अवदानकल्पलता · अध्याय 12
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां विरूढकावदानं नाम एकादशः पल्लवः ॥
12. हारीतिकादमनावदानम् ।
दुःखं नुदन्ति सुखसंपदमादिशन्ति संजीवयन्ति जनताम् तिमिरं हरन्ति ।
सन्मानसस्य कलयन्ति विकासहासं सन्तः सुधार्द्रवदनाः शशिन कराश्च
बिम्बिसारः क्षितेः सारे पुरे राजगृहाभिधे ।
सारः समस्तभूपानामभूद्भूमिपुरंदरः
क्षमाधारे भुजे यस्य क्षमाधारे च चेतसि ।
बाह्यः समस्तचित्तानामशु न्यस्तकरो जनः
कुर्वतस्त्यागशौर्याभ्यामाशायाः परिपूरणम् ।
पाणौ विमुक्तरत्नौघे सुबद्धो ऽभूदसिग्रहः
कदाचिदभवत्तस्य विप्लवो नगरे गुरुः ।
नवाभ्युदयसंजातदर्पकाल इवाकुलः
तमास्थानसमासीनं जनचिन्ताकृतक्षणम् ।
व्यजिज्ञिपत सौराजं प्रजानां जनकोपमम्
देव दिव्यप्रभावस्य नियतः शासनेन ते ।
जनह् सदा समुद्रो ऽयं मर्यादां नातिवर्तते
येनास्य कृतवृत्तस्य सन्मार्गेण प्रसर्पतः ।
उपसर्गोद्गमः कस्मादकस्मादयमागतः
स्वधर्मसंवृत्तेन हि कर्मणा शर्मणा नृणाम् ।
सुनृपे न च गुह्यानामापतन्ति विपत्तयः
ह्रियन्ते नः प्रसूतीनां गृहिणीनांगृहे कया ।
अपत्यानि फलानीव सत्क्रियाणामसंयमात्
किंतु भूतान्न विद्मस्तान् मायाम् चापि महीपते ।
यत्प्रभावेण नीयन्ते कुलानि निरपत्यताम्
इति तेषां गिरा भूभृदभूत्संक्रान्ततद्व्यथः ।
परं दुःखं विशत्यन्तः सतां केदारवारिवत्
सर्वाङ्गव्यापिना तेन जनदुःखेन भूयसा ।
विषेणेवावृतः सो ऽभूदुद्भ्रान्तहृदयः क्षणम्
सो ऽब्रवीत् किं करोम्यत्राभुजाधीने विपौरूषे ।
कथं नाम प्रवर्तन्ते दुर्लक्ष्येषु प्रतिक्रियाः
दिनमेकं व्रजन्त्वद्य भवन्तो निजमास्पदम् ।
सव्रतश्चिन्तयाम्येव रक्षां वः प्रस्वक्षये
इति राजवचः श्रुत्वा हृष्टाः पौरमहत्तमाः ।
जगदुस्तं समावर्ज्य पूजाव्यञ्जनमज्ण्जलिम्
देव त्वदवधानेन प्रणयाकर्णनेन च ।
त्वयि विन्यस्तचिन्तानां नास्माकमधुना श्रमः
अनुद्धतमुदारं च् अत्वत्प्रसादावलोकनम् ।
इदमेव जनस्यास्य जीवितानीव वर्षति
किं पुनः प्रियमेतत्ते पीयूषसदृशं वचः ।
तापापहं मृहु स्वादु किं किं न विदधाति नः
कृती कृतज्ञः कारुण्यनिधिः सुलभदर्शनः ।
लभ्यते भाग्यभोग्येन सौजन्यसरलः प्रभु
पीयूषादतिपेशलः परिचयः श्राव्यं वचः पञ्चमम्
आचारः शरदिन्दुवृन्दमहसो ऽस्यानन्दसंदोहदः ।
सच्चित्ते वसतां सताम् किमपरं पुष्पान्मनह् कोमलं
सौजन्यं हरिचन्दनादपि परं संतापनिर्वापणम्
इत्युक्त्वा प्रययुः पौरास्तं प्रणम्य प्रसादिनम् ।
किरन्तस्तद्गुणोदारामाशाकुसुममालिकाम्
राजापि नगरे कृत्वा भूतपूजाविधिक्रमम् ।
शान्तिस्वस्तिकसंभारं चकार नियतव्रतः
यक्षी हारीतिका नाम बालकान् पुरवासिनी ।
हरतीति स शुश्राव पुरदेवतयोदितम्
ततः पौरजनैः सार्धं सामात्यः पृथीवीपतिः ।
कलन्दकनिवासाख्ये स्थितं वेणुवनाश्रमे
भगवन्तं ययौ द्रष्टुं सुगतं दोषशान्तये ।
सर्वदुःखज्वरायासजुषामकटुकौषधम्
तं दृष्ट्वा नृपतिर्दूरात्प्रणम्य प्रियदर्शनम् ।
उपविश्याग्रतस्तस्मै पौरदुःखं न्यवेदयत्
भगवानपि विज्ञाय पौराणां संततिक्षयम् ।
चिन्तानिश्चञ्चलः क्षिप्रमुवाच करुणानिधिः
स विसृज्य जगद्बन्धुः सनृपं पौरमण्डलम् ।
पात्रचीवरमादाय ययौ यक्षीनिकेतनम्
तया विरहितं प्राप्य तद्गृहं भगवान् जिनः ।
प्रियंकराख्यं तत्पुत्रं निनायैकमदर्शनम्
याते भगवति क्षिप्रं यक्षी स्वगृहमागता ।
प्रभूतपुत्रा नापश्यत् प्रियं पुत्रं प्रियंकरम्
तमीक्षमाणां विवशा हृतवत्सेव धेनुका ।
बभ्राम संभ्रमोद्भ्रान्ता सा जनेषु चा
हा प्रियंकर हा पुत्र क्क नु पश्यामि ते मुखम् ।
इति प्रलापिनी तारं निःशेषाः सा ययौ दिशः
सा विचित्याशु सर्वाशा निराशा पुत्रदर्शने ।
क्रोशन्ती पर्वतद्वीपं समुद्रवलयम् ययौ
मर्त्यभूमिमतिक्रम्य घोरेषु नगरेषु सा ।
स्वर्गोद्देशेष्व शेषेषु विमानोद्यानशालिषु
श्रान्ता क्कचिन्न विश्रान्ता यक्षिणी प्रणिघातिनी ।
पुत्रमन्विष्य नापश्यल्लोकपालपुरेषु च
कुबेरस्याथ वचसा गत्वा च सुगताश्रमम् ।
भगवन्तं वियोगार्ता शरण्यं शरणं ययौ
तया तद्दुःखवृत्तान्तं सम् निशम्य निवेदितम् ।
तामवोचत शोचन्तीं किंचित् स्मितसिताधरः
हारीति तव पुत्राणां सन्ति पञ्चशतान्यहो ।
इति तेनोक्तमाकर्ण्य यक्षी दुःखक्षतावदत्
पुत्रलक्षे ऽपि भगवन् सह्या नैकसुतक्षतिः ।
पुत्रात् प्रियतरं नान्यत्किं दुःखं तत्क्षयात्परम्
पुत्रवानेव जानाति पुत्रस्नेहविषव्यथाम् ।
सहजैव सुतप्रीतिरकारणनिबन्धना
* * * * * * * * ।
मलिनो विकलः क्षीणः कस्य नेन्दुसमः सुतः
इति यक्षवधूवाक्यं श्रुत्वा वात्सल्यविह्वलम् ।
भूतानुकम्पी भगवान् सस्मितस्तामभाषत
शोको ऽयं बह्य्पुत्राया यद्येकविरहे तव ।
हृते त्वयैकवत्सानां पुत्रैके कीदृशी व्यथा
त्वं प्रविश्य सदा गेहं स्त्रीणां पुत्रमलक्षितां ।
अश्नासि पुत्रमातापि व्याघ्रीव मृगशावकान्
येन येन स्वदेहस्य दुःखं यात्युपभोगताम् ।
न तत्परस्य कुर्वीत समानो ऽनुभवः शुचाम्
त्वं बुद्धधर्मसंघानां त्रीणि शिक्षापदानि चेत् ।
गृह्णासि हिंसाविमुखी तत्प्राप्नोषि प्रियं सुतम्
इत्युक्ता सा भगवता प्राप्तशिक्षापदा ततः ।
हिंसाविरामात् तं गत्वा पुत्रं प्राप प्रियंकरम्
तस्याः प्राग्जन्मवृत्तान्तं तस्याः कर्मफलान्वयम् ।
भिक्षुभिर्भगवान् पृष्टस्तद्वृत्तान्तमभाषतः
पुरास्मिन्नेव नगरे पौराह् के ऽप्युपभोगिनः ।
पर्वतोद्यानमालायां विजह्रुर्नर्तनादिना
अथ तेन पथा कापि गोपकान्ता घनस्तनी ।
मथितं पण्यमादाय हरिणाक्षी समाययौ
गर्भभारालसगतिः प्रत्युप्ता गजगामिनी ।
सा शनैरुपसर्पन्ती सस्पृहं तान् व्यलोकयत्
तस्या वनमृगीमुग्धैरवदग्धा विलोकनैः ।
असंवृत्ता विलासार्द्रैस्ते ऽपि सोत्कण्ठतां ययुः
सा तैर्निमन्त्रिता तत्र मदनक्षीबताम् गता ।
हारितं सहसा शीलं न विवेद प्रमादिनी
ततस्तेषू प्रयातेषु तदा तस्या रतिश्रमात् ।
पपात सह धैर्येण गर्भऊ कोपादिवारुणः
अत्रान्तरे समायातं तत्पुण्यैस्तेन वर्तमना ।
प्रत्येकबुद्धं साद्राक्षीत्कायचित्तप्रसादनम्
सास्मै मथितमूल्याप्तमाम्राणां शतपञ्चकम् ।
दूरात्प्रणामविनता मनसैव न्यवेदत्
ततः पुण्यर्द्धिमत्यस्मिन् जाता यक्षकुले ऽधुना ।
जातमाम्रार्पणेनास्याः पुत्राणां शतपञ्चकम्
हिंसावती पापत्यागात् शीलविस्मरणात्परम् ।
प्रत्येकबुद्धप्रणतेः प्राप्तशिक्षापदाद्य सा
इति विविधविपाकं कर्मतन्त्रं विचित्रं किमपिस कथयित्वा तत्र यक्षाङ्गनायाः ।
कलितकुशलसेतुः संभवाब्धौ जनानामकृत सुकृतचित्तं सर्वलोकस्य शास्ता
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0