अवदानकल्पलता · अध्याय 14
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रातिहार्यावदानं नाम त्रयोदशः पल्लवः ॥
14. देवावतारवदानम् ।
जयति महतां प्रभावः पश्चादग्रे च वर्तमानो यः ।
जनकुशलकर्मसरणिः प्रकाशरत्नदीपो वः
पुरा सुरपुरे पाण्डुकम्बलाख्ये शिलातले ।
समीपे पारिजातस्य कोविदारस्य सुप्रभे
कृत्वा त्रिदशसंघानां भगवान् धर्मदेशनाम् ।
अनुग्रहाय मर्त्यानां जम्बूद्वीपमवातरत्
अमरैरनुयातस्य तस्यावतरतो भुवम् ।
विमानकाननाकीर्णं बभूव भुवनाङ्गणम्
तस्य दन्तांशुसंतानैरुपदेशमिवाचितम् ।
जग्राह चन्द्ररुचिरम् चामरं चतुराननः
छत्रं शतशलाकाङ्कमनङ्कं रङ्कुपाण्डुरम् ।
प्रसादमिव साकारमाददे ऽस्य पुरंदरः
संकाश्यनगरोपान्ते काननोदुम्बरान्तिके ।
अवतीर्णं सुकृतिनः सानन्दास्तं ववन्दिरे
तस्मिन्नुत्पलवर्णाख्या भिक्षुकी जनसंगमे ।
अलब्धावसरा द्रष्टुं नृपरूपमुपाददे
प्रदीप्तरत्नमुकुटं गण्डताण्डविकुण्डलम् ।
दृष्ट्वैवास्य नवं रूपं जहासोष्णीषपल्लवः
सा चिन्तयन्ती को वायं जनैर्निर्विवरः पुरः ।
अन्तरं नृपरूपं मे दृष्ट्वा दास्यति सादरः
अत्प् ऽन्यथा तु भगवत्प्रणतिर्मम दुर्लभा ।
न गुणं गौरवस्थानमैश्वर्यप्रणयी जनः
अहो तृणतृलालोलैर्निःसारविरसैर्धनैः ।
ह्रियते वासनाभ्यासान्निर्विचारतया जनः
दत्तान्तरा सा सहसा जनेन नृपगौरवात् ।
लोलहारं भगवतः प्रणाममकारोत् पुरः
अस्मिन्नवसरे भिक्षुरुदयी नाम संसदि ।
तां विलोक्य तथारूपामवदत् सस्मिताननः
इयमुत्पलवर्णाख्या भिक्षुकी नृपरूपिणी ।
ऋद्ध्या भगवतः पादौ वन्दते जनवन्दिता
उत्पलामोदवर्णाभुआं विज्ञातेयं मया पुरा ।
इत्युक्त्वा विरते तस्मिन् भगवानप्यभाषत
अयुक्तमेव भिक्षुक्या दर्पदृद्धिप्रकाशनम् ।
करोति प्रशमग्लानिमभिमानेन च ज्वरः
इत्युक्त्वा भगवान् कृत्वा तां तां शुभ्रोपदेशनाम् ।
विसृज्य देवान् प्रययौ स्वपदं सह भिक्षुभिः
तत्रोपविष्टः पृष्टस्तैः प्रणतैर्भिक्षुकीकथाम् ।
प्राग्जन्मकर्मसंबद्धां सर्वज्ञस्तानभाषत
वाराणस्यामभूत्पूर्वंसार्थवाहो महाधनः ।
पत्नी धनवती नाम तस्य प्राणसमाभवत्
पाणिपल्लविनी तन्वीयओवनोद्यानमञ्जरी ।
फलपुष्पवती काले सा तस्माद्गर्भमादधे
अत्रान्तरे जलनिधिद्वीपानुगमनोद्यतम् ।
प्रत्यासन्नवियोगार्ता सा वल्लभमभाषत
कियती धनसंपत्तिर्वृद्धिमद्यापि नीयते ।
यत्कृते घ्प्रगम्भीरस्तीर्यते मकराकरः
बह्वपायं धनादानं निरपाया गुणार्जनम् ।
स्वदेशात् परदेशं हि गच्छन्ति द्रविणार्थिनह्
केचिद्दुःखान्निवर्तन्ते दूरं गत्वापि निष्फलाः ।
निश्चला धनिनश्चान्ये कर्मणामेष निश्चयः
इति प्रियावचः श्रुत्वा सार्थवाहस्ततो ऽभ्यधात् ।
मुग्धे संभावनापात्रो भवत्येवं धनोद्यतः
धनार्जनविहीनानां पुङ्गुवन्मूलभक्षणात् ।
अद्य श्वो वा सुखस्थानां भोगैः सह परिक्षयः
स्वगृहे ऽपि दरिद्राणां जनह् क्रकचनिष्ठुरः ।
धनिनां परलोको ऽपि प्रेमस्निग्धजनं भुवः
क्षीणमप्युद्यतं वृद्ध्यै न वेणुं बन्धते जनः ।
न तु स पूर्णतां याति प्रत्यासन्नपरिक्षयः
मूर्खो ऽपि विदुषां वन्द्यः स्त्रीणां वृद्धो ऽपि वल्लभः ।
क्लिबो ऽपि सेव्यः शूराणामासन्नाभ्युदयो जनः
केनान्यकरणं भुक्त्वा पीत्वा काव्यामृतानि वा ।
क्षणं विचक्षणेनापि क्षुप्तिपासे विवर्जिते
यस्यार्थः स गुणोन्नतैः कृतनुतिः कं वा न धत्ते गुणं
दारिद्य्रोदयदोषदूषितरुचां निर्माल्यतुल्या गुणाः ।
वित्तेनैव गुणा गुणी न तु धनी धन्यो धनी नो गुणी कायाद्दुष्कृतसंनिपातशमनादायुर्गुणानां धनम्
इति प्राणाधिकार्थस्य पत्युराकर्ण्य सा वचः ।
साञ्जनाश्रुकणोत्कीर्णा लतेवाभृतषट्पदा
अथ प्रवहणं भेजे सार्थनाथस्तया सह ।
तीव्रतृष्णागृहीतानां हस्तपात्रं महोदधिः
तस्य जायासखस्यासौ कर्मवातानुवर्तिनः ।
अभज्यत प्रवहणं समनोरथजीवितम्
ततः फलकमासाद्य भागशेषाच्च कर्मणः ।
कशेरुद्वीपमासाद्य तत्पतिर्विपदं गतः
अनाथाम् तत्र शोचन्तीं विहङ्गः पुरुषाकृतिः ।
तामाप पाददीर्णाशां सुवर्णकुलसंभवः
स कान्तां सुमुखो नाम तामुवाच रुचाकृतः ।
समाश्वसिहि लोलाक्षि निर्भयो ऽयं तवाश्रयः
दिव्येयं सुभगा भूमिर्वयं त्वत्प्रणयैषणः ।
पुण्यायातासि कल्याणि घोरो ऽयं मकराकरः
इत्युक्त्वा तेन शनकैर्नीता रत्नालयं गृहम् ।
संपूर्णगर्भा तनयं चारुरूपमसूत सा
वर्धमाने शिशौ तस्मिन् सा शनैः प्रियवादिना ।
मुग्धा तेन विदग्धेन संभोगाभिमुखीकृता
सरलत्वान्मृदुत्वाच्च समीपप्रणयी जनः ।
स्वयमालिङ्ग्यते स्त्रीभिर्लताभिरिव पादपः
दिव्योद्यानेषु सा तेन रममाणां घनस्तनी ।
कुमारं रुचिराकारं सुषुवे सदृशं पितुः
तस्मिन् पद्ममुखाभिख्ये यौवनालंकृताकृतौ ।
सुमुखः पक्षिणां राजा काले लोकान्तरं ययौ
ततः पद्ममुखः श्रीमानाससाद पदं पितुः ।
गुणिनामविवादेन स्वाधीनाः कुलसंपदः
प्राप्तैश्वर्यं तमवदद्विजने जननी सुतम् ।
तत्प्रभावस्य संभाव्य सर्वत्र प्रभविष्णुताम्
पुत्र प्राप्ता त्वया लक्ष्मीरियं निजकुलोचिता ।
अयं तु सार्थवाहान्मे जातः पुत्रो निरंशकः
वाराणस्यामयं राजा शशक्त्या क्रियतां त्वया ।
प्रीतीसंवादसास्वादः स्वदेशे सेव संपदः
इति मातुर्गिरा पक्षी पक्षपातेन भूयसा ।
स्कन्धे भ्रातरमारोप्य व्योम्ना वाराणसीं ययौ
तत्र सिंहासनासीनं ब्रह्मदत्तं महीपतिम् ।
संजघानैकदैनं स वज्रग्रनखरैः खरैः
अभिषिच्याग्रजं पूर्णं तस्मिन्नेव नृपासने ।
अमात्यान् सो ऽवदद्भीतान् समग्रानग्रविक्रमः
यस्य राज्ञो ऽभिषिक्तस्य मया यः प्रचलीकरः (?) ।
सो ऽप्यतीतः प्रभो भक्त्या तमेवानुगमिष्यति
इत्युक्त्वा प्रवरामात्यान् स्वैरं विहगपुण्गवः ।
ययौ भ्रातरमामन्त्र्य पुनर्देशनसंविदा
स एव ब्रह्मदत्तो ऽयमिति मन्त्रित मन्त्रिणाम् (?) ।
स नृपः ख्यातिमायातः स्वजनेषु परेषु च
अत्रान्तरे समानीता सगर्भा हस्तिनी वनात् ।
न मुमोचार्धनिर्यातगर्भं रुद्धमिवान्तरे
साध्वीकराग्रसंस्पर्शादियं गर्भं विमुञ्चति ।
इति मौहूर्तिकादिष्टं राज्ञे मन्त्री न्यवेदयत्
शासनादथ भूभर्तुः स्पृष्ट्वा हस्तेन हस्तिनीम् ।
अन्तः पुराङ्गनाश्चक्रुस्तत्र सत्योपयावनम्
तासां सत्यगिरा गर्भं नात्यजत् करिणी यदा ।
तदा विलक्ष्यः सर्वो ऽभूत् भूपस्यान्तःपुरे जनः
अथ गोपाङ्गनाभ्येत्य शीलसत्योपयाचनम् ।
कृत्वा पस्पर्श करिणीं येनासौ गर्भमत्यजत्
कृत्वा निजजायानां ज्ञात्वा शीलदरिद्रताम् ।
मेने गोपां मनःस्वेव तां जगत्र्त्रितये सतीम्
स सतीजातिलोभेन सोशुम्बां नाम तत्सुताम् ।
परिणीयानिनायाग्रे देवीशब्दस्य पात्रताम्
तस्याः संचिन्त्य लावण्यं चपलत्वं च योषिताम् ।
स सर्वगामीनीं निद्रामपि तत्याज शङ्कितः
अस्मिन्नवसरे द्रुष्टुं भ्रातरं विहगाधियः ।
ययौ पद्ममुखस्तत्र स्नेहादतिशयोत्सुखः
भूपालो ऽपि तमालिङ्ग्य प्रीत्या विहितसत्कृतिः ।
विजने स्वकथामस्मै निवेद्य पुनरब्रवीत्
शीलसत्यतुलारोहात् दृष्टदोषेण योषिताम् ।
ममान्तःपुरवैमुख्यात् विवाहो ऽभिनवः कृतः
रूपयौवनगामिन्म्याम् तस्यामपि न मे धृतिः ।
एकत्र दृष्टदोषाणां सर्वत्राशङ्कते मनः
तस्मात्तव पुरे भ्रातर्विमानुष्ये निधीयताम् ।
शीलशन्कां परित्यज्य भवामि विगतज्वरः
तस्मात् प्रतिनिशं पक्षी शासनात् तव मद्गृहम् ।
प्रापयिष्यति तां स्वैरमित्ययं मे मनोरथः
इति भ्रातुर्वचः श्रुत्वा तमुवाच विहङ्गमः ।
ईर्ष्याशङ्काकलङ्केन राजन् मिथ्यैव मा कृथाः
न नाम रमते रम्ये नास्वादं वेत्ति भोजने ।
न पश्यति न निद्राति नित्यमीर्ष्यावशातुरः
क्लीबः कामी सुखी विद्वान् धनी नम्रः प्रभुः क्षमी ।
अर्थी मान्यः खलः स्निग्धः स्त्री सतीति कथैव का
सरलत्वे ऽपि कुटिलाः स्थायिन्यो ऽप्यतिचञ्चलाः ।
कुलीना अपुइ पार्श्वस्थमालिङ्गन्त्यबला लताः
दृष्टिर्लोलाधरो रागी भ्रूर्वाक्रा कठिनौ स्तनौ ।
दृश्यते नैव निर्दोषः स्त्रीणामवयवेष्वपि
भुज्यन्ते कुशलैः श्यामा भ्रमद्भ्रमरविभ्रमैः ।
मूलान्वेषी सरोजिन्याः पङ्केनैवावलिप्यत
नैकस्मिन् विस्मयभुवां सस्मितानां नियन्त्रिते ।
शुचिशीलविरामाणां रामाणां रमणे मतिः
तथापि मत्पुरोद्याने निर्जने सा निधीयताम्
इत्युक्तः पक्षिणा भ्राता नृपतिर्विससर्ज ताम् ।
कान्तां कशेरुकद्वीपे तं च सत्कृत्य सादरः
सापि प्रतिनिशं व्योम्नः खगारूढा समाययौ ।
दिव्यगन्धमयीं मालामादाय द्वीपसंभवाम्
पारिजातान्वयतरोस्तानि पुष्पाण्यवाप सा ।
ख्यातानि तिमिराणीव भ्रमद्भृङ्गान्धकारतः
अथ वाराणसीवासी कदाचिन्मानवाभुधः ।
प्रययौ समिधाहारी द्विजन्मा काननं युवा
तत्र किन्नरकामिन्या स दृष्टः स्पष्टमन्मथः ।
यस्य संदर्शनेनैव साभवद्विस्मृतस्मृतिः
असौ नवाभिलाषेण जनकेनेव सार्पिता ।
कान्ता कान्तिमयी नाम विजहार गुहागृहे
तत्राभरणरत्नाशुः प्रतीततिमिरोत्करे ।
रममाणा चिरं तेन काले पुत्रमवाप सा
बलवान् मरुदुद्भवः स बाल्ये ऽपि यदा शिशुः ।
तदा माता तस्य संज्ञां शीघ्रग इत्यसाधयत्
सापि निवाघ्नसंभोगा सुखातृप्ता गुहान्तरे ।
प्रियं धॄत्वा सदा याति पिधाय शिलया गृहम्
कदाचिदथ वृत्तान्तं निजपित्रा निवेदितम् ।
आकर्ण्य शीघ्रगश्चिन्ताविस्मयाकुलितो ऽवदत्
शिलानिबद्धद्वारे ऽस्मिन्नन्धस्यैव गॄहान्तरे ।
अहो स्नेहो ऽप्ययं तात तव बन्धनतां गतः
एहि वाराणसीमेव गच्छावस्ते निजास्पदम् ।
विओउलामप्ययत्नेन शिलामुत्सारयाम्यहम्
स्वदेशविरहक्लेशं द्य्ःशं सहसे कथम् ।
त्यक्तुं न शक्यते कौश्चिद्देशो देह इव स्वकः
भारं द्रविणसंभारं वेत्ति ग्रन्थिगुणागुणः ।
भोगं निरुपभोगं च स्वदेशविरही जनः
इत्युक्त्वा स गुहागोहादुत्पाट्य विपुलां शिलाम् ।
कृताभ्युपगमेनाशु जनकेन ययौ सह
प्रयातयोस्ततस्तूर्णं समभ्येत्याथ किन्नरी ।
शून्यं दृष्ट्वा गुहागेहं निर्वेदादित्यविन्तयत्
अहो मे विस्मृतस्नेहः स गतः क्कापि दुर्जनः ।
द्विजिह्वानां भुजंगानां कौटिल्यं वा किमद्भुतम्
न रमन्ते पलायन्ते पर्यन्ते सुखरागिणः ।
चिरस्था अपि निःस्नेहाः शुका इव द्विजातयः
इति संचिन्त्य सा पत्युर्निकारात्प्रीतिमत्यजत् ।
पुष्पोपमानि प्रेमाणि न सहन्ते कदर्थनाम्
विद्यागुणेन केनासौ पुत्रो मे भुवि जाईवति ।
इति ध्यात्वा सखीहस्ते तस्मै वीणां दिदेश सा
संभोगसुखपण्यैव प्रीतिः पतिषु योषिताम् ।
अपर्युषितवात्सल्या पुत्रप्रीतिस्तु निश्चला
जवेन व्रजतोस्तूर्णं तयोर्दौर्जन्यलज्जया ।
शीग्रगाय ददौ वीणां तत्सखी वेगगामिनी
आद्या तन्त्रिरियं नास्याः स्प्रष्टव्या विघ्नकारिणी ।
इत्याभाष्य तया दत्तां वीणां प्राप्य जगाम सः
ततः स्वदेशे जनकं स्वगृहे विनिवेश्य सः ।
वीणाप्रवीणः सर्वत्र लाभपूजामवाप्तवान्
ततः कदाविद्वाणिजा अम्बुधिद्वीपगामिना ।
आरोपितः प्रवहणं दिव्यवीणानुरागिणा
वीणामूर्च्छनया तस्य श्रोत्रपीयूषधारया ।
क्षणे क्षणे समुद्रो ऽपि निस्तरङ्ग इवाभवत्
अथाद्यतन्त्रिसंस्पर्शादुत्पन्नोपप्लवोप्लुते ।
भग्ने प्रवहणे सर्ववणिजामभवत् क्षयः
ततो बलाहकावाप्त्या पवनप्रेतितः क्षणात् ।
कशेरुद्वीपमासेदे कर्मशेषेण शीघ्रगः
तत्राब्धिकूलसंलीनं दिव्योद्यानं प्रविश्य सः ।
श्यामां ददर्श सोशुम्बां मूर्धन्यस्तबकस्तनाम्
ग्रन्धन्तीं तिमिराख्यानां पुष्पाणामुज्ज्वलस्रजम् ।
निबन्धनं तनुगुणैः कुर्वाणामप्यचेतसाम्
सापि तं रुचिराकारं दृष्ट्वा विस्मयमाययौ ।
धीरं शैशवतारुण्यसंधिमध्यस्थतां गतम्
मारमारुतसंचालसकम्पकरपल्लवा ।
सा शीर्णशीलकुसुमा लतेव प्रणनाम तम्
चिरारूढेव सहसा प्रीतिः प्रौढा तयोरभूत् ।
प्राग्जन्मस्नेहसंलीनं न मुञ्चति मनो मनः
रममाणां दिवा तेन निशायां च महीभुजा ।
मेने वामाचरिततां ताम् प्रियो गूढकामुकः
तेन वाराणसीं गन्तुं ज्ञात्वा वृत्तं समर्थिता ।
तन्निनाय खगारूढा तद्गिरा मीलितेक्षणम्
वारितो ऽपि तदा व्योम्नि नयनोन्मीलने तया ।
सो ऽबह्वत्सहसैवान्धश्चापलाद्विवृतेक्षणः
सा तमन्तःपुरोद्याने निधाय भयकातरा ।
विवेश शोकसंतप्ता शय्यावेश्म महीपतेः
दूयमानेन मनसा रजनीमतिवाह्य ताम् ।
प्रातर्न गन्तुं न स्थातुं चिन्ताक्रान्ता शशाक सा
अत्रान्तरे समुद्भूतश्च्युतसौरभनिर्भरः ।
मधुमासो विलासानां यौवनं पुष्पधन्वनः
कोकिलालिकुलैः कालः कालः कालो वियोगिनाम् ।
शीर्णशोकनवाशोकदुःसहः प्रतिदृष्यते
राजाप्यविरतौत्सुक्यादुद्यानं गन्तुमुद्यतः ।
दिनमेकं न तत्याज सोशुम्बां काममोहितः
स तयासह रागस्य मदस्य मदनस्य च ।
संसारमिव विश्रान्तिपदपुष्पवनं ययौ
तत्र बालानिलालोललतावैलक्ष्यकारिणीम् ।
पश्यन् प्रमोदमासेदे यदितामेव भूपतिः
अन्यरागविषाक्रान्ता साप्यभून्मलिनस्मृतिः ।
सुखमप्यसुखं वेत्ति चिन्ताशल्याकुलं मनः
अन्तर्गतभुजंगाभिः स्त्रीभिरत्यन्तरागिणः ।
कण्ठे कृताभिर्नृत्यन्ति मालाभिरिव मोहिताः
तत्रैकान्तलताकुञ्जनिकुञ्जनिहितस्थितिः ।
अन्धः सौरभमाघ्राय सोशुम्बातिमिरस्रजः
सहसैव विकारेण रागाद्विस्मृतसंवृतिः ।
अगायन्मदनक्षीबा गणयन्ति बह्यं कुतः
तनुपवनविलासैः कीर्यमाणः प्रियायाः
समदबदनपद्मामोदसंभारसारः ।
तिमिरकुसुमगन्धः सो ऽयमायाति दूरात्
भ्रमरसरणिवीणाविभ्रमारावरम्यः
श्रुत्वा हृदयसंवादगीतं तत्तस्य भूपतिः ।
उद्यानविचयं कृत्वा तं ददर्श लतान्तरे
गाढरोचमदक्षीबं स तं पप्रच्छ शङ्कितः ।
अपि जानसि सोशुम्बां तस्य वा लक्षणं तनोः
सो ऽब्रवीत् किं न जानामि सोशुम्बां बिम्बपाटलाम् ।
उपविष्टो ऽधरे यस्या रागराज्ये मनोभवः
न्यस्तं स्मरेणेव तदूरूमूले लेखामयं स्वस्तिकमस्ति कान्तम् ।
आवर्तशोभा स्तनमण्डले वा लावण्यकल्लोलनिभास्ति तस्याः
एतदाकर्ण्य नृपतिः सद्यः संतापशोषितम् ।
मुमोच रागकुसुमं निर्माल्यमिन्व चेतसः
सो ऽब्रवीन्नास्ति नारीणां शीलरक्षा शतैरति ।
खपुष्पमालेव सती सर्वथा नैव जायते
इत्युक्त्वान्धेन तां राजा सह श्मशानकाननम् ।
गर्दभारोपितां तूर्णं तत्याज नगराद्बहिः
सा तेन सह निर्लज्जा व्रजन्ती दिनसंक्षये ।
अटव्यां चौरपतिना प्राप्तैव सह संपदा
जनैरभिद्रुते तस्मिन् सहसा चौरमण्डले ।
निरपराश एवान्धश्चौरभ्रान्त्या निपातितः
चौरो ऽपि निशां भुक्त्वा सोशुम्बां क्षस्णसंगतः ।
गृहीत्वाभरणान्यस्या जगामोत्तीर्य निम्नगाम्
कारण्डवायाह् सरितस्तस्यास्तीरे निरम्बरा ।
शुशोव साञ्जनैरश्रुजालैः सा मलिनस्तनी
तस्मिन् क्षणे मुखासक्तं मांसमुत्सृज्य जम्बुके ।
याते जलोत्प्लुतं मत्स्यं तज्जहारं विहङ्गमः
मत्स्ये निमग्ने सहसा खगेन पिशिते हृते ।
स बभूवोभयभ्रंशाच्चिन्तानिश्चललोचनः
तस्यास्तं वीक्ष्यं दुःखे ऽपि मुखे स्मितमदॄश्यत ।
हासः परस्य स्खलिते दुःस्थस्याप्युपजायते
स तां वैलक्ष्यकुपितः प्रोवाचानुचितस्मिताम् ।
अहो हससि मां लोके हास्यायतनताम् गताम्
नृपं त्यक्त्वागता ह्यन्धम्त्यक्तवान्धं चौरमाश्रिता ।
तवाहमुभयभ्रष्टः त्रिभ्रष्टायाः स्मितास्पदम्
आस्ताम् वः परिहासो ऽयं तं युक्त्याहं करोमि ते ।
खलास्ते विषमस्थानाम् ये बिडम्बनपण्डिताः
इत्युक्त्वा नगरीं गत्वा स नृपाय न्यवेदयत् ।
सोशुम्बा ते नदीतीरे तपोयुक्तेति मन्मतिः
अथ निनाय ताम् राजा वितीर्याभरणाम्बरम् ।
दोषमाच्छादयत्येव रागद्वेषः शरीरिणाम्
सैवाद्योत्पलवर्णेयमुदायी शीघ्रगो ऽप्यसौ ।
प्राग्जन्मान्तरपुण्येन भिक्ष्ःउव्रतमुपागतौ
अभवदतिरसार्द्रं मानास्ं रागयोगे
यदु मदनविधेयं रागयुक्तं यदस्याः ।
विरतशमविरारा तेन तस्मिन् मुहूत्रे
कृतनरपतिरूपानन्दिनं माम् ववन्दे
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0