अवदानकल्पलता · अध्याय 13
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां हारीतिकादमनावदानं नाम द्वादशः पल्लवः ॥
13. प्रतिहार्यावदानम् ॥
यः संकल्पपथा सदैव चरति प्रोज्जृम्भमाणाद्भुतं
स्वप्नैर्यस्य न संगतिः परिचयो यस्मिन्नपूर्वक्रमः ।
वाणी मौनवती च यत्र हि नृणां यः श्रोत्रनेत्रातिथिस्
तं निर्व्याजजनप्रभावविभवं मनौरमेयं नुमः
पुरे राजगृहाभिख्ये बिम्बिरासेण भूभुजा ।
पूज्यमानं जिन दृष्ट्वा स्थितं वेणुवनाश्रमे
मात्सर्यविषसंतप्ता मूर्खाः सर्व्ज्ञमानिनः ।
न सेहिरे तदुत्कर्षं प्रकाशमिव कौशिकाः
मलिनैः स्वविनाशाय परभागोदितैः सदा ।
क्रियते वासरस्पर्धा शार्वरैस्तिमिरोत्करैः
मस्करी संजयी वैरैरजितः ककुदस्तथा ।
पूरणज्ञातिपुत्राद्या मूर्खाः क्षपणकाः परे
ऊचुर्नृपतिमभ्येत्य मारमायाविमोहिताः ।
संघर्षद्वेषदोषेण धूमेनेवान्धकारिताः
एष सर्वज्ञतामानी वने यः श्रमणः स्थितः ।
ऋद्धिप्रभावो भवता तस्यास्माकं च दृश्यताम्
ऋद्धिप्रभावाद्यत्किंचित् जनव्यावर्जनोर्जितम् ।
द्र्श्यते महदाश्चर्यं प्रातिहार्यं तदुच्यते
शक्तिः संसदि यस्यास्ति प्रतिहार्यस्य दर्शने ।
अस्माकं तस्य वा राजन् पूजाः सन्तु जगत्र्त्रये
इति तेषाम् वचः श्रुत्वा तद्दर्पविमुखो नृपः ।
उवाच वाञ्छा केयं वः पङ्गूनां गिरिलङ्घने
असमञ्जसमेवैतत् का स्पर्धाग्नेः पतङ्गकैः ।
नैतद्वाच्यं पुनर्वादी मया निष्कास्यते पुरात्
इति राज्ञा गुणज्ञेन प्रत्याख्यातोद्यमाः खलाः ।
प्रययुस्ते निरालम्बे लम्बमाना इवाम्बरे
बिम्बिसारो नरपतिर्मूर्खतापक्षपातवान् ।
अन्यं व्रजामो भूपालमिति ते समचिन्तयन्
अत्राण्तरे भगवति श्रावस्तीमभितः पुरीम् ।
प्राप्ते तेजवनारामं दिगन्तानेव ते ययुः
ते प्रसेनजितं तत्र प्राप्य कोसलभूपतिम् ।
प्रातिहार्यकृतस्पर्धां तामेवास्मै न्यवेदयन्
गुणान्तरज्ञो नृपतिस्तेषाम् दर्पक्षयेच्छया ।
ऋद्धिसंदर्शनोत्साहाद्ययौ भगवतो ऽन्तिकम्
स समभ्येत्य विनयात् प्रणिपत्य तमब्रवीत् ।
भगवन् दर्पबलनं तीर्थ्यानां कर्तुमर्हसि
ऋद्धिस्पर्धानुबन्धेन त्वत्प्रभावदिदृक्षया ।
स्वगुणश्लाघयास्माकं तैः कर्णौ बधिरीकृतौ
प्रकाशय निजं तेजः सज्जनावर्जनम् विभो ।
तीर्थ्याभिधानामखिलं प्रयातु प्रलयं तमः
इति राजवचः श्रुत्वा निर्विकारो महाशयः ।
भगवान् विरतामर्षः सहर्षस्तमभाषतः
राजन्नान्योपमर्दाय विवादाय मदाय वा ।
विवेकाभरणार्हो ऽयं क्रियते गुणसंग्रहः
मात्सर्यमलिनैः किं तैर्विचारविगुणैर्गुणैः ।
ये हरन्ति परोत्कर्षं स्पर्धाबन्धप्रसारिताः
गुणाच्छादनमन्यस्य स्वगुणेन करोति यः ।
धर्मस्तेनाप्रशस्तेन स्वयमेव निघातितः
सद्गुणानां परिक्षैव परवैलक्ष्यकारिणी ।
उचिता न हि शुद्धानां तुलारोहविडम्बना
गुणवानपि नायाति यः परेषु प्रसन्नताम् ।
स दीपहस्तस्तत्पात्रच्छायया मलिनीकृतः
लोक त एव सर्वज्ञा विद्मः किमधिकं वयम् ।
पराभिमानाभिभवप्रागल्भ्यं स्वपराभवः
इति श्रुत्वा भगवतः प्रशमाभिमतं वचः ।
भृशमभ्यर्थनां राजा चकाराश्चर्यदर्शने
ततः दृच्छ्राद्भगवता कृताभ्युपगमो नृपः ।
राजधानीं ययौ हृष्टः सप्ताहावधिसंविदा
अस्मिन्नवसरे भ्राता भूमिभर्तुरसोदरः ।
चचारान्तःपुरोपान्ते प्रासादतलवर्त्मना
सलीलं व्रजतस्तस्य कर्मवातैरिवेरिता ।
कुसुमस्रक् पपातांसे राजपत्नीकराच्च्युता
तस्य विज्ञातदोषस्य दोषं संभाव्य साक्षिभिः ।
पिशुनाः किंवदन्तीं ताम् चक्रिरे राजगामिनीम्
छिद्रमल्पमपि प्राप्य क्षुद्राः सर्वापकारिणः ।
द्विजिह्वाः प्रविशन्त्याशु प्रभूनां शून्यमाशयम्
पिशुनप्रेतिरो राजा भ्रातुरीर्ष्याविषोल्बणः ।
छेदमस्यादिदेशाशु पाणिपादस्य मूर्च्छितः
निकृत्तपाणिचरणः कुमारः कर्मविप्लवात् ।
स वध्यवसुधाशायी विवेश विषमापदम्
तीव्रव्यथापरिवृतं शोचद्भिर्मातृबन्धुभिः ।
ददृशुस्तं क्षपणकाः क्षणं नयनचालने
तान् समभ्येत्य शोकार्तास्ते राजसुतबान्धवाः ।
जगदुस्तत्परित्राणसंलिप्ताः सर्वप्राणिनह्
दोषं निगृहीतो ऽयं कालनामा नृपात्मजम् ।
सर्वज्ञवादिनो यूयं प्रसादो ऽस्य विधीयताम्
इति तै प्रसरद्बाष्पैरर्थ्यमानाह् प्रलापिभिः ।
ते मौनिनो निष्प्रतिभा वैलक्ष्यादन्यतो ययुः
अथ तेन यथायातो भिक्षुः सुगतशासनात् ।
आनन्दो विदधे ऽङ्गानि तस्य सत्योपयाचनात्
राजपुत्रस्तु संजातपाणिपादः प्रसन्नधीः ।
जिनं शरणमभ्येत्य तदुपस्थायको ऽभवत्
सप्तरत्रे व्यतीते ऽथ श्रान्तिहार्यं गृहं महत् ।
ऋद्धिं भगवतो द्रष्टुं महीपतिरकारयत्
उपविष्टे नृपे तत्र सह क्षपणकादिभिः ।
कल्पवृक्षीकृता भूमिरभवत् सुगतेच्छया
ततः प्राप्तेषु देवेषु द्रष्टुं भगवतः प्रभाम् ।
रत्नप्रदीपं भगवान् भेजे सिंहासनम् महत्
तेजोधातुं प्रपन्नस्य तस्य गण्डसमुद्गतैः ।
व्याप्तं पावकसंघातैरभूद्भुवनमण्डलम्
शान्ते शनैः कमलकाननसंनिकाशे वह्नौ समस्तभुवनस्थितिभङ्गभीत्या ।
देहात्ततो भगवतः करुणाम्बुराशेः पूर्णामृतोर्मिविमला रुचयः प्रसस्रुः
लावण्यसारमतिचन्द्रसहस्रकान्तिं तेजः प्रतानविफलीकृतसूर्यचक्रम् ।
तं नागनायकनिकायविलोचनानि प्रीत्या पपुः सुकृतलब्धमपूर्वहर्षम्
वैदूर्यनालविपुलारुणरत्नपात्रकान्तोल्लसत्कनककेसरकर्णिकानि ।
अभ्युद्ययुः क्षितितलादथ तत्समीपे पद्मानि सौरभभराहृतषट्पदानि
तेषूपविष्टमथ काञ्चनचारुकान्तिं स्निग्धेक्षस्णं सुगतचक्रमदृश्यतारात् ।
पीयूषपेशलशशिद्युतिशीतलेन यस्योदयेन सहसा सुखमाप लोकः
तेषां प्रभावविभवं बह्गवान् बभार मध्ये ऽधिकं कनकशैल इवाचलानाम् ।
सुस्कन्धबन्धुरघनद्युतिसंनिवेशः प्रांशुः सुरक्षितिरुहामिव पारिजातः
स्वर्गाङ्गनाकरकुशेशयकीर्यमाणैरम्लानमाल्यवलयैः कलितोत्तमाङ्गाः ।
तस्याननाम्बुजविलोकननिर्निमेषे मर्त्या अपि क्षणमवापुरमर्त्यभावम्
व्योमाङ्गणेषु सुरदुन्दुभिशङ्खतूर्यघोषावृतः कुसुमवर्षमहाट्टहासः ।
गन्धर्वकिन्नरमुनीश्वरचारणानां स्फीटश्चचार भगवत्स्तुतिवादनादः
तत्रारुणाधरदलाद्दशनांशुशुभ्राद् व्याकीर्णकेशरकुलाद्दशनारविन्दात् ।
सत्सौरभं भगवतः स्वरसंनिवृत्तं धन्याः पपुर्मधुरवाङ्भधु पुण्यसूतम्
पापं विमुञ्चत निषिञ्चत पुण्यबीजं वैरं परित्यजत साम्यसुखं भजध्वम् ।
ज्ञानामृतं पिबतं मृत्युविषापहारि नेयं तनुः कुशलकर्मसखी चिराय
लक्ष्मीश्चला तरुणता च जरानुयाता कायो ऽप्यपायनिचयस्य निवास एव ।
प्राणाः शरीरककुटिषु मुहूर्तपान्था नित्योदये कुरुत धर्ममये प्रयत्नम्
इत्यादिभिर्भगवतः प्रविभक्तदीप्तज्ञानैर्विवेकविमलैः कुशलोपदेशैः ।
वज्रैरिवाशु दलनं प्रययौ जनानां सत्कायदृष्टिसमविंशतिशृङ्गशैलः
ऋद्धिप्रभां भगवतः प्रविभाव्य तीर्थ्या मन्त्रहता विषधरा इव भग्नदर्पाः ।
दीपा इवार्ककिरणप्रतिभाभिभूताश्चित्रार्पिता इव ययुश्चिरनिश्चलत्वम्
अत्रान्तरे भगवतः सततं विपक्षः सर्वात्मना क्षपणको नवधर्मयक्षः ।
क्षिप्तश्रवान् स वृतवर्षवरैश्चकार विद्रव्य रन्ध्रशरणान् भुवि वज्रपाणिः
अद्दिश्य तानथ कृपार्द्रभयाशरण्यः सर्वोपदेशविषयान् भगवान् बभाषे ।
भूभृद्वनाबनिमणिर्विवरादि सर्वं तेने भयेषु शरणं किल कातराणाम्
बुद्धिं प्रबोध मम धाम्बि निधाय बुद्धिं
धर्मं ससंघमपि ये शरणं प्रपन्नाः ।
तेषा जगत्क्षयभयेष्वपि निर्भयाणां
नैवान्यतः शरणदैन्यपरिग्रहो ऽस्ति
दुर्वारे परलोकतीव्रतिमिरे धर्मः प्रवृद्धो ऽशुमान्
दानं दुःसहपापतापविपदामभ्युद्गमे वारिदः ।
प्रज्ञा मोहमहाप्रपातविषमश्वभ्रे करालम्बनं
दैन्याक्रान्तमहीनमेव शरणं सर्वत्र पुण्यं नृणाम्
इति तिमिरवृताक्ष्णां चक्षुरुन्मीलनार्हं दशनमणिमरीचिव्यज्यमानप्रकाशम् ।
सदसि सुगतचन्द्रः शुद्धधर्मोपदेशं स्थिरपदमिव कृत्वा काननं स्वं जगाम
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0