भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 17

17.1

इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां मैत्रेयव्याकरणावदानं नाम षोडशः पल्लवः ॥
17. आदर्शमुखावदानम् ।
चित्तप्रसादविमलप्रणयोज्ज्वलस्य स्वल्पस्य दानकुसुमस्य फलांशकेन ।
हेमाद्रिरोहणनगेन्द्रसुधाब्धिदानसंपत्फलं न हि तुलाकलनामुपैति

17.2

पुरा मनोज्ञे सर्वज्ञः श्रावस्त्यां जेतकानने ।
अनाथपिण्डदारामे विजहार महाशयः

17.3

आर्यो महाकाश्यपाख्यस्तच्छिष्यः करुणानिधिः ।
नगरोपवनस्यान्तं जनचारिकया ययौ

17.4

तत्र सुद्रुगतिर्योषिन्नगराश्रवलम्बिका ।
अपश्यत् कुष्ठरोगार्ता काश्यपं तं यदृच्छया

17.5

सा तं दृष्ट्वा प्रसादिन्या श्रद्धया समचिन्तयत् ।
पात्रे ऽस्य पिण्डपातार्हा किं न जातास्मि पुण्यतः

17.6

विज्ञाय तस्या आश्चर्यश्रद्धायुक्तं मनोरथम् ।
प्रसार्य पात्रं जग्राह पिण्डं तं करुणाकुलः

17.7

तीव्रचित्तप्रसादेन भक्तसारसमरणे ।
कुष्ठिन्या निपपातास्याः पात्रे शीर्णकराङ्गुलिः

17.8

ततः सा पातकमिव त्यक्त्वानित्यकलेवरम् ।
देवानां तुषिताख्यानां निलये समजायत

17.9

शक्रस्तदद्भुतं ज्ञात्वा दानपुण्य्प्दितादरः ।
यत्नात्काश्यपसत्पात्रं सुधया समपूरयत्

17.10

सुधार्पणे ऽप्यसौ भिक्षुर्निस्पृहस्तृणलीलया ।
प्रशमामृतसंपूर्णश्चक्रे पात्रमधोमुखम्

17.11

भजन्ते प्रणयप्रीतिं कृपणेषु कृपाकुलाः ।
सन्तः संपत्समाध्मातवदने मीलितादराः

17.12

श्रुत्वा तां तुषिते देवनिकाये निरताम् नृपः ।
प्रसेनजित् भगवतश्चक्रे भोज्याधिवासनाम्

17.13

राज्ञस्तस्य गृहे दृष्ट्वा लक्ष्मीमाश्चर्यकारिणः ।
आर्यानन्देन भगवान् पृष्टस्तत्पुण्यमभ्यधात्

17.14

पुरा गृहपतेः सूनुर्दारिद्य्राद्दासतां गतः ।
क्षेत्रकर्माणि संसक्तः क्षुत्क्षामः क्लान्तिमाययौ

17.15

स्वजनन्या समानीतां निःस्नेहलवणां चिरात् ।
कुल्माषपिण्डिमासाद्य भोक्तुं सादरमाययौ

17.16

धौतहस्तः क्षणे तस्मिन् संप्राप्ताय यदृच्छया ।
ददौ प्रत्येकबुद्धाय ताम् प्रसन्नेन चेतसा

17.17

जातः स एव कालेन भूपालो ऽयं प्रसेनजित् ।
तस्य दानकणस्यैवं विभूतिः प्रथमं फलम्

17.18

श्रुत्वेति भगवद्वाक्यं भिक्षूर्विस्मयमाययौ ।
राजापि विपुलां पूजां चक्रे भगवतः पुरः

17.19

राजार्हैरखिलैर्भोगैः कृत्वा भक्तिनिवेदनम् ।
स कोटीस्तैलकुम्भानां दीपमालामकल्पयत्

17.20

दीपमेकं ददौ तत्र स्वल्पकं दुर्गताङ्गना ।
स्नेहक्षयात्प्रयातेषु सर्वेषु न जगाम यः

17.21

विचिन्त्य प्रणिधानेन तया विमलचेतसा ।
भाविनीम् शाक्यमुनितां सर्वज्ञो ऽस्याह् समभ्यधात्

17.22

रत्नदीपावलिं दत्वा राजा भगवतः पुरह् ।
उपविश्य प्रणम्याग्रे प्रणयात्तं वजिज्ञपत्

17.23

भगवत्प्रणिधानेन तत्तत्पुण्यानुभावतः ।
न कस्यानुत्तरा सम्यक्संबोधिर्भवदर्पिता

17.24

भवत्प्रसादप्रणयात् प्राप्तुमिच्छामि तामहम् ।
निर्विकल्पफलावाप्त्यै सेव्यन्ते कल्पपादपाः

17.25

इति राजवचः श्रुत्वा भगवान् समभाषत ।
दुर्लभानुत्तरा सम्यक्संबोधिः पृथिवीपते

17.26

सूक्ष्मा मृणालतन्तुभ्यो गिरिभ्यो ऽपि गरीयसी ।
समुद्रेभ्यो ऽपि गम्भीरा सा सुखेन न लभ्यते

17.27

न दानैर्बहुभिर्लब्धं मयैवान्येषु जन्मसु ।
चित्तप्रसादविशदं ज्ञानं तत्कारणं जगुः

17.28

चतुर्द्वीपाधिपत्येन मया मान्धातृजन्मनि ।
चिरं दानफलं भुक्तं बोधिर्नाधिगता तु सा

17.29

दानेन चक्रवर्तीश्रीः सा सुदर्शनजन्मनि ।
भुक्ता मयामहीयसी बोधिर्नाधिगता तु सा

17.30

पुरा दत्वा गजानष्टौ वेलामद्विजजन्मानि ।
मया प्राप्तं महत्पुण्यं बोधिर्नाधिगता तु सा

17.31

कुरूपः कुशलात्माहं राजपुत्रः पुराभवम् ।
यः पिशाचो ऽयमित्युक्त्वा निजलत्न्या विवर्जितः

17.32

श्रियै श्रीस्कन्धो भूत्यागे प्रीतिर्यस्य सदा स्थिता ।
स दुःखी रूपवैकल्यात् क्क वा सर्वगुणोदयः

17.33

तं रूपविरहे देहत्यागारूढं शचीपतिः ।
दिव्यचूडामणिं दत्वा चक्रे पञ्चशरोपमम्

17.34

षष्टिः पुरसहस्राणि तस्य यज्ञेषु यज्वनः ।
हेमयूपाभिरूपाणि प्रापुर्मेरुबलश्रियम्

17.35

तस्मिन् मयातिदानाद्रिकृते कुशलजन्मनि ।
तानि पुण्यान्यवाप्तानि बोधिर्नाधिगता तु सा

17.36

मया सत्यप्रभावेण त्रिशङ्कुनृपजन्मनि ।
कृता वृष्टिः सुदुर्भिक्षा बोधिर्नाधिगता तु सा

17.37

मिथिलायां महादेवनृपजन्मनि यज्वना ।
मयाप्ता पुण्यसंपत्तिर्बोधिर्नाधिगता तु सा

17.38

मिथिलायां पुरा पुण्यं निमिभूपालजन्मनि ।
प्राप्तं दानतपोयज्ञैर्बोधिर्नाधिगता तु सा

17.39

पुरा नन्दस्य नृपतेश्चत्वारः पिशुनाः सुताः ।
बभूवुरादर्शमुखः पञ्चमश्च गुणाधिकः

17.40

कालेनापन्नपर्यन्तः स भूपतिरचिन्तयत् ।
एते मदन्ते चत्वारो राज्यं नार्हन्ति कर्कशाः

17.41

पुत्रे ममादर्शमुखे राज्यश्री प्रतिबिम्बिता ।
सुवृत्ते लभते शोभां प्रज्ञावैमल्यशालिनि

17.42

ध्यात्वेत्यमात्यान् सो ऽवादीत् स भवद्भिर्नरेश्वरः ।
कृतो ऽन्तःपुरवर्गेण यो ऽभ्युत्थानेन पूज्यते

17.43

मौलिर्न कम्पते यस्य समेव मणिपादुकैः ।
द्वारद्रुमाद्रिवापीषु निधिषट्कं स पश्यति

17.44

इत्युक्त्वा त्रिदिवं याते नृपतौ मन्त्रिणः क्रमात् ।
तदुक्त्रैर्लक्षणैश्चक्रुरादर्शमुखमीश्वरम्

17.45

धर्मनिर्णयकार्येषु यं वादिप्रतिवादिनह् ।
विलोक्यैव स्वयं तस्थुर्न्यायैर्जयपराजये

17.46

पुरा निरभिअस्ंघेन प्रातवैशसकिल्बिषम् ।
ब्राह्मणं दण्डिनं नाम दयालुः प्रययौ पुरः

17.47

गुयुगार्थे गृहस्थेन मृतेन वडवाहतेः ।
कुठारपाततः पत्न्या तक्षवासी विवादितः

17.48

शौण्डिकेनात्मजवधाद्दीक्षितं तुल्यनिग्रहम् ।
तद्विपक्षभयेनोक्त्वा तत्संत्यक्तं व्यमोक्षयत्

17.49

अमानुषाणां सत्त्वानामध्याशयविशेषतः ।
चकार चित्तशोधनं तत्तत्संदेहनिर्णयम्

17.50

अवृष्टिमृष्टे दुर्भिक्षे येन द्वादशवर्सके ।
विहितं सर्वसत्त्वानामशनप्राणवर्तनम्

17.51

इत्यमून्मम पुण्याप्तिरादर्शमुखज्न्मनि ।
न तु सा सम्यक्संबोधिर्विबोधिता महोदया

17.52

बहुजन्मशताभ्यासप्रसासेन महीयसा ।
अद्य तु ज्ञानवैमल्यं मयाप्तं लुत्पसंवृति

17.53

ज्ञानप्रज्ञाधिगम्या किमपि परतरानुत्तरा सत्यासंवित्
सम्यक्संबोधिरेषा न च खलु नृपते लभ्यते दानपुण्यैः ।
मोहश्यामाविरामे गतघनगगनव्यक्तवैमल्यभाजां
निर्व्याजानन्दभूमिर्भवति भवतमश्छेदिनी सा दिनश्रीः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc