भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेदपरिशिष्टस् · भाग 6180

(अव्परिस्_48,145) <रसादानम्> रश्मिभिश् च रसाधारणं यच् च <प्रवल्हितम्> तद् अस्त कर्म ॥
(अव्परिस्_48,146) अस्य लोकः । वरषास् । तृतीयसवनम् । जगती । सप्तदशः । वैरूपाम् इति तद्भक्तीनि ॥
(अव्परिस्_48,147) एतेषाम् एव लोकानाम् ऋतुछन्दःस्तोमपृष्ठानाम् आनुपूर्वेण भक्तिशेषो ऽनुकल्पो
(अव्परिस्_48,148) देवताद्वन्द्वे च पूर्वस्यापरः संस्तविकः ॥ पूर्वस्यापरः संस्तविकः ॥69 ॥
(परिशिष्ट_49. चरणव्यूहः)
(अव्परिस्_49,1.1) ओम् अथातश् चरणव्यूहं व्याख्यास्यामः ॥
(अव्परिस्_49,1.2) तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश् चेति ॥
(अव्परिस्_49,1.3) तत्र ऋग्वेदस्यार्थशास्त्रम् उपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रम् इत्य् उच्यते ॥
(अव्परिस्_49,1.4) ऋग्वेद आत्रेयसगोत्रो ऽग्निर् देवता । यजुर्वेदः काश्यपसगोत्रो वायुर् देवता । सामवेदो भारद्वाजसगोत्रो विष्णुर् देवता । ब्रह्मवेदो वैतायनसगोत्रो ब्रह्मा देवता ॥
(अव्परिस्_49,1.5) अथात ऋग्वेदः पीतवर्णः पद्मपत्त्राक्षः सुविभक्तग्रीवः कुञ्चितकेशश्मश्रुः सुप्रतिष्ठितजानुजङ्घः । प्रमाणेन स वितस्तयः पञ्च ॥
(अव्परिस्_49,1.6) तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद् यथा । आश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश् चेति ॥
(अव्परिस्_49,1.7) तेषाम् अध्ययनम् । ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचाम् अशीतिः पादश् च एतत् पारणम् उच्यते ॥
(अव्परिस्_49,2.1) तत्र यजुर्वेदस्य चतुर्विंशतिर् भेदा भवन्ति ॥ तद् यथा । काण्वाः । माध्यंदिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः । मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश् चेति ॥
(अव्परिस्_49,2.2) तेषाम् अध्ययनम् । द्वे सहस्रे शते न्यूने वेदे वाजसनेयके । सकलं परिसंख्यातं ब्राह्मणं तु चतुर्गुणम् ॥
(अव्परिस्_49,2.3) अष्टादश शतानि भवन्ति । तान्य् एव त्रिगुणम् अधीत्य क्रमपारो भवति । सप्तसु वीराश् चेति ॥
(अव्परिस्_49,2.4) शाखास् तिस्रो भवन्ति । तद् यथा । वार्चिकम् अर्थाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवटः । क्रमपारश् चेति ॥
(अव्परिस्_49,2.5) षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति षड् अङ्गानि ॥
(अव्परिस्_49,2.6) अथ यजुर्वेदः प्रांशुः प्रलम्बजठरः स्थूलगलकपालो रक्तो वर्णेन प्रादेशाः षड् दीर्घत्वेन यजुर्वेदस्यैतद् रूपं भवति ॥
(अव्परिस्_49,3.1) तत्र सामवेदस्य शाखासहस्रम् आसीद् अनध्यायेष्व् अधीयानाः सर्वे ते शक्रेण विनिहताः । [प्रविलीनास्]
(अव्परिस्_49,3.2) तत्र के चिद् अवशिष्टाः प्रचरन्ति । तद् यथा । राणायनीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश् चेति ॥
(अव्परिस्_49,3.3) कौथुमानां षड् भेदा भवन्ति । तद् यथा । सारायणीयाः । वातरायणीयाः । वैतधृताः । प्राचीनास् तेजसाः । अनिष्टकाश् चेति ॥
(अव्परिस्_49,3.4) तेषाम् अध्ययनम् । अष्टौ सामसहस्राणि सामानि च चतुर्दश । सोह्यानि सरहस्यानि एतत् सामगणं स्मृतम् ॥
(अव्परिस्_49,3.5) अथ सामवेदः सुवर्चाः सुगन्धिस् तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुर् दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥
(अव्परिस्_49,3.6) षडरत्निः प्रमाणेन च स्मृतः । स्तुवन्त्य् ऋषयो ब्रह्मा सामानि तिष्ठति संनिधौ स भगवान् सामवेदो महेश्वरभक्तः ॥
(अव्परिस्_49,4.1) तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद् यथा । पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश् चेति ।
(अव्परिस्_49,4.2) तेषाम् अध्ययनम् । ऋचां द्वादश सहस्राण्य् अशीतिस् त्रिशतानि च । पर्यायिकं द्विसहस्राण्य् अन्यांस् चैवार्चिकान् बहून् इत्य्
(अव्परिस्_49,4.3) एतद्ग्राम्यारण्यकानि षट् सहस्राणि भवन्ति ॥
(अव्परिस्_49,4.4) तत्र ब्रह्मवेदस्याष्टाविंशतिर् उपनिषदो भवन्ति । मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन् महोपनिषद् ब्रह्मोपनिषत् प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी संन्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद् वैतथ्यं चेति ॥
(अव्परिस्_49,4.5) तत्र गोपथः शतप्रपाठकं ब्राह्मणम् आसीत् तस्यावशिष्टे द्वे ब्राह्मणे पूर्वम् उत्तरं चेति ॥
(अव्परिस्_49,4.6) तत्र षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति षड् अङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति ॥
(अव्परिस्_49,4.7) पक्च कल्पा भवन्ति । नक्षत्रकल्पो वैतानकल्पस् तृतीयः संहिताविधिः । चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस् तु पञ्चमः ॥
(अव्परिस्_49,4.8) लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर् बृहत्सर्वानुक्रमणी चेति ॥
(अव्परिस्_49,4.9) तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्तुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् । भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥

(अव्परिस्_49,4.10) तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश् चेति ॥
(अव्परिस्_49,4.11) तत्र ब्रह्मवेदे ऽष्टादश व्रतानि चरिष्यन् सावित्रीव्रतम् । वेदव्रतम् । वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रोहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥
(अव्परिस्_49,4.12) कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सांतपनम् । महासांतपनं चेति ॥
(अव्परिस्_49,5.1) यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनितो
(अव्परिस्_49,5.2) यो वै ब्रह्मवेदेष्व् अनुपनीतः स सर्ववेदेष्व् अनुपनीतः ॥
(अव्परिस्_49,5.3) अन्यवेदे द्विजो यो ब्रह्मवेदम् अधीतुकामः स पुनर् उपनेयो
(अव्परिस्_49,5.4) देवाश् च ऋषयश् च ब्रह्माणम् ऊचुः ॥

(अव्परिस्_49,5.5) को नो [स्मो] ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं चेति ॥
(अव्परिस्_49,5.6) तान् ब्रह्माब्रवीत् ॥
(अव्परिस्_49,5.7) अथर्वा वो ज्येष्ठो ऽथर्वोपनेताथर्वाचार्यो ऽथर्वा ब्रह्मत्वं चेति ॥
(अव्परिस्_49,5.8) तद् अप्य् एतद् ऋचोक्तम् । ब्रह्मज्येष्ठेति एतया ।
(अव्परिस्_49,5.9) इति तस्यार्हं ब्रह्मवेदश् चतुर्णां वेदानां साङ्गोपाङ्गानाम् [तम्] सवाकोवाक्यानां सेतिहासपुराणानाम् ॥
(अव्परिस्_49,5.10) अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी विश्वात्मा जितेन्द्रियः । स तस्मिन् भगवति दुर्वारज्वालः ।
(अव्परिस्_49,5.11) क्षुद्रकर्मा स च भगवान् ब्रह्मवेदश् चतुर्मुखो द्विपक्षो दान्तो धर्मी बलवान् प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी [षड्रात्राणि षड्] वैतायनो गोत्रेण
(अव्परिस्_49,5.12) य एकैकस्मिन् वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद् यो विद्वान् जातिस्मरो भवति मृतः स ब्रह्मलोकं गच्छति ॥
(परिशिष्ट_50. चन्द्रप्रातिपदिकम्)
(अव्परिस्_50,1.1) ओं वृत्तं प्रातर् अमावास्यां पश्चाद् दृश्येत चन्द्रमाः । तस्य वर्णं गतिं रूपं स्थानं चैवोच्चनीचताम् ॥
(अव्परिस्_50,1.2) ह्रासवृद्धिं च शृङ्गाणां नक्षत्रं यच् च योजयेत् । तानि लक्षेत सोमस्य वर्षावर्षं भयाभयम् ॥
(अव्परिस्_50,1.3) प्रथमे दर्शने त्व् इन्दोः समासाद्य यदा ग्रहम् । उत्तरं वर्धते शृङ्गं नीचीभवति दक्षिणम् ॥
(अव्परिस्_50,1.4) एवम् एव श्रविष्ठाभ्यस् तेषाम् अन्ते च चन्द्रमाः । उद्यच्छेद् दक्षिणं शृङ्गं नीचीभवति चोत्तरम् ॥
(अव्परिस्_50,1.5) अनुपश्येत राष्ट्रं च अन्तर्गिरिमहागिरिम् । विदर्भान् मद्रकांश् चैव भरतांश् चापि सर्वतः ॥
(अव्परिस्_50,2.1) साराणां विजराणां च समुद्रे ये च दक्षिणे । एताञ् जनपदान् हन्ति यदा स्याद् उत्तरोन्नतः ॥
(अव्परिस्_50,2.2) काश्मीरान् दरदान् दर्वाञ् शूरसेनान् ययावरान् । शाल्वानां च विराजानां समुद्रे ये च पश्चिमे ॥
(अव्परिस्_50,2.3) एताज् जनपदान् हन्ति यदा स्याद् दक्षिनोन्नतः । पुरुषः स्त्रीनृपं हन्ति अपरान्तो विनश्यति ॥
(अव्परिस्_50,2.4) बाल्हिकान् यवनकाम्बोजाञ् शाल्वान् मद्रान् उशीनरान् । गोधांश् च भद्रकांश् चैव मध्यं च कुरुभिः सह ॥
(अव्परिस्_50,2.5) सौराष्ट्रान् सिन्धुसौवीरान् वानेयांश् चापि सिंसकान् । क्षुद्रकान् मालवान् मत्स्यान् म्लेच्छान् सह पुलिन्दकैः ॥
(अव्परिस्_50,2.6) शस्त्रोपजीजिकुड्यांश् च ब्राह्मणा योधिनश् च ये । एताञ् जनपदान् हन्ति सोमः पुरुषलक्षणः ॥
(अव्परिस्_50,3.1) लक्षणाद् वा भवेत् स्थूलः काये शृङ्गे च हीयते । अल्पे शरीरे दुर्भिक्षं भयं रोगं विनिर्दिशेत् ॥
(अव्परिस्_50,3.2) यदा प्रतिपदश् चन्द्रः प्रकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राजमृत्युं विनिर्दिशेत् ॥
(अव्परिस्_50,3.3) षष्ठ्यां मध्यं यदा गच्छेद् राजा वध्येत पार्थिवः । अवन्तीनां च पूर्वार्धं मागधाश् च विशेषतः ॥
(अव्परिस्_50,3.4) परं कुमारेष्व् अष्टम्यां राजानं दशमी परम् । एवं च पक्षापचये मध्ये दृश्येत द्वादशी ॥
(अव्परिस्_50,3.5) हन्ति पञ्चनदं तत्र राजानं सुमहद्बलम् । सर्वांश् च कुर्याद् राज्ञस् तु तस्मिन्न् उत्पातदर्शने ॥
(अव्परिस्_50,4.1) अद्भुतानि च दृश्यन्ते तस्मिन्न् उत्पातदर्शने । वैश्वानरपथं प्राप्तः समुद्रम् अपि शोषयेत् ॥
(अव्परिस्_50,4.2) कृत्तिकानां मघानां च रोहिण्याश् च विशाखयोः । एतेषाम् उत्तरो मार्गो राजवीथीति तां विदुः ॥
(अव्परिस्_50,4.3) यदीमं मार्गम् आस्थाय चन्द्रमा विनिवर्तते । नावर्षा उत्तमा ज्ञेया योगक्षेमं तथैव च ॥
(अव्परिस्_50,4.4) गजवीथीं नागवीथीं यदि गच्छति चन्द्रमाः । ..... गोवीथीति तदाप्य् आहुर् गर्गस्य वचनं यथा ॥
(अव्परिस्_50,4.5) अष्टौ स्थानानि चन्द्रस्य क्रोष्टुकिर् यानि वेद वै । नौस्थायी लाङ्गली चैव तृतीयश् चोत्तरोन्नतः ॥
(अव्परिस्_50,4.6) दण्डस्थायी चतुर्थस् तु दण्डशायी तु पञ्चमः । षष्थस् तु यूपस्थायी स्यात् पार्श्वशायी तु सप्तमः ॥
(अव्परिस्_50,4.7) अष्टमो ऽवाङ्शिराश् चैव फलम् अस्य निबोधत । राजानः स्वेषु राष्ट्रेषु युक्तदण्डाः प्रशासति ॥
(अव्परिस्_50,5.1) लाङ्गली ग्रसते लोकान् युगान्तं प्रतिपादयेत् । मारीं समधिकाम् आहुर् यदा स्याद् उत्तरोन्नतः ॥
(अव्परिस्_50,5.2) दण्डस्थायी त्व् अमात्यानां भयं रोगं विनिर्दिशेत् । शक्तिछेदा ग्रन्थिछेदा गोस्तेनाः पारदारिकाः ॥
(अव्परिस्_50,5.3) एते देशान् विलुम्पन्ति दण्डस्थायी यदा भवेत् । दण्डशायी तु विप्राणां भयं तत्र विनिर्दिशेत् ॥
(अव्परिस्_50,5.4) यूपस्थायी तु धान्यानां भयं तत्र विनिर्दिशेत् । हरिते शरीरे सोमस्य पशूनां वधम् आदिशेत् ॥
(अव्परिस्_50,5.5) कृष्णे शरीरे सोमस्य शूद्राणां वधम् आदिशेत् । पीते शरीरे सोमस्य वैश्यानां वधम् आदिशेत्
(अव्परिस्_50,5.6) रक्ते शरीरे सोमस्य राज्ञां तु वधम् आदिशेत् । शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ॥
(अव्परिस्_50,6.1) स्निग्धः पीतः सुवर्णाभः पक्षादौ यदि चन्द्रमाः । गोस्थायी संप्रदृश्येत विप्रवृद्धिं विनिर्दिशेत् ॥
(अव्परिस्_50,6.2) उच्चस्थाने यदा पीतः समशृङ्गः शशी भवेत् । नागवीथीगतः स्निग्धः स सर्वगुणपूजितः ॥

(अव्परिस्_50,6.3) धूम्राभो लाङ्गलस्थायी श्रीमान् सलक्ष्ममण्डलः । पक्षादौ यदि दृश्येत ब्रह्मक्षत्रसुखावः ॥
(अव्परिस्_50,6.4) राजवीथीं तु संप्राप्त उग्रदण्डी यदा भवेत् । हरिद्राकुङ्कुमाभश् च श्मशानम् अवलोकयेत् ॥
(अव्परिस्_50,6.5) मृत्युं संयोजयेत् सोमो बालाकृतिर् अवाङ्छिराः । लाक्षारुधिरसंकाशो धनुःस्थायी यदा भवेत् ॥
(अव्परिस्_50,7.1) संग्रामं योजयेत् सोमो लोके तु तुमुलं भयम् । द्विचन्द्रं गगनं दृष्ट्वा ब्रूयाद् ब्रह्मवधो महान् ॥
(अव्परिस्_50,7.2) द्वौ सूर्यौ वा यदा स्यातां तदा क्षत्रवधो महान् । दृष्ट्वा तु चतुरः सूर्यान् उदितान् सर्वतोदिशम् ॥
(अव्परिस्_50,7.3) शस्त्रेण जनमारेण तद् युगान्तस्य लक्षणम् । आदित्ये पाण्डुरं छत्त्रं संध्यावेलां यदा भवेत् ॥
(अव्परिस्_50,7.4) देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् । आदित्यस्य रथः श्वेतः संध्यावेलां यदा भवेत् ॥
(अव्परिस्_50,7.5) प्रत्यासन्नं भयं विद्यात् तस्मिन्न् उत्पातदर्शने ॥
(अव्परिस्_50,8.1) आदित्यः सर्वतश् छिन्नो द्वैधीभुतः प्रदृश्यते. देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् ॥
(अव्परिस्_50,9.1) क्षेमं विकुक्षिले ब्रूयात् स्थालीपिठरसंस्थिते । संक्षिप्ते क्षीयते लोको दुर्भिक्षं वज्रसंस्थिते ॥
(अव्परिस्_50,9.2) दिवा ह्य् अस्मिन् पतत्य् उल्का सततं कम्पते मही । अपर्वाशनिनिर्घोषाः संध्या च ज्वलनच्छवा ॥
(अव्परिस्_50,9.3) नक्षत्रपातस्योत्पत्तिर् धूमस्य रजसो ऽपि वा । शृङ्गं भवत्य् आदित्यस्य तृणकाष्ठं च शुष्यति ॥
(अव्परिस्_50,9.4) राजानो ह्य् अशिवास् तत्र चित्रं वर्षति माधवः । द्वादशानां तु मासानां मध्ये नश्यति पार्थिवः ॥
(अव्परिस्_50,9.5) कार्त्तिक्यां शुक्लपक्षस्य बहुलस्य त्रयोदशीम् । विद्यात् तु स्वातिसंपातं दिवसान् एकविंशतिम् ॥
(अव्परिस्_50,9.6) सप्ताहं तु भवेद् गोषु सप्ताहं मृगपक्षिषु । मानुषेषु च सप्ताहं ततः श्रेयस् तु कल्पयेत् ॥
(परिशिष्ट_51. ग्रहयुद्धम्)
(अव्परिस्_51,1.1) ओं के चिद् ग्रहा नाररान् आश्रयन्ते के चिद् ग्रहा [ज्योतिषि] संग्रहे च । ग्रहो ग्रहेणैव हतः कथं स्याद् विज्ञाय तत्त्वं भगवान् ब्रवीतु ॥
(अव्परिस्_51,1.2) एवं स पृष्टो मुनिभिर् महात्मा प्रोवाच गर्गो ग्रहयुद्धतन्त्रम् । पराजयं चैव जयं च तेषां शुभासुभम्(अशुभम्ञ्) चैव जगद्धिताय ॥
(अव्परिस्_51,1.3) अर्को जातः कलिङ्गेषु यवनेषु च चन्द्रमाः । अङ्गारकस् त्व् अवन्त्यायां मगधायां बुधस् तथा ॥
(अव्परिस्_51,1.4) बृहस्पतिः सैन्धवेषु महाराष्ट्रे तु भार्गवः । शनैश्चरः सुराष्ट्रायां राहुस् तु गिरिशृङ्गजः । केतुर् मलयके जात इत्य् एतद् ग्रहजातकम् ॥
(अव्परिस्_51,1.5) यस्मिन् देशे तु यो जातः स ग्रहः पीड्यते यदा तं देशं घातितं विद्याद् दुर्भिक्षेण भयेन वा ॥
(अव्परिस्_51,2.1) दिवाकरश् चैव शनैश्चरस् तथा बृहस्पतिश् चैव बुधश् च नागराः । प्रजापतिः केतुर् अथापि चन्द्रमास् तथैव राहूशनसौ च यायिनः ॥
(अव्परिस्_51,2.2) यदा ग्रहो नगर एव नागरं विजेष्यते याय्य् अथ वापि यायिनम् । तदा नृपो नागर एव नागरं विजेष्यते वाय्य् अथ वापि यायिनम् ॥
(अव्परिस्_51,2.3) आरोहणं च भेदश् च लेखनं सव्यदक्षिणम् । रश्मिसंसर्जनं चैव ग्रहयुद्धं चतुर्विधम् ॥
(अव्परिस्_51,2.4) प्रसव्ये विग्रहं ब्रूयात् संग्रामं रश्मिसंगमे । लेखने ऽमात्यपूडा स्याद् भेदने तु जनक्षयः ॥
(अव्परिस्_51,2.5) सर्वेषां नभसि समागमे ग्रहाणाम् उक्तृष्टो भवति तथैव रश्मिवान् यः । स्निग्धत्वं भवति तु यस्य [स ग्रहो ग्रहेण] संयुक्तो भवति [तु यः] पराजयेत शेषः ॥
(अव्परिस्_51,3.1) श्यामो वा व्यपगतरश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा । आक्रान्तो विनिपतितस् ततो ऽपसव्यो विज्ञेयो हत इति स ग्रहो ग्रहेण ॥
(अव्परिस्_51,3.2) बुधश् च भौमः शनिभार्गवाङ्गिराः प्रदक्षिणं याति यदा निशाकरम् । अनमयत्वं त्रिषु सौख्यम् उत्तमं विपर्यये चापि महाञ् जनक्षयः ॥
(अव्परिस्_51,3.3) धनकनकरजतसंचयाश् च सर्वे शमदममन्त्रपराश् चये मनुष्याः । शकयवनतुखारबाल्हिकाश् च क्षयम् उपयान्ति दिवाकरस्य घाते ॥
(अव्परिस्_51,3.4) अथ सोमे हते विद्याद् ध्र्वं राज्ञो विपर्ययः । संहरन्ति च भूतानि भूमिपालाः पृथक्पृथक् ॥
(अव्परिस्_51,3.5) परस्परं विरुध्यन्ते क्षुद्भयं चापि दारुणाम् । अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥
(अव्परिस्_51,4.1) त्रैगर्ताः क्षितिपतयः सयोधमुख्याः पीड्यन्ते गिरिनिलयाग्निजीविनश् च । संग्रामाः सरुधिरपांसुवर्षमिश्रा दुर्भिक्षं भवति धरासुतस्य घाते ॥
(अव्परिस्_51,4.2) सागरनिलयाः पौराः क्षयम् उपयान्ति नरा वणिक्प्रधानाः । भवति तु [राजा] विजयी प्रयायी बुधबन्धने प्रपतन्ति चात्र सोभ्याः ॥
(अव्परिस्_51,4.3) दैवज्ञास् तपसि चिरं सुनिश्चितार्थाः स्युर् दान्ता नृपतिगणः पुरोहिताश् च । आगन्तुर् जयति वधश् च नागराणां त्रैलोक्यम् <च> भयम् उपैति गुरोस् तु घाते ॥
(अव्परिस्_51,4.4) यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गादिषु मदधाः सशूरसेनाः । ये योधाः समरणभुमिलब्धशब्दास् ते सैन्यैः क्षयम् उपयान्ति शुक्रघाते ॥
(अव्परिस्_51,4.5) महिषकवृषभाः सभस्मपौण्ड्राः कृषिपशुपाल्यरताश् च ये मनुष्याः । विविधभयसमाहितास् तु सर्वे क्षयम् उपयान्ति शनैश्चरस्य घाते ॥
(अव्परिस्_51,5.1) ये के चिन् नृपतिषु दाम्भिकाः पिशाचाः कार्याणां व्रतनियमेषु छन्नपापाः । ये चान्ये शबरपुलिन्दचेदिगाधा बाध्यन्ते यदि भवते ऽत्र राहुघातः ॥
(अव्परिस्_51,5.2) आक्रान्तं समनुभवन्ति यायिसंघा वध्यन्ते यदि भवते [परस्] परो ऽहिघातः । संग्रामाः सरुधिरपांसुवर्षमिश्र दुर्भिक्षं भवति तु केतुपीडनेन ॥
(अव्परिस्_51,5.3) यत् किं चिद् दिविगतम् अन्तरिक्षजं वा भौमं वा भवति निमित्तम् अप्रशस्तम् । तत् सवं स्तनितमहाभ्रबिद्युद्वर्षैः शान्तं स्याद् भवति सदक्षिणैश् च होमैः ॥
(अव्परिस्_51,5.4) ये देशा ग्रहगणभिन्नभूमिकम्पा येषां वा ग्रह उपयातचन्द्रसूर्यः । तान् देशान् [ग्रहगणभिन्नभुमिकम्पान्] पर्जन्यः शमयति सप्तरात्रवृष्ट्या ॥

(अव्परिस्_51,5.5) प्रसव्यस् त्रिषु मासेषु संसर्गो मासिकः स्मृतः । लेखने पक्ष इत्य् आहुर् भेदने सप्तरात्रिकम् ॥
(अव्परिस्_51,5.6) आग्नेया वासवाश् चैव वायव्या वारुणास् तथा । सर्व एव शुभा ज्ञेया गर्गस्य वचनं यथा ॥
(परिशिष्ट_52. ग्रहसंग्रहः)
(अव्परिस्_52,1.1) ओम् अथर्वाणं नमस्कृत्य उवाच भगवान् ऋषिः । कीदृशा ग्रहपुत्राश् च कियन्तो वा वदस्व मे ॥
(अव्परिस्_52,1.2) पृष्टह स शौनकेनाथ ब्राह्मणानां हिताय वै । संख्याम् उवाच भगवान् पद्मयोनिमतं यथा ॥
(अव्परिस्_52,1.3) दिक्चारिणो दिविचरा भूचरा व्योमचारिणः । दिवाचरा रात्रिचरा दिवारात्रिचराश् चये ॥
(अव्परिस्_52,1.4) पृथिक्चराश् च ये तत्र ते च स्युः संघचारिणः । चरन्त्य् अपरवीथीषु ये च विभ्रान्तमण्डलाः ॥
(अव्परिस्_52,1.5) ते ग्रहाः संग्रहेणाहं शतशो ऽथ सहस्रशः । अनेकविधसंस्थानं प्रवक्ष्याम्य् अनुपूर्वशः ॥
(अव्परिस्_52,2.1) गोक्षीरकुमुदप्रख्यास् तीव्रेण वपुषान्विताः । चरन्त्य् अन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
(अव्परिस्_52,2.2) एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः । विज्ञेयाश् चतुरशीतिः शुक्रपुत्रा महाग्रहाः ॥
(अव्परिस्_52,2.3) शुक्ला निकराः सौराभास् त्यजन्त इव चार्चिषः । स्फुरन्त इव चाकाशे बिम्बका रश्मिभिर् वृताः ॥
(अव्परिस्_52,2.4) प्रायशो दक्षिणे मार्गे नीचैर् विभ्रान्तमण्डलाः । विकचाः पञ्चषष्टिस् ते बृहस्पतिसुताः स्मृतः ॥
(अव्परिस्_52,2.5) ये श्वेताः किंचिद् आकृष्णा विशिखाः स्युर् वितारकाः । ते षष्टिः कनका नाम शनैश्चरसुता ग्रहाः ॥
(अव्परिस्_52,3.1) एकपक्चाशतो ज्ञेयास् तस्कराः सूक्ष्मरश्मयः । बौधाः कमलगर्भाभाः किंचित् पाण्डुरतेजसः ॥
(अव्परिस्_52,3.2) कौङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमतेजसः । त्रिशिखा वा त्रिभागा वा षष्टिर् इत्य् उत्तरे पथि ॥
(अव्परिस्_52,3.3) नानाधूमनिभा रूक्षा धूमव्याकुलरश्मयः । शतम् एकाधिकं मृत्योः पुत्राः स्युर् धूमकेतवः ॥
(अव्परिस्_52,3.4) कृष्णाभाः कृष्णपर्यन्ताः कलुषाकृतिरश्मयः । राहोः पुत्रास् त्रयस् त्रिंशद् ग्रहास् तामसकीलकाः ॥
(अव्परिस्_52,3.5) नानावर्णाग्निसंकाशा ज्वालामाला विसर्पिणः । विश्वरूपाः सुता अग्नेर् ग्रहा विंशं शतं स्मृतम् ॥
(अव्परिस्_52,4.1) अरुणास् तु सुता वायोर् दारुणाः सप्तसप्ततिः । वातेरिता भ्रमन्तीव रूक्षा विकीर्णरश्मयः ॥
(अव्परिस्_52,4.2) तारापुञ्जप्रतीकाशास् तारामण्डलसंवृताः । प्राजापत्या ग्रहास् त्व् अष्टौ गणका नामनामतः ॥
(अव्परिस्_52,4.3) चत्वारस् तारजा युक्ताः सूक्ष्माणो रूपरश्मयः । ब्रह्मसंतानका नाम द्वे शते चतुरुत्तरे ॥
(अव्परिस्_52,4.4) वंशगुल्मप्रतीकाशा [वंशगुल्मसरश्मयः] । काकतुण्डनिभाभिश् च रश्मिभिः किंचिद् आवृताः ॥
(अव्परिस्_52,4.5) उदकं चोत्सृजन्तीव स्निग्धत्वात् सौम्यदर्शनाः । एते नाम्ना स्मृताः कङ्कास् त्रिंशद् द्वौ वारुणा ग्रहाः ॥
(अव्परिस्_52,5.1) मुण्डताराः कबन्धाभा रुक्मकेशाश् च रश्मयः । कालपुत्राः कबन्धास् ते स्मृताः षण्णवतिर् ग्रहाः ॥
(अव्परिस्_52,5.2) अर्चिष्मांश् च प्रभासश् च रोमशो विषमांस् तथा । अस्निग्धाश् चातिकायाश् च किंशुको राजसायकः ॥
(अव्परिस्_52,5.3) ऋषकैश् चैव राधातः कुमुदः फनको घनः । एषाम् अश्वेति विज्ञेया आरास् तु परिसर्पकाः ॥
(अव्परिस्_52,5.4) नक्षत्रचारिणो ह्य् एते भृगुपुत्रा महाबलाः । पाण्डुराभिः सुदीर्घाभिः शिखाभिः शीतरश्मयः ॥
(अव्परिस्_52,5.5) अतिसंतानकाश् त्व् अन्ये षष्टिर् वायोः सुता ग्रहाः । विकेसराः प्रकाशन्ते कृष्णलोहितरश्मयः ॥
(अव्परिस्_52,6.1) मिश्रीभूतास् तु ते ज्ञेया गुण्ठिता इव रेणुना । धूमकेतोः सुता ज्ञेयाः शतम् एकाधिकं च तत् ॥
(अव्परिस्_52,6.2) अत्यर्थं कनकास् त्व् अन्ये प्रतप्तकनकप्रभाः । अन्तकपुत्रकाः षष्टिर् अस्निग्धा मध्यचारिणः ॥
(अव्परिस्_52,6.3) ये तु नक्षत्रवंशस्य भागम् उत्तरम् आश्रिताः । एकतारा वपुष्मन्तो महाकायाः प्रभान्विताः ॥
(अव्परिस्_52,6.4) व्यालकस्य तु ये पुत्राः सप्तषष्टिः समन्ततः । नामतो ऽधिकचा नाम तत्त्वज्ञैः परिकीर्तिताः ॥
(अव्परिस्_52,6.5) संतानकनिभा ये तु दृश्यन्ते सूक्ष्मरश्मयः । एकतारा द्वितारा वा अथ वा पञ्चतारकः ॥
(अव्परिस्_52,7.1) ब्रह्मराशेस् तु ते पुत्रा ग्रहाः संतानसंस्थिताः । संचरन्ति नभः सर्वम् उत्पन्ने पुरुषक्षये ॥
(अव्परिस्_52,7.2) अणवो लोहितास् त्व् अन्ये प्रकाशन्ते ऽधिकेशकाः । पञ्चषष्टिस् तु ते ज्ञेयाः प्राजापत्या ग्रहाः स्मृताः ॥
(अव्परिस्_52,7.3) परिवेषेषु जातेषु ग्रहाणां मण्डलेषु च । दृश्यन्ते कार्मुका नाम सप्तत्येका समाः स्मृताः ॥
(अव्परिस्_52,7.4) अधर्मसंभवास् त्व् अन्ये चतुर्दश परिक्रमाः । अधःशिखाः प्रकाशन्ते विवर्णा घोरतारकाः ॥
(अव्परिस्_52,7.5) कर्णछिद्रप्रातीकाशाः कृष्णास् ते तारकाकृतौ । कीलका राहुपुत्रास् तु चन्द्रसूर्यतलाश्रयाः ॥
(अव्परिस्_52,8.1) वज्रः कवन्धस् त्रिशिराः शङ्खभेदी शिखावतः । दण्डाश् च राहुपुत्राः स्युर् नामभिस् तुल्यवर्चसः ॥
(अव्परिस्_52,8.2) यथा सोमार्कयोर् ज्योतेर् मण्डलाभ्याशसेविनः । राजन्यत्वात् प्रदृश्यन्ते प्रजानां संक्षयावहाः ॥

(अव्परिस्_52,8.3) तत्र मन्दफला ज्ञेयाः शशाङ्कतलसेविनः । दिवाकरतलाभ्याशं सेविनो भृशदारुणाः ॥
(अव्परिस्_52,8.4) पन्नगास् तु चतुर्विंशत् कृष्णा द्वात्रिंशतिर् ग्रहाः । दक्षिणाद्यासु वीक्ष्यन्ते नीचैर् विभ्रान्तमण्डलाः ॥
(अव्परिस्_52,8.5) केवलं तारकाकारा दृश्यन्ते निःप्रभप्रभाः । पीतरक्ता ग्रहाः पञ्च पूर्वदक्षिणतः स्मृतः ॥
(अव्परिस्_52,9.1) दक्षिणापरतश् चापि पीतरक्तौ ग्रहौ स्मृतौ । उत्तरापरतस् त्व् एकः पीतरक्तो ग्रहः स्मृतः ॥
(अव्परिस्_52,9.2) ऐशान्यां श्वेतरक्ताभ एकस् तिष्ठति सूर्यकः । यः संधिवेलास्व् अर्काभो दिक्षु सर्वासु दृश्यते ॥
(अव्परिस्_52,9.3) नातिदूरे रवेः स्निग्धः स वर्षायाभयाय च । यवक्रीतोषरैभ्याश् च नारदः सर्वतस् तथा ॥
(अव्परिस्_52,9.4) कर्णश् च रैभ्यस्य पुत्रौ चार्वावसुपरावसू । सप्तैते स्थावरा ज्ञेयाः सह सूर्येण सर्पिणः ॥
(अव्परिस्_52,9.5) स्थावराणां नरेन्द्राणां प्राच्यानां पक्षम् आश्रिताः । स्वस्त्यात्रेयो मृगव्याध ऋमुचुः प्रमृचुस् तथा ॥
(अव्परिस्_52,10.1) प्रभासश् चन्द्रभासश् च तथागस्त्यः प्रतापवान् । दृढव्रतस् त्रिशङ्कुश् च अजौ वैश्वानरे मृडः ॥
(अव्परिस्_52,10.2) अरुणश् च दनुश् चैव याम्यायां स्थावराः स्मृताः । गौतमो ऽत्रिर् वसिष्ठश् च विश्वामित्रस् तु कश्यपः ॥
(अव्परिस्_52,10.3) ऋचीकपुत्रश् च तथा भरद्वाजश् च वीर्यवान् । एते सप्त महात्मान उदीच्यां स्थावराः स्मृताः ॥
(अव्परिस्_52,10.4) शिशुमारेण सहिता ध्रुवेण च महात्मना । पुलस्त्यः पुलहः सोमो भृगुर् अङ्गिरसा सह ॥
(अव्परिस्_52,10.5) हाहाहूहू च विज्ञेयौ विष्णोश् च पदम् उत्तमम् । मध्यान्तस्थावराणां तु नियताव् इति बुद्धिमान् ॥
(अव्परिस्_52,11.1) कूटस्थानानि सर्वाणि दिक्ष्व् एतान्य् उपधारयेत् । प्रभान्वितानि श्वेतानि स्निग्धानि विमलानि च ॥
(अव्परिस्_52,11.2) अर्चिष्मन्ति प्रसन्नानि तानि कुर्युः प्रजाहितम् । निःप्रभाणि विवर्णानि निरर्चीम्ष्य् अमलानि च ॥
(अव्परिस्_52,11.3) ह्रस्वान्य् अस्नेहयुक्तानि न भावाय भवन्ति हि । यत् किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ॥
(अव्परिस्_52,11.4) कूटस्थेष्व् अप्रसन्नेषु स्थावरं परिहीयते । आदित्यश् चैव शुक्रश् च लोहिताङ्गस् तथैव च ॥
(अव्परिस्_52,11.5) राहुः सोमः शनैश्चरो बृहस्पतिबुधौ तथा । ऐन्द्र आग्नेयो याम्यश् च नैरृतो वारुणस् तथा ॥
(अव्परिस्_52,12.1) वायव्यश् चैव सौम्यश् च ब्राह्मश् चैवाष्टमो ग्रहः । नवमश् चैव विज्ञेयो धूमकेतुर् महाग्रहः ॥
(अव्परिस्_52,12.2) युगग्रहा न चान्ये ते तत्राष्टौ दिग्ग्रहाः स्मृताः । सनक्षत्रेषु मार्गेषु दृश्यन्ते तु युगग्रहाः ॥
(अव्परिस्_52,12.3) विभ्रान्तमण्डलाः शेषा दृश्यन्ते खचरा ग्रहः । मृत्योर् निश्वासजाश् चान्ये ज्ञेयाः षोडश केतवः ॥
(अव्परिस्_52,12.4) कूष्माण्डवद् विसंछन्नस् त्रिणवा दक्षिणे पथि । एकादशैव विज्ञेया द्वादशादित्यसंभवाः ॥
(अव्परिस्_52,12.5) सूर्यवर्चनिरीक्षास् ते तेजोधातुमया ग्रहाः । दक्षयज्ञे तु रुद्रस्य क्रोधाद् अन्ये तु निःसृताः ॥
(अव्परिस्_52,13.1) भीमरूपा दशैकश् च ज्वलाङ्कुशधरा ग्रहाः । सप्त पैतामहास् त्व् अन्ये तिर्यग्गा जर्जरग्रहाः ॥
(अव्परिस्_52,13.2) शिखाः सृजन्तो विततास् तन्तुशुक्लपटोपमाः । श्वेतकेतव इत्य् अन्ये व्याख्याता दश पञ्च च ॥
(अव्परिस्_52,13.3) उद्दालकर्षिपुत्रास् ते नीचैर् विभ्रान्तमण्डलाः । ते स्युः श्वेतशिखाः सर्वे सौम्याः कान्तास् तनुप्रभाः ॥
(अव्परिस्_52,13.4) अष्टादशेन्दुना सार्धं मथ्यमाने पुरामृते । केतवः कुन्दपुष्पाभाः क्षीरोदनभसि स्मृताः ॥
(अव्परिस्_52,13.5) विरश्मयश् च विशिखा महाकाया निरर्चिषः । रौप्यकुम्भनिभाः सौम्या ग्रहाः स्युः शीततेजसः ॥
(अव्परिस्_52,14.1) ब्रह्मकोपमयस् त्व् एको विश्वात्मा सर्वतो ग्रहः । चतुर्युगान्ते लोकानाम् उदयस् तस्य विद्यते ॥
(अव्परिस्_52,14.2) नक्षत्रपथम् उत्सृज्य नभोअंशाः पार्श्वचारिणः । पूर्वतो ऽभ्युदिता वा स्युर् नीचैर् उत्तरतस् तथा ॥
(अव्परिस्_52,14.3) भूम्याम् अभ्युदिता वा स्युर् ह्रस्वस्नेहपरिप्लुताः । सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥
(अव्परिस्_52,14.4) सर्वेषां पैतृकं कर्म प्रजाभाग्योद्भवं महत् । सर्वे ते सर्वतो हन्युर् अशुभं यद् वदन्ति च ॥
(अव्परिस्_52,14.5) तत्कर्मजन्ममाहात्म्यं शीलाभिजनम् एव च । तद्रूपांस् तद्गुणांश् चापि तन्मयांस् तत्परिग्रहान् ॥
(अव्परिस्_52,15.1) सर्व एव रोगप्रदा मृत्युशस्त्राग्नितस्करैः । पशुसस्योपघातैश् च हन्युर् अन्यैश् च कारणैः ॥
(अव्परिस्_52,15.2) धूपनात् स्पर्शनात् स्थानाद् उदयास्तमसंभवात् । हन्युः पञ्चविधं सर्वे केतवो नात्र संशयः ॥
(अव्परिस्_52,15.3) मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च । दारुणेषु च ऋक्षेषु साधारणचरेषु च । दारुणेषु च ऋक्षेषु विद्यात् तत्सदृशं फलम् ॥
(अव्परिस्_52,15.4) यथादिष्टं यथावर्णं यथावर्गपरिग्रहम् । सर्व एवोदिता हन्युः सर्व एव महाग्रहाः ॥
(अव्परिस्_52,15.5) मृत्योः कालस्य सूर्यस्य ब्रह्मणस् त्र्यम्बकस्य च । भौमस्य राहोर् अग्नेश् च प्रजाता ये सुदारुणाः ॥
(अव्परिस्_52,16.1) प्रजापतेश् च धर्मस्य सोमस्य वरुणस्य च । पीताद्याश् च दिशां पुत्रा विज्ञेया मृदुदारुणाः ॥
(अव्परिस्_52,16.2) कश्यपस्य च मरीचेर् उद्दालकऋषेस् तथा । पुत्रा मन्दफला ज्ञेयास् तेषाम् अमृतसंभवाः ॥

(अव्परिस्_52,16.3) शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्तिताः । तेषां वीर्याणि जानियात् पितृभ्यः साधिकानि तु ॥
(अव्परिस्_52,16.4) नारदात्रेयगर्गाणां गुरोर् उशनसस् तथा । ग्रहाणां संग्रहो ह्य् एवम् एष कार्त्स्न्येन कीर्तितः ॥
(अव्परिस्_52,16.5) अनेकशतसाहस्र अनेकशतलक्षणः । देवलब्धवराकाशे प्राह सर्वान् पृथक्पृथक् ॥
(अव्परिस्_52,16.6) एतदुत्थे तु सर्वस्मिन् भये ऽथ समुपस्थिते । महाशान्तिं प्रकुर्वीत राजा राष्ट्रस्य रक्षणे ॥
(अव्परिस्_52,16.7) तत् प्रयाति शमं सर्वं प्रजानां तु सुखं भवेत् । राजानो मुदितास् तत्र पालयन्ति वसुंधराम् ॥
(परिशिष्ट_53. राहुचारः)
(अव्परिस्_53,1.1) ओम् उपेत्य यश् चन्द्रमसं रविं वा गृह्णाति सूनोर् असुरस्य पुत्रः । निबोधतैतस्य शुभाशुभानि ग्रहस्य मृत्योः प्रतिचेष्टितानि ॥
(अव्परिस्_53,1.2) यदा तु राहुः शशिनो रवेर् <वा> [ग्रहे] ग्रहीतुकामो भवति प्रसह्य । तदा करोत्य् अद्भुतदर्शनानि यैर् ज्ञायते राहुर् उपैष्यतीति ॥
(अव्परिस्_53,1.3) उद्वेपते तदा चन्द्रो यदा राहुः प्रदृश्यते ॥ पाण्डुर् वा जायते क्लीबः शशो वास्य विवर्धते ॥
(अव्परिस्_53,1.4) रेखान्तरापुराराणि कल्मषाणि दिवाकरे । वदन्ति च भऋशं श्वानो वान्ति वाताश् च भीषणाः ॥
(अव्परिस्_53,1.5) संध्ययोर् उभयोश् चोल्का गवां प्रक्षीयते पयः । क्षीरिणाम् ऐव वृक्षाणां तद् अहर् नश्यते पयः ॥
(अव्परिस्_53,2.1) अप्सु स्निग्धानि दृश्यन्ते काकाबध्नन्ति मण्डलम् । ऊर्ध्वं वदति गोमायुर् यदा राहुः प्रदृश्यते ॥
(अव्परिस्_53,2.2) चन्द्रग्रहनिमित्तानि शुक्लपक्शाष्टमीपरम् । आ पौर्णमास्या दृश्येरन् सूर्यस्य च तथोभयोः ॥
(अव्परिस्_53,2.3) उदितो गृह्यमाणस् तु हन्ति वेदविदो जनान् । बालांश् च जटिलान् हन्ति ये च काषायवाससः ॥
(अव्परिस्_53,2.4) यौवनस्थांश् च पूर्वाह्णे हन्ति यज्ञविदो जनान् । औदकानि च सर्वाणि नागेन्द्राश् चात्र दुःखिताः ॥
(अव्परिस्_53,2.5) अथ मध्यपथं प्राप्तः शूद्रान् हन्ति च तस्करान् । परिवृक्तो नृपं हन्ति चन्द्रश् चरणचारणान् ॥
(अव्परिस्_53,3.1) प्रलम्बः प्रमदान् हन्ति क्षत्रं राष्ट्रं च सर्वशः । त्रैगर्ताश् चात्र पीड्यन्ते ये च दण्डभृतो जनाः ॥
(अव्परिस्_53,3.2) उपरक्तो यदोदेति यदा वा प्रतितिष्ठति । अयोगक्षेमम् आदिश्येत् त्रिषु लोकेषु दारुणम् ॥
(अव्परिस्_53,3.3) शारदं त्रीणि वर्षाणि सस्यं जातं न पच्यते । नैदाघेनात्र जीवन्ति प्रजा मूलफलेन वा ॥
(अव्परिस्_53,3.4) सर्वं संग्रसते ज्योतिश् चिरम् अन्तर्दधाति वा । हन्ति स्फीतानि राष्ट्राणि प्रधानं च महीपतिम् ॥
(अव्परिस्_53,3.5) यदि <तु> राहुर् उभौ शशिभास्करौ ग्रसति पक्षम् अनन्तरम् अन्ततः । पुरुषशोणितकर्दमवाहिनी भवति भूर् न च वर्षति माधवः ॥
(अव्परिस्_53,4.1) गृहीत्वा भास्करं पूर्वं गृह्णाति शशिनं यदि । तं तु सोमोत्तरं नाशस् तत्र र्ध्यन्ते हि देवताः ॥
(अव्परिस्_53,4.2) वयसां मरणं छिद्रे प्रकीर्णे रक्षसां वधः । नागानां तु महानागे छिद्रे देवो न वर्षति ॥
(अव्परिस्_53,4.3) श्वेतो वर्णो ब्राह्मणानां क्षत्रियाणां तु लोहितः । वैश्यानां पीतको वर्णः शूद्राणां कृष्ण उच्यते ॥
(अव्परिस्_53,4.4) एतेषां येन वर्णेन राहुश् चरति भास्करे । या जातिस् तस्य वर्णस्य तां स पीडयते ग्रहः ॥
(अव्परिस्_53,4.5) श्यामो भवति वाताय द्रौक्षो भवति वृष्टये । हरिद्रः सर्वधान्यानां कोपं सृजति दारुणम् ॥
(अव्परिस्_53,5.1) ताम्रो भवति शस्त्राय शस्त्राय रूक्षो भवति मृत्यवे । बह्वाकारस् तु भूतानां घोरं जनयते ज्वरम् ॥
(अव्परिस्_53,5.2) धूमवर्णो ऽग्निवर्णो वा ग्रामेषु नगरेषु वा । अग्न्युत्पातान् गृहस्थानां करोतीह महाग्रहः ॥
(अव्परिस्_53,5.3) नीललोहितपर्यन्तो राहुश् चरति भास्करे । अमात्यो हन्ति राजानं राजा वामात्यम् आत्मह ॥
(अव्परिस्_53,5.4) यस्य राज्ञश् च नक्षत्रे स्वर्भानुर् उपरज्यति । राज्यभ्रंशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥
(अव्परिस्_53,6.1) स्निग्धवर्णो यदार्चिष्मान् पर्वस्थः स्नेहवान् ग्रहः । क्षिप्रं वाप्य् उदितं ब्रूहि सर्वभूतभयाय वै ॥
(अव्परिस्_53,6.2) प्रदक्षिणे तु सोमस्य अपसव्ये तु विग्रहः । रश्मिभेदे भयं घोरम् उल्लेखे मन्त्रिणां वधः ॥
(अव्परिस्_53,6.3) दर्शयित्वा तु रूपाणि यदा राहुर् न दृश्यते । शस्त्रदुर्भिक्षसंपातैर् भयं घोरं विनिर्दिशेत् ॥
(अव्परिस्_53,6.4) गृहीतास्तमितयोस् तु न भुञ्जीरन् द्विजातयः । आ पुनर्दर्शनात् ताभ्यां जपहोमौ विवर्तयेत् ॥
(अव्परिस्_53,6.5) चन्द्रसूर्यग्रहे नाद्याद् अद्यात् स्नात्वा तु मुक्तयोः । अमुक्तयोर् अस्तंगयोर् अद्यात् स्नात्वा परे ऽहनि ॥
(अव्परिस्_53,6.6) ततः षट्सु ततः षट्सु ततो ऽध्यर्धेषू वा पुनः । अर्धवर्षेषु मासेषु आदित्यस्य ततो ग्रहः ॥
(अव्परिस्_53,6.7) ततः षट्सु ततः षट्सु त्रिषु वर्षेषु वा पुनः । एतावद् एव राहोस् तु चारम् आहुर् मनीषिणः ॥
(परिशिष्ट_54. केतुचाराः)
(अव्परिस्_54,1.1) ओं भार्गवस् तु पुरोवाच महर्षीन् भगवान् ऋषिः । केतुसंचारं शृणुत उत्थानं चैव यादृशम् ॥
(अव्परिस्_54,1.2) निमित्तनि च वक्ष्यामितस्योक्तानि हि यानि तु । तानि सर्वाणि जानियाद् उत्पातज्ञानकोविदः ॥

(अव्परिस्_54,1.3) विप्राञ् श्वेताकृतिर् हन्ति क्षत्रियान् हन्ति लोहितः । वैश्यांस् तु पीतको हन्ति शूद्रान् हन्ति तथासितः ॥
(अव्परिस्_54,1.4) इतरान् पीडयेत् केतुर् अन्यवर्णो यदा भवेत् । षण्मासाभ्यन्तरे राज्ञो मरणं च तदादिशेत् ॥
(अव्परिस्_54,1.5) श्वेतः शस्त्राकुलं कुर्याल् लोहितस् त्व् अग्नितो भयम्. क्षुद्भयं पीतकः कुर्यात् कृष्णो रोगम् अथोल्बणम् ॥
(अव्परिस्_54,2.1) यस्मिन् देशे शिरस् तस्य स देशः पीड्यते भृशम् । मध्ये तु मध्यमा पीडा यतो पुच्छं ततो जयः ॥
(अव्परिस्_54,2.2) शक्त्याकारो ऽतिनाशाय दुःखाय मुसलाकृतिः । दीर्घः सूक्ष्मः सुखायैव ह्रस्वः स्थूलो विनाशकृत् ॥
(अव्परिस्_54,2.3) उत्थानं चैव केतूनां विनाशायैव हि स्मृतम् । तस्माद् आथर्वणैर् मन्त्रैः शमनम् आरयेद् बुधः ॥
(अव्परिस्_54,2.4) माहेन्द्रून् अनृतान् रय्द्रून् वौश्वदेवीम् अथापि वा । उत्पातेषु महाशान्तिं कारयेद् बहुदक्षिणाम् ॥
(अव्परिस्_54,2.5) आराधिताः शमं यान्ति तदुत्पाता न संशयः । होमैर् जप्यैश् च विविधैर् दानैश् चबहुरूपकैः ॥
(अव्परिस्_54,2.6) तस्य यत्र शिरो देशे तत उत्थाय वाव्रजेत् । धनं वा सर्वम् उत्सृज्य मृत्योर् मुच्येता वा न वा ॥
(अव्परिस्_54,2.7) दत्त्वा वा पृथिवीं सर्वां राजा शान्तिं नियच्छति ॥
(परिशिष्ट_55. ऋतुकेतुलक्षणम्)
(अव्परिस्_55,1.1) ओम् ऋतुकेतून् प्रवक्ष्यामि यथावद् अनुपूर्वशः । यावन्तो यस्य पुत्राः स्युः कुर्युर् यच् चोदिता दिवि ॥
(अव्परिस्_55,1.2) सर्वे ते धरणीजाता मासा ये देवनिर्मिताः । आदित्यरश्मिभिर् बद्धाः सौरे तिष्ठन्ति मण्डले ॥
(अव्परिस्_55,1.3) दश वै वारुणास् तत्र सूर्यपुत्रास् तु विंशतिः । चतुर्विंशतिर् आग्नेया यमपुत्रा नव स्मृताः ॥
(अव्परिस्_55,1.4) अष्टादश च कौबेरा वायुपुत्रास् तु विंशतिः । एषा संख्या तु केतूनां शतम् एकोत्तरं स्मृतम् ॥
(अव्परिस्_55,1.5) श्रावणप्रौष्ठपदयोर् वारुणांस् तु विनिर्दिशेत् ॥
(अव्परिस्_55,1.6) [आराधिताः शमं यान्ति तदुत्पाता न संशयः । होमैर् जापैश् च विविधैर् दानैश् च बहुरूपकैः ॥]
(अव्परिस्_55,1.7) आवाहयेत् ततो मेघान् पूर्णां कुर्याद् वसुंधराम् । उन्मत्ताः सरितो यान्ति जलवेगसमाहिताः ॥
(अव्परिस्_55,1.8) धान्यं समर्घतां याति ईतयो न भवन्ति हि उदये वारुणानां तु एतद् भवति लक्षणम् ॥
(अव्परिस्_55,2.1) अश्वयुजि कार्त्तिके च सूर्यपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(अव्परिस्_55,2.2) ततो दहति दीप्तांशुः सर्वान्नानि दिवाकरः । म्रियन्ते च तथा गावः श्वापदाश् च विशेषतः ॥
(अव्परिस्_55,2.3) विषं च प्रबलं तत्र सर्वदम्ष्ट्रिषु दारुणम् । उदये सूर्यपुत्राणाम् एतद् भवति लक्षणम् ॥
(अव्परिस्_55,3.1) मार्गशीर्षे च पौषे च अग्निपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(अव्परिस्_55,3.2) अग्निर् दहति राष्ट्राणि हरितानि वनानि च विद्रवन्ति ततो देशाः समन्ताद् भयपीडिताः ॥
(अव्परिस्_55,3.3) कस्मिंश् चिज् जायते क्षेमं कस्मिंश् चिज् जायते भयम् । उदये ह्य् अग्निपुत्राणाम् एतद् भवति लक्षणम् ॥
(अव्परिस्_55,4.1) माघफाल्बुनयोर् मध्ये यमपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(अव्परिस्_55,4.2) शीघ्रं भवति दुर्भिक्षं हाहाभूतम् अचेतनम् । छर्दिज्वरातिसाराश् च ग्लानिश् चैवाक्षिवेदना ॥
(अव्परिस्_55,4.3) उदये यमपुत्राणाम् एतद् भवति लक्षणम् ॥
(अव्परिस्_55,5.1) चैत्रवैशाखयोर् मध्ये कौबेरांस् तु विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(अव्परिस्_55,5.2) उच्छ्रितैर् ध्वजवेदीभिर् उच्छ्रितैर् ध्वजतोरणैः । हविर्धूमाकुला तत्र दृश्यते वसुधा तदा ॥
(अव्परिस्_55,5.3) त्रिविष्टपं समापन्नस् तदा शक्रो महीपतिः । एवं प्रज्ञास् तु मन्यन्ते कुबेरे ग्रहम् आगते ॥
(अव्परिस्_55,5.4) उदये तु कुबेराणाम् एतद् भवति लक्षणम् ॥
(अव्परिस्_55,6.1) ज्यैष्ठे चैव तथाषाढे वायुपुत्रान् विनिर्दिशेत् । तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ॥
(अव्परिस्_55,6.2) वायन्ति च महावाता महायुद्धं महाभयम् । भज्यन्ते च महावृक्षास् तोरणाट्टालकानि च ॥
(अव्परिस्_55,6.3) गृहाणि रामणीयानि क्षयं यान्ति जलानि च । उदये वायुपुत्राणाम् एतद् भवति लक्षणम् ॥
(अव्परिस्_55,6.4) ऋतुगतम् उदयनम् एषां महौजसां वारुणादिकेतूनाम् । जानाति यः फलं च प्रोत्कृष्टाः संपदस् तस्य ॥
(परिशिष्ट_56. कूर्मविभागः)
(अव्परिस्_56,1.1) ओं कृत्तिकारोहिणीसौम्यं मध्यं कूर्मस्य निर्दिशेत् ॥ शेषान् ऋक्षविभागे तु त्रिकं प्रति विनिर्दिशेत् ॥
(अव्परिस्_56,1.2) साकेतमिथिले मेकलालयाव् अहिछत्त्रनागपुरं काशिपारियात्रकुरुपाञ्चालाः ॥ अथ कोसलकौशाम्बीतीरं पाटलिपुत्रं कलिङ्गपुरपृथिवीमण्डलमध्ये ऽभिहते ऽभिहन्यात् ॥
(अव्परिस्_56,1.3) अङ्गवङ्गकलिङ्गमागधमहेन्द्रगवसम् अम्बष्ठाः ॥ भागाः पूर्वसमुद्राः शिरस्य् अभिहते ऽभिहन्यात् ॥

(अव्परिस्_56,1.4) खशभद्रा समतटसमवर्धमानकवैदेहा गान्धाराः ॥ कोसलतोसलवेणातटसज्जपुरा माद्रेयतामलिप्ता दक्षिणपूर्वे हते ऽभिहन्यात् ॥
(अव्परिस्_56,1.5) आवन्त्यका विदर्भा मत्स्या चकोरभीम[गम्]रथा यवनवलयकान्तीसिंहललङ्कुणनासिक्यकर्मणोयामिमहि^नर्मदभृगुकच्छा दक्षिणपश्चाद् धते ऽभिहन्यात् ॥
(अव्परिस्_56,1.6) सह्यगिरिवैजयन्ती कुण्कुणनासिक्यकर्मणोयामिमहिनर्मदभृगुकच्छा दक्षिणपश्चाद् धते ऽभिहन्यात् ॥
(अव्परिस्_56,1.7) सौराष्ट्रसिन्धुसौवीरमालवा रामराष्ट्रकान्वीतान् ॥ आनर्तगच्छयन्त्रान् पुच्छे ऽभिहते ऽभिहन्यात् ॥
(अव्परिस्_56,1.8) सारस्वतांस् त्रिगर्तान् मत्स्यान् नान्वारबाल्हिकान् ॥ मथुरापुरंगदेशान् उत्तरभागे हते ऽभिहन्यात् ॥
(अव्परिस्_56,1.9) ब्रह्मावर्तं शतद्रुहिमवन्तं पर्वतं च मैनाकं काश्मीरं चैव तथा उत्तरपार्श्वे हते ऽभिहन्यात् ॥
(अव्परिस्_56,1.10) नेपालकामरूपं च विदेहोदुम्बरं तथा ॥ तथावन्त्यः कैकयश् च उत्तरपूर्वे हते ऽभिहन्यात् ॥
(परिशिष्ट_57. मण्डलानि)
(अव्परिस्_57,1.1) विशाखे कृत्तिकाः पुष्यः पूर्वौ प्रोष्ठपदौ तथा । भरण्यश् च मघाश् चैव फल्गुन्यौ प्रथमे तथा ॥
(अव्परिस्_57,1.2) यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
(अव्परिस्_57,1.3) आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । आग्नेयं तद् विजानीयाद् दुर्भिक्षं चात्र निर्दिशेत् ॥
(अव्परिस्_57,1.4) अल्पक्षीरास् तथा गावो अग्नेर् व्याधिश् च जायते । पुराणि देशा ग्रामाश् च पीड्यन्ते ह्य् अग्निना तदा ॥
(अव्परिस्_57,1.5) पीड्यन्ते चाग्निकर्माणो अग्निवेशाश् च ये नराः । पित्तज्वरस् तथा श्वासह प्रजाः पीडयते तदा ॥
(अव्परिस्_57,1.6) अक्षिरोगास् तथा घोराः पुरुषाणां विशेषतः । आपगाश् चात्र शुष्यन्ति न च सस्यवती मही ॥
(अव्परिस्_57,1.7) तप्यते च तदा भूमिर् न च देवो ऽभिवर्षति । नीललोहितपर्यक्ता अफलाः पादपास् तथा ॥
(अव्परिस्_57,1.8) दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा । एतै रूपैस् तु विज्ञेयम् आग्नेयं चलदर्शनम् ॥
(अव्परिस्_57,2.1) हस्तो ऽश्विन्यौ तथा चित्रा ऋक्षम् अर्यमदैवतम् । ब्राह्मं मृगशिरः स्वातिर् वायव्यं मण्डलं स्मृतम् ॥
(अव्परिस्_57,2.2) यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
(अव्परिस्_57,2.3) आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । वायव्यं तद् विजानीयाद् अक्षेमं चात्र निर्दिशेत् ॥
(अव्परिस्_57,2.4) पांसुवर्षं तदा घोरं क्षीरे सर्पिर् न विद्यते । प्रासादतोरणादीनि प्रपतन्ति महीतले ॥
(अव्परिस्_57,2.5) मद्रका यवनाश् चैव शकाः काम्बोजबाल्हिकाः । गन्धाराश् च विनश्यन्ति एतैः सार्धं तथा किल ॥
(अव्परिस्_57,2.6) गजा वाजिन उष्ट्राश् च वृका नकुलचेटकाः । पीड्यन्ते व्याधिना सर्वे ये च शस्त्रोपजीविनः ॥
(अव्परिस्_57,2.7) पुरे श्रेष्ठा विनश्यन्ति गणेषु गुणसंमिताः । गृहाणि रमणीयानि विशीर्यन्ते च सर्वशः ॥
(अव्परिस्_57,2.8) आयासश् चोल्बणस् तत्र शस्त्रभ्रामः समन्ततः । एतै रूपैस् तु विज्ञेयं वायव्यं चलदर्शनम् ॥
(अव्परिस्_57,3.1) आर्द्राश्लेषास् तथा मूलन् पूर्वाषाढास् तथैव च । वारुणं रेवती चैव सूर्यदैवत्यम् एव च ॥
(अव्परिस्_57,3.2) यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
(अव्परिस्_57,3.3) आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । वारुणं तद् विजानीयात् सुभिक्षं चात्र निर्दिशेत् ॥
(अव्परिस्_57,3.4) बहुक्षीरास् तथा गावो नागाश् च फलिनस् तथा । शान्तारयः प्रजाः सर्वा गोमिनो जङ्गलं पयः ॥
(अव्परिस्_57,3.5) जलोपजीविनः सर्वे प्राप्नुवन्त्य् ऋद्धिम् उत्तमाम् । खेचराश् चात्र दृश्यन्ते स्निग्धवर्णाः समन्ततः ॥
(अव्परिस्_57,3.6) न्यस्तशस्त्राश् च राजानो ब्रह्मक्षत्रं च वर्धते । एतै रूपैस् तु विज्ञेयं वारुणं चलदर्शनम् ॥
(अव्परिस्_57,4.1) ज्येष्ठानुराधा श्रवणः श्रविष्ठाश् च पुनर्वसू । प्राजापत्यम् आषाढाश् च माहेन्द्रं मण्डलं स्मृतम् ॥
(अव्परिस्_57,4.2) यद्य् अत्र चलते भूमिर् निर्घातोल्कास्त एव वा । अशरीराश् च नर्दन्ते कम्पन्ते दैवतानि च ॥
(अव्परिस्_57,4.3) आदित्यो वात्र गृह्येत सोमो वाप्य् उपरज्यते । माहेन्द्रं तद् विजानीयात् सुक्षेमं चात्र निर्दिशेत् ॥
(अव्परिस्_57,4.4) गावः समग्रवत्साश् च स्त्रियः पुत्रसमन्विताः । कीटा व्याला म्रियन्ते च ये चान्ये स्वेदजन्तवः ॥
(अव्परिस्_57,4.5) वेदाध्ययनयज्ञेषु ब्राह्मणा निरताः सदा । विट्क्षत्रियाः स्वकर्माणः शूद्राः शुश्रूषकारकाः ॥
(अव्परिस्_57,4.6) विंशतिशतं त्व् आग्नेयं वायव्यं नवतिं चलेत् । अशीतिं चलते त्व् ऐन्द्रं वारुणं सप्ततिं चलेत् ॥
(अव्परिस्_57,4.7) आग्नेयो भूमिकम्पो यः स द्विमासाद् विपच्यते । वारुणस् तु फलं सद्यो वायव्यस् तु त्रिमासिकः ॥ माहेन्द्रस्य फलं विद्यान् मासम् अर्धं तथैव च ॥
(परिशिष्ट_58. दिग्दाहलक्षणम्)
(अव्परिस्_58,1.1) ओम् अत ऊर्ध्वं च दिग्दाहान् कीर्त्यमानान् निबोधत । यथा दिशः प्रदह्यन्ते तासां दाहफलं च यत् ॥
(अव्परिस्_58,1.2) इन्द्रो ऽग्निर् मरुतश् चैव प्रदहन्ति दिशो दश । शुभाशुभाय लोकानां कृतान्तेनाभिचोदिताः ॥

(अव्परिस्_58,1.3) यदास्तमित आदित्ये वह्नेर् ज्वाला प्रदृश्यते. दिशां दाहं तु तद् विद्याद् भार्गवस्य वचो यथा ॥
(अव्परिस्_58,1.4) नानारागसमुत्थानां नानाविधफलोदयाः । पांशुनेव च संछन्ना दिग्दाहायोगम् आश्रिताः ॥
(अव्परिस्_58,1.5) दिशः सर्वाः प्रदह्यन्ते अक्षेमाय फलाय च । अवदाहाद् ऋते दाहं यदि स्निग्धाः प्रदर्शनाः ॥
(अव्परिस्_58,1.6) तमोधूमरजस्का ये दीप्तद्विजमृगावृताः । प्रदीप्तलक्षणाः सत्याः सर्व एवाहितावहाः ॥
(अव्परिस्_58,1.7) तथा कनककिंजल्कतडित्कल्पाः शिवाश् च ये । रूक्षाः कृष्णाथ माञ्जिष्ठा बन्धुजीवकवच् च ये ॥
(अव्परिस्_58,1.8) श्वेता रक्ताश् च पीताश् च दाहाः कृष्णाश् च वर्णतः । ब्रह्मक्षत्रियविट्शूद्रविनाशाय प्रकीर्तिताः ॥
(अव्परिस्_58,1.9) रक्ताः शस्त्रभयं कुर्युर् पीता व्याधिप्रकोपनाः । अग्निवर्णास् तथा कुर्युर् अग्निशस्त्रभयं महत् ॥
(अव्परिस्_58,1.10) सपीतपरुषश्यामा ये च वारुणसंनिभाः । सर्व एव क्षुधारोगमृत्युशस्त्राग्निकोपनाः ॥
(अव्परिस्_58,1.11) ऋतौ तु वर्षं तीव्रं स्यात् सैन्यविद्रवम् एव च । भृशम् उद्द्योतनी संध्या कुरुते वा ग्रहागमम् ॥
(अव्परिस्_58,1.12) दिक्षु दग्धासु पीड्यन्ते यथादिग् देशभक्तयः । शकुनज्ञाननिर्दिष्टा ये च तत्राधिकारकाः ॥
(अव्परिस्_58,1.13) यथोक्ता तु महाशान्तिर् यथोक्तविधिना कृता । सर्वं दिग्दाहजं घोरं शमयेत् सा सदक्षिणा ॥
(परिशिष्ट_58ब्. उल्कालक्षणम्)
(अव्परिस्_58ब्,1.1) ओम् उल्कादयो हि निर्दिष्टा निर्घातास् तु पुरात्र ये । तेषाम् इदानीं वक्ष्यामि विशेषांस् तु पृथक्पृथक् ॥
(अव्परिस्_58ब्,1.2) अङ्गानाम् आन्तरिक्षाणां यद् अङ्गम् अभिपूजितम् । तद् उल्कालक्षणं श्रीमद् अङ्गं कार्त्स्न्येन वक्ष्यते ॥
(अव्परिस्_58ब्,1.3) अप्रधृष्याणि यानि स्युः शरीराणीन्द्रियैर् दृढैः । क्षमावन्ति विशुद्धानि सत्यव्रतरातानि च ॥
(अव्परिस्_58ब्,1.4) तान्य् एतानि प्रकाशन्ते भाभिर् वितिमिरं नभः । समन्ताज् ज्वलयन्तीह यस्माद् असुकरं नभः ॥
(अव्परिस्_58ब्,1.5) तानि भावक्षयाद् भूयः प्रच्युतानि नभस्तलात् । क्षितौ सलक्षणान्य् एव निपतन्तीह भार्गव
(अव्परिस्_58ब्,1.6) तेषां निपततां तत्र यत्रयत्रोपलक्ष्यते । तत्रतत्रैव विविधं प्रजानां जायते भयम् ॥
(अव्परिस्_58ब्,1.7) रूपवर्णप्रभास्नेहप्रमणाकृतिसंगमैः । तेषां बलाबलं ज्ञात्वा गुणदोषः प्रवक्ष्यते ॥
(अव्परिस्_58ब्,1.8) तारा धिष्ण्यास् तथोल्काश् च विद्युतो ऽशनयस् तथा । विकल्पाः पञ्चधा चैषां परस्परबलोत्तराः ॥
(अव्परिस्_58ब्,1.9) तत्र शब्देन्ब महता विस्वरेण विकर्षिणा । महाचक्रम् इवागच्छद् आयताक्षा नभस्तलात् ॥
(अव्परिस्_58ब्,1.10) मनुष्यमृगहस्त्यश्ववृक्षाश्मपथवेश्मसु । पतन्त्य् अशनयो दीप्ताः स्फोटयन्त्यो धरातलम् ॥
(अव्परिस्_58ब्,2.1) सहसैवोपपन्नेषु भृशं तदनुयायिना । सत्त्वविभ्रंशिनात्यर्थं शब्देनोद्वेगकारिणा ॥
(अव्परिस्_58ब्,2.2) ज्वालाभारविसर्पिण्यः प्रकृत्या दुःखदर्शनाः । विद्युतो निपतन्त्य् आशु जीवेषु वनराशिषु ॥
(अव्परिस्_58ब्,2.3) तीक्ष्णशूलविशालाग्रा पतन्ती चापि वर्धते । प्रकृत्या पौरुषी तूल्का तस्या भेदान् निबोधत ॥
(अव्परिस्_58ब्,2.4) कृशा नारीव दीप्ता स्याच् छिखा साङ्गारवर्षिणी । उद्द्योतयन्ती गगनं काञ्चनेनैव वर्मणा ॥
(अव्परिस्_58ब्,2.5) पीतेन पाण्डुना वापि धूमधूमारुणेन वा । विशीर्यता महाभ्रेण महता चानुषङ्गिणा ॥
(अव्परिस्_58ब्,2.6) वंशगुल्मनिभाश् चापि काश् चिद् इन्द्रध्वजोपमाः । काश् चिद् इन्द्रायुधप्रख्याः काश् चिन् मण्डलसंस्थिताः ॥
(अव्परिस्_58ब्,2.7) छत्त्रवच् चापु दृश्यन्ते चक्रवन् निपतन्ति च । दण्डवच् चापि तिष्ठन्ति प्रधावन्ति च सर्पवत् ॥
(अव्परिस्_58ब्,2.8) प्रकीर्णेन कलापेन खे गच्छन्तीव बर्हिणः । अभ्युच्छ्रितेन पुच्छेन याति का चिद् धरातलम् ॥
(अव्परिस्_58ब्,2.9) तेजांसि विकिरन्त्य् अन्याः प्रधावन्ति च गोलवत् ॥
(अव्परिस्_58ब्,3.1) प्रनृत्तप्रेतमार्जातवराहानुगतास् तथा । सस्वना निःस्वनाश् चापि पतन्ति धरणीतले ॥
(अव्परिस्_58ब्,3.2) एतासां फलम् उल्कानां प्रवक्ष्यामि पृथक्पृथक् । तन्तुनैव हि संबद्धा उह्यमानेव वायुना ॥
(अव्परिस्_58ब्,3.3) पतन्ती दृश्यते का चित् का चिद् भ्रमति चाम्बरे । उल्कासंघैः परिवृता का चिद् याति धरातलम् ॥
(अव्परिस्_58ब्,3.4) सामान्यं तु फलं तासां तत् समासेन वक्ष्यते । वराहप्रेतशार्दूलसिंहमार्जारवाराइः ॥
(अव्परिस्_58ब्,3.5) तुल्या भयावहा उल्का निकृष्टाहिनिभा च या । शूलपट्टिशशक्त्यृष्टिमुद्गरासिपरश्वधैः ॥
(अव्परिस्_58ब्,3.6) वृष्ट्याकारेण तुल्याश् च वृक्षाभाश् च विगर्हिताः । पद्मशङ्खेन्दुवज्राहिमत्स्यध्वजनिभाः शुभाः ॥
(अव्परिस्_58ब्,3.7) श्रीवृक्षस्वस्तिकावार्तहंसद्विरदवर्चसः । ज्वलिताङ्गारसंकाशा जिह्मगा अथ शीघ्रगाः ॥
(अव्परिस्_58ब्,3.8) विना पुच्छावकाशेन ह्रस्वेनातिकृशेन वा । दशान्तराणि धनुषः पुच्छं चापि प्रदृश्यते ॥
(अव्परिस्_58ब्,3.9) उल्काविकारो बोद्धव्यो धिष्ण्य इत्य् अभिसंज्ञितः । यस् तु शुक्लेन वर्णेन वपुषा पेलवेन वा ॥

(अव्परिस्_58ब्,3.10) पद्मतन्तुनिकाशेन धूमराजीनिभेन वा । उल्काविकारः सो ऽप्य् उक्तस् तारका नामनामतः ॥
(अव्परिस्_58ब्,3.11) एवं पञ्चविधा ह्य् एताः शौनकेन प्रकीर्तिताः । स्वर्गच्युतानां पततां लक्षणं पुण्यकर्मणाम् ॥
(अव्परिस्_58ब्,4.1) एतासाम् इन्द्रशिरसि पतनं नृपतेर् भयम् । देवतार्चासु पतने राजराष्ट्रभयं भवेत् ॥
(अव्परिस्_58ब्,4.2) पुरद्वरे पुरक्षोभ इन्द्रकीले जनक्षयः । ब्रह्मायतनघातेषु ब्राह्मणानाम् उपद्रवः ॥
(अव्परिस्_58ब्,4.3) चैत्यवृक्षाभिघातेषु सत्कृत्यानां महद् भयम् । द्वारे चायुःक्षयं विद्याद् गृहे तु स्वामिनो भयम् ॥
(अव्परिस्_58ब्,4.4) गोष्ठेषु गोमिनां विद्यात् कर्षकाणां खलेषु च । गृहेषु राज्ञां जानीयाद् भेषु तद्भक्तिनां भयम् ॥
(अव्परिस्_58ब्,4.5) आशाग्रहोपघातेषु तद्देश्यानां तपस्विनाम् । अधोमुखीनृपं हन्याद् ब्राह्मणान् ऊर्ध्वगामिनी ॥
(अव्परिस्_58ब्,4.6) तिर्यग्गा राजपत्नीं च श्रेष्ठिनः प्रतिलोमनी । वंशगुल्मनिभा राष्ट्रं नृपम् इन्द्रध्वजोपमा ॥
(अव्परिस्_58ब्,4.7) गजम् इन्द्रायुधप्रख्या पुरं मण्डलसंस्थिता । मन्त्रिणश् चक्रसंस्थाना छत्त्राकारा पुरोधसम् ॥
(अव्परिस्_58ब्,4.8) मयूरपुच्छानुगता कुर्याद् उल्का जलक्षयम् । विलीयमाना नभसि पिबत्य् उल्का पयोधरान् ॥
(अव्परिस्_58ब्,4.9) स्फुलिङ्गान् विसृजन्त्यो याः प्रधावन्ति समन्ततः । गोलवच् च प्रधावन्ति तासु राष्ट्रभयं भवेत् ॥
(अव्परिस्_58ब्,4.10) उल्कासंघैः परिवृता याः पतन्ति नभस्तलात् । अनुसारिण्य उल्कास् ता राजराष्ट्रभयावहाः ॥
(अव्परिस्_58ब्,4.11) प्रेतानुगतमार्गाश् च वराहानुगताश् च याः । क्रव्याग्निव्यालरूपाश् च ता जनक्षयकारिकाः ॥
(अव्परिस्_58ब्,4.12) क्षेवेडितास्फोटितोत्क्रुष्टा गीतवादित्रनिस्वनाः । उल्कापातेषु बोद्धव्या राजराष्ट्रभयावहाः ॥
(अव्परिस्_58ब्,4.13) सस्वना दारुणाः संध्यावायोश् च प्रतिलोमगाः । नभो मध्यं च या यान्ति याश् च कुर्युर् गतागतम् ॥
(अव्परिस्_58ब्,4.14) हिनस्ति शुक्ला शिरसा मध्येन क्षतजप्रभा । पार्श्वाभ्यां पीतका हन्ति कृष्णोल्का पुच्छयोगिनी ॥
(अव्परिस्_58ब्,4.15) शुक्ला देवनृपान् हन्यात् क्षत्रियान् क्षतजप्रभा । पीता वैश्योपघाताय शूद्रान् हन्यात् सितेतरा ॥
(अव्परिस्_58ब्,4.16) पतन्त्यो नोपलक्ष्यन्ते कर्म तासां प्रकाशते । क्षिताव् अशनयो यत्र तत्र नास्ति भयागमः ॥
(अव्परिस्_58ब्,4.17) सतारा निपतन्त्य् अन्या मारुतप्रतिलोमगाः । भवन्ति विद्युतो नेष्टा इष्टाश् च स्युर् अतो ऽन्यथा ॥
(अव्परिस्_58ब्,4.18) तारा धिष्ण्याश् च बोद्धव्याश् चिरान् मृदुफलोदयाः । तासाम् अपि च भूयिष्ठं पतनं दोषकारकम् ॥
(अव्परिस्_58ब्,4.19) यतोयतो विकाराः स्युर् निपतन्त्य् अतिमात्रशः । ततस्ततो नृपो यायाद् दैवो मार्गः स उच्यते ॥
(अव्परिस्_58ब्,4.20) निमित्तेषु महाशान्तिम् उल्कायां च विशेषतः । कृत्वा सिद्धिम् अवाप्नोति उल्कादोषाच् च मुच्यते ॥
(परिशिष्ट_59. विद्युल्लक्षणम्)
(अव्परिस्_59,1.1) अत ऊर्ध्वं प्रवक्ष्यामि विद्युल्लक्षणम् उत्तमम् । वर्णरूपविकारांश् च देशभागाञ् शुभाशुभान् ॥
(अव्परिस्_59,1.2) चतुर्थीं पञ्चमीं चैव प्रतीक्षेत सदा शुचिः । आषाढशुद्धे नियतं विद्युद्दर्शनम् अद्भुतम् ॥
(अव्परिस्_59,1.3) अतिवृष्टिम् अनावृष्टिं भावाभावौ तथैव च । सर्वसस्येषु निष्पत्तिर् विद्युतो दर्शने नरः ॥
(अव्परिस्_59,1.4) ऐन्द्र्यां चेत् स्यन्दते विद्युद् ऐन्द्रस्थश् चापि मारुतः । सुभिक्षं क्षेमम् आरोग्यं निरीतिं च विनिर्दिशेत् ॥
(अव्परिस्_59,1.5) आग्नेय्यां चेद् उभौ स्यातां भयं शस्त्राग्निवृष्टिह्तः । याम्यायां विषमारिश् च व्याधिमृत्युभयं तथा ॥
(अव्परिस्_59,1.6) कनीयसी तु नैरृत्यां तथा बह्वीतिका समा । मध्यमा सस्यसंपत्तिर् वारुण्यां व्याधिसंकुला ॥
(अव्परिस्_59,1.7) पतंगदंशमशका वायव्यां मध्यसपदः । अतिवारिभयं विद्यात् सौम्यायां भूरिसंपदः ॥
(अव्परिस्_59,1.8) निरीतिः सस्यसंपत् तु प्रधानाइश्यां मनोरमा । प्रतिलोमेषु वातेषु ईतिबाहुल्यम् आदिशेत् ॥
(अव्परिस्_59,1.9) अनुलोमेषु वातेषु निरीतिं तु समादिशेत् । शुभायां स्यन्दमानायाम् अनिष्टा स्यन्दते यदि ॥
(अव्परिस्_59,1.10) संपद्यते महासस्यान् महांश् चेत् स्याद् अवग्रहः । अशुभा स्यन्दते पूर्वं यदि पश्चाच् च शोभना ॥
(अव्परिस्_59,1.11) सुवृष्टिम् एव तत्राहुर् न च सस्यं समृध्यति । यदा तु सर्वाः स्यन्दन्ते विषमां वृष्टिम् आदिशेत् ॥
(अव्परिस्_59,1.12) बहुलायां विद्युति तु बहुवारिभयं भवेत् । सविद्युतः सस्तनितो दर्शयन्ति यदा शुभाम् ॥
(अव्परिस्_59,1.13) पूर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते । पूर्वतः पूर्ववर्षेषु दृश्यन्ते यदि तोयदाः ॥
(अव्परिस्_59,1.14) प्रदक्षिणावर्तशुभाः सुवृष्टिम् इति निर्दिशेत् । आग्नेयेष्व् अतिवृष्टिः स्यात् सस्यं चापि विपद्यते ॥
(अव्परिस्_59,1.15) विषमा वृष्टिर् याम्येषु व्याधिं मृत्युं च निर्दिशेत् । बह्वीतिका नैरृतेषु समूलफलदायिनी ॥
(अव्परिस्_59,1.16) वारुणेषु पयोदेषु मध्यमं सस्यम् आदिशेत् । वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ॥
(अव्परिस्_59,1.17) तत्रातिवृष्टिर् भवति स्वल्पबीजानि वापयेत् । वर्णस्नेभोपपन्नास् तु पूर्ववृष्ट्यां पयोधराः ॥

(अव्परिस्_59,1.18) सौम्यां यत्र प्रवर्षेयुस् तत्र सर्ववृष्ट्यां पयोधराः ॥
(अव्परिस्_59,1.19) इत्य् एतत् पूर्ववर्षेषु लक्षणं विद्युतां स्फुटम् । वर्षारावगतं सर्वं यथावत् परिकीर्तितम् ॥
(अव्परिस्_59,1.20) शुभेष्व् अपि महाशान्तिर् अविघाताय वोच्यते । अशुभेषु समर्घाय तस्मात् सर्वेषु शान्तिकम् इति ॥
(परिशिष्ट_60. निर्घातलक्षणम्)
(अव्परिस्_60,1.1) अष्टौ भवन्ति निर्घातास् तेषाम् इन्द्रः प्रशस्यते । पूर्वेण वृष्टिं सस्यं च राजवृद्धिं च निर्दिशेत् ॥
(अव्परिस्_60,1.2) पूर्वोत्तरे सुभिक्षं तु भूमिलाभस् तथोत्तरे । अपरोत्तरे चौरभयं वाजिनां चाप्य् उपद्रवः ॥
(अव्परिस्_60,1.3) पश्चिमायां भयं राज्ञो जलजातिश् च पीड्यते । नैरृते सस्यगोस्त्रीणां गणानां च महद् भयम् ॥
(अव्परिस्_60,1.4) दक्षिणे राजपीडा स्याद् आयुश् चात्र विनिर्दिशेत् । आनर्तस्य भयं विद्याद् यदि स्यात् पूर्वदक्षिणः ॥
(अव्परिस्_60,1.5) स योजनपरः शब्दो निर्घातस्य विशाम्यति । सर्वत्र च भयं विद्यात् तत्र यत्र विशाम्यति ॥
(अव्परिस्_60,1.6) भये रौद्रीं प्रकुर्वीत अभयां वाभयप्रदाम् । तया शाम्यन्ति चोत्पाताः सुखं चात्यन्तिकं भवेत् ॥
(परिशिष्ट_61. परिवेषलक्षणम्)
(अव्परिस्_61,1.1) ओम् अथातः परिवेषाणां लक्षणं चैव वक्ष्यते । वृद्धगर्गो यथा पूर्वम् उवाच मम सुव्रत ॥
(अव्परिस्_61,1.2) स्वायंभुवनियोगेन विकारं कुरुते ऽमलः ॥
(अव्परिस्_61,1.3) श्वेतः श्यामो हरिः कृष्ण इति वर्णा व्यवस्थिताः । प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाः सुपूजिताः ॥
(अव्परिस्_61,1.4) स्निग्धेषु परिवेषेषु वतुर्ष्व् एतेषु नारद । संध्यायाम् अत्र वर्णेषु वृष्टिं तेष्व् अभिनिर्दिशेत् ॥
(अव्परिस्_61,1.5) काचनीलाञ्जनारिष्टाशनिसर्पनिभेषु च । रौप्यद्रवसमाभेषु मेघस् त्रिष्व् अपि वर्षति ॥
(अव्परिस्_61,1.6) निमग्ना तु यदा संध्या भवत्य् एतत् सुवृष्टये । एभ्यश् च विपरीता ये ते ऽवृष्टिभयदा घनाः ॥
(अव्परिस्_61,1.7) वराहैर् मकरैर् उष्ट्रैर् वृकैः कङ्कैस् तथा खरैः । शशकाकृतयः कुर्युः संध्यायां जलदा भयम् ॥
(अव्परिस्_61,1.8) हेमपावकवर्णाश् च विपुलं च जनक्षयम् । शब्दं श्वखरगोमायुगृध्रवायससंस्थिताः ॥
(अव्परिस्_61,1.9) पूर्वापरासु संध्यासु संग्रामं प्राहुर् उन्मुखाः । अश्वस्था वारणस्थाश् च येषु योधा नरा इव ॥
(अव्परिस्_61,1.10) मेघेषु संप्रदृश्यन्ते ये पाशाङ्कुशसंनिभाः । तथा सवारणाश् चैव विनिघ्नन्तः परस्परम् ॥
(अव्परिस्_61,1.11) क्रव्याद्भिर् भक्ष्यमाणाश् च गृध्रगोमायुवायसैः । उद्युध्यन्ते यदा युक्ता राञ्जः संशयकारकाः ॥
(अव्परिस्_61,1.12) मयूराट्टालपद्मेन्दुकाशनीलनिभानि तु । संध्यास्व् अभ्राणि दृश्यन्ते तीव्रं वर्षम् उपस्थितम् ॥
(अव्परिस्_61,1.13) सविद्युत् सधनुष्कश् च सघोषः शिखिसंनिभः । संध्यास्व् अभ्राणि दृश्यन्ते तीव्रं वर्षम् उपस्थितम् ॥
(अव्परिस्_61,1.14) नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् । विवर्णं परिघं दृष्ट्वा विद्याद् उदकवाहकम् ॥
(अव्परिस्_61,1.15) त्रिवर्णे परिघे वापि त्रिवर्णैर् वा बलाहकैः । उदयास्तमयम् इयाद् यदि सूर्यः कदा चन ॥
(अव्परिस्_61,1.16) पृथिव्यां राजवंश्यानां महद् भयम् उपस्थितम् । लोकक्षयकरं विद्याद् यदि देवो न वर्षति ॥
(अव्परिस्_61,1.17) मत्स्यरूपी सादृश्येन यद्य् उत्तिष्ठेत भास्करः । स्फुटरश्मिस् तदादित्यः स निर्दहति मेदिनीम् ॥
(अव्परिस्_61,1.18) एतद् दृष्ट्वा महद् रूपम् आदित्ये समुपस्थिते । विस्पष्टं ज्योतिर् विस्पष्टं सद्योवर्षस्य लक्षणम् ॥
(अव्परिस्_61,1.19) ग्रहसंछादनं चापि गर्जनं प्रतिगर्जनम् । परस्परेण कुर्वन्ति मेघा वेगसमीरिताः ॥
(अव्परिस्_61,1.20) तस्मिंश् चतुर्विधे युद्धे मेघानां व्योमचारिनाम् । उत्पद्यन्ते त्रयो भावास् तन् मे निगदतः शृणु ॥
(अव्परिस्_61,1.21) गर्जमानेषु मेघेषु वारणः प्रतिगर्जति । तां दिशं योजयेत् स्नेनां गर्जनं यत्र मीयते ॥
(अव्परिस्_61,1.22) विद्युतो ऽभ्रविकारेषु शक्रायुधनिभायुधाः । स्फोटिताशनिघण्टाश् च यां दिशं मेघवारणाः ॥
(अव्परिस्_61,1.23) संघट्टेषु समुद्भुताः परस्परजिघांसवः । तां दिशं योजयेत् सेनां राजा जयति तां दिशम् ॥
(अव्परिस्_61,1.24) ग्रहणाछादने चैव गर्जने प्रतिगर्जने । एवम् एव विधिर् ज्ञेयः सर्वश् चैव विनिश्चयः ॥
(अव्परिस्_61,1.25) परिमाणं न शक्यं तत् समीरितुम् अशेषतः । अपराभ्रविकाराणां रत्नानाम् इव सागरे ॥
(अव्परिस्_61,1.26) संध्या योजनभाक् प्रोक्ता स्तनितं तु द्वियोजनम् । परिघः पञ्चयोजन्यः प्रत्यादित्यस् त्रियोजनः ॥
(अव्परिस्_61,1.27) निर्घातः षट् तथा विद्युत् परिवेषो द्विषड्यतः । दाहं योजनकं चापि उल्का त्व् अमितभागिनी ॥
(अव्परिस्_61,1.28) दशसंस्था समाप्तानि शायाङ्गानि प्रमाणतः । अङ्गानि त्व् आन्तरिक्षाणि विज्ञेयानि समासतः ॥
(परिशिष्ट_62. भूमिकम्पलक्षणम्)

(अव्परिस्_62,1.1) ओं चत्वारो भुमिकम्पास् तु गर्गः प्रोवाच बुद्धिमान् । अग्निर् वायुस् तथापश् च चतुर्थस् त्व् इन्द्र उच्यते ॥
(अव्परिस्_62,1.2) तेषां रूपं विकारांश् च व्याख्यास्यामो ऽनुपूर्वशः । यज् ज्ञात्वा बुद्धिमान् धीरो निर्दिशेद् विविधं फलम् ॥
(अव्परिस्_62,1.3) प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेणा तु । [भवेयुर् अत्र संग्रामा राज्ञां मृत्युभयप्रदाः ॥
(अव्परिस्_62,1.4) राज्ञां विरोधो भवति मरणानि भवन्ति च ।] ताम्रः सूर्यश् च चन्द्रश् च पीताश् च मृगपक्षिणः ॥
(अव्परिस्_62,1.5) दिशः सर्वा भवेयुश् च सूर्योदयसमप्रभाः । यद् एतल्लक्षणोपेतं विद्याद् अग्निप्रकम्पितम् ॥
(अव्परिस्_62,1.6) तस्मिन् भवति निर्देशः शौनकस्य वचो यथा । हिरण्यं च सुवर्णं च यच् चान्यद् विद्यते गृहे ॥
(अव्परिस्_62,1.7) सर्वम् एतत् परित्यज्य कर्तव्यो धान्यसंग्रहः । राष्ट्राणि संदहेद् अग्निर् ग्रामांश् च नगराणि च
(अव्परिस्_62,1.8) संग्रामाश् चात्र वर्तन्ते मांसशोणितकर्दमाः । राजानश् च विरुध्यन्ते देवश् चात्र न वर्षति ॥
(अव्परिस्_62,1.9) एवम् एतत्प्रकम्पानां गर्हितम् अग्निकम्पितम् ॥
(अव्परिस्_62,2.1) प्रकम्पितायां भूमौ चेद् इति ॥
(अव्परिस्_62,2.2) अतिप्रचण्डो बहुलो वायुर् भवति दारुणः । शर्कराकर्षणश् चापि दिक्षु चैव विदिक्षु च ॥
(अव्परिस्_62,2.3) तद् एतल्लक्षणोपेतं विद्याद् वायुप्रकम्पितम् । शस्त्रैर् आवरणंकुर्यात् प्राकारं परिखां तथा ॥
(अव्परिस्_62,2.4) न तदा प्रवसेद् ग्रामं ज्ञात्वात्मानं तु गोपयेत् । संग्रामाश् चात्र वर्धन्ते मांसशोणितकर्दमाः ॥
(अव्परिस्_62,2.5) विरुध्यन्ते च राजानो मरणानि भवन्ति हि । राजपुत्रसहस्त्राणां भूमिः पिबति शोणितम् ॥
(अव्परिस्_62,2.6) मासं विंशतिरात्रं वा देवस् तत्र न वर्षति । द्वाभ्यां गताभ्यां मासाभ्यां परं स्याद् बहुलं जलम् ॥
(अव्परिस्_62,2.7) दष्टं दूषयते चात्र क्षतबद्धानि चाधिकम् । एषाम् एव तु कम्पानां गर्हितं वायुकम्पितम् ॥
(अव्परिस्_62,3.1) प्रकम्पितायां भूमौ ॥
(अव्परिस्_62,3.2) वर्षन्तस् तु समायान्ति महामेघाः समन्ततः । नक्राश् च शिशुमाराश् च कूर्मा मकरसंस्थिताः ॥
(अव्परिस्_62,3.3) अभ्राकृतिषु दृश्यन्ते ग्रसन्तश् चन्द्रभास्करौ । तद् एतल्लक्षणोपेतं विद्याद् अम्बुप्रकम्पितम् ॥
(अव्परिस्_62,3.4) पर्वतेषु वपेद् बीजम् ऊषरे जाङ्गले तथा । तत्रोप्तं नन्दते बीजम् अन्यत्र भुवि नश्यति ॥
(अव्परिस्_62,3.5) उदजानि तु पुष्पाणि मूलानि च फलानि च । गच्छन्ति तत्र वृद्धिं च सत्त्वान्य् उदकजानि च ॥
(अव्परिस्_62,3.6) [क्षेमं सुभिक्षम् आरोग्यं सुवृष्टिं चात्र निर्दिशेत्] ॥
(अव्परिस्_62,4.1) प्रकम्पितायां भूमौ ॥
(अव्परिस्_62,4.2) गम्भीरं गर्जमानस् तु मेघ आयाति पार्थिवः । स्निग्धो ह्य् अञ्जनसंकाशः सुमहत्पर्वतोपमः ॥
(अव्परिस्_62,4.3) वित्रासयन् दिशः सर्वा द्रुतं चापि प्रवर्षति । इन्द्रायुधं भवेच् चात्र विद्युत् स्तनितम् एव च ॥
(अव्परिस्_62,4.4) सुवृष्टिं क्षेमम् आरोग्यं सुभिक्षं परमा मुदः । यज्ञोद्भवैस् तु मोदन्ते आनन्दैर् मोदिताः प्रजाः ॥
(अव्परिस्_62,4.5) एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पनम् । जानीयाल् लक्षणैर् एतैः सर्वम् एव शुभाशुभम् ॥
(अव्परिस्_62,4.6) एतेषु त्रिषु कम्पेषु अथर्वा शास्त्रकोविदः । माहेन्द्रीम् अमृतां वापि कुर्याच् छान्तिं सदक्षिणाम् ॥
(अव्परिस्_62,4.7) इन्द्रकम्पे तु विधिवद् ऐन्द्रैर् मन्त्रैर् विधानवित् । ततोहलस्य प्रधानार्थं जुहुयाच् च जपेत् तथा ॥
(परिशिष्ट_63. नक्षत्रग्रहोत्पातलक्षणम्)
(अव्परिस्_63,1.1) ओम् अथ परं प्रवक्ष्यामि वक्षत्रेषु ग्रहेषु च । परिवेषान् बहुविधान् नानाविधफलोदयान् ॥
(अव्परिस्_63,1.2) ऐन्द्रवारुणकौबेरान् रक्तपाण्डुरमेचकान् । पाण्डून् बभ्रूंश् च पीतांश् चानीलानलयमात्मनः ॥
(अव्परिस्_63,1.3) प्राजापत्यांश् च रौद्रांश् च नैरृत्यांश् चापि भार्गव । हरिशबलकापोतान् परिवेषान् उवाच ह ॥
(अव्परिस्_63,1.4) नवैते परिवेषाणां वर्णा दैवतयोनयः । बहुत्वम् एते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥
(अव्परिस्_63,1.5) गृहीत्वाभ्ररजः सूक्ष्मं वर्णयोग् संनिपत्य च । पितामहनियोगेन मातुरो मण्डलीकृतः ॥
(अव्परिस्_63,1.6) शुभाशुभार्थं लोकानां ज्योतीम्ष्य् अवरुणद्धि सः । तस्य रूपं गुणं ज्ञात्वा गुणदोषः प्रचक्ष्यते ॥
(अव्परिस्_63,1.7) नक्षत्रतारकाणां च परतो विषयस्य च निविष्टो भाव आगन्तुं परिवेष इति स्मृतः ॥
(अव्परिस्_63,1.8) धृततीक्ष्णार्ककिरणे प्रसन्ना मृदुमण्डले । प्रस्निग्धे चैकवर्णे च मांसले व्यक्तलक्षणे ॥
(अव्परिस्_63,1.9) लोहिताक्षौ क्षुरक्रान्ते सरश्मौ पीतमण्डले । आ प्रदोषाद् विमध्याह्नाद् आ नक्षत्रान्तगामिनि ॥
(अव्परिस्_63,1.10) सहाभ्रभारस्तनिते परिवेषे प्रकाशिनि । अनृताव् अपि जानीयान् महद् भयम् उपस्थितम् ॥

(अव्परिस्_63,2.1) कृष्णनीहारतिमिरे प्रकृत्याक्रान्तमण्डले । विकारैर् नाभसैः कीर्णे स्फुलिङ्गोपचिते ऽशुभे ॥
(अव्परिस्_63,2.2) विषमे विगतस्नेहे विध्वस्तकलुषाभ्रके । त्रिषु संधिषु भूयिष्ठं दर्शनं चोपगच्छति ॥
(अव्परिस्_63,2.3) द्वित्रिनक्षत्रगे वापि नक्षत्रार्धगते ऽपि वा । प्रदीप्तैर् वा रसद्भिश् च वीक्ष्यमाणे मृगद्विजैः ॥
(अव्परिस्_63,2.4) परिवेषे विजानीयान् नृपाद्यानाम् उपस्थितम् । सप्तरात्राद् भयं घोरं चौरशस्त्राग्निमृत्युभिः ॥
(अव्परिस्_63,2.5) धूमकर्बुरमाञ्जिष्ठरक्तपीतासिताकृतिः । भवत्य् एकतरे पार्श्वे रूपेणाविलमण्डलः ॥
(अव्परिस्_63,2.6) तनुना चात्र जालेन समन्तात् परिवेष्टितः । मुहुर्मुहुश् च विलयं संस्थानं चापि गच्छति ॥
(अव्परिस्_63,2.7) सो ऽपि वाय्वात्मको ज्ञेयो मृदुमन्ददिवाकरः । परिवेषो ऽल्पफलदो वातवृष्टिः प्रवृंहते ॥
(अव्परिस्_63,2.8) अथ चेद् वातवृष्टिस् तु त्रिरात्रान् नापजायते । जलज्वलनचौराणां प्रादुर्भावः प्रजायते ॥
(अव्परिस्_63,2.9) परिवेषगतो ऽल्का स्याद् द्विमण्डलपरिग्रहे । द्वाभ्यां सेनापतिभयं युवराजभयं त्रिभिः ॥
(अव्परिस्_63,3.1) मण्डलैः पुररोधः स्यात् त्रिभिर् अभ्यधिकैर् ध्र्य्वन् । त्राणि यत्रावरुध्यन्ते नक्षत्रग्रहचन्द्रमाः ॥
(अव्परिस्_63,3.2) त्र्यहाद् वर्षं समाचष्टे स मासाद् विग्रहं वदेत् । सेनापतिकुमाराणां सेनायाश् चापि विद्रवः ॥
(अव्परिस्_63,3.3) लोहिताङ्गपरिवेषे शस्त्राग्न्युत्पात एव च । स्थावराः कर्षकाश् चापि क्षुद्रधान्यं च पीड्यते ॥
(अव्परिस्_63,3.4) वातवृष्टिं च जनयेत् परिविष्टः शनैश्चरः । राज्यम् एव हि गर्भांश् च राहुः पीडयते ध्रुवम् ॥
(अव्परिस्_63,3.5) व्याधींश् चैव प्रजनयेत् परिविष्टश् च चन्द्रमाः । क्षुच्श्वासाग्निभयं घोरं राजतो मृत्युतस् तथा ॥
(अव्परिस्_63,3.6) परिविष्टो ऽम्बरे केतुः शिखिनश् च हिनस्ति सह । द्वयोः संग्रामम् आचष्टे ग्रहयोः परिविष्टयोः ॥
(अव्परिस्_63,3.7) क्षुद्भयं त्रिषु विज्ञेयं वर्षनिग्रह एव च । चतुर्भिर् म्रियते राजा सामात्यः सपुरोहितः ॥
(अव्परिस्_63,3.8) युगान्त इव जानीयात् पत्रिविष्टेषु पञ्चसु । ब्रह्मक्षत्रियविट्शूद्रान् हन्यात् प्रतिपदादिषु ॥
(अव्परिस्_63,3.9) ग्रामान् पुरं च कोशं च पञ्चम्यादिष्व् अतस् त्रिषु । अष्टम्यां युवराजानां चमूपालान् हिनस्ति सह ॥
(अव्परिस्_63,3.10) नवम्यां च दशम्यां च एकादश्यां च पार्थिवान् । त्रयोदश्यां बलक्षोभो द्वादश्यां रुध्यते पुरम् ॥
(अव्परिस्_63,4.1) राजपत्नीं चतुर्दश्यां पज्चदश्यां नृपस्य च । पुरोहितामात्यनृपा हन्युर् अन्योन्यम् एव तु ॥
(अव्परिस्_63,4.2) पुररोधं विजानीयात् परिविष्टे बृहस्पतौ । मन्त्रिणो लेखकाश् चापि रुध्यन्ते स्थावराणि च ॥
(अव्परिस्_63,4.3) वृष्टिं चापि विजानीयात् परिविष्टे बुधे ग्रहे । यायिनः क्षत्रियाश् चापि राजपक्षश् च पीड्यते ॥
(अव्परिस्_63,4.4) धान्यार्घं च प्रियं कुर्यात् परिविष्टो भृगोः सुतः । ताराग्रहपरिवेषा नक्षत्राणां च केवलम् ॥
(अव्परिस्_63,4.5) महाग्रहोदयं कुर्यान् मरणं वा महीपतेः । रक्ते पीते ऽसिते ताम्रे कृष्णे च हरिते ऽरुणे ॥
(अव्परिस्_63,4.6) क्षुच्शस्त्रव्याधिवर्षाग्निमृत्युसस्यानिलानयोः । वर्णानां च भयं ज्ञेयं यथा वर्णपरिग्रहः ॥
(अव्परिस्_63,4.7) कापोतः शबलश् चापि तिर्यग्योनिभयावहौ । मयूरगलशङ्खेन्दुमुक्तागोक्षीरपाण्डुराः ॥
(अव्परिस्_63,4.8) मधूकघृतमण्डाभा दूर्वाश्यामाश् च वृष्टये । विमुक्तारिष्टकाकारास् तैलामलकसंनिभाः ॥
(अव्परिस्_63,4.9) स्निग्धामलजलप्रख्या दर्पणाभास् च पूजिताः । बभ्रवः परुषा रुक्षा हरिद्रारुणसंनिभाः । विछिन्ना लोहिता ह्रस्वा विवर्णाश् च शुभावहाः ॥
(अव्परिस्_63,4.10) यायिनां स्थावराणां च तथैवाक्रन्दसारिणाम् । परिवेषान् विजानीयाद् बाह्याभ्यन्तरमध्यतः ॥
(अव्परिस्_63,5.1) संरक्तश्यामकलुषो येषां भागो हतप्रभः । तेषां पराजयं विद्यात् स्निग्धे श्वेते च वै जयः ॥
(अव्परिस्_63,5.2) येनयेनाभ्रवर्णेन योयो भागो ऽनुरज्यते । तत्तत् तेषां फलं विद्यात् तद् भूत्यादिषु कीर्तितम् ॥
(अव्परिस्_63,5.3) छिद्राण्य् एतान्य् अतश् चाहुर् महान्ति विमलानि च । तैर् द्वारैः पार्थिवो यायात् पन्थानस् ते विकण्टकाः ॥
(अव्परिस्_63,5.4) कालाम्बुदपरिस्रावैर् ग्रहोदयनिमित्तकम् । इत्यर्थं जन्म सर्वेषां शेषम् उत्पातलक्षणम् ॥
(अव्परिस्_63,5.5) रौद्री सदक्षिणा शान्तिर् उत्पातेषु प्रकीर्तिता । समुच्चये तु विज्ञेया वैश्वदेव्य् अभया तथा ॥
(अव्परिस्_63,5.6) अथर्वोत्पातहृदयं ज्ञात्वा स्वयम् अनातुरः । प्रयुञ्जीत महाशान्तिं सर्वकल्मषनाशिनीम् ॥
(परिशिष्ट_64. उत्पातलक्षणम्)
(अव्परिस्_64,1.1) ओं यान् प्रोवाचाङ्गिराः पूर्वं यांश्च वेदो ऽशनाः कविः । तान् अहं संप्रवक्ष्यामि उत्पातांस् त्रिविधान् अपि ॥
(अव्परिस्_64,1.2) प्रकृतेर् अन्यथाभवो यत्रयत्रोपजायते । तत्रतत्र विजानीयात् सर्वम् उत्पातलक्षणम् ॥
(अव्परिस्_64,1.3) पार्थिवं चान्तरिक्षं च दिव्यं चोत्पातलक्षणम् । नक्षत्रोपद्रवेषूक्तं यथाविधि तथैव तत् ॥
(अव्परिस्_64,1.4) तेषूत्पातगणेषु आहू रसातलसमुद्भवान् । निर्घातान् भूमिकम्पांश् च कीर्त्यमानान् निबोधत ॥

(अव्परिस्_64,1.5) वारुणाग्नेयवायव्याः कम्पयन्ति वसुंधराम् । शुभाशुभार्थं लोकानां रात्रौ अहनि चक्रवत् ॥
(अव्परिस्_64,1.6) तेषां वक्ष्यामि कम्पानां लक्षणानि फलानि च । यत्रोवाचाउशनाः ख्यातान् नारदाय स्म पृच्छते ॥
(अव्परिस्_64,1.7) सप्ताहाभ्यन्तरे कम्पे भवेद् वज्रधरात्मके । सस्वनैर् आप्तपर्यन्तं स्वस्तिकाभ्रघनैर् नभः ॥
(अव्परिस्_64,1.8) सैन्द्रचापायुधा कम्पाद् विद्युद्गणगवाक्षकैः । पाशोर्मिनगराकारैर् नगनागनिभैर् घनैः ॥
(अव्परिस्_64,1.9) नभसो ऽन्तं च सेविन्यो विद्युतः स्वार्कसंनिभाः । प्रान्ते सुसंवृताश् चापि शीताशीताश् च मारुताः ॥
(अव्परिस्_64,1.10) धाराङ्कुरपरिस्रावैर् नीलोत्पलदलप्रभैः । स्वनद्भिश् छाद्यते व्योम कम्पयेद् वरुणः स्वयम् ॥
(अव्परिस्_64,2.1) तारापातैर् दिशं दाहैर् उल्कापातैश् च सस्वनैः । हाहाकृतम् इवाभूति प्रदीपितपथं नभः ॥
(अव्परिस्_64,2.2) सप्ताहाभ्यन्तरे वापि क्षितौ वह्निः प्रकुप्यते । स आग्नेयो भवेत् कम्पो राजराष्त्रभयावहः ॥
(अव्परिस्_64,2.3) निःप्रकाशम् इवाकाशे भास्करो नातिभास्करः । दिशस् तु न प्रकाशन्ते दुःखाऋता इव योषितः ॥
(अव्परिस्_64,2.4) सघोषा मारुता रूक्षा वान्ति शर्करकर्षिणः । सप्ताहाभ्यन्तरे कम्पे मारुते ऽतिभयावहे ॥
(अव्परिस्_64,2.5) सुभिक्षक्षेमदौ कम्पौ विज्ञेयाव् ऐन्द्रवारुणौ । वायव्याग्नेयजौ कम्पौ राजराष्त्रभयावहौ ॥
(अव्परिस्_64,2.6) यस्यां यस्यां दिशि धरा विरौति विकृतस्वरा । तस्यां तस्यां दिशि भय्ं सार्धं स्याद् अधिकारिद्भिः ॥
(अव्परिस्_64,2.7) निर्घाता भूमिकम्पाश् च ससमासम् उदाहृताः । अतः परं प्रवक्ष्यामि शेषम् उत्पातलक्षणम् ॥
(अव्परिस्_64,2.8) प्राग्याम्यापरसौम्यानां गन्धर्वनगरं तथा । रक्तपीताशितैश् चैव वर्णैर् दिक्षु प्रदृश्यते ॥
(अव्परिस्_64,2.9) राज्ञः सेनापतेश् चापि युवराजपुरोधसाम् । व्यसनं मरणं वापि विज्ञेयम् अनुपूर्वशः ॥
(अव्परिस्_64,2.10) वरुणामाण् च भयं ज्ञेयं यथावर्णपरिग्रहात् । विदिक्षु च विवर्णासु पीडा ज्ञेया विवर्णिनाम् ॥
(अव्परिस्_64,3.1) सततं दृश्यमाने च राजराष्ट्रभयावहम् । आशाधिकारिकाणां च पीडा ज्ञेया यथाविधि ॥
(अव्परिस्_64,3.2) विरुद्धयोनिगमनम् अन्यसत्त्वप्रसूतयः । हस्तपादाक्षिशिरसाम् अधिकानां प्रदर्शनम् ॥
(अव्परिस्_64,3.3) अभ्यङ्गता च संयोगे गतिहीनं च चेष्टितम् । विरुद्धानां च सत्त्वानाम् अन्योन्यप्रतिसंगमम् ॥
(अव्परिस्_64,3.4) चलत्वम् अचलानां च चलानाम् अचलकृया । भाषितं चापि अभाषाणाम् अशब्दानां च भाषणम् ॥
(अव्परिस्_64,3.5) अनग्नौ दर्शनं चाग्नेः शीतोष्णस्य विपर्ययः । लोहादीनां प्लवश् चाप्सु नोदके चाम्भसां स्रवः ॥
(अव्परिस्_64,3.6) अकालपुष्पप्रसवः सस्याः पञ्चचतुर्गुणाह । संयोगो लाङ्गलानां च प्रभानां चेष्टितानि च ॥
(अव्परिस्_64,3.7) विचित्रैर् देवतासद्भिर् वृक्षप्रस्रवणानि च । दिशो धूमान्धकाराश् च दीप्ताश् च मृगपक्षिणः ॥
(अव्परिस्_64,3.8) रजस्तमाश्रितं व्योम कलुषौ चन्द्रभास्करौ । वस्त्रमांसाम्भसां दीप्तिरागप्रज्वलितानि च ॥
(अव्परिस्_64,3.9) अकस्माद् गोपुराट्टालशैलप्रसादवेश्मनाम् । दरणं ज्वलनं वापि कम्पो धूमप्रवर्तनम् ॥
(अव्परिस्_64,3.10) अभीक्ष्णा मारुताश् चण्डा वान्ति शर्करकर्षिणः । संहिता मण्डलानां च नीललोहितपीतकाः ॥
(अव्परिस्_64,4.1) ध्वजस्तम्भेन्द्रकीलानां शुष्कचैत्यादिभिः सह । छिन्ने भिन्ने द्रुमाणां च स्कन्धशाखाङ्कुरोद्भवः ॥
(अव्परिस्_64,4.2) गीतानां च मृदङ्गानां वादित्राणां निस्वनाः । भवेयुर् आकाशपथे सगन्धर्वपुरोगमाः ॥
(अव्परिस्_64,4.3) छायादर्शनम् अद्रव्ये विरात्रे विरुतानि च । दिवारात्रिचराणां च विपरीतप्रचारता ॥
(अव्परिस्_64,4.4) निरभ्रवृष्टयश् चैव निरभ्रस्तनितानि च । सस्वनानाम् अधूमानाम् उल्कानां पतनं दिवा ॥
(अव्परिस्_64,4.5) इन्दोर् अर्कस्य वा चापि पांस्वश्मादिषु दर्शनम् । अभीक्ष्णपरिवेषाश्च कलुशा रविसोमयोः ॥
(अव्परिस्_64,4.6) मयूरकोकिलादीनां मदावाप्तिर् अनार्तवा । वनानां च नगानां च देवतानां च निर्गमाः ॥
(अव्परिस्_64,4.7) आरण्यानां च सत्त्वानां पुरग्रामनिवेशनम् । अभूतानां प्रवृतिश्च प्रवृत्तानां च नाशनम् ॥
(अव्परिस्_64,4.8) एतद् उत्पातजं राज्ञो यस्या देशे अभ्युदीर्यते । तस्य देशो विनश्येत क्षीयते च सपार्थिवः ॥
(अव्परिस्_64,4.9) त्यजन्ति वापि यं देशं पाषण्डा द्विजदेवताः । विद्वेषं वापि गच्छन्ति सो ऽपि देशो विनश्यति ॥
(अव्परिस्_64,4.10) नर्तनं च कुशूलानां धान्यराशेश्च कम्पनम् । उलूखालानां संसर्पो मुसलानां प्रवेशनम् ॥
(अव्परिस्_64,5.1) चेष्टितं राजदर्वीणां मृद्भाण्डानां तथैव च । दहनं चैव शीतानाम् [शब्दा ह्य् उत्तराणि च] ॥
(अव्परिस्_64,5.2) पुरीषभक्षणंचैव दीनानां मृगपक्षिणाम् । ग्राम्याणां दीनवपुषां प्रधान्यस्तनितानि च ॥
(अव्परिस्_64,5.3) वालुकाङ्गारधान्यानां भक्षणं वापि वृष्टयः । पुरद्वारे च बकवद् वायसानां च चेष्टितम् ॥
(अव्परिस्_64,5.4) बिडालमत्स्यमज्जानां जन्तूनां क्षुद्रसंज्ञिनाम् । अन्योन्यभक्षणानि स्युर् एकसंस्थाश्च रात्रयः ॥

(अव्परिस्_64,5.5) मांससस्यान्नविद्वेषः क्रियाव्युपरमस् तथा । यस्मिन् देशे प्रदृश्यन्ते तस्मिन् क्षुद्भयम् आदिशेत् ॥
(अव्परिस्_64,5.6) शस्त्रज्वलनसंसर्पः स्थूणीसरणपूरणम् । छत्त्रवस्त्रध्वजानां च वल्मीकेषु प्रदर्शनम् ॥
(अव्परिस्_64,5.7) अर्के अभ्रपरिघादीनां परिवेषो अर्कचन्द्रयोः । लाक्षालोहितवर्णत्वं सर्वेषां च विचारणम् ॥
(अव्परिस्_64,5.8) त्वच्मांसरुधिरास्थीनां मेदोमज्जास्थिवृष्टयः । निरभ्रवृष्टयश्चास्य रजतक्षतसप्रभम् ॥
(अव्परिस्_64,5.9) प्रघाताकम्पनिर्घाताविद्युता चाभ्रपातनम् । भवेच्च देवतादीनां शिरोअभिष्ठानवर्जनम् ॥
(अव्परिस्_64,5.10) स्त्रीणां नृणां च प्रसवं तृणादीनां च मानुषम् । अमानुषाणां सत्त्वानां भाषितानि मनुष्यवत् ॥
(अव्परिस्_64,6.1) वसाशोणितगन्धत्वं गजदैवतवाजिनाम् । यस्मिन् देशे भवेत् तस्मिन् शस्त्रकोपभयं महत् ॥
(अव्परिस्_64,6.2) शोणिताश्रुपरिस्रावाः प्रहासोद्वीक्षणक्रिया । नृत्यवादित्रगीतानि साक्रोशाभाषितानि च ॥
(अव्परिस्_64,6.3) प्रकम्पनं देवतानां तथैव ज्वलनानि च । अपां शोषविकाराश्च चेष्टितं च मनुष्यवत् ॥
(अव्परिस्_64,6.4) दरणं रसनं राज्ञो वैकृत्योद्वर्तनानि च । क्षितेः कम्पप्रहासाश्च रोदनोत्क्रोशाअनि च ॥
(अव्परिस्_64,6.5) पीठिकाव्यञ्जनं छत्त्र[म्]शसत्रकीलकमण्डलौ । नीलाङ्गलोहिततलौ उद्ये अर्कनिशाअकरौ ॥
(अव्परिस्_64,6.6) चन्द्रार्कोल्काप्रभेदाश्च भास्करेन्दुद्वयं तथा । प्रतिस्रोतवहा नद्य इषवः प्रतिकोमगाः ॥
(अव्परिस्_64,6.7) दन्तभङ्गाः सकूर्माश्च नरवर्णवाजिनाम् । छत्त्रभङ्गाः सकूर्माश्च नरवारणवाजिनाम् ॥
(अव्परिस्_64,6.8) मांसतैलविपाकश्च चैत्यतैलपरिस्रवाः । शक्रध्वजपताकानां भङ्गक्रव्यदस्वनम् ॥
(अव्परिस्_64,6.9) बिडलोलूक्योर् युद्धं नृपप्रासादसंनिधौ । पांसुना चावृतं व्योम रजसा तमसापि वा ॥
(अव्परिस्_64,6.10) लोहिताग्निप्रभाकाशं दीप्ता द्विजमृगस् तथा । वातावर्तास् तुसंध्यासु प्रस्फुरन्तो अपसव्यगाः ॥
(अव्परिस्_64,7.1) मण्डलानि समाजाश्च सर्वतो मृगपक्षिणाम् । क्रव्यादैर् आरसद्भिश्च व्याकुलाः सर्वतो दिशः ॥
(अव्परिस्_64,7.2) त्रिरात्राद् अपरं वृष्टिः प्रनष्टेन्दुदिवाकरौ । अनृतौ चापि दृश्येत घोरस्तनितदीर्घता ॥
(अव्परिस्_64,7.3) वज्रादयो राहुपुत्रा वृक्षाः शकुनयस् तथा । मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः ॥
(अव्परिस्_64,7.4) आकाशे वा प्रदृश्यन्ते प्रकम्पन्ति व पर्वताः । विष्येत रविसोमौ च आभीक्षं तारकास् तथा ॥
(अव्परिस्_64,7.5) नरदनं च बिडालाणां क्षीरवृक्षनिषेवणम् । खरैर् दीप्तैर् उलूकैश्च रसद्भिः सह विग्रहः ॥
(अव्परिस्_64,7.6) सिंहासनानि छत्त्राणि भृङ्गाराः शयनास् तथा । कम्पन्ति अकस्माद् भज्यन्ते संसर्पन्ति आरसन्ति च ॥
(अव्परिस्_64,7.7) राज्ञां भयकरं सर्वम् एतद् उत्पातलक्षणम् । देशस्य च विजानीयाद् गर्गस्य वचनं यथा ॥
(अव्परिस्_64,7.8) संध्यादण्डपरिवेषा रजोअर्कपरिघादयः । मण्डलानां समूहाश्च दिक्षु पीतारुणप्रभाः ॥
(अव्परिस्_64,7.9) क्रव्यादा वानरा द्वारि विस्फूर्जन्ति आरसन्ति च । तुण्डैश्च वायसा भूमिं कुट्टयन्तो रमन्ति च ॥
(अव्परिस्_64,7.10) म्लायते माल्यम् अत्यर्थं गन्धाः कुणपगन्धिनः । वस्त्रेषु भक्षभोज्येषु भवति उत्पातलक्षणम् ॥
(अव्परिस्_64,8.1) क्षौद्रं घृतं च दधि च प्रस्रवेत् प्रथिता द्रुमाः । सारमेयाः श्मशानेषु रुदन्ति विरुवन्ति च ॥
(अव्परिस्_64,8.2) एतद् औत्पातिकं ग्रामे यस्मिंश् च दृश्यते पुरे । तस्मिन् ग्रामे पुरे वापि विद्याद् अतिभयं महत् ॥
(अव्परिस्_64,8.3) अश्वत्थोदुम्बरप्लक्षन्यग्रोधे कुसुमोद्भवः । श्वेतलोहितपीतानि कृष्णानीन्द्रायुधानि च ॥
(अव्परिस्_64,8.4) एवं वर्णदुणानां च पतनं देववेश्मनाम् । ब्रह्मक्षत्रियविट्शूद्रविनाशो राजसंवृताम् ॥
(अव्परिस्_64,8.5) रूक्षस्रावा चितिवृक्षे तद्भयं सुमहद् भवेत् । घृतक्षीरफलाश्रावे घृतक्षीराम्भसां क्षयः ॥
(अव्परिस्_64,8.6) सुराश्रावे मिथोभेदो रुधिरे राष्ट्रविद्रवः । रुधिरे गोविषाणाच्च स्रुते गोब्राह्मणक्षयः ॥
(अव्परिस्_64,8.7) फले फलं यदा पश्येत् पुष्पे पुष्पं समावृतम् । गर्भाः स्रवन्ति नारीणां युद्धं राजवधो अपि वा ॥
(अव्परिस्_64,8.8) फणाभृतो महत्सर्पान् मण्डूला अथ वृश्चिकाः । मण्डूका ग्रसते यत्र तत्र राजावहन्यते ॥
(अव्परिस्_64,8.9) हिमपातानिलोत्पाता विकृताद्भुतदर्शनम् । कृष्णाञ्जनाभ्रम् आकाशं तारोल्कापातपिङ्गलम् ॥
(अव्परिस्_64,8.10) चित्रा गर्भोद्भवाः स्त्रीषु गोअजाश्वमृगपक्षिषु । पत्त्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥
(अव्परिस्_64,9.1) वज्राशनिमहीकम्पाः संध्यानिर्घातनिस्वनाः । परिवेषरजोधूमा रक्तार्कास्तमनोदयाः ॥
(अव्परिस्_64,9.2) द्रुमेभ्यो अन्नरसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिशब्दवृद्धिश्च शिवानि मधुमाधवे ॥
(अव्परिस्_64,9.3) तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमरेण्वनिलाहतम् ॥
(अव्परिस्_64,9.4) रक्तपीतारुणां संध्यां नभः संक्षुभीतार्णवम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥

(अव्परिस्_64,9.5) शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । अकस्माद् वर्णवैकृत्यं रसनं दरणं क्षितेः ॥
(अव्परिस्_64,9.6) सरोनद्युदपानानां वृद्धिर् वा उत्तरणप्लवाः । तरणं चार्द्रवेगानां वर्षासु न भयावहम् ॥
(अव्परिस्_64,9.7) दिव्यस्त्रीगीतगन्धर्वविमानाद्भुतनिस्वनाः । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥
(अव्परिस्_64,9.8) गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धी रसोत्पत्तिर् न पापाः शरदि स्मृताः ॥
(अव्परिस्_64,9.9) शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वाग् अमानुषी ॥
(अव्परिस्_64,9.10) दीप्तधूमरजस्ध्वस्ता दिङ्नागा वनपर्वताः । उच्चैस् तोयदसोमार्का हेमन्ते शोभनाः स्मृताः ॥
(अव्परिस्_64,10.1) ऋतुस्वभावा एते हि दृष्टाः स्वर्तौ शुभप्रदाः । ऋतौ अन्यत्र च उत्पाता दृष्टाः स्वर्तौ शुभप्रदाः ॥
(अव्परिस्_64,10.2) उन्मत्तानां च या गाथा बालानां चेष्टितं च यत् । स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
(अव्परिस्_64,10.3) पूर्वं वदति देवेषु पश्चाद् गच्छति मानुषे । नाचोदिता आग् वदति सत्या हि एषा सरस्वती ॥
(अव्परिस्_64,10.4) उत्पाताः सर्व एव एते कदाचिद् राजमृत्यवे । ज्ञेया देशविनाशाय राहोर् आगमनाया वा ॥
(अव्परिस्_64,10.5) कालाम्बुदपरिस्रावा ग्रहाणाम् उदयाय वा । स्वचक्रपरचक्रेभ्यो भये वा समुपस्थिते ॥
(अव्परिस्_64,10.6) राष्ट्रे सेनापतौ पुत्रे पुरे वाथ पुरोधसि । अमात्ये वाहने दारे नृपतौ वा पलन्ति च ॥
(अव्परिस्_64,10.7) एतान् समुत्थितां ज्ञात्वा राजा सबलवाहनः । प्रणिपत्य गुरुं ब्रूयाद् भगवन् शमयस्व मे ॥
(अव्परिस्_64,10.8) भयम् उत्पातजं सर्वं ब्रूहि किं करवाणि ते । इति उक्तः श्रद्दधानेन राज्ञा स्वहितम् इच्छता ॥
(अव्परिस्_64,10.9) निमित्तानि समालोक्य कृत्वा पावनम् आदितः । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥
(अव्परिस्_64,10.10) सर्वरोगप्रशमनीम् उत्पातफलनाशिनीम् । रौद्रीं कुर्यान् महाशान्तिं श्रद्धया बहुदक्षिणां श्रद्धया बहुदक्षिणाम् ॥
(परिशिष्ट_65. सद्योवृष्टिलक्षणम्)
(अव्परिस्_65,1.1) ओम् अथ अतो लक्षणोपाङ्गे सद्योवृष्टिलक्षणं व्याख्यास्यामः ॥
(अव्परिस्_65,1.2) स्निग्धविमलतलदर्शने ऽर्चिष्मत्य् अतितेजसि स्थूलरश्मौ हरिज्वलनसंनिभे सवितरि सद्यो वर्षति पर्जन्यो विशुद्धासु च दिक्षु काकाण्डवर्णेषु गिरिष्व् अतिरजस्कन्धेषु ह्रदमग्नेषु विमलविपुलस्निग्धप्रसन्नहृष्टप्रदर्शनेषु नीचैर् इव ज्योतिर्गणेष्व् अनुकूलेषु शिवे शिते नीचे मारुते भवति चात्र श्लोकः ॥
(अव्परिस्_65,1.3) पूर्वो ऽभ्रजनमो वायुर् इतरो ऽभ्रविनाशनः । उदग् जनयते वृष्टिं वर्षत्य् एव च दक्षिणः ॥
(अव्परिस्_65,1.4) अभ्रेषु तिमिरमकरनगनागनक्रग्राहशिंशुमारशङ्खद्रुमकूर्मोर्मिझषमहिषवराहदिग्द्विरदनवकुमुदखण्डाकृतिनलकलशकुड्मलापीडतोरणावर्तस्वस्तिकवर्धमानरवौह्वरजतमद्राणिपताकाश्वतात्यास्थानविविधजलचरपक्षिविरुतचतुष्पदाकारेषु नक्तनीलोत्पलकमलपलाशकोमलेषु ॥
(अव्परिस्_65,1.5) [मुक्ता]स्फटिकरजतवैडुर्याञ्जनभ्रमरसर्पसंनिकाशेषु । क्षौद्रक्षीरपलाशधूम[दूर्वा]रजतकनकविद्रुमप्रभेष् ॥
(अव्परिस्_65,1.6) द्विगुणत्रिगुणदर्शनेषु मूलवत्सु विशिखरेषु महावर्तेषु तरलरथनेमिघोषेषु उदधिजलनिर्घोषसंह्रादेषु क्षुब्धदुन्दुभिनिनादेषु किञ्जल्कारविन्दसंनिभेषु वा कुमुदमयूरगलकालकेषु चाभ्रजालावनादेषु छिन्नाभ्रेषु वा छिन्नमूलेषु कालेषु काञ्चनमनह्शिलोउपमेषु सुवर्णपूर्णेषु जलेष्व् अस्मिन् न चाभ्यन्तरतो देशशोभितेषु दक्षिणमारुतेरितपरितते ग्रहान्तर्गतस्तनितगम्भीरनिस्वनेषु अर्धान्तरेषु सद्योवर्षम् आदिशेत् ॥ अत्र श्लोकौ ॥
(अव्परिस्_65,1.7) उदयास्तमये मेघा गर्भभूता दिवाकरे । प्रदीप्ता इव चित्रासु विषमासु खकोटिषु ॥
(अव्परिस्_65,1.8) पञ्च मारुतपर्यङ्का मणयः काञ्चना इव । यत्रयत्रोपलक्ष्यन्ते तत्रतत्र प्रवर्षति ॥
(अव्परिस्_65,1.9) घननिचयं विरोहणे वाधिरोहणास्तगमने वा सवितुर् दृष्ट्वा च वर्षद् उदधिजीवराद्ररिष्टकवैडूर्योत्पलकमलपलाशधूमशेवालवध्रजबकसंनिकाशस्निग्धघोषगम्भीरगभस्तिविद्वन्भैः प्रवृद्धैः समारुतान् वञ्चिभिः प्रवृद्धस्कन्धशाखान्वितपावनितलरुहान् सद्योवर्षम् आदिशेत् ॥ अत्र श्लोकौ ॥
(अव्परिस्_65,1.10) अन्तराजितदीप्ताग्निकाञ्चनामलसंनिभैः । अभ्रैश् चोत्पलवैदूर्यप्रभावाञ्जनसंनिभैः ॥
(अव्परिस्_65,1.11) नीलर्श्मिप्ररोहन्तः शाखावन्त इव द्रुमाः । यत्रयत्र प्रदृश्यन्ते ध्रुवं तर प्रवर्षति ॥
(अव्परिस्_65,2.1) संध्या च ज्वलनरवीन्दीवरकरण्दतपनीयार्कोदयहरितालनीलोत्पलघृतमधुबन्धुजीवकजपापुष्पकिंशुकराशिसंनिकाशा तथा द्रुतकनकविद्रुमस्फटिकवैडूर्यवर्णम् उद्द्योतयन्ति दिशः शान्तमृगशकुनिविशेषाः ॥
(अव्परिस्_65,2.2) किंतना स्निग्धा घना गभस्तिमालिनि संप्रति संध्यां दृष्ट्वा नीचैर् निर्मलस्निग्धपरिधिपरिवेषाभ्रवृक्षप्रतिसूर्यका लोहिताक्षपक्षिप्ता सार्धं पञ्चकावलिप्तैश् च महिषवृषवराहादिद्विरदजलगणैर् इवाचरितविषया अत्र श्लोकः ॥
(अव्परिस्_65,2.3) सांध्यैश् च परिवेषैश् च प्रतिघैः प्रतिसूर्यकैः । जलजैश् चावृतानिन्द्यैः सद्यः संध्या प्रवर्षति ॥
(अव्परिस्_65,2.4) यथालक्षणं शस्त्रकांस्यताम्रायसानां क्लेदवतां खद्योतानि ॥ तत्र स्वेदन्ति कामहुर्धुनिनाश् च उत्तटप्राकारगोपुरगृहागाधिरोहणपांसुस्नानम् अण्डजानाम्
(अव्परिस्_65,2.5) प्रचरणे तडागकूपान् सेतुबन्धाक्रीताश् च शिशूनां दृष्ट्वा प्रसंख्यायाश् च चित्राविशाखास्वातिबहुलाषाढाहिर्बुध्न्ययाम्यस्य संग्रहसंपातेषु महद्वर्षसंवृते च त्र्यहाद् ऊर्ध्वं चात्र श्लोकौ ॥
(अव्परिस्_65,2.6) आक्रीडाश् चैव मत्स्यानां गवां दृष्ट्वागमो गृहम् । प्राचुर्यदंशमशकैर् धिष्ण्यानां चाथ मोक्षेणे ॥
(अव्परिस्_65,2.7) जलाजलजसंतानान् एकत्र बिलवासिनाम् । पिपीलिकाण्डसंक्रान्तिर् अथोष्णं चाम्बु वृष्टये ॥
(अव्परिस्_65,2.8) सत्कृत्य च दैवज्ञं पल्वलकूपतडागनदीतीरे ॥ साद्दालगृहेषु देशेष्व् आर्द्रवासार्द्रपाणिः प्रृच्छेत् ॥ सद्योवर्षम् अदिशेत् ॥
(अव्परिस्_65,2.9) दिश्य् ऐशान्यां वा मधुरस्वररिष्टव्याहरणं जलगोत्रसाभूतं तल्लिङ्गानाम् अन्तरालं बालानां श्रुत्वा दृष्ट्वा वर्षतीति ब्रूयात् ॥
(अव्परिस्_65,2.10) रात्रिस्तनितो दिवा विद्युद्भिर् वाद्यमाक्षेत्रे वर्णः स्निग्धो द्विगुणेन्द्रचाप दर्शने व्योम्नि निरभ्रे पशुविरावाभ्रदण्डाभस्वल्पाञ् चाभ्रराजिप्रादुर्भावैः सद्योवृष्टिर् अत्र श्लोकाः ॥
(अव्परिस्_65,2.11) प्रतिसूर्यको भवेद् यस् तु रवेर् उत्तरतो यदा । तोयं निवारयेन् नित्यं दक्षिणे सलिलाद् भयम् ॥
(अव्परिस्_65,2.12) त्रिधा निमित्तसंपन्ना वृष्टिर् भवति पार्थिवी । निमित्ते तावद् एकस्मिन् पञ्चयोजनिकं भवेत् ॥

(अव्परिस्_65,2.13) येषुयेषु निमित्तेषु नक्षत्रेषु च वर्त्मनि । प्रशस्तम् इति तेष्व् एव प्रादुर्भूतेषु वर्षति ॥
(अव्परिस्_65,3.1) विपर्ययनिमित्तानि प्रतिबन्धकराणि तु । तेषु शान्तिं प्रकुर्वीत अथर्वा शमनाय वै ॥
(अव्परिस्_65,3.2) सम् उत् पतन्तु सूक्तेन प्र नभस्वेति चापरे । वैतस्यः समिधो ऽन्ये तु शमीमय्यो ऽपरे विदुः ॥
(अव्परिस्_65,3.3) [समिधां वैतसीनां तु अग्नाव् अर्केन्धनाहुते । अहोरात्रिकहोमः स्यात् पर्जन्यो बहुवर्षदः ॥
(अव्परिस्_65,3.4) सम् उत् पतन्तु सूक्तेन मरुतो यजते पाकयज्ञविधानेन यथा वरुणं वृष्टिकामः ॥ प्र नभस्वेत्य् ऋचौ द्वे मरुतो यजते वृष्टिकामो यथा वरुणं जुहोति ॥]
(अव्परिस्_65,3.5) आदध्यात् समिधः प्लाक्षीः सक्षीरा घृतसंयुताः । ततस् तच् छमम् आयाति कृत्स्नम् उत्पातलक्षणम् ॥
(अव्परिस्_65,3.6) ऐन्द्रीं वा वारुणीं वापि महाशान्तिं विधानतः । वर्षादौ तु प्रयुञ्जीत अवृष्टेस् तु विनाशनीम् ॥
(अव्परिस्_65,3.7) वृष्टेर् यानि निमित्तानि तान्य् अप्रतिहतानि तु । भवन्ति वृष्टिदायीनि सस्यवृद्धिकराणि तु ॥
(अव्परिस्_65,3.8) वैतसानां तु पत्त्राणां लक्षं क्षीरसमायुतम् । व्रतान्ते भार्गवो जुह्वद् अवर्षास्व् अपि वर्षयेद् इति ॥
(परिशिष्ट_66. गोशान्तिः)
(अव्परिस्_66,1.1) ओं भगवन् देवदेवेश सुरासुरनमस्कृत । गवां सर्वेषु रोगेषु प्रतिज्ञातेषु वै प्रभो ॥
(अव्परिस्_66,1.2) कथं शान्तिं द्विजः कुर्यात् केन मन्त्रेण प्रोक्षणम् । होममन्त्राश् च के प्रोक्ताः कस्मिंस् तन्त्रे प्रयोजयेत् ॥
(अव्परिस्_66,1.3) उवाच परिपृष्टः सन् ब्रह्मा सर्वजगत्पतिः । शृण्वन्तु ऋषयः सर्वे गोशान्तिं महदुत्तमाम् ॥
(अव्परिस्_66,1.4) अथर्वविहितां सम्यक् सर्वरोगविनाशनीम् । यां श्रुत्वा सवरोगास् तु विद्रवन्ति सहस्रशः ॥
(अव्परिस्_66,1.5) गोष्ठमध्ये गृहे वापि गोवाटे गोकुलान्तिले । आचार्यस् तु शुचिर् भूत्वा कारयेन् मण्डलं शुभम् ॥
(अव्परिस्_66,2.1) स्नातश् चाहतवासाश् च अहोरात्रोषितः शुचिः । चतुरश्रं चतुर्द्वारम् आलिखेत् तत्र मण्डलम् ॥
(अव्परिस्_66,2.2) तस्य मध्ये तु देवेशं गोमयेन निधापयेत् । ततः क्षीरं घृतं चैव गुग्गुलुं चन्दनागुरुम् ॥
(अव्परिस्_66,2.3) पुष्पाणि च सुगन्धीनि तथा वै सर्षपांस् तिलान् । लाजाश् च समिधश् चैव समाहृत्य विचक्षणः ॥
(अव्परिस्_66,2.4) प्राणांस् तु तर्पयेत् तत्र दधिक्षीरघृतादिभिः । ततः शान्तिं प्रयुञ्जित नमस्कृत्वा स्वयंभुवम् ॥
(अव्परिस्_66,2.5) आज्यभागान्ताज्यतन्त्रम् अभ्यातानानि चैव हि ॥
(अव्परिस्_66,2.6) नमोज्ञाय सुरेशाय नमस् ते विश्वतोमुख । नमः कालाय तीक्ष्णाय [जटिलाय] सर्वभूतहिताय च ॥
(अव्परिस्_66,3.1) ततः सर्षपतिललाजा ऊर्ध्वाः समिधश् च दधिमधुघृताक्ता जुहुयात् ॥
(अव्परिस्_66,3.2) यजामि ॥ कालाय स्वाहा ॥ पिङ्गलाय तीक्ष्णाय जटिलाय बभ्रवे ओं भूर् ओं भुव ओं स्वर् ओं भूर् भुवः स्वर् जयविजयाय जयाधिपतये कपर्दिने करालाय विकटाय कटिरमाटरायाङ्गिरसबार्हस्पत्यककपिलमण्डलमुण्डजटिलकपालेश्वराधिपतये कपर्दिने स्वाहेति ॥
(अव्परिस्_66,3.3) एष कर्मसु तु गोशान्तेः संसृष्ट ऋषिभिः पुरा । प्रोक्ता स्वयंभुवा चैषा गोशान्तिस् तु हिताय वै ॥
(अव्परिस्_66,3.4) यो विप्रः पठतीमां हि गोकुले चापि हिताय वै । गावस् तस्य प्रवर्धन्ते महतीं चाश्नुते श्रियम् ॥
(परिशिष्ट_67. अद्भुतशान्तिः)
(अव्परिस्_67,1.1) ओं पुरुषस् पुत्रदारं वा धनधान्यम् अथ अपि वा । निमित्तैर् यैर् विनश्येत शान्तिं तत्र निबोधत ॥
(अव्परिस्_67,1.2) इन्द्रायुधं भवेत् रात्रौ दृश्यते यस्य कस्य चित् । दर्वी करे वा भिद्येत मणिस् कुम्भस् तथा एव च ॥
(अव्परिस्_67,1.3) छत्त्रं शय्या आसनं च एव अन्यत् वा अपि स्वयं क्व चित् । स्त्री हन्यात् च स्त्रियं वा अपि गौर् अवघ्रेत् उलूखलम् ॥
(अव्परिस्_67,1.4) श्वा पिदेत् गाम् अनड्वाहं कलिस् संपद्यते कुले । गजवाजिनो म्रियन्ते विवादो राजकीयकस् ॥
(अव्परिस्_67,1.5) कुटुम्बम् अशुभं सर्वम् ऐन्द्राणि एतानि निर्दिशेत् । शाम्यन्ति येन सर्वाणि निर्वपेत् पायसं चरुम् ॥
(अव्परिस्_67,1.6) समावओय घृतं तत्र आहुतिं जिहुयात् इमाम् । इन्द्रम् इद् देवतातये स्थालीपाकस्य होमयेत् ॥
(अव्परिस्_67,1.7) इन्द्रस् शचीपतिस् शक्रो वज्रपाणिस् सुरेआश्वरस् । सर्वाद्भुतानां शमनो महाव्याहृतयस् तथा ॥
(अव्परिस्_67,1.8) हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
(अव्परिस्_67,2.1) उद्दीपिका गृहे यस्य वल्मीका मधुजालकम् । अब्जानां मणिके शब्दे तैलं स्थीयत एव वा ॥
(अव्परिस्_67,2.2) अशुभा विकृतिर् दध्नां दुग्धानां वा यदा भवेत् । अकस्मात् च प्ररोहेयुर् बीजानि कृमयस् तथा ॥
(अव्परिस्_67,2.3) कार्यो वरुणयागस् तु वारुणीविधिपूर्वकस् । उद् उत्तमं प्रधानं स्यात् पञ्चाज्याहुतयस् तथा ॥
(अव्परिस्_67,2.4) वरुणस् पाशपाणिस् च यदासां पतिर् एव च । शे.अं तु पूर्ववत् च एव चरुतन्त्रं समापयेत् ॥
(अव्परिस्_67,2.5) विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
(अव्परिस्_67,3.1) गृहे यस्य पतेत् गृध्र उलूको वा कथं चन । कपोतस् प्रविशेत् च एव जीवा वा अरण्यसंभवास् ॥

(अव्परिस्_67,3.2) धुर्यौ च पततो युक्तौ गोस्त्रीजन्म च वैकृतम् । जायन्ते यमलानि एव घोरस् स्वप्नस् च दृश्यते ॥
(अव्परिस्_67,3.3) अभिद्रवन्ति रक्षांसि यत्र च एव कुमारकान् । उन्निद्रको अतुनिद्रो वा अत्यल्पम् अतिभोजनम् ॥
(अव्परिस्_67,3.4) आलस्य च एवम् एतेषां देवता यम उच्यते । नाके सुपर्णम् इति एतत् स्थालीपाकस्य होमयेत् ॥
(अव्परिस्_67,3.5) यमस् प्रेतपतिस् च एव दण्डपाणिस् तथा ईश्वरस् । शमनः सर्वाद्भुतानाम्... ॥
(अव्परिस्_67,4.1) अनग्निर् उत्थितो यस्य धूमो वा अपि गृहे क्व चित् । आमं वा ज्वलते मांसं भवेयुर् विस्फुलिङ्गकास् ॥
(अव्परिस्_67,4.2) छत्त्रध्वजपताकास् च ज्वलन्ते तोरणानि च ॥ आसनं च एव ;अय्या च वस्त्राणि कुसुमानि च ॥
(अव्परिस्_67,4.3) हस्त्यश्वानां च पुच्छानि वर्षत्यङ्गारवर्षणम् । अकाले च दिशां दाह ओषधीनां च पाचनम् ॥
(अव्परिस्_67,4.4) हस्तिन्यस् च एव मद्यन्ते अग्निरूपं तद् अद्भुतम् । अग्निं दूतं वृणीमहे स्थालीपाकस्य होमयेत् ॥
(अव्परिस्_67,4.5) अग्निर् हिरण्यपतिस् च अर्चिष्पाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानाम्... ॥
(अव्परिस्_67,5.1) सुवर्णं रजतं वज्रं वैडूर्यं मौक्तिकानि च । प्रवालवस्त्रनाशस् च मित्राणां च विपर्ययस् ॥
(अव्परिस्_67,5.2) आरम्भास् च विपद्यन्ते न सोद्धिस् कर्मणाम् अपि । चरुर् वैश्रवणस् तत्र अभि त्यं देवम् ऋक् स्मृता ॥
(अव्परिस्_67,5.3) वैश्रवणो यक्षपतिस् अर्थपाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानाम्... ॥
(अव्परिस्_67,6.1) अथ यस्य स्वनक्षत्रे उल्का निर्घात एव वा । राहुर् ग्रसति चन्द्रार्कौ कबन्धं दर्पणे भवेत् ॥
(अव्परिस्_67,6.2) पतेत् स्वयं वा मुसलं देवता वा कथं चन । उन्मीलते च एव यदा तथा च अपि निमीलते ॥
(अव्परिस्_67,6.3) प्रछिद्यते च यदि वा तथा वा अपि प्रकम्पते । प्रयातो वा अपि दृश्येत प्रतिस्रोतो नदी वहेत् ॥
(अव्परिस्_67,6.4) विमले न एव अर्कछाया प्रतीपा वा अपि तु सायकास् । परिवेषस् तु अनभ्रेषु दृश्यते चन्द्रसूर्ययोस् ॥
(अव्परिस्_67,6.5) कोशात् खड्गा निर्गिरन्ते तूणात् च एव तु सायकास् । अनाहतानि वाद्यन्ते नदन्ते शब्दम् आतुरम् ॥
(अव्परिस्_67,6.6) चरुणा वैष्णवेन एषां यागस् कर्तव्यस् एव तु । इदं विष्णुस् प्रधानं स्यात् पञ्चाज्याहुतयस् तथा ॥
(अव्परिस्_67,6.7) सर्वभूतपतिस् विष्नुस् चक्रपाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानाम्... ॥
(अव्परिस्_67,7.1) अतिवातो यत्र भवेत् रूपं वा यत्र वैकृतम् । खरकरभमहिषा वराहा व्याघ्रसिंहकास् ॥
(अव्परिस्_67,7.2) गृध्रास् च तथा गोमायुस् कृकलासा वदन्ति च । मांसपेशं च रुधिरं पांसुवृष्टिस् तथा एव च ॥
(अव्परिस्_67,7.3) वायुरूपम् इदं सर्वम् अद्भुतं परिकीर्तितम् । वात आ वातु भेषजं वायौ आ याहि दर्शत इति स्थालीपाकस्य होमयेत् ॥
(अव्परिस्_67,7.4) वायुर् महान् नभपतिर् वज्रपाणिस् तथा ईश्वरस् । शमनस् सर्वाद्भुतानां महाव्याहृतयस् तथा ॥
(अव्परिस्_67,7.5) हुत्वा स्विष्टकृतं च एव चरुतन्त्रं समापयेत् । विमुक्तोत्पातदोषस् तु जीवेत् तु शरदस् शतम् ॥
(अव्परिस्_67,8.1) अथ चेद् अन्यशाखसु कर्ता भवति वेदवित् । जप्त्वा स ऋग्यजुःसाम्नं शतमात्रं समाहितस् ॥
(अव्परिस्_67,8.2) गायत्र्यष्टशतं जप्त्वा ययजमानस् समाहितस् । वाचयेत् तम् उपाध्यायं वस्त्रेण कनकेन वा ॥
(अव्परिस्_67,8.3) दृष्टां च एव अद्भुतं यस्मिन्स् तत् च अपि प्रतिपादयेत् । एतास् तु दक्षिणास् सर्वास् शक्तियुक्तो न हापयेत् ॥
(अव्परिस्_67,8.4) यजमानस् तत्सुतो वा यस् स्वयं कर्तुम् अर्हति । ब्राह्मणाय विशेषेण दद्यात् तां दक्षिणां शुभाम् ॥
(अव्परिस्_67,8.5) जप्त्वा अथर्वशिरस् च एव कुर्यात् विप्रेषु पूजनम् । शक्त्या अथ भोजनं च एव कुर्यात् विप्रेषु पूजनम् ॥
(अव्परिस्_67,8.6) एतद् एवं समाख्यातम् अद्भुतानां विशोधनम् । चतुर्णाम् अपि वर्णानां यस् कुर्यात् श्रद्धया अन्वितस् ॥
(अव्परिस्_67,8.7) मरणं न भवेत् तस्य न दुःखं न दरिद्रता । सिध्यन्ति सर्वकार्याणि धर्मे च अस्य मतिर् भवेत् ॥
(अव्परिस्_67,8.8) एतत् पुण्यं परित्रं च देवतायागपूजनम् । सर्वशान्तिकं च एव प्रतिपुरुषं निबोधत ॥ प्रतिपुरुषं निबोधत इति ॥
(परिशिष्ट_68. स्वप्नाध्यायः)
(अव्परिस्_68,1.1) ओम् अथातः संप्रवक्ष्यामि यद् उक्तं पद्मयोनिना । उपाङ्गं शुक्रचारस्त शुभाशुभनिवेदकम् ॥
(अव्परिस्_68,1.2) स्वप्नाध्यायं प्रवक्ष्यामि क्रोष्टुकेर् वचनं यथा । शशंसिरे पुरा यं हि शौनकाय महात्मने ॥
(अव्परिस्_68,1.3) निमित्तज्ञानकुशलाः सर्वं तस्य तु पृच्छतः । ग्रहा भार्गवभौमार्काः पैत्तिका दीप्तितेजसः ॥
(अव्परिस्_68,1.4) कफप्रकृतयो मध्या बृहस्पतिबुधेन्दवः । वातप्रकृतयः क्रूरा राहुकेतुशनैश्चराः ॥
(अव्परिस्_68,1.5) तेषां तथा फलं विद्यात् संनिपाते यथाक्रमम् । एते नव ग्रहा ज्ञेया वातपित्तकफात्मकाः ॥
(अव्परिस्_68,1.6) एषां प्रकृतितुल्यानां निषिक्तानां तु तेषु वै । संयोगेषु च जातानां तुल्य प्रकृतिता भवेत् ॥
(अव्परिस्_68,1.7) अर्केन्दुप्रभवा देहम् उपतिष्ठन्ति देहिनः । तस्मान् निषिच्यमानेषु वातपित्तकफेषु यः ॥

(अव्परिस्_68,1.8) एषाम् अन्यतमो देहो यातिरिक्तः प्रकाशते । प्रचक्षते सा प्रकृतिः प्रकृतिज्ञानकोविदाः ॥
(अव्परिस्_68,1.9) तत्र ये मानिस्वाङ्गानि ऋजवः कलहप्रियाः । उष्णाः कपिलरोमाणाअः स्वेदना अनवेक्षणाः ॥
(अव्परिस्_68,1.10) बह्वाशिदुर्भगाश् चैव मृद्वङ्गाः शिशिरप्रियाः । लालनाः शिथिलाङ्गाश् च प्रियाश् च प्रियाश् च लवणास् तथा ॥
(अव्परिस्_68,1.11) तनुत्वङ्नखरोमाणस् त्व् आचार्यास् तीक्ष्ण एव च । वलीपलितभूयिष्ठास् तथा खलतिनो नराः ॥
(अव्परिस्_68,1.12) ग्लयते शुष्यते चैषाम् आशु माल्यानुलेपनम् । दाहात्मिकाः शशाङ्के ऽपि पित्तप्रकृतयस् तु ते ॥
(अव्परिस्_68,1.13) स्वप्ने चैव प्रपश्यन्ति दिशः कनकपिङ्गलाः । मण्डलानि समूहांश् च दिक्षु पीतारुणप्रभान् ॥
(अव्परिस्_68,1.14) शृङ्गारिमदिरान् देशाञ् शुष्कां मलजलां महीम् । शुष्कगुल्मद्रुमलता दह्यमानं महद् वनम् ॥
(अव्परिस्_68,1.15) विशुष्काणि च वस्त्राणि रुधिराङ्गांस् तथैव च । दहनादींश् च देवांश् च रक्तम् इन्दुं सुगन्धिकान् ॥
(अव्परिस्_68,1.16) पलाशानि च पुष्पाणि कर्णिकारवनानि च । दिग्दाहविद्युच्छुल्काश् च दीप्यमानं च पावकम् ॥
(अव्परिस्_68,1.17) भूयिष्ठं भूषिताश् चापि पिबन्ति सुबहूदकम् । सरित्सरवनान्तेषु कूपप्रस्रवणेषु च ॥
(अव्परिस्_68,1.18) उष्णार्ताः शीतकामास् तु निमज्जन्ति पिबन्ति च । कलहं चैव कुर्वन्ति दुःखान्य् अनुभवन्ति च ॥
(अव्परिस्_68,1.19) स्त्रीभिश् चैव विमान्यन्ते क्षयन्ते क्लामयन्ति च । इत्य् एवं पैत्तिका ज्ञेयाः प्रकृतिस्वप्नलक्षणे ॥
(अव्परिस्_68,1.20) प्रकृतिस्वप्नभावैश् च श्लेष्मिकाण्य् अपि मे शृणु । स्निग्धकेशनखश्मश्रुततत्वग्रोम[भाषिणः] ॥
(अव्परिस्_68,1.21) महोदरभोजोरस्कदीर्घकेशनख[द्विजाञ्] । वैडूर्योपलबद्धे तु संनिभैर् नियमैः शुभैः ॥
(अव्परिस्_68,1.22) स्थिरोपचितसर्वाङ्गा भवन्ति सुखभागिनः । शिरोदरकटिस्कन्धपक्षयोर् विमलेक्षणाः ॥
(अव्परिस्_68,1.23) प्रियाः प्रियम्वदाः शूराः कृतज्ञा दृढभक्तयः । चिराद् गृह्णन्ति सुचिरं गृहीतं धारयन्ति च ॥
(अव्परिस्_68,1.24) न क्रुध्यन्ति चिरात् क्रुद्धाः संभवन्त्य् अन्तकोपमाः । पूजाभिर् विपुलां भूमिम् आवहन्ति कुलस्य च ॥
(अव्परिस्_68,1.25) ख्यापयन्ति च सर्वत्र गुणैश् च विपुलैर् यशः । मांशोष्णतातिमधुरपयोहाराथ सुप्रजाः ॥
(अव्परिस्_68,1.26) न चिराच् छुष्यते चैषां तोयमाल्यानुलेपनम् । निमीलितास्यनयना निःशब्दा निःप्रकम्पिनः ॥
(अव्परिस्_68,1.27) स्वपन्त्य् एकेन पार्श्वेन चिरं सुखनिबोधनाः । नातिदुःखेन जीवन्ति वोत्पद्यन्ते सुखेन तु ॥
(अव्परिस्_68,1.28) श्यामाः श्यामावदाताश् च श्रीमन्तो ऽदृढरोगिणः । अल्पाशिदीर्घकामास् तु भवन्त्य् अर्थसहिष्णवः ॥
(अव्परिस्_68,1.29) क्षुत्पिपासासहाश् चापि कफप्रकृतयो नराः । स्वप्नेषु चैव पश्यन्ति रम्यं चन्दनकाननम् ॥
(अव्परिस्_68,1.30) विकुड्मलपलाशानि पौण्डरीकवनानि च । शुभाश् च शिशिरप्राया नद्यः शुभजलावहाः ॥
(अव्परिस्_68,1.31) तुषारेणावृताश् चापि हिमवाघपटलानि च । मुक्तामणिसुवाशृङ्गा मृणालफलकानि च ॥
(अव्परिस्_68,1.32) वराहखड्गमहिषा मृगाश् च रथकुञ्जराः । स्पष्टतारं तु हंसाश् च व्योपोढन्ति नभस्तलम् ॥
(अव्परिस्_68,1.33) कुन्दगोक्षीरगौराभिर् इन्दोः कीर्णगभस्तिषु । प्रोत्फुल्लकुमुदाकारा व्योम्नि सुधाम्बुसप्रभैः ॥
(अव्परिस्_68,1.34) राजहंसप्रतीकाशं शशाङ्कं चामलद्युतिम् । शुभ्राणि च विमानानि फलानि मधुराणि च ॥
(अव्परिस्_68,1.35) कृतपुष्पोपहाराणि महान्ति भवनानि च । ब्राह्मणान् यज्ञवादांश् च दधिक्षीरामृतानि च ॥
(अव्परिस्_68,1.36) स्त्रियश् च परमोदाक्ताः सुवेषाः स्वभ्यलंकृताः । मधुरश्वेतपीतानि प्रायशश् चिरम् एव तु ॥
(अव्परिस्_68,1.37) स्वप्नेषु चैवं पश्यन्ति कफप्रकृतयो नराः । प्रकृतिस्वप्नभावेषु वातिकान्य् अपि लक्षयेत् ॥
(अव्परिस्_68,1.38) चलाश् च चलविक्रान्ताः क्षिप्रम्क्षिप्रं प्रलापिनः । सुप्ताः प्रलापिनस् त्व् अन्ये कषायकटुकप्रियाः ॥
(अव्परिस्_68,1.39) त्वग्रोमनखदन्तोष्ठपाणिपादतलादिषु । रूक्षस्फुटितदुर्दर्शा दुर्बला दुःखभागिनः ॥
(अव्परिस्_68,1.40) कठिनोपचिताङ्गाश् च भ्रान्तचित्ताफुतेक्षणाः । लापिनो मृदवः क्रूरा विद्याद् अस्थिरबुद्धयः ॥
(अव्परिस्_68,1.41) नृत्यगीतकथाशील जम्भिनो दुःखभागिनः । ह्रस्वलोमाः सुवपुषो दुर्बला धमनास् तथा ॥
(अव्परिस्_68,1.42) क्षामा भिन्नाः सदोषाश् च सततं वानवस्थिताः । हस्तनखत्वगोष्ठानां पादानां च विकारिणः ॥
(अव्परिस्_68,1.43) अकस्मात् कोपनाश् चापि रोदना धमानास् तथा । परप्रकृतिशीलाश् च वल्गनास्फोटनप्रियाः ॥
(अव्परिस्_68,1.44) दुर्बलाः शिशिराश् चापि वातप्रकृतयो नरः । स्वप्नेषु चैव पश्यन्ति वाताभ्रविमला दिशः ॥
(अव्परिस्_68,1.45) मारुतवेगतुङ्गानि भुवनानि वानानि च । श्यामताराग्रहगणं विध्वस्तार्केन्दुमण्डलम् ॥
(अव्परिस्_68,1.46) धाराचरद्भिर् विश्वाभैः संकुलं गगनं घनैः । भ्रमन्तः पक्षिसंघाश् च मृगाश् चोद्भ्रान्तयूथपाः ॥
(अव्परिस्_68,1.47) अन्याश् चापु शम्बराश् च गिरिगह्वरकाननाः । भ्रमन्ति घ्नन्ति धावन्ति ऊर्ध्वेभ्यः प्रपतन्ति च ॥

(अव्परिस्_68,1.48) स्वप्नेष्व् एतानि पश्यन्ति वातप्रकृतयो नराः । मिश्रस्वप्नस्वभावेषु संनिपातात्मकाः विदुः ॥
(अव्परिस्_68,1.49) एतास् तिस्रः प्रकृतयः संसृष्टाश् च सर्वशः ॥
(अव्परिस्_68,1.50) सम्यक् करणविज्ञानं तथा स्वप्नाद् भवेत् फलम् । शुभं वापि अशुभं वापि निर्देष्टव्यम् अशेषतः ॥
(अव्परिस्_68,1.51) येनयेनेन्द्रियार्थेन विद्धः स्वपिति मानवः । तस्यतस्येन्द्रियार्थस्य सुप्तः कर्माणि पश्यति ॥
(अव्परिस्_68,1.52) प्रकृत्याकृतसंकल्पसंभवा देवतास्व् अपि । स्वप्नमालां तु यः पश्येद् यां तु दृष्ट्वा न तु स्मरेत् ॥
(अव्परिस्_68,1.53) नैते फलं प्रयच्छन्ति गर्गस्य वचनं यथा । प्रकृत्यानूकजान् आहुर् एके शुभफलोदयान् ॥
(अव्परिस्_68,1.54) सारस्वतं यथानूकं संघातसंश्रयं शृणु । दृष्ट्वा भोगम् असुप्तव्यं ततः प्राप्य शुभं फलम् ॥
(अव्परिस्_68,1.55) स्वप्नप्रकृतिभावं तु ज्ञात्वा तत्त्वं समादिशेत् ॥
(अव्परिस्_68,2.1) गृह्णीत समुद्गेन्द्विन्द्रवाय्वग्न्यर्कनदीं क्षितिम् । समुद्रं वाहिनीं द्वीपं लङ्घयेद् वा वसुंधराम् ॥
(अव्परिस्_68,2.2) वाहिनीं चतुरङ्गां च जीवछत्त्रपताकिनीम् । दोर्भ्यां च प्रतिगृह्णीयात् तथाकेतुवसुंधराम् ॥
(अव्परिस्_68,2.3) एकपुष्करिणीपर्णे सौवर्णे भाहने ऽपि वा । सर्पिषा पायसं भुङ्क्ते गां दुहन् यश् च बुध्यति ॥
(अव्परिस्_68,2.4) परिवेषः स्वयं चन्द्रे यो ऽनवस्त्रवसुंधराम् । पर्वताग्रं समारुह्य क्षितिं यश् चावलोकयेत् ॥
(अव्परिस्_68,2.5) आ कण्ठं मज्जते यो हि मानवः शोणितार्णवे । रथेन सिंहयुक्तेन पर्वतं चाधिरोहति ॥
(अव्परिस्_68,2.6) महीं वा कम्पयेद् यस् तु चालयेद् वा पुनर् गिरीम् । श्वेतम् अश्वम् अथारुह्य पाण्डुरं वापु यो गजम् ॥
(अव्परिस्_68,2.7) भुङ्क्ते पुष्करिणीपर्णे पायसं वापि सर्पिषा । अङ्गवृद्धिं शिरोवृद्धिं प्राप्नुयाद् यस् तु मानवः ॥
(अव्परिस्_68,2.8) ब्राह्मणो वापि राजा वा स्वप्ने यद् अभिषेचयेत् । राजा तु पार्थिवो ज्ञेयः क्रोष्टुकेर् वचनं यथा ॥
(अव्परिस्_68,2.9) शिरो वा छिद्यते यस्य विमानं शोणितं तथा । सेनापत्यं महच् चायुर् अर्थलाभं तथैव च ॥
(अव्परिस्_68,2.10) विभूषणं च विद्यां च कर्णछेदम् अवाप्नुयात् । हस्तछेदे लभेत् पुत्रं बाहुछेदे धनागमम् ॥
(अव्परिस्_68,2.11) उरः सहस्रलाभः स्यात् पादछेदे तथैव च । उरःप्रजननछेदे अत्यन्तं सुखं देधते ॥
(अव्परिस्_68,2.12) छत्रादर्शफलोष्णीषशुक्लमाल्यागमे तथा । मत्स्यमांसदधिक्षीररुधिरागम एव च ॥
(अव्परिस्_68,2.13) शक्त्यङ्कुशपताकानां छत्त्रासिधनुषां तथा । विमलानां जलानां च पूर्वोक्तं तु निदर्शनम् ॥
(अव्परिस्_68,2.14) सूकरखरवाह्यानां वधश् चैकपशोर् अपि । नरयुक्तस्य यानस्य निक्षिप्तस्य गवस्य च ॥
(अव्परिस्_68,2.15) दर्शनं चाप्य् अदृष्टानाम् अगम्यागमनं तथा । क्षीरिणां फलम्वृक्षाणां दर्शनारोहणानि च ॥
(अव्परिस्_68,2.16) विषदर्शनदंस्पर्शो धान्येनोत्सङ्गपूरणम् । दस्युभिर् हन्यमानस्य रुदतः प्रतिबोधनम् ॥
(अव्परिस्_68,2.17) द्विजेभ्यो दधिमांसस्य लाभः पिशितभक्षने । अभक्ष्यभक्षणे चापु श्वेतमाल्यानुलेपनम् ॥
(अव्परिस्_68,2.18) घातनं श्वापदानां च पाणौ च रुधिरागमः । अर्थलाभाय बोद्धव्यः सुहृन्मित्रसमागमः ॥
(अव्परिस्_68,2.19) लभते नात्र संदेहो भार्गवस्य वचो तथा । शुक्लाः सुमनसः कन्या दधि गोब्राह्मणं वृषम् ॥
(अव्परिस्_68,2.20) दैवतानि नृपाध्यक्षाः पाण्डुराणि गृहाणि च । सुहृदः सफला वृक्षा नक्षत्राण्य् अमलं जलम् ॥
(अव्परिस्_68,2.21) इष्टकल्याणशब्दाश् च शुक्लाम्बरधराः स्त्रियः । नभो विमलनक्षत्रं पावकं विषमार्चिषम् ॥
(अव्परिस्_68,2.22) दृष्ट्वा यस् तत्क्षणं बुध्येत् तस्य कल्याणम् आदिशेत् । वृक्षान् गुल्मांश् च वल्लीश् च स्वगृहे पुष्पिता नरः ॥
(अव्परिस्_68,2.23) शुक्लवासाः स्त्रियश् चापि यः पश्येच् छ्रीस् तु तं भजेत् । विषशोणितदिग्धाङ्गः प्रीतीम् आप्नोति मानवः ॥
(अव्परिस्_68,2.24) दीप्ताङ्गो लभते भूमिं वर्धमानाङ्ग एव च । परिवार्याभिरुदितो बान्धवैः करुणं नरः ॥
(अव्परिस्_68,2.25) शोकार्तो लभते तुष्टिं मृतश् चायुर् अवाप्नुयात् । शुक्लमाल्याम्बरधरो दह्यमानः प्रलीयते ॥
(अव्परिस्_68,2.26) यः स्वप्ने संभयेद् उग्रं पारक्यं सो ऽर्थम् आप्नुयात् । नागदन्तकमुद्रां च वीणां मालाञ्जनं तथा ॥
(अव्परिस्_68,2.27) काञ्चनं पश्यते यस् तु तथा स्त्रीं लभते नरः । उड्डीयमानान् विहगान् तथा पुष्करिणीगतान् ॥
(अव्परिस्_68,2.28) मत्तं करेणुम् आरुह्य परस्त्रीं लभते नरः । कुमारीं लभते नारीम् आयसैर् निगडैर् नरः ॥
(अव्परिस्_68,2.29) बद्ध्वा नवां तु यो मालाम् उत्पालानां विबुध्यते । कवाटले च संयुक्ते तथैवोत्पलहस्तके ॥
(अव्परिस्_68,2.30) भृङ्गारो दर्पणो वापि लब्ध्वा पुत्रागमं वदेत् । तडागारामकूपानां पुरारञ्जनयोर् अपि ॥
(अव्परिस्_68,2.31) पूर्णकुम्भस्य चादेश्यं वर्षम् उत्तरणाद् भ्रुवम् । चिपिटः कालको नग्नः श्रवणो मेहते यदि ॥
(अव्परिस्_68,2.32) विदिक्थः स्रवते चार्मिः स्वप्ने वर्षं समादिशेत् । सूकरीं महिषीं वापि हस्तिनीं शकुनीं तथा ॥

मूल पाठ: Atharvavedapariśiṣṭas · Edition: George Melville Bolling and Julius von Negelein: "The Pariśiṣṭas of the Atharvaveda", Vol. 1, parts 1 and 2 (all published), Leipzig : Harrassowitz 1909-1910. · Data entry Yuri Ishii · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc