्वा माम् चौर्यकामुकम् ।
दयाविधेयः कारुण्यात् प्रोवाच विजने शनैः

19.79

पराङ्गनाङ्गसंसर्गप्रीत्या रूपरतेः क्षैबम् (?) ।
अनङ्गाग्नौ पतन्नाशं पतङ्गं इव मा गमः

19.80

अहो आसक्तरक्तानां संपतनप्रमादिनाम् ।
कामिनाम् हिंसकानां च परदारादरः परम्

19.81

पृथु प्रवेपथु (?) स्वापश्रमविह्वलानाम् गृध्राङ्गनामुखनिखातनखक्षतानाम् ।
संमोहने परवधूविहितस्पृहाणां रोमाञ्चकारिणि परं नरके च कामः

19.82

तस्मादस्मान्निवर्तस्व वत्स कुत्सितकर्मणः ।
जायते पातकं स्पर्शे शुनामेवाशुचौ रतिः

19.83

इत्यहं कृपया तेन निषिद्धो ऽप्यविशुद्धधीः ।
अनिरुद्धेन रागेण बद्धस्तामेव नात्यजम्

19.84

विज्ञाय मामविरतं ततः कात्यायनो ददौ ।
मह्यं शीलसमादानं दिनचर्याहितोद्यतः

19.85

दिनशीलसमादानात् परस्त्रीगमनान्निशि ।
इयं मे पुण्यपापोत्था सुखदुःखमयी स्थितीः

19.86

गतेन वासवग्रामं वाच्यः पुत्रो मम त्वया ।
सुवर्णमग्निशालायामस्ति गूढं धृतं मया

19.87

वृत्तिः कार्या तदुद्भृत्य पूज्यः कात्यायनश्च सः ।
प्रणयादिति तेनोक्तः श्रोणकोटिर्ययौ ततः

19.88

सो ऽपश्यद्दिव्यललनामग्रे मणिविमानगाम् ।
लक्ष्मीं लावण्यदुग्धाब्धेरनायासोद्गतामिव

19.89

तस्य विमानपादेषि चतुर्षु स्नायुसंयुतम् ।
स ददर्शातिदुर्दशं बद्धं प्रेतचतुष्टयम्

19.90

सापि तं प्रत्यभिज्ञाय संभाष्य स्निग्धया गिरा ।
सुरोचितं ददौ तस्मै रसवत् पानभोजनम्

19.91

भुञ्जानसंज्ञयां दूरात् प्रेतैर्दैन्येन याचितः ।
स ददौ कृपया तेभ्यः काकेभ्य इव पिण्डिकाः

19.92

पिण्डो बुसत्वमेकस्य प्रयातो ऽन्यस्य लोहताम् ।
स्वमांसत्वं तृतीयस्य चतुर्थस्य प्रपूयताम्

19.93

विलोक्य तत्कृपाविष्टः स तेषां कष्टचेष्टया ।
पप्रच्छ तन्मुखच्छायाम् विच्छायीकृतपङ्कजाम्

19.94

पृष्टा तदद्भुतं तेन उवाच सा मृगेक्षणा ।
न श्रोणकोटिर्णैषां दत्तं भवति तृप्तये

19.95

ब्राह्मणस्यास्य भार्याहं पूर्वपादाबलम्बिनः ।
नन्दनाम्नः सुनन्दाख्या वासवग्रामवासिनः

19.96

द्वितीयपादसंसक्तः पुत्रो मे निष्ठुराभिधः ।
पश्चात्पादावलम्बिन्यौ दासी चेयं स्नुषा च मे

19.97

नक्षत्रयोगपूजायाम् पुरा सज्जीकृअते मया ।
भैक्ष्योपहारे मे गेहमार्यकात्यायनो ऽविशत्

19.98

मया चित्तप्रसादिन्या पिण्डपातेन सो ऽर्चितः ।
कुर्वन्नेव ययौ कान्त्या वैमल्यानुग्रहं दिशाम्

19.99

ततः स्नात्वा समायातस्तूर्णं पतिरयं मम ।
पत्पिण्डपातमाकर्ण्य प्रमिदाय मयोदितम्

19.100

कोपादुवाच मां कस्माद् विशिखः श्रमणः शठः ।
अपूजितेषु पूज्येषु बुसार्हः पूजितस्त्वया

19.101

इति मोहादनेनोक्ते पुत्रो ऽप्येष जगाद् माम् ।
पाके पूर्वाशनायोग्यः स किं नाश्नात्ययोगुडान्

19.102

इयं स्नुषा मे सततं पूर्वभक्ष्यावभोगिना ।
मयोक्ते शपथं चक्रे स्वमांसादनवादिनी

19.103

इयं दासी च भैक्ष्याणा चैर्यात्तद्व्ययकारिणी ।
आक्षिप्ता चाकरोत् सत्यं पूयशोणितवादिनी

19.104

तत्र ते प्रेतताम् याताः स्ववाक्यसदृशाशनाः ।
अहं त्वार्यप्रसादेन दिव्यभोगोपभोगिनी

19.105

त्वया त्वार्यशमाप्तेन वक्तव्या दुहिता मम ।
सन्ति हेमनिधानानि गृहे चत्वारि ते पितुः

19.106

तान्युद्धृत्य यथायोगं भजस्व् अस्वजनिस्थितिम् ।
पूजनीयः पितुर्भ्राता नाम्ना कात्यायन सदा

19.107

स ः श्रोणकोटिकर्णस्त्वं गच्छ देशं त्यज श्रमम् ।
वर्षा द्वादश संपूर्णाः स्वगृहान्निर्गतस्य ते

19.108

इत्युक्त्वा तं समादिशय तस्य प्रेतचतुष्टयम् ।
सुप्तस्यैव मुहूर्तेन स्वदेशाप्तिमकारयत्

19.109

उत्थितः सो ऽपि सहसा स्वदेशोद्यानकाननात् ।
वियोगशोकात्पितरौ शुश्रावान्ध्यमुपागतौ

19.110

भिक्षुद्विजातिथिगणे पूज्यमाने सुरालये ।
स्वकं पितृगृहं दृष्ट्वा परं विस्मयमाययौ

19.111

निश्चित्य सर्वं भावानां क्षणिकत्वादनित्यताम् ।
स्नेहरागं समुत्सृज्य तत्रस्थः समचिन्तयत्

19.112

अहो संमोहनिद्रेयं निरन्ततो दिवानिशम् ।
स्वप्नमायाविलसितैः करोत्यद्भुतविभ्रमम्

19.113

जन्मवर्त्मप्रदा माता पिता बीजवपत्खगः ।
पान्थपूजासनं कायः को ऽयं नियमसंगमः

19.114

श्रियः संसाराभ्रभ्रमपरिचिताः काञ्चनरुचा
आशा दिग् (?) निर्बन्धास्तडित इव निर्लेपचपलाः ।
वपुः सर्वापायैः क्षयभयनिकायैः परिगतं
जरारोगोद्वेगैस्तदपि न विरागस्तनुभृताम्

19.115

श्रिये स्वस्तिसमाप्तये स्वजनस्यायमञ्जलिः ।
दाक्षिण्यैः क्षमतं श्रीषु प्रव्रज्यैव प्रिया मम

19.116

इति ध्यात्वा स पितरौ समाश्वास्याप्तलोचनौ ।
बुद्धौ धर्मपथे शुद्धे शमधाम्नि न्यवेशयत्

19.117

सार्थभ्रष्टश्चिरायात् कृशो ऽपि स्वजनस्य च ।
अलुप्तसत्त्वविभवान्नकृपास्पदतां ययौ

19.118

अनुकम्पस्व यद्येतं संसारक्लेशविह्वलम् ।
सतः कस्यानुकम्प्यास्ते संपत्संपर्कनित्स्पृहाः

19.119

पशुपालकविप्रस्त्रीसंदेशादि यथोदितम् ।
निगद्य तेभ्यः कनकप्राप्तिप्रत्ययलक्षणम्

19.120

शान्तः कात्यायनं प्राप्य प्रव्रज्यां स समाददे ।
मुग्धानाम् यद्विषादाय तत्प्रसादाय धीमताम्

19.121

स समासाद्य विशदं स्रितःप्राप्तिफलं ततः ।
सकृदागाम्यनागामिफलमर्हत्फलं तथा

19.122

त्रैधातुको वीतरागः समलोष्टाश्मकाञ्चनः ।
आकाशपाणितुल्यो ऽभूदसिचन्दनयोः समह्

19.123

श्रावस्त्याम् वेणुगहने जिनं जेतवने स्थितम् ।
भगवन्तं ययौ द्रष्टुं सो ऽथ कात्यायनाज्ञया

19.124

प्रणितातकृतातिथ्यः प्रीत्या भगवता स्वयम् ।
स श्रोणकोटीकर्णो ऽथ बभाषे हर्षनिर्भरः

19.125

भगवान् धर्मकायेन दृष्टो ऽयं श्रोत्रवर्त्मनि ।
अधुना रूपकायेन पुण्यैरालोकितो मया

19.126

अनल्पसुकृतप्राप्यमिदं तद्दर्शनामृतम् ।
पीत्वा न तृप्तिमायान्ति वञ्चिता एव ते परम्

19.127

अस्पृहस्यापि ते मूर्तिः कुरुते कस्य न स्पृहाम् ।
निर्लोपस्यापि ते दृष्टिरहो हर्षेण लिम्पति

19.128

त्वत्कथा त्वदनुध्यानं त्वत्प्राप्तिस्त्वन्निषेवणम् ।
एताः कुशलमूलानां स्फीताः फलसमृद्धयः

19.129

इति श्रुत्वा भगवता प्रसादेनाब्न्हिनन्दितः ।
तदादिष्टं शमारामं स विहारमवाप्तवान्

19.130

तस्यास्पदं समभ्येत्य प्रणयाद्भगवानपु ।
श्रुत्वास्य मधुरं धर्मं स्वाध्यायं प्रशशंस सः

19.131

तां श्रोणिकोटिकर्णस्य दृष्ट्वा प्रशमसंपदम् ।
भिक्षुभिर्भगवान् पृष्टः पूर्ववृत्तमभाषत

19.132

वाराणस्यां पुरा सम्यक्संबुद्धे काश्यपाभिधे ।
निर्वाणधातौ निःशेषकार्यत्वात् परिनिर्वृते

19.133

कृकिनामनृपश्चैत्यं तस्य रत्नैरकारयत् ।
स्वयं तत्पुण्यसंभरं स्वर्गं वक्तुमिवोद्गतम्

19.134

शीर्णस्थापितसंस्कारे तस्मिन् संज्ञाधृतं धनम् ।
तत्पुत्रः प्राप्तराज्यो ऽथ न ददौ लोभमोहितः

19.135

अथोत्तरापथायातः सर्थवाहो ऽर्थदाभिधः ।
प्रददौ पृथिवीमूल्यं तत्कृते कर्णभूषणम्

19.136

कालान्तरोपगतो ऽपि दत्वा चान्यद्धनं महत् ।
प्रणिधानं स कृतवान् भूयासं पुण्यवानिति

19.137

स श्रोणकोटिकर्णो ऽयं पुण्यैः प्रातपदं महत् ।
तद्विधेनैव संयातः कर्णभूषणलक्षणः

19.138

प्रस्थानसमये माता श्राविता परुषं वचः ।
यस्मादनेन तेनास्य बभूवास्य श्रमो महान्

19.139

मध्येषु महतः शुक्लगुणसत्कर्मवाससः ।
कृष्णकर्मलवांशो ऽपि स्फुट एवावधार्यते

19.140

सुकृतसचिवः सत्त्वेत्साहः प्रवाससखी धृतिः
विषमतरणे वीर्यं सेतुर्विपद्यधिका कृपा ।
शमपरिचिता पर्यन्ते च प्रसादमयी मतिः
परिणतिरियं पुण्यप्राप्तेः स्फुरत्फलशालिनी

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc