अवदानकल्पलता · अध्याय 11
इति क्षेमेन्द्रविरचितायाम् बोधिसत्त्वावदानकल्पलतायां सुन्दरीनन्दावदानं नाम दशमः पल्लवः ॥
11. विरूढकावदानम् ।
आरोहति पदमुन्नतममलमतिर्विमलकुशलसोपानैः ।
नरककुहरेषु निपतति मलिनमतिर्घोरतिमिरेषु
शाक्यानां नगरे पूर्वं स्फीते कपिलवास्तुनि ।
महतः शाक्यमुख्यस्य सुमुखी दासकन्याका
शास्त्रे कृतश्रमा सर्वकलाकौशलशालिनी ।
मालिका नाम कामस्य मालिकेव गुणोचिता
प्रभोर्गिरा वरोद्याने कुसुमावचयोद्यता ।
भ्रमन्तं तं समायान्तं ददर्श सुगतं पुरः
तस्यान्ते ऽस्यास्तमालोक्य प्रसन्नमभवन्मनः ।
शरत्काल इव स्वच्छः प्रसादयति मानसम्
साचिन्तयत्तदा लोकप्रीत्या दृढीकृतास्पदा ।
सुकृतैः पिण्डपातं मे गृह्णीयाद्भगवानपि
विज्ञाय तस्याह् सर्वज्ञः संकल्पं करुणाकुलः ।
प्रसार्य पात्रं भगवान् भद्रे देहीत्युवाच ताम्
दत्वा प्रणम्य सा तस्मै परिपूर्णमनोरथा ।
प्रणिधानं प्रविदधे दास्यदुःखनिवृत्तये
ततः कदाचिदायातः पितुअस्तस्याः सखा द्विजः ।
नौमित्तिकस्तं प्रदेशं दृष्ट्वा ताम् विस्मितो ऽव दत्
अहो गृहपतेस्तस्य पुत्री त्वं श्रीमतह् सुता ।
बन्धुहीना गता दास्यं धनभोगविवर्जिता
अहो मोहघनारम्भक्षणोद्द्योतनविद्युतः ।
संसारसर्परसनाविलासचपलाः श्रियः
गम्यानां मा कृथाश्चिन्तां जाने ऽहं हस्तलक्षणैः ।
अचिरेणैव भूभर्तुर्वल्लभा त्वं भविष्यसि
इदं पश्यामि ते पाणौ लक्ष्मीकमलकोमले ।
मालाचक्राङ्कुशाकारमित्युक्त्वा प्रययौ द्विजः
अथ मन्मथसंभोगसुहृन्मधुपबान्धवः ।
लतालिङ्गनसौभाग्यभव्यो ऽदृश्यत माधवः
मधोः केसरिणस्तस्य कान्तामानद्विपद्विषः ।
विबभौ जिह्ममानस्य जिह्वेवाशोकमञ्जरी
बालाकपोललावण्यचौरश्चम्पकसंचयः ।
सुदृशां केशपाशेषु ययौ बन्धनयोग्यताम्
सहकारैर्विरहिणीनिधनं विदधे मधु ।
निरपेक्षापरवधे विधुराः प्रभविष्णवः
ययुर्मधुलिहां चूतलता निर्भरभोग्यताम् ।
सहसौव विद्गधानामिव मुग्धविभूतयः
रूतायुधश्चूतलताचापन्यस्तशिलीमुखः ।
जयतीति जगौ बन्दी कन्दर्पस्येव कोकिलः
अस्मिन्नवसरे श्रीमान् कोसलेन्द्रः प्रसेनजित् ।
मृगयानिर्गतो ऽश्वेन हृतस्तं देशमाययौ
धन्वीमनोभवाकारः सो ऽवतीर्य तुरंगमात् ।
ददर्शानन्यलावण्याम् कन्यां रतिमिवापराम्
तद्विलोकनविस्तीर्णं मनस्तस्य महात्मनः ।
विस्मयाद्दृष्टिमार्गेण प्रविवेश मनोभवः
तां लज्जावनतां दृष्ट्वा सहसोद्भूईतसाध्वसाम् ।
अचिन्तयन्नरपतिः कान्तिकल्लिलिनीहृतः
केयं नवा शशिमुखी श्यामा तरलतारका ।
यत्कान्तिरनिशं नेत्रशतपत्रविकाशिनी
बकुलामोदविभ्रान्तभ्रमरे पाटलाधरे ।
कान्तं वसन्तं पश्यामि मुखे ऽस्याः कुमुदायुधम्
अहो लावण्यमम्लानं तारुण्याभरणं तनोः ।
धीरस्यापि धृतिर्येन शङ्खे संगलितेव मे
अहो नु मधुमञ्जर्याः प्रारम्भे ऽप्यद्भुतो गुणः ।
येन गन्तुं न शक्नोति षट्पदो ऽपि पदात्पदम्
इति संचिन्त्य भीपालस्तां मत्वा वनदेवताम् ।
पृष्ट्वा विवेद तद्वृत्तं क्रमेण कथितं तया
ततस्तत्र कृतातिथ्यस्तया पल्लववीजनैः ।
शुचिशीतैश्च सलिलैः प्राप्तवान् निर्वृतिं नृपः
श्रान्तः संवाहने तस्य तया चरणपद्मयोः ।
कृते कराप्तसंस्पर्शे स निद्राम् सहसा ययौ
क्षणेन प्रतिब्य्द्धो ऽथ विश्रान्तमृगयाश्रमः ।
दिव्यस्पर्शेन ताम् मेने रतिं रूपान्तरागताम्
महानपि ततः शाक्यः संप्राप्तं कोसलेश्वरम् ।
श्रुत्वा तं देशमभ्येत्य पूजार्हं तमपूजयत्
सादरेणार्थितां तेन स्वसुतामिव मालिकाम् ।
रत्नार्हाय ददौ तस्मै स्मरमङ्गलमालिकाम्
तामादाय मनोजन्मवैजयन्तीं सितस्मिताम् ।
निजं जगाम नगरं गजमारुह्य भूपतिः
तस्मिन्नागनगोत्सङ्गे सा लोलालकषट्पदा ।
बभौ राजवसन्तेन संगता नवमालिका
राजधानीं समासाद्य सुन्दर्या सहितस्तया ।
रत्नहर्म्यकरोदारमन्दिरे विजहार सः
वर्षाकाराभिधा देवी राज्ञः प्रथमवल्लभा ।
अभिन्नवृत्तिं ताम् मेने राजलक्ष्मीमिव क्षितिः
दिव्यस्पर्शेन सा तस्याः सा चास्या रूपसंपदा ।
परस्परगुणोत्कर्षात्परं विस्मयमापतुः
दिव्यरूपवती ज्येष्ठा दिव्यस्पर्शवती पर् आ ।
इति प्रवादः साश्चर्यस्तयुओर्लोकेषु पप्रथे
अत्रान्तरे तयोर्दिव्यरूपसंस्पर्शकारणम् ।
आश्रमे भिक्षुभिः पृष्टः प्रोवाच भगवान् जिनः
पुरा श्रुतवराख्यस्य द्विजस्य गृहमेधिनः ।
कान्ता शिरीषिका चेति प्रिये भार्ये बभूवतुः
स कदाचिदथो कान्ताभ्राता प्रव्रज्यया शनैः ।
प्रत्येकबुद्धतां यातः स्वसुर्भवनमाययौ
त्रैमासिकोपचारेण स तया पत्युराज्ञया ।
भक्त्या निमन्त्रितस्तस्थौ तत्सप्त्न्यावपूजितः
ते चारुमृदुभिर्भोगैस्तमभ्यर्च्यान्यजन्मनि ।
जाते ऽधुना चारुरूपदिव्यसंस्पर्शसंयुते
कृष्टेषु प्रथमं प्रयुक्तविनयामादाय गोसंपदं
सत्क्षेत्रेषु तपः प्रतत्प्तनुषु प्राप्तिष्वतिस्वादुताम् ।
यत्काले शुभबीजमुप्तमुचितं सत्कर्मशक्तेः परं
भुज्यन्ते फलसंपदः सुमतिभिस्तस्यैव पाकोज्ज्वलाः
इति सर्वज्ञवचनम् तथ्यमाकर्ण्य भिक्षवः ।
तत्तथेति विनिश्चित्य बभूवुः शान्तिसंश्रयाः
अथ कालेन भूभर्तुर्मालिकायामभूत्सुतः ।
विरूढकेतिमुख्याख्यो विद्यासु च कृतश्रमह्
प्रियस्तुल्यवयास्तस्य पुरोहितसुतो ऽभवत् ।
मातुर्दुःखेन जातत्वाद्विश्रुतो दुःखमातृकः
कदाचित् सहितस्तेन हयारूढो विरूढकह् ।
प्राप शाक्यवरोद्यानं मॄगयायाम् विनिर्गतः
न्यक्कारं चक्रिरे तत्र शाक्यास्तस्योद्यतायुधाः ।
अयं दासीसुतो ऽस्माकमिति दर्पप्रवादिनह्
गत्वासौ स्वपुरं तेषां वैरं दर्प्यमचिन्तयत् ।
कुलदर्पापवादो हि शल्यतोदः शरीरिणाम्
तस्य निर्दह्यमानस्य तत्प्रतीकारचिन्तया ।
राज्याय जाता जनके जीवत्यपि परा स्पृहा
स चारायणमुख्यानां मन्त्रिणां शतपञ्चकम् ।
स्ववशं पितुराकृष्य विदधे भेदयुक्तिभिः
ततः कदाचित्संजातविवेकः पृथिवीपतिः ।
धर्मोपदेशश्रवणे वर्धमानादरः परम्
चारात्यणगृहीताश्वं रथमारुह्य संयतः ।
द्रष्टुं जगाम सर्वज्ञं भगवन्तम् प्रसेनजित्
प्रायाश्रमं भगवतः कृत्वा पादाभिवन्दनम् ।
धर्मान्वयम् स शुश्राव तत्प्रसादप्रसन्नधीः
चारायणो ऽप्याशु गत्वा रथेन नगरं जवात् ।
अकरोदन्तरे तस्मिन् राजपुत्राभिषेचनम्
भगवन्तमथामन्त्र्य नृपतिर्गन्तुमुद्यतः ।
ददर्श नानुगानग्रे न रथं न च मन्त्रिणम्
स पद्भ्यामेव शनकैः प्रस्थिताम् पृथिवीपतिः ।
दूरादपश्यदायान्तीं वर्षाकारां समालिकाम्
ते पृष्ट्वा तद्गिरा ज्ञात्वा सो ऽभिषिक्तं विरूढकम् ।
विससर्ज सुतैश्वर्यपरिभोगाय मालोकाम्
वर्षाकारां समादाय स मित्रस्य महीपतेः ।
अजातशत्रोर्नगरं प्रात राजगृहाभिधम्
स तत्प्तश्छत्रविरहात् क्षुप्तिपासाश्रमान्वितः ।
ययौ वमन्निव श्वासं दीर्घेश्वारममारुतैः
सुखमस्खलितं केन प्राप्तं कस्यायुरायतम् ।
न कस्यानुपदं दृष्टः क्षयः सपदि संपदः
स जीर्णमूलकं भुक्त्वा कर्ममूलमिवायतम् ।
क्षणं पीत्वा च पानीयं पपाताप्तविषूचिकः
अनित्यतामविज्ञाय मोहाय पतते जनह् ।
स चापायनिकायस्य कायस्योपायतृष्णया
अजातशत्रुः श्रुत्वैव कोसलेश्वरमागतम् ।
अभ्येत्य पांशुपूर्णास्यं विगतासुं ददर्श तम्
तस्य जायानुयातस्य स कृत्वा देहसत्क्रियाम् ।
भगवन्तं ययौ द्रुष्टुं सुगतं दुःखशान्तये
स तं प्रणम्य प्रोवाच भगवन् कोसलेश्वरः ।
पुरं मे सुहॄदः प्राय निर्धनो निधनं गतः
धिङ्भामसंपदं पापं मिहादयशसः पदम् ।
विभवो येन नैवायं मित्रोपकरणीकृतः
हृदये विनिवेश्याशां प्राप्तः सुहॄदमापदि ।
सुहृन्नैष्फल्यमायाति यस्य किं तेन जीवता
मित्रोपकरणं लक्ष्मीर्दीनोपकरणम् धनम् ।
भीतोपकरणं प्राणा येषां तेषां सुजीवितम्
कुकर्म किं कृतं तेन भगवन् ऊर्वजन्मनि ।
यस्य पाकेन पर्यन्ते प्रपेदे सो ऽतिदुर्दशाम्
इति पृष्टः क्षितीशेन भगवान् साश्रुचक्षुषा ।
तमूचे तापशमनीं दिशन् दशनचन्द्रिकाम्
मा शुचः पृथिवीपाल स्वभावो ऽयं भवस्थितः ।
एवंविधैव भावानामसत्यानामनित्यता
विसारिसंसारवनान्तरे ऽस्मिन् निसर्गलोलः किल कामभृङ्गः ।
स्वच्छन्दजातजनपुष्करजीवपुञ्जकिञ्जल्कपुञ्जमनिशं कवलीकरोति
तरङ्गन्तो भोगाश्चकितहरिणीलोचनचलाः क्षणे ऽलक्ष्या लक्ष्मीर्जनजलदविद्योतनतडित् ।
शरीराब्जे बालातपचपलरागं नववयः क्षयं याति क्षिप्रं भवमरूतटे जीवितकणः
मनो मैत्रीपात्रं परहितरतिर्धर्मधनता
मदोद्भेदच्छेदक्षमशमविचारे परिचयः ।
अयं तत्वान्वेषो विषयसुखवैमुख्यसुखिनाम्
असारे संसारे परिहृतविकारः परिभवः
जनह् शोचति दुःखेषु क्षिप्रं हत इवाश्मना ।
न करोति पुनस्तीव्रतदापातप्रतिक्रियाम्
पश्यतो ऽपिभवायासं निर्विवेकस्य सर्वथा ।
क्रियते किं जनस्यास्य मोहादकुशलस्पृशः
पुरा विप्रः सुशर्माख्यः कुतश्चित्प्राप्य मूलकम् ।
निधाय जननीहस्ते ययौ स्नातुं नदीतटम्
सापि प्रत्येकबुद्धाय ताम् पाप्ताय तदन्तरे ।
प्रणता पात्रहस्ताय तदेवाभिमूखी ददौ
अथ स्नात्वा समायातस्तत्सुतस्त्वरितं क्षुधा ।
जननीं भोजनारम्भे ययाचे निजमूलकम्
पुण्यं पुत्रानुमोदस्व तन्मयातिथये ऽर्पितम् ।
इति मातुर्वचः श्रुत्वासो ऽभूद्विद्ध इवेषुणा
सद्यो विषूचिकार्तस्य मन्मूलकमनल्पकम् ।
कुक्षिं भित्त्वा विनिर्यातु प्राणैः सह त वातिथेः
इति तस्याप्तपापस्य वाक्यारुष्येण भूयसा ।
विसूचिकैव पर्यन्ते बभूवपरजन्मनि
प्राक्पुण्यान्तरपाकेन स एवाद्य प्रसेनजित् ।
विपुलं राज्यमासाद्य तयैवान्ते क्षयं गतः
संसारपथपान्थानामेवं कर्म शुभाशुभम् ।
पाथेयमिव हस्तस्थम् भोगायैवोपपद्यते
इति श्रुत्वा भगवतस्तथ्यं पथ्यं च तद्वचः ।
एवमेतदिति ध्यात्वा तं प्रणम्य ययौ नृपः
अत्रान्तरे प्राप्तराज्यः शाक्यवैरं विरूढकः ।
पुरोहितसुतेनैत्य स्मारितस्तत्क्षयोद्यतः
प्रययौ शाक्यनगरं गजाश्वरथरेणुना ।
मोहेनेव दिशां कुर्वन् निर्विवेकं धियामिव
सर्वज्ञो भगवान् ज्ञात्वा तस्य तद्दुष्टचेष्टितम् ।
गत्वा शाक्यपुरोपान्ते तस्थौ शुष्कतरोरधह्
दूरात्तत्र स्थितं दृष्ट्वा तमागच्छन् विरूढकः ।
अवतीर्य रथादग्रमभ्येत्य प्रणतो ऽवदत्
सत्सु स्निग्धपलाशेषु घनच्छायेषु शाखिषु ।
भगवन्नत्र विश्रान्तिः किमु शुष्कतरोरधः
इत्युक्तः क्षितिपालेन तं प्राह भगवान् जिनः ।
ज्ञातिच्छाया नरपतेः चन्दनादपि शीतला
नास्ति ज्ञातिसमं वित्तं नास्ति ज्ञातिसमा धृतिः ।
नास्ति ज्ञातिसमा छाया नास्ति ज्ञातिसमह् प्रियः
ममैते भूपते शाक्या ज्ञातयस्यत्पुरान्तिके ।
जातः प्रियो ऽयं तत्प्रीत्या शुष्कशाखो ऽपि पादपः
श्रुत्वैतद्विरतामर्षः शाक्यानां पक्षपातिनम् ।
भगवन्तं विदित्वैव न्यवर्ततः विरूढकः
भगवानपि शाक्यानां ज्ञात्वागामि भयं ततः ।
श्रेयसे शुद्धसत्त्वानाम् विदधे धर्मदेशनाम्
श्रोतापत्तिफलं कैश्चित् सकृदागामि चापरैः ।
अनागामिफलं चान्यैः संप्राप्तं तस्य शासनात्
शेषास्तु मूढमतयः शाक्याः प्रापुर्न तत्पदम् ।
सन्ति के ऽपि खगा येषाम् वासरे तिमिरो ऽद्भवः
निवृत्तस्याथ नृपतेः पुरोहितसुतस्ततः ।
वैरसर्पस्य सुप्तस्य विदधे प्रतिबोधनम्
स तेन प्रेरितश्चक्रे मतिं शाक्यकुलक्षये ।
वैरानलं प्रचलनं करोति पिशुनानिलः
घोरदुर्जनमन्त्रेण सहसोत्थापिताः खलाः ।
वेताला क्षितिपालाश्च न कस्य प्राणहारिणह्
सैन्ये गजरथोदग्रे ततस्तस्मिन् प्रसर्पति ।
बभूव पुरसंक्षोभः शाक्यानां रूद्धवर्त्मनाम्
तस्मिन् भगवान् रक्षार्थं शाक्यानां पक्षपातिनम् ।
समुद्यतं तत्र महामौद्गल्यायनमब्रवीत्
शाक्यानां कर्मदोषो ऽयं सर्वथा समुपस्थितः ।
तत्र रक्षविधानं ते गगने सेतुबन्धनम्
पुंसमविन्त्यविभवानि शुभाशुभानि आयान्ति यान्ति च मुहुर्निरवग्रहाणि ।
कर्माक्षराणि निजजन्मपदस्वहस्तन्यस्तानि नाम न भवन्ति निरर्थकानि
इति वाक्याद्भगवतस्तस्मिन् याते प्रणम्य तम् ।
चक्रिरे संविदं शाक्याह् प्रत्यासन्ने विरूढके
हिंसास्माभिर्न कर्तव्या प्राणिमात्रस्य कस्यचित् ।
शराः शरीरमस्माकं विशन्त्वरिसमीरिताः
इति संविदमाधाय ते वियष्टिकपाणयः ।
धीर्ः परोद्यमे तस्थुरवारयितकार्मुकाः
अत्रान्तरे कर्मयोगान्निजदेशानवस्थितः ।
अज्ञात्वा संविदं शाक्यः शंपाकह् समुपाययौ
स दृष्ट्वा नगरे बद्धसंनाहं वसुधाधिपम् ।
कोपादेकश्चकारास्य रणे सुभटसंक्षयम्
युद्धे पुरुषसिंहेन हतास्ते वीरकुञ्जराः ।
प्रययुः स्पृहणीयत्वं यशोभिर्मक्तिकैरिव
स को ऽपि तस्य जज्वाल कोपितस्य परैरसिः ।
स ययौ यत्प्रतापेन विपुलां रिपुवाहिनीम्
प्रवेशं न ददुः शाक्याः शंपाकस्य द्विषां वधात् ।
स्वजनो ऽपि परित्यक्तः स तैर्निस्त्रिंशकर्मणा
निजे ऽपि विमुखाः क्रूरे साधवे दह्रम्बन्धवः ।
धानादपि वदान्यत्वं सुकृतं स्वजनादपि
* * * * * * * * ।
शतमौचित्यनित्यानामायुषो ऽपि यशः प्रियम्
निर्वासितः स तैः प्राप्तः शनैर्भगवतो ऽन्तिकम् ।
ययाचे ऽभ्युदयायाइव तं किंचिन्निजलाञ्छनम्
ऋद्धं भगवता दत्तं निजकेशनखांशकम् ।
स जगाम समादाय वाकुडं नाम मण्डलम्
तत्र प्रज्ञाप्रभावेण शौर्योत्साहगुणेन च ।
स प्राप राज्यं धीराणां सर्वत्र सुलभाः श्रियः
दक्षाणां लक्षणं लक्ष्मीः सहजं विदुषां यशः ।
व्यवसायसहायानाम् कलत्रं सर्वसिद्धयः
तत्र स्थितो भगवतः सो ऽथ केशनखांशके ।
स्तूपप्रतिष्ठामकरोद्वर्रत्नविराजिताम्
विरूढको ऽपि शाक्यानां वैरपारतितीर्षया ।
पुनर्युक्त्या पुरद्व्हारभेदेन सहसाविशत्
हत्वा तत्र सहस्राणि शाक्यानां सप्तसप्तति ।
बद्ध्वा कन्याकुमाराणां स सहस्रमथाहरत्
शतानि पञ्च शाक्यानाम् गजैर्लोहैश्च मर्दनैः ।
संप्रमृज्य पुरीं चक्रे कृतान्तनगरीमिव
भगवानपि शाक्यानाम् शत्रूणा भेदनं कृतम् ।
कर्मानुबद्धं विज्ञायं बभूव विमनाः क्षणम्
पप्रच्छुस्तं समभ्येत्य भिक्षवः करुणाकुलाः ।
किं कर्म विहितं शाक्यैर्घोरं यस्येदृशं फलम्
भगवाननिति तैः पृष्टः सर्वज्ञस्तानभाषत ।
निजकर्मविपाकेन शाक्यानामेष संक्षयः
कृष्टौ पुरा महामत्स्यौ धीवरैः सरितो ऽन्तरात् ।
तदा निकृत्तौ शल्येन भूयो ऽप्यव्यथयन् धृतौ
कालेन चारुताम् यातैस्तैरेव परजन्मनि ।
हतौ गॄहपती दग्ध्वा तावेव धनहारिभिः
तौ मत्स्यौ तौ गृहस्थौ च विरूढकपुरोहितौ ।
दासानां तस्कराणाम् च शाक्यानाम् मृत्युताम् गतौ
इति श्रुत्वा भगवतः कर्मणां फलसंततिम् ।
अविसंवादिनीमेव मेनिरे सर्वभिक्षवः
विरूढको ऽथ स्वपुरं प्राप्य विजयदुर्मदः ।
जेतानाम्ना सुतेनोक्तः प्रणयाद्बाललीलया
देव किं निहताः शाक्यान् न ते ऽस्माकं कृतागसः ।
इति ब्रुवाणमवधीन्निजसूनुं विरूढकः
निपातमतिमृद्गति निहन्ति न करोति किम् ।
मदलब्धनधायासो मातंग इव दर्जनः
स जगाद सभासीनः स्वभूजाववलोकयन् ।
अहो नु मम तापाग्नौ द्विसद्भिः शलभायितम्
कृतान्ततोरणस्तम्भौ प्राज्यौ मम भुजाविमौ ।
निष्ःशेषवधदीक्षायां शाक्यानां गुरुतां गतौ
तं तस्य विक्रमं श्लाघ्यं हृतास्ताः शाक्यकन्यकाः ।
श्रुत्वा बभाषिरे तीव्रमुद्वेगनमिताननाः
कर्मपाशनिबद्धानां खगानामिव देहिनाम् ।
निधनोल्लङ्घने शक्तिर्नास्ति पक्षवतामपि
येनाग्निः शममेति तत्किल जलं प्राप्नोत्यलं वाडवः
तिग्मांशुग्रहणं करोति समये हेलावलेह्यं तमह् ।
पर्यालोचनवर्त्मनामविषयं साश्चर्यचर्यास्पदं
सर्वं कार्मिकतन्त्रयन्तिमिदं कः कस्य कर्तुं क्षमः
एतदाकर्ण्य नृपतिः पदान्तर इवेरगः ।
करच्छेदं दिदेशासां घोरामर्षविषोत्कटः
तीरे यस्याः कृतं तासां पाणिच्छेदनवैशसम् ।
साद्यापि हस्तगभति ख्याता पुष्करिणी भुवि
लतास्वपि ह्कुकूलाग्निं क्रकचं नलीनीष्वपि ।
मालास्वपि शिलावर्षं पातयन्त्येव निर्घृणाः
ताश्छिन्नपाणिकमलास्तत्र तीव्रव्यथातुराः ।
भगवन्तं धिया ध्यात्वा शरणं शरणं ययुः
तासां विज्ञाय सर्वज्ञस्तीव्राम् मर्माहतिव्यथाम् ।
शचीमचिन्तयद्देवीं तत्समाश्वासनोचिताम्
तत्स्पर्शजातहस्ताब्जास्ता दिव्यवसनावृताः ।
ययुश्चित्तप्रसादेन ताह् स्वर्गं त्यक्तविग्रहा
देवकल्पास्तमासाद्य दिव्यपद्मोत्पलाङ्किताः ।
धर्मदेशनया शास्तुस्ताह् प्रापुर्विपुलं पदम्
भिक्षुभिर्भगवान् पृष्टस्तत्कर्मफलमभ्यधात् ।
पाणिचापल्यमेताभिः कृतं भिक्षुविडम्बने
कर्मणस्तस्य पाकेन विशसे पतिताह् परम् ।
मयि चित्तप्रसादेन प्राप्ताश्चैताह् शुभां गतिम्
इत्युक्त्वा भगवान् कर्मफलपाकविचित्रताम् ।
भुक्षीणां तत्प्रसङ्गेन विदधे धर्मदेशनाम्
अत्रान्तरे गूढचारी राज्ञा प्रणिहितश्चरः ।
भगवच्चरितं ज्ञात्वा विरूढकमुपाययौ
सो ऽवदद्देव भिक्षूणां तेनेदं कथितं पुरः ।
स्वकर्मफलमासन्नं तस्य पश्यामि भूपतेह्
सप्ताहेनाग्निना दग्धः स पापात्मा पुरोहितः ।
अवीचिनाम्नि नरके दुःसहे निपतिष्यति
इति तद्वचनं श्रुत्वा नृपतिः सपुरोहितः ।
यत्नादुवास सप्ताहं जलान्वितगृहान्तरे
क्षणावशेषे सप्ताहे तस्मिन्नन्तःपुरं गते ।
सूर्यकान्तार्कसंतापयोगाज्जज्वाल पावकः
उद्भूतेन प्रलयसवनावर्तिनेवाशु वेगान्
निर्दग्धो ऽसौ धगिति शिखिना नारकं प्राप वह्निम् ।
अस्मिंल्लिके ज्वलनजटिलाः पापिनां प्रेत्य रागाः
सर्वत्रैव स्थिरसुखभुवः शीतलाः पुण्यभाजाम्
मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0