अवदानकल्पलता · अध्याय 1
क्षेमेन्द्रविरचिता
बोधिसत्त्वावदानकल्पलता ।
नमः सर्वज्ञाय ।
1. प्रभासावदानम् ।
चित्तं यस्य स्फटिकविमलं नैव गृह्णाति रागं
कारुण्यार्द्रे मनसि निखिलाः शोषिता येन दोषाः ।
अक्रोधेन स्वयमभिहतो येन संसारशत्रुः
सर्वज्ञो ऽसौ भवतु भवतां श्रेयसे निश्चलाय
सच्छायः स्थिरधर्ममूलवलयः पुण्यालवालस्थितिर्
धीविद्याकरुणाम्भसा हि विलसद्विस्तीर्णशाखान्वितः ।
संतोषोज्ज्वलपल्लवः शुचियशःपुष्पः सदासत्फलः
सर्वाशापरिपूरको विजयते श्रीबुद्धकल्पद्रुमः
जायते जगदुद्धर्तुं संसारमकराकरात् ।
मतिर्महानुभावानामत्रानुश्रूयते यथा
अस्ति प्रभावती नाम हेमहर्म्यगृहैर्वृता ।
पुरी प्रभावतीव द्यौर्विमानैः पुण्यकर्मणाम्
विद्याधरवती सिद्धगन्धर्वगणसेविता ।
गां श्रिता शक्रनगरी सुकृतेन सतामिव
सेविता सततं सत्यव्रतदानदयामयैः ।
राजधानीव धर्मस्य पुण्यावसथशालिनी
अभूद्भूतिलकस्तस्यां प्रभासो नाम भूपतिः ।
सप्रभा सादरैर्यस्य कीर्तिरभ्यर्च्यते सुरैः
गुणसौरभसंभाराः सर्वासां हरिणीदृशाम् ।
यद्यशःपुष्पमञ्जर्यो याताः कर्णवतंसताम्
उपायज्ञस्य यस्याज्ञां सुवणकुसुमोज्ज्वलाम् ।
मालामिव महीपाला मौलिचक्रेषु चक्रिरे
तं कदाचित्समासीनमभ्येत्य भुवनेश्वरम् ।
उवाच क्षितिविन्यस्तजानुर्नागवनाधिपः
देव दिव्यद्युतिर्दन्ती गृहीतो ऽस्माभिरद्भुतः ।
त्वत्कीर्तिश्रवणाद्भूमिमैरावण इवागतः
द्वारि स्थितो ऽसौ द्विरदस्त्रिदशार्हः प्रदृश्यताम् ।
भृत्यानां प्रभुनां दृष्टः सफलो हि परिश्रमः
एतदाकर्ण्य नृपतिर्निर्गत्यामात्यसंमतः ।
ददर्श द्विरदं द्वारि कैलासमिव जङ्गमम्
उद्दामसौरभाहूतैर्भ्रमरैर्गण्डडिण्डिमैः ।
शृङ्गाराभरणोदारं वसन्तमिव सेवितम्
दन्तपर्यन्तविश्रान्तकरं मीलितलोचनम् ।
स्मरन्तं विन्ध्यकदलीसल्लकीकाननश्रियः
अगस्त्यशासनाद् यातं भुवि कुञ्जरराजताम् ।
स्फुरत्सप्तच्छदामोदं विन्ध्याचलमिवोन्नतम्
तं विलोक्य क्षितिपतिर्दन्तस्तम्भविभूषितम् ।
लक्ष्मीविलासभवनं विस्मयादित्यचिन्तयत्
अहो नवनवोत्कर्षा निर्माणाश्चर्यशालिनाम् ।
कर्मणामनवच्छिन्ना संसारसर्गसंततिः
अमन्थेन सुधाम्भोधेरनायासेन वासुकेः ।
अनाकर्षेण शैलस्य केनायं जनितो गजः
अथ हस्तिमहामात्रं संयातं नाम भूपतिः ।
आदिदेशार्चितादेशं गजो ऽयं दम्यतामिति
तदादिश्य महीपाले याते ऽन्तःपुरमन्दिरम् ।
नागं जग्राह संयातः सर्वशिक्षाभरक्षमम्
स सच्छिष्य इव प्राज्ञः प्राग्जन्माभ्यासयन्त्रितः ।
नीतस्तेन प्रयत्नेन सर्वशिक्षाविनीतताम्
बहुदाननिरुद्वेगः शक्त्युत्साहयुतः क्षमी ।
रिपुप्रघातसुगतिः स राज्ञस्तुल्यतां ययौ
दम्यक्रियासमुत्तीर्णं ततस्तं कुञ्जरेश्वरम् ।
नरेश्वराय संयातः कृतकृत्यो न्यवेदयत्
दृष्ट्वा तमङ्कुशायत्तं निर्विकारबलोदयम् ।
उत्साहशिखरारूढं मेने राजा जयश्रियम्
स संजातप्रहर्षोत्थदाक्ष्यशिक्षादिदृक्षया ।
तमारुरोह सोत्साहः सहस्रांशुरिवोदयम्
संयातो ऽथ गजेन्द्रस्य मन्त्रीव वशवर्तिनः ।
सर्वमण्डलसंचारचातुर्थं समदर्शयत्
गजप्रेक्षाप्रसङ्गेन मृगयाकेलिलालसः ।
राजा निजोत्साहमिव व्यगाहत वनं महत्
स ययौ रत्नकेयूरकिरणैर्दूरसर्पीभिः ।
सल्लकीपल्लववरैर्दिग्नागानाह्वयन्निव
व्रजन्तं तत्र ददृशुस्तं वने वनदेवताः ।
प्रहर्षविस्मयाकीर्णकर्णपूरीकृतेक्षणाः
शबरीकबरीपाशपुष्पसौरभनिर्भराः ।
वैन्ध्या वसुंधराधीशं मरुतस्तं सिषेविरे
अथ विन्ध्योपकण्ठेषु स्वच्छन्दसुखशाखिषु ।
स्मृत्वा विलासवृत्तान्तं गजः सोत्कण्ठतां ययौ
करिण्याः प्रेमबद्धाया गन्धमाघ्राय स द्विपः ।
नीतिं नृप इवोत्सिक्तस्तत्याजाङ्कुशयन्त्रणाम्
सवेगं धावतस्तस्य रागाकृष्टस्य दण्डिनः ।
विमूढस्येव संसारे नाभवद्विरतिः क्कचित्
दृष्ट्वा प्रभञ्जनजवं कुञ्जरं राजकुञ्जरः ।
व्रजन्तं जातसंदेहः संयातमिदमब्रवीत्
अहो बतायं भवता विनयं ग्राहितो गजः ।
दृष्टः प्रयातो वैमुख्यं गुरोरस्याङ्कुशस्य यः
भ्रमतीव दिशां चक्रमनुयान्तीव पादपाः ।
पादन्यासभरेणास्य क्षीबेणाधूर्णते क्षितिः
अस्मिन् देव इवाकाले प्रयाते प्रतिकूलताम् ।
सर्वाः पुरुषकारस्य निष्फला यत्नवृत्तयः
वचः श्रुत्वेति संयातः प्रभोरायातसाध्वसः ।
शिक्षापवादवैलक्ष्यादुवाच रचिताञ्जलिः
देव सर्वक्रियायत्तः कुञ्जरो ऽयं मया कृतः ।
करिणीगन्धमाघ्राय यातः किं त्वद्य विक्रियाम्
नोपदेशं न नियमं न दाक्षिण्यं न साधुताम् ।
स्मरन्ति जन्तवः कामं कामस्य वशमागताः
केन रतिरसोत्सिक्ता विषयाभिमुखी मतिः ।
अदभ्रश्वभ्रविभ्रष्टशओलकुल्येव वार्यते
शरीरश्रमशिक्षायां दमकाः कुशला वयम् ।
मनोनियमशिक्षायां मुनयो ऽपि न पण्डिताः
रागादगणितायासः स्खलिताखिलसंयमः ।
एष धावत्यमारेण मूर्खः खल इव द्विपः
वृक्षशाखां समालम्ब्य त्यजेमं पृथिवीपते ।
व्यसनी पतितः सत्यं पातयत्येव दुर्जनः
संयातस्य वचः श्रुत्वा तत्कालसदृशं नृपः ।
तेनैव सहितः शाखामाललम्बे महातरोः
अवतीर्य तरोरश्वमारुह्य नृपतौ गते ।
प्राप्यालिलिङ्ग करिणीं विगाह्य गहनं गजः
ततः शान्तस्मरो हस्ती दिनैरभ्येत्य सप्तभिः ।
स्वयमालानसंबद्धस्तस्थौ भुक्त्वा यथासुखम्
शिक्षासंयमयन्त्रितं तं दृष्ट्वा स्वयमागतम् ।
संयातः कौशलोत्कर्षहर्षाद्राज्ञे न्यवेदयत्
रागवागुरयाकृष्टः प्रययौ यः स्मरातुरः ।
शिक्षायामविसंवादी सो ऽयं प्राप्तः स्वयं गजः
संकेतयन्त्रितो वश्यो रसज्ञः सल्लकीभुवाम् ।
संतप्तलोहकवलं गृह्णाति विनये स्थितः
एष कामरसाकृष्टः कष्टां विकृतिमाययौ ।
पुनः प्रकृतिमापन्नः प्रशान्तमदनज्वरः
शक्या दमयितुं देव सिंहव्याघ्रगजादयः ।
न तु रागासवक्षीबविषयाभिमुखं मनः
एतदाकर्ण्य भूपालस्तत्तथेति विचिन्तयन् ।
उवाच सत्यमुचितं संयात कथितं त्वया
अप्यस्ति कश्चिल्लोके ऽस्मिन् येन चित्तमदद्विपः ।
नीतः प्रशमशीलेन संयमालानलीनताम्
इत्युक्ते दे वताविष्टः संयातस्तमभाषत ।
देव सन्ति जगत्क्लेशनिःशेषोन्मूलनोद्यताः
विवेकालोकिता लोके वैराग्यजनिताग्रहाः ।
शमसंतोषविशदा बुद्धा एव प्रबोधिनः
इति बुद्धाभिधां श्रुत्वा सम्यक्संबोधिचेतसः ।
राज्ञः प्राग्जन्मजाभ्यासप्रणिधानमजायत
विनिमज्जज्जगदिदं संसारे मकराकरे ।
संतारयेयं संबोधिमुक्तः कुशलसेतुना
अथोचुर्देवता व्योन्मस्तं शुद्धावासकायिकाः ।
सम्यक्संबोधिसंबुद्धो भविष्यसि महामते
इति तद्वचनं श्रुत्वा राजा विरजसां वरः ।
जातिस्मरो दिव्यचक्षुः प्रययौ बोधिसत्त्वताम्
अथ स विपुलसत्त्वस्तत्त्वनिक्षिप्तचक्षुर्
भवजलनिधिमज्जत्सर्वभूतानुकम्पी ।
अभवदभिनवोद्यत्संवुदित्साहयोगाद्
दलितकुशलसेतुः सत्त्वसंतारणाय
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0