भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 16

16.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शिलानिक्षेपावदानंपञ्चदशः पल्लवः ॥
16. मैत्रेयव्याकरणावदानम् ।
असंगमो नाम विशुद्धिधामो श्रेयांसि सूते कुशलाभिकामः ।
संसारवामः सुकृताभिरामो मनोमलैर्वैररजोविरामः

16.2

पुरा गङ्गां समुत्तीर्य नागानां फणसेतुना ।
भगवान् सुगतः पारंप्राप्य भिक्षूनभाषत

16.3

इह रत्नमयः पूर्वं यूपो ऽभूदद्भुतद्युतिः ।
दर्शयांइ तमत्रैव द्रष्टुं वः कौतुकं यदि

16.4

इत्युक्त्वा भगवान् भूमौ पाणिना दिव्यलक्ष्मणा ।
स्पृष्ट्वा नागगणोत्क्षिप्तं रत्नयूपदर्शयत्

16.5

तं दृष्ट्वा भिक्षवः सर्वे निर्निमेषेक्षणाश्चिरम् ।
बभूवुश्चित्रलिखिताम् इव निश्चलविग्रहाः

16.6

तत्कथामथ तैः पृष्टः प्रोवाच भगवान् पुनः ।
अतीतानागतज्ञानं दन्तालोकैः किरन्निवः

16.7

देवपुत्रः पुरा कश्चित् काले स्वर्गपरिच्युतः ।
महाप्रणादनामाभून्नृपतिः शक्रशासनात्

16.8

धर्मवृत्तानुसरणस्मरणाय महीतले ।
उचितं लक्षणं किंचित् स ययाचे शतक्रतुम्

16.9

ततः सुरपतेर्वाक्याद्विश्वकर्मा तदालये ।
भास्वरं विदधे रत्नयूपं पुण्यमिवोन्नतम्

16.10

ततस्तद्दर्शनासक्ते जने कौतुकनिश्चले ।
कृष्यादिकर्मण्युच्छिन्ने राज्ञः कोषक्षयो ऽभवत्

16.11

ततस्तेन क्षितिभुजा क्षिप्तो ऽयं जाह्नवीजले ।
तिष्ठत्यद्यापि पाताले रत्नैः सूर्यैरिवाचितः

16.12

भविष्यत्यस्य कालेन परिच्छिन्नः परिक्षयः ।
न तज्जगति नामास्ते परिणामे यदक्षयम्

16.13

आगामिसमये पुंसां वर्षाशीतिसहस्रके ।
शङ्खशुभ्रयशाः शङ्खो नाम राजा भविष्यति

16.14

पुण्यलब्धमिमं यूपं नृपः कल्पद्रुमोपमः ।
स पुरोहितपुत्राय मैत्रेयाय प्रदास्यति

16.15

मैत्रेयो ऽप्यन्मुमादाय कृत्वा सपदि खण्डशः ।
अर्थिचिन्तामणिर्लोकमदरिद्रं करिष्यति

16.16

यूपं दत्वाथ मैत्रेयः सम्यक्संबुद्धताम् गतः ।
अनुत्तरज्ञाननिधिर्भविष्यति सुरार्चितः

16.17

शङ्को राजा सहस्राणामशीत्या परिवारितः ।
सान्तःपुरामात्यगणो राजापि प्रव्रजिष्यति

16.18

प्राग्जन्मप्रणिधानेन शङ्खस्य कुशलोदयः ।
कृतस्यावश्यभोग्यत्वात्परिणामे फलिष्यति

16.19

मध्यदेशे पुरा राजा वासवो वासवोपमः ।
धनसंमतनामा च नृपो ऽभूदुत्तरापथे

16.20

तयोर्विभवसंघर्षो भूतो वैराग्नितप्तयोः ।
अभूद् युद्धसमारम्भसंभाररभसं मनह्

16.21

नगरं च प्रविश्याथ समेत्य धनसंमतः ।
चक्रे गरजथानीकैर्गङ्गातीरं नीरन्तरम्

16.22

तत्र रत्नशीखी नांअ सम्यक्संबुद्धताम् गतः ।
दृष्टस्तेनार्च्यामानाङ्घ्रिर्ब्रह्मशक्रादिभिः सुरैः

16.23

सो ऽचिन्तयदहो राजा वासवः पृथिपुण्यवान् ।
विषयान्ते वसत्येष् अयो हि त्रिदशवन्दितः

16.24

ततस्तस्यानुभावेन तत्र भूपालयोस्तयोः ।
ययौ वैररजः शान्त्या मिथ्यामोहपरिक्षयम्

16.25

कॄतसंघिः परेणाथ वासवः पृथिवीपतिः ।
भगवन्तं समभ्येत्य सर्वभोगौरपूजयत्

16.26

प्रणिधानं च विदधे पूजान्ते प्रणमामि तम् ।
अहं कुशलमूलेन स्यामेतेन महानिति

16.27

अस्मिन्नवसरे घोरे शन्खशब्दे समुद्गते ।
प्रोवाच तं रत्नशिखी प्रणतं पुरतः स्थितम्

16.28

शन्खो नाम महीपालश्चक्रवर्ती भविष्यसि ।
पर्यन्ते बोधियुक्तश्च कुशलं समावाप्स्यसि

16.29

एवं सत्प्रणिधानतह् क्षितिपतिः पुण्योदयाद्वासवः
शङ्खो नाम नृप स रत्नशिखिनादिष्टः श्रियं प्राप्स्यति ।
मैत्रेयः प्रणयात्करिष्यति तथा बोधौ विशुद्धां धियं
कल्याणाभिनिवेशपुण्यतरणिराड्य हि सत्संगमः

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc