अवदानकल्पलता · अध्याय 15
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां देवावतारावदानं नाम चतुर्दशः पल्लवः ॥
15. शिलानिक्षेपावदानम् ।
बलभतुलधैर्यवीर्यं साश्चर्यं भवति सप्रभावाणाम् ।
महदाश्रययोगाद्यस्मै सर्वं महिमत्वमायाति
पुरा कुशीपुरीं रम्यां मल्लानां बलशालिनाम् ।
स्वेच्छाविहारी भगावान् प्रतस्थे सुगतः स्वयम्
ते तदागमनं श्रुत्वा कल्याणं कुशलैषिणः ।
वर्त्मसंशोधनं चक्रुरुपचारपदोद्यताः
देशं भूषयतां तेषां संसिक्तं चन्दनोदकैः ।
तृणकण्टकपाषाणसर्करारेणुवर्जितम्
मध्ये समाययौ भूमिनिमग्ना महती शिला ।
अवसन्ना विसन्ना च वधूर्विन्ध्यगिरेरिव
तामुत्पाटयतां तेषां कुद्दालभुजरज्जुभिः ।
मासो जगाम न त्वस्याः सहस्रांशे ऽप्यभूत क्षतिः
अथ सम्सारसंतापप्रशमामृतदीधितिः ।
आययौ भगवान् सर्वमानसोल्लासबान्धवः
घनान्धकारविरतिव्यक्तसत्फलदर्शनः ।
प्रसादसंविभक्ताशः प्रकाश इव शारदः
स तान् दृष्ट्वा परिश्रान्तान् विफलक्लेशपिडाईतान् ।
श्रुत्वा च तद्व्यवसितं तानूचे प्रणताननान्
अहो क्लेशफलारम्भः प्रयासव्यवसायिनाम् ।
संसारकर्मणीवास्मिन् व्यापारे वः समुद्यमः
प्रारम्भे विषमक्लेशं क्रियमाणं ससंशयम् ।
सिद्धमप्यनुपादेयं न प्राज्ञाः कर्म कुर्वते
इत्युक्त्वा चरणाङ्गुष्ठघट्टिताम् वामपाणिना ।
विन्यस्य दक्षिणे पाणौ भगवान् विपुलां शिलाम्
विसृज्य ब्रहम्लोकान्तमपर्यन्तपराक्रमः ।
चचाराश्चर्यचर्यायां दूतमिव जगत्त्रये
क्षिप्तायां सहसा तस्याम् तेनात्यद्भुतकारिणा ।
उदभूद्गनोद्भूत इव व्याप्तजनः स्वनः
अनित्यः सर्वसंस्कार इत्यभ्रान्तविधायिनः ।
सर्वधर्मा निरात्मानः शान्तनिर्वाणमेव तत्
इति स्फुटोदिते शब्दे शिला भगवतः करे ।
गिरीन्द्रशीर्षकाकारा स्थिता पुनरदृश्यत
क्षणेन सा भगवता क्षिप्ता वदनमारुतैः ।
कृता विसारिणी दिक्षु परमाणुपरंपरा
पुनरेकीकृतामेव भगवान् परमाणुभिः ।
शिलामन्यत्र निदधे विस्मयं च जगत्त्रये
आश्चर्यनिश्चलदृशस्ततो मल्ला बलिर्जितम् ।
वीर्यं भगवतो वीक्ष्य प्रणतास्तं बभाषिरे
अहो महाप्रभावो ऽयं बलवीर्योदयस्तव ।
निश्चयाधिगमे यस्य न प्रगल्भाः सुरा अपि
अनुग्रहप्रवृत्तेन बलेन गुरुणा तव ।
अधोगतिनिमग्नेयं जनतेव धृता शिला
वीर्यप्रज्ञाबलादीनाम् प्रमाणावधिनिश्चयम् ।
अपि जानाति ते कश्चिदाश्चर्यतरकारिणः
इति ब्रुवाणानाश्चर्यनिश्चलानवलोक्य तान् ।
तस्यां शिलायामासीनः प्रोवाच भगवान् जिनः
एकीभूतबलं यद्धि भूतानाम् भुवनत्रये ।
सुगतस्य तदेकस्य लोके नैव समं बलम्
अम्भांसि कुम्भैरम्भोधेर्जगन्ति परमाणुभिः ।
शक्यान्यलं लङ्घयितुं प्रभावो न तु सौगतः
संख्यां सुमेरोर्यो वेत्ति तुलामानेन तत्त्वतः ।
सुगतानाम् न जानाति सो ऽपि सुद्गुणगौरवम्
कथयित्वेति भगवान् संप्राप्ते सुरमण्डले ।
सशक्रपद्मनिलये चक्रे कुशलदेशनम्
मल्लास्तदुपदेशेन तत्तद्बोधिसमाश्रयात् ।
सश्रावकाख्यां प्रत्येकसम्यक्संबुद्धतां ययुः
स्रोतःप्राप्तिफलं कौश्चित्सकृदागामि चापरैः ।
अनागामिफलं चाण्यैः प्राप्तमर्हत्पदं परैः
इत्याश्ययानुशयधातुगतिं निरीक्ष्य ज्ञात्वा तथाप्रकृतिमप्रतिमोपदेशम् ।
तेषां चकार भगवांश्चतुरार्यसत्यसम्यक्प्रकाशविशदं कुशलोदयाय
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0