भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 18

18.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां आदर्शमुखावदानं नाम सप्तदशः पल्लवः ॥
18. शारिपुत्रप्रव्रज्यावदानम् ।
नेदं बन्धुनों सुहृत् सोदरो वा नेदं माता न पिता वा करोति ।
यत्संसाराम्भोधेसेतुं विधत्ते ज्ञानाचार्यः को ऽपि कल्याणहेतुः

18.2

कलन्दकनिवासाख्ये रम्ये वेणुवनाश्रमे ।
भगवान् विहरन् बुद्धः पुरे राजगृहे पुरा

18.3

किलितं चोपयिष्यं च द्वौ परिव्राजकौ पुरा ।
प्रपन्नौ भिक्षुभावेन चकार शमसंवृतौ

18.4

ततश्च शारिपुत्रस्य भिक्षोः संदेशनां व्यघात् ।
यया साक्षात्कृतार्हत्त्वो सो ऽभून्मोक्षगतिक्षमः

18.5

तस्य तदद्भुतं दृष्ट्वा धनार्हं सर्वभिक्षुभिः ।
पप्रच्छुः पूर्ववृत्तान्तं स च तेभ्यो व्यभाषत

18.6

ब्राह्मणस्याग्निमित्रस्य भार्या गुणवराभवत् ।
शूर्पिकेति कृतं पित्रा क्रीडानाम च बिभ्रती

18.7

भ्राता प्रथमशीलाख्यः तस्य शूर्पसमाभिधः ।
प्रत्येकबुद्धतां यातः कदाचिद् गृहमाययौ

18.8

स तया भर्तुरादेशाद् गृहीभक्त्याधिवासितः ।
प्रणतिप्रणयाचारैस्तोषितः परिचर्यया

18.9

कदाचिच्चीवरे तस्य कुर्वाणस्य विपात्रणम् (?) ।
सूचीकर्मवहाद् दृष्ट्वा प्रणिधानं समादधे

18.10

यथेयं कर्तरीं तीक्ष्णा यथा गम्भीरगामिणी ।
सूची तथापरा प्रज्ञा मम स्यादिति सादरा

18.11

प्रत्येकबुद्धविनयात् प्रणिधानेन तेन च ।
गतास्मिन् जन्मनि सैव सप्रज्ञशारिपुत्रताम्

18.12

स एष शारिपुत्रो ऽद्य भिक्षुष्तीक्ष्णतराग्रधीः ।
कल्याणपात्रताम् यातः कल्पवल्ली हि सन्मतेः

18.13

वाक्यं भगवतः श्रुत्वा पप्रच्छुर्भिक्षवः पुनह् ।
कस्मान्नाट्यकुले जातः शारिपुत्रो नराधमे

18.14

ततस्तान् भगवानूचे पूर्वस्मिन्नेष जन्मनि ।
अभून्महामतिर्नाम राजपुत्रः सतां मतः

18.15

श्रीमतो ऽपि मतिस्तस्य प्रव्रज्यायामजायत ।
परिपाकप्रसन्नानां कालुष्याय न संपदः

18.16

प्रव्रज्या राजपुत्राणां यूनां नैव कुलोचिता ।
इत्युक्त्वा जनकः प्रीत्या तं यत्नेन न्यवारयत्

18.17

कदाचित् कुञ्जरारूढः स व्रजन् जनवर्त्मनि ।
दृष्ट्वा दरिद्रं स्थविरं कारुण्यादिदमब्रवीत्

18.18

अधन्या धनीनो लोके बन्धुबन्धनयन्त्रिताः ।
प्रव्रज्यां नाप्नुवन्त्येव त्वं तु केन निवारितः

18.19

स न्यवेदयन्मे दरिद्रस्य न पात्रं न च चीवरम् ।
धनोपकरणान्येव शमोपकरणान्यपि

18.20

राजसूनुरिति श्रुत्वा गत्वा मुनितपोवनम् ।
प्रव्रज्यां कारयित्वास्य प्रददौ पात्रचीवरम्

18.21

सो ऽचिरेणैव कालेन यातः प्रत्येकबुद्धताम् ।
राजपुत्रं समभ्येत्य दिव्यामृद्धिमदर्शयत्

18.22

तस्य प्रभावमालोक्य स प्रदध्यौ नृपात्मजः ।
अहो महोदयत्वान्मे प्रव्रज्या दुर्लभाभवत्

18.23

दारिद्य्रादविवेकाच्च् नीचानामपि दुर्लभा ।
जायेयमधमे कुले तस्मदस्मि विवेकवान्

18.24

स एव शारिपुत्रो ऽयं ज्ञातस्तत्प्रणिधानतः ।
प्रव्रजितो भगवता काश्यपेनान्यजन्मनि

18.25

तेनायं नियमप्रणयविनयी सम्यक्प्रसादोदयाद्
आदिष्टः कुशलाय सत्यनिधिना प्रज्ञावतामग्रणीः ।
काले शाक्यमुनेर्भविष्यति मतः शिष्यत्वयोगाद्वरं
मौद्गल्यायन एष चात्र कथितः संविन्मयानां वदः

18.26

अन्यजन्मनि दरिद्रः कार्मिकः केनचिदपि दयया महर्षिणा ।
दत्तपात्रचीवरो ऽभवद्दर्शितर्द्धिरासीदतुलप्रभाववान्

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc