भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेदपरिशिष्टस् · भाग 4160

(अव्परिस्_37,16.1) मेखलादीनि चेत् प्लवेरन् पुनर् उपनयेत ॥ विमोचनीयान् होमान् हुत्वान्यं ब्राह्मणम् अनूचानम् उपवेश्योदपात्रं चापराजितेन निष्क्रम्य वासो यज्ञोपवीतादि दत्त्वाभ्युक्ष्याचम्यापां सूक्तैः पवित्रैश् च संप्रोक्ष्य प्रियं मा कृणु देवेष्व् इति यज्ञोपवीतं दत्त्वा विमृग्वरीं मा नः पश्चाद् इति द्वाभ्यां प्राङ्मुख उपविश्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं यद् अस्मृत्य् अनुमतिः सर्वम् इति जुहुयाद् अभ्यातानैश् च ॥
(अव्परिस्_37,17.1) अथ यत्रैतन् मेखला प्रपतति जीर्णा वा स्यात् तां सावित्र्योद्धृत्यान्तं कृत्वा शान्त्युदकेन संप्रोक्ष्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं ये त्रिषप्ता इदावत्सराय घृतेन त्वाग्निं ब्र्हूम इति ॥
(अव्परिस्_37,18.1) चतुर्थ्याम् अहुतायां यदि घटोदकं नश्येत तथैव पुनर् आनीय शं नो देवीर् इहेत देवीर् इत्य् अनुमन्त्र्याम्बयो यन्त्य् आपो हि ष्ठा शं नो देवीर् इति संपात्य व्याहृत्या संनत्या च जुहुयात् आपो भृग्वङ्गिरोरूपम् अपां पुष्पम् इत्य् उदकुम्भम् अभिमन्त्रयेत् ॥ वासो दक्षिणा ॥
(अव्परिस्_37,19.1) अथ यस्यासमाप्ते कर्मण्य् उदपात्रं प्रवर्तेत तद् अनुमन्त्रयते
(अव्परिस्_37,19.2) यद् उदपात्रं प्रवर्तते ब्रह्मणास्थापितं महत् । स्थानाच् च्युतं प्रवर्तितं तन् मे वहतु किल्बिषम् ॥ इत्य् आस्थापयति ॥
(अव्परिस्_37,19.3) पूरणेन पूरयित्वा पुनः पूर्णम् इत्य् एतया ।
(अव्परिस्_37,19.4) पुनः पूर्णम् इदं पात्रं ब्रह्मणास्थापयामसि । विश्वैस् [तद्] देवैर् अभिष्टुतम् ॥
(अव्परिस्_37,19.5) ऊर्जं पुष्टं दधातु नो रायस् पोषं श्रियम् आयुः । मयि कर्म समृध्यताम् इति ॥
(अव्परिस्_37,20.1) अथ चेत् प्रभज्येत भूमिर् भूमिम् अगाद् इत्य् अनुमन्त्र्यान्यतरम् आहृत्य यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियम् इत्य् अनुमन्त्र्य वैश्वानरो न ऊतय उद् एनं वैश्वानरो रश्मिभिर् इति जुहुयात् सा तत्र प्रायश्चित्तिः ॥
(परिशिष्ट_38. ब्रह्मकूर्चविधिः)
(अव्परिस्_38,1.1) ओं ब्रह्मकूर्चविधिं पुण्यं संक्षेपाद् वच्म्य् असंशयम् । पावनानां परं यो हि पावनं तपसां तपः ॥
(अव्परिस्_38,1.2) स्नात्वा शुचिः शुचौ देशे गोमयेनावसेचिते । वस्त्रेण संहिते चापि सितपुष्पैः प्रपूजिते ॥
(अव्परिस्_38,1.3) अहोरात्रोसितः क्षान्तः पवित्रात्मा प्रपावनः । शुक्लवासाः सुगन्धिः प्राग् उपविष्टः कुशासने ॥
(अव्परिस्_38,1.4) गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । आहरेत् ताम्रपात्रे तु शकृन् मूत्रं त्व् अभूगतम् ॥
(अव्परिस्_38,1.5) गोमूत्रं नीलवर्णायाः कृष्णाया गोमयं तथा । पयस् तु ताम्रवर्णायाः श्वेताय आहरेद् दधि ॥
(अव्परिस्_38,1.6) कपिलाया घृतं ग्राह्यम् अलाभे स्यात् तु पञ्चमम् ॥
(अव्परिस्_38,2.1) गोमूत्रैकपलं दद्याद् अङ्गुष्ठाग्रं तु गोमयम् । क्षीरस्य सप्त दध्नस् तु त्रीण्य् एकैकं घृताम्भसोः ॥
(अव्परिस्_38,2.2) गायत्र्याहृत्य गोमूत्रं गन्धद्वारेति गोमयम् । आ प्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
(अव्परिस्_38,2.3) तेजो ऽसि शुक्रम् इत्य् अज्यं देवस्य त्वा कुशोदकम् । सप्तपत्त्रास् तु ये दर्भा अछिन्नाग्राः समायुताः ॥
(अव्परिस्_38,2.4) तैः समुद्धृत्य होतव्यं देवताभ्यो यथाकर्मम् । अग्नये स्वाहा सोमाय प्रजापतय इत्य् अपि ॥
(अव्परिस्_38,2.5) बृहस्पते अति यद् इदं विष्णुर् इतीति च । मानस्तोकेन गायत्र्या एतैश् च जुहुयात् ततः ॥
(अव्परिस्_38,2.6) प्रणवेन प्रणवेनैव पिबेच् च प्रणवेन तु । होतव्यं प्रणवेनैव पिबेच् च प्रणवेन तु ॥
(अव्परिस्_38,3.1) मध्यमेन पलाशस्य पद्मपत्त्रेण वा पिबेत् । अपि वा ताम्रपात्रेण हुतशेषं विशुद्धये ॥
(अव्परिस्_38,3.2) यत् त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्तो ऽग्निर् इवेन्धनम् ॥
(अव्परिस्_38,3.3) त्रयोदश्यादिचतुर्षु त्रिःस्नानाक्षारभोजनम् । पञ्चदश्यां पञ्चगव्यं सोपवासं महाफलम् ॥
(अव्परिस्_38,3.4) अभोज्याभक्ष्यशूद्रान्नभक्षणे वेदविक्रये । प्रतिग्रहे कालमन्त्रहीने होमे द्युमैथुने ॥
(अव्परिस्_38,3.5) बालत्वे यत् कृतं चैव युवा वृद्धवयास् तथा । मातापितृकृतं चैव तत् क्षणाद् एव निर्दहेत् ॥
(अव्परिस्_38,3.6) मासेमासे प्रयुञ्जानोदेवलोकम् अवाप्नुयात् । अर्धमासेअर्धमासे च ऋषीणां लोकम् उत्तमम् ॥
(अव्परिस्_38,3.7) षड्रात्रे चैव षड्रात्रे ब्रह्मलोकम् अनामयम् । अहरहः प्रयुञ्जानः परं ब्रह्माधिगच्छति ॥
(अव्परिस्_38,3.8) अनेन विधिनैवेष्ट्वा देवतर्पणपूर्वकम् । ब्रह्मणा निर्मितं ह्य् एतत् पवित्रं परमं हितम् ॥
(परिशिष्ट_39. तडागादिविधिः)
(अव्परिस्_39,1.1) ओं पिप्पलादं महाप्राज्ञम् इदम् ऊचुर् महर्षयः । भूमिखातस्य शुद्ध्यर्थं विधिं प्रब्रूहि तत्त्वतः ॥
(अव्परिस्_39,1.2) कूपवापीतडागेषु पुष्करिण्यां च वेश्मसु । अहोरात्रोषितो भूत्वा ततः कर्म समारभेत् ॥
(अव्परिस्_39,1.3) शान्त्युदकेन तद् ब्रह्मा पूर्वोक्तं यद् अगस्तिना । परि प्रागाद् इति द्वाभ्याम् अभिमन्त्रयते ततः ॥
(अव्परिस्_39,1.4) चरुतन्त्रेण विधिना चरुं भौमं तु निर्वपेत् । प्राक्तन्त्रम् आज्यभागान्तं सत्यं बृहद् इति स्मृतम् ॥
(अव्परिस्_39,1.5) हविर् आज्यं समिधश् च उपस्थानं यथाक्रमम् । कूपादीनां समीपे तु जपेन् मन्त्रान् समाहितः ॥
(अव्परिस्_39,1.6) अम्बयो यन्त्य् आपो हि ष्ठा शं नो देवीर् इति त्रयम् । हिरण्यवर्णाः पुनन्तु मा सस्रुषीर् हिमवतो ऽप्सु ते ॥
(अव्परिस्_39,1.7) जप्त्वा तु धेनुम् आनीतां पिबन्तीम् अनुमन्त्रयेत् । आ गाव इति सूक्तेन तारयेत् तु तथैव गाम् ॥
(अव्परिस्_39,1.8) कूपवापीतडागानां समीपे चाभिमन्त्रयेत् । उप ह्वये सूयवसात् कर्त्रे दद्यात् तु गां शुभाम् ॥
(अव्परिस्_39,1.9) कामसूक्तेन गृह्णीयात् कर्म संस्थापयेत् ततः । हिरण्यरजतादीनां मत्स्यादीन् कारयेद् बुधः ॥

(अव्परिस्_39,1.10) सौवर्णौ कूर्ममकरौ राजतौ मत्स्यमुद्गरौ । ताम्रौ कुलीरकर्कटाव् आयसः शिशुमारकः ॥
(अव्परिस्_39,1.11) शान्त्युदकं पञ्चगव्यं तस्मिन्न् एव जले क्षिपेत् । कर्तृदातारौ स्नायेतां द्रुपदाद् इव शुम्भनी ॥
(अव्परिस्_39,1.12) ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत् ततः । सम्यग् विधानम् एतद् धि कूपादेः संप्रकीर्तितम् । पुण्यं कर्म द्विजातीनां स्वर्गस्याक्षय्यम् इच्छताम् ॥
(परिशिष्ट_40. पाशुपतव्रतम्)
(अव्परिस्_40,1.1) ओम् अथ पाशुपतव्रतादेशो
(अव्परिस्_40,1.2) नाश्रोत्रियाय नाचरितवेदव्रताय नाकृतवपनाय ददीत ॥
(अव्परिस्_40,1.3) मासद्वित्रिचतुष्पञ्चसंवत्सरद्वादशसंवत्सरपरिमितं नैष्ठिकं वा
(अव्परिस्_40,1.4) अथास्यायतनानि ॥
(अव्परिस्_40,1.5) महादेवायतने ऽपां समीपे ॥
(अव्परिस्_40,1.6) गिरिगुहायां गवां गोष्ठे ऽग्न्यागारे वा
(अव्परिस्_40,1.7) नदीनां बहूनां प्रतिश्रये
(अव्परिस्_40,1.8) अनुसवनम् ॥
(अव्परिस्_40,1.9) भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्
(अव्परिस्_40,1.10) गन्धपुष्पधूपदीपोदनपायसयावकलाजादि प्रदक्षिणान्तं च ॥
(अव्परिस्_40,1.11) निवेद्य निर्माल्यगन्धहारीहासगीतवादनाद्युपहारान्
(अव्परिस्_40,1.12) दक्षिणेन तृतीयम् उपतिष्ठते
(अव्परिस्_40,1.13) कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो
(अव्परिस्_40,1.14) वानरं ते मुखं रौद्रम् अनिन्द्यं शुभं पशुम् एवाजननेवाजनकं घोरं जीवं जात्यम् एव रुक्मं ददामीति एकवासा विवासा वा विरागाणि वस्त्राणि ददीत ॥
(अव्परिस्_40,2.1) गोचर्ममात्रं स्थण्डिलम् उपलिप्य गोमयेनोल्लिख्याभ्युक्ष्याग्ने प्रेहीत्य् अग्निं प्रणीयोपसमाधाय परिस्तीर्य ब्रह्माणं कल्पयित्वा नान्यदेवतादिशि रुद्रस्य दक्षिणोदपात्रं स्थापयित्वा महाव्याहृतिभिर् अग्न्यायतने निधाय रुद्रम् आवाहयति ॥
(अव्परिस्_40,2.2) रुद्रं क्रुद्धाशनिमुखं देवानाम् ईश्वरं परम् । श्वेतपिङ्गलं देवानाम् <महादेवम्> प्रपद्ये शरणागतः ॥
(अव्परिस्_40,2.3) यस्य युक्ता रथे सिंहा व्याघ्राश् च विषमाननाः । तम् अहं पौण्डरीकाक्षं देवम् आवाहये शिवम् इत्य् आवाह्याभ्यर्च्य ॥
(अव्परिस्_40,2.4) न तं यक्ष्मैतु देव इति गुग्गुलुं धूपं च दद्यात् ॥
(अव्परिस्_40,2.5) तत् पुरुषाय विद्महे महादेवाय धीमहि । तन् नो रुद्रः प्रचोदयात् ॥
(अव्परिस्_40,2.6) तस्मै देवाय विद्महे महादेवाय धीमहि । तन् नो रुद्रो ऽनुमन्यताम् ॥ इति रुद्रसावित्रीं जप्त्वा ॥
(अव्परिस्_40,2.7) यो अग्नौ रुद्र इत्य् अनुमन्त्रयेन् नमो अस्तु यावद् आवाहने देवदेवस्यावाहयाम्य् अहम् इति ॥
(अव्परिस्_40,2.8) प्रमर्दने सर्वासुरविनाशाय ओं फट्कारं करोति ॥
(अव्परिस्_40,2.9) निवेदने ऽहम् अमुकं निवेदयामीति जटी मुण्डी पञ्चशिखी वा ॥
(अव्परिस्_40,3.1) ब्राह्मणो ह वा अहम् अमुकसगोत्रो भगवतो महेश्वरस्य व्रतं चरिष्यामीति वाचयित्वा ॥
(अव्परिस्_40,3.2) ततो ऽस्य मौञ्जीं प्रयच्छति ॥ सावित्र्या तु दण्डं पालाशं बैल्वम् आश्वत्थं वा असिं लकुटं खट्वाङ्गं परशुं वा ॥
(अव्परिस्_40,3.3) अघोरेभ्यो ऽथ घोरेभ्यो ऽघोरघोरतरेभ्यश् च । सर्वतः शर्वशर्वेभ्यो नमस् ते रुद्र रूपेभ्य इत्य् आदौ शर्वं नमस्कृत्योपविश्याज्यं निरतिशायित्वेध्मान् आदीपयत्य् अन्तर इति
(अव्परिस्_40,3.4) इध्मा जातवेदसः समिद्धस्य तेभ्यो वर्धयस्व प्रजया पशुभिः श्रिया गृहैर् धनेनेति ॥
(अव्परिस्_40,3.5) यवाघारौ आज्यभागौ जुहुयाद्
(अव्परिस्_40,3.6) वायवे स्वाहा ॥ शर्वाय रुद्राय स्वाहा ॥ पशुपतये भीमाय स्वाहा ॥ शान्तायाधिपतये देवाय स्वाहेति ॥
(अव्परिस्_40,3.7) एवम् एव पत्नीनां तूष्णीम् अधिपस्य जुहुयाद्
(अव्परिस्_40,3.8) एवं सर्वेषु व्रतनिवेदनेषु व्रातपतीर् जुहोति ॥
(अव्परिस्_40,3.9) व्रतेन त्वम् इत्य् उभयीरुहम् इति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥
(अव्परिस्_40,4.1) भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातो ऽभूत् पूत आत्मना ॥
(अव्परिस्_40,4.2) भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
(अव्परिस्_40,4.3) येन स्नाता उमा देवी रुद्रो भर्ता महेश्वरः । येन स्नाता गणाः सर्वे येन स्नाता द्विजातयः ॥
(अव्परिस्_40,4.4) येन स्नाता शिवः शर्वः शंकरश् च वृषध्वजः । स्नातानि सर्वभूतानि गङ्गायमुनयागमे ॥

(अव्परिस्_40,4.5) स्नातो ऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानम् उत्तमम् । तेन स्नानेन स्नाम्य् अहं येन स्नातो महेश्वरः ॥
(अव्परिस्_40,5.1) भूतिस् तु पिङ्गलो बभ्रुर् भूतिर् विष्णुः सनातनः । भूतिर् ब्रह्मा महेन्द्रश् च भूतिर् देवाः सह र्षिभिः ॥
(अव्परिस्_40,5.2) भूतिर् मे ऽलक्ष्मीं निर्णुदेद् भूतिर् मे श्रियम् आवहेत् । भूतिर् म आयुषा वित्तं वर्चो ब्रह्म प्रयच्छतु ॥
(अव्परिस्_40,5.3) भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥
(अव्परिस्_40,5.4) वाचा तु यत् कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश् चापद् दुःस्वप्नं भस्मना तत् प्रणश्यतु ॥
(अव्परिस्_40,5.5) मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तो ऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्य् अहम् ॥
(अव्परिस्_40,6.1) एतत् स्नानं वारुणं पर्वसु शरीरलेपेन यथाकामं पर्वसूपवसेत् ॥
(अव्परिस्_40,6.2) स्त्रीशूद्रं नाभिभाषेत ॥
(अव्परिस्_40,6.3) तदा सावित्रीं जपेत् ॥
(अव्परिस्_40,6.4) यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥
(अव्परिस्_40,6.5) कमण्डलुकपाले भिन्ने भूमिर् भूमिम् अगाद् इत्य् अप्सु प्रवेशयेत् ॥
(अव्परिस्_40,6.6) रेतःस्कन्दे यन् मे रेतस् तेजसा संनिषद्य देहात् प्रस्कन्देत् पुनर् न भवाय । तद् अग्निर् वायुः... ...अपि चेयं पृथिवी कञ्चखन्तेति ॥
(अव्परिस्_40,6.7) सम्यक् क्व चित् करोति
(अव्परिस्_40,6.8) व्रतम् उपाध्यायाछन्दो वर्तयेत् ॥
(अव्परिस्_40,6.9) तत उदीक्षणम् ॥
(अव्परिस्_40,6.10) व्रातपतीर् जुहोति ॥
(अव्परिस्_40,6.11) समासो ऽहं व्रतस्विष्टकृत इति हुत्वादित्याभिमुखस् तिष्ठेत ॥
(अव्परिस्_40,6.12) यन् मे दुरुक्तं दुर्हुतं दुर्ध्यातं दुर्विचिन्तितम् । तन् मे भगवान् ईशानः सर्वं त्वं क्षन्तुम् अर्हसि ॥
(अव्परिस्_40,6.13) नवोनवो भवसि जायमान इत्य् अप्सु प्रवाहयेद्
(अव्परिस्_40,6.14) ये श्रद्धयेदं पशुपतेर् व्रतं चरन्ति । तेषां मधु विशक्षे हे ददते न पुनर्गमनं मधुरिवाद्येहैव च । ते रुद्रा विरतौ पशुपतिसायुज्यं गच्छ<न्>ति
(अव्परिस्_40,6.14) तद् एष श्लोकः ॥
(अव्परिस्_40,6.16) विलीनपाशपञ्जराः समाप्ततत्त्वगोचराः । प्रयान्ति शंकरं परं पतिं विभुं सदाशिवम् ॥
(परिशिष्ट_41. संध्योपासनविधिः)
(अव्परिस्_41,1.1) ओम् अथातः संध्योपासनविधिं व्याख्यास्यामः ॥
(अव्परिस्_41,1.2) प्राङ् वोदङ् वा ग्रामान् निष्क्रम्य शुचिः शुचौ देशे गुप्ततीर्थायतनेषु वा
(अव्परिस्_41,1.3) सुप्रक्षालितपाणिपादवदनः प्राग् वीरासनेनोपविश्य जीवा स्थेत्य् आचम्यापो हि ष्ठेत्य् अभ्युक्ष्य प्राणायामान् कृत्वाचम्योत्तिष्ठन् दक्षिणहस्तस्था आपो अयोजाला इत्य् अप उत्सृजेद् बहुधा ॥
(अव्परिस्_41,1.4) हरिः सुपर्ण इति प्रातर्
(अव्परिस्_41,1.5) उद् उ त्यं चित्रं देवानाम् इति मध्यंदिने
(अव्परिस्_41,1.6) अथ सौरमन्त्रान् यथाकामं जपेद्
(अव्परिस्_41,1.7) उद् वयं तमसस् परीति च
(अव्परिस्_41,1.8) उद् घेद् अभि श्रुतामघम् इत्य् अस्तमित आसीनः
(अव्परिस्_41,1.9) सावित्र्यन्ते वाञ्जलयो जपश् च ॥
(अव्परिस्_41,2.1) अथोर्ध्वजानुर् आसीन इति वीरासनी
(अव्परिस्_41,2.2) प्रत्युत्थायाभयं पश्चाद् अभयं पुरस्ताद् इत्य् उपतिष्ठते
(अव्परिस्_41,2.3) तिष्ठन् प्रातः प्राङ्मुख
(अव्परिस्_41,2.4) आयातु वरदेत्य् आवाह्य
(अव्परिस्_41,2.5) गायत्रं छन्दः सविता देवता विश्वामित्र ऋषिर्
(अव्परिस्_41,2.6) यथाक्षरं दैवतं रूपं च मनसि समाधाय महाव्याहृतिभिः संधाय गायत्रीं जपेत् ॥
(अव्परिस्_41,2.7) अष्टकृत्व एकादशकृत्वो द्वादशकृत्वः पञ्चदशकृत्वः शतकृत्वः सहस्रकृत्व इति ॥
(अव्परिस्_41,2.8) अष्टकृत्वः प्रयुक्ता गायत्री गायत्रेण छन्दसा संमिता भूलोकम् अभिजयति ॥

(अव्परिस्_41,2.9) एकादशकृत्वः प्रयुक्ता त्रैष्टुभेन छन्दसा संमितान्तरिक्षलोकम् अभिजयति ॥
(अव्परिस्_41,2.10) द्वादशकृत्वः प्रयुक्ता जागतेन छन्दसा संमिता दिवं लोकम् अभिजयति ॥
(अव्परिस्_41,2.11) पञ्चदशकृत्वः प्रयुक्ता पञ्चदशेन वज्रेण संमिता ब्रह्मलोकम् अभिजयति ॥
(अव्परिस्_41,2.12) शतकृत्वः प्रयुक्ता शतपर्वणा वज्रेण संमिता सर्वाण्ल् लोकान् अभिजयति ॥
(अव्परिस्_41,2.13) सहस्रकृत्वः प्रयुक्ताग्निष्टोमाप्तोर्यामादीनां क्रतूनां फलम् अवाप्नोति ॥
(अव्परिस्_41,3.1) अतो यथाकामं जपित्वा पश्येम शरदः शतम् इन्द्र जीवेत्य् आशिषः प्रार्थयते ॥
(अव्परिस्_41,3.2) स्तुता मया वरदेति विसृज्योदीराणा उत सूर्यस्यावृतम् असपत्नं पुरस्ताद् यस्मात् कोशाद् इति यथार्थम् उपतिष्ठते ॥
(अव्परिस्_41,3.3) य इमां न विन्दन्ति नाधीयते संध्याकाले नोपासते ते ह्य् अश्रोत्रिया भवन्त्य् अनुपनीताः क्रियाहीनाश् छेदनभेदनभोजनमैथुनान्य् अभिचरन्तः ॥
(अव्परिस्_41,3.4) संध्याकाले ह्य् अजपन्तः श्वसूकरसृगालकुक्कुटसर्पयोनिषु वर्षसहस्राणि जायन्ते ॥
(अव्परिस्_41,3.5) समास् तस्यैवोपजायन्ते ॥
(अव्परिस्_41,3.6) तस्माद् यथोक्तां सायं प्रातः संध्याम् उपासीत ॥
(अव्परिस्_41,3.7) अरण्यचरितो गुप्तः शुक्लब्राह्मणकर्मसु । प्रायेण लभते लोकान् यथोक्तांस् तां समाचरन् ॥
(अव्परिस्_41,3.8) सायं संध्याम् उपासीत कृतवीरासनो द्विजः । कृतोत्तानस् तथा प्रातः प्राञ्जलिः सुसमाहितः ॥
(अव्परिस्_41,3.9) एतद् वीरासनं स्थानं ब्रह्मणा निर्मितं पुरा । द्विजानं बालवृद्धानां पुरश्चरणम् उत्तमम् ॥
(अव्परिस्_41,3.10) सायं प्रातस् तु यः संध्याम् अस्कन्नाम् उपतिष्ठते । स तया पावितो देव्या ब्राह्महः पूतकिल्बिषः ॥
(अव्परिस्_41,3.11) न सीदेत् प्रतिगृह्णानः पृथ्वीम् अपि ससागराम् । ये चास्य विषमाः के चिद् दिवि सूर्यादयो ग्रहाः ॥
(अव्परिस्_41,3.12) ते चास्य सौम्या जायन्ते शिवाः सुखकराः सदा । स्थानं वीरासनं चएषां पृथिवी च प्रदक्षिणा । अग्निहोत्रं हुतं चैषां ये वै संध्याम् उपासते ॥
(अव्परिस्_41,4.1) अर्धास्तमित आदित्ये अर्धोदिते दिवाकरे । गायत्र्यास् तत्र सांनिध्यं संध्याकालः स उच्यते ॥
(अव्परिस्_41,4.2) भूम्यादित्यान्तरं यस् तु छादयेच् चतुरङ्गुलम् । तां तु संध्यां परां विद्याच् छायासंभेदने परे ॥
(अव्परिस्_41,4.3) यावन्तस् तु कराद् भ्रष्टाः पतन्ति जलबिन्दवः । भूत्वा वज्राणि ते सर्वे पतन्ति ह्य् असुरेषु वै ॥
(अव्परिस्_41,4.4) ततो विभावसुस् तेषां प्रीतात्माप्यायते वरम् । यैर् अहं मोक्षितो विप्रैस् तेषां लोको तथा मम ॥
(अव्परिस्_41,4.5) गायत्र्या अक्षमालायां सायं प्रातः शतं जपेत् । चतुर्णां खलु वेदानां समग्रं लभते फलम् ॥
(अव्परिस्_41,4.6) संध्यां ये नोपतिष्ठन्ति ब्राह्मण्यं नोपपद्यते । उपपद्येत वा भूयो यदि स्युस् तीर्थमृत्यवः ॥
(अव्परिस्_41,4.8) ऋषयो दीर्घसंध्यत्वाद् दीर्घाण्य् आयुम्ष्य् अधारयन् । तस्माद् दीर्घाम् उपासीत समिच्छन् वृद्धिम् आयुषः ॥
(अव्परिस्_41,5.1) तद् यथाग्निर् देवानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनाम् एवं गायत्री छन्दसाम् ॥
(अव्परिस्_41,5.2) तद् यथा गायत्री कत्यक्षरा कतिपदा किं वास्या गोत्रं किं वास्य रूपं कीदृशं तस्याः शरीरं भवति ॥
(अव्परिस्_41,5.3) यद् वै भूः स ऋग्वेदो यद् भुव इति सो ऽथर्ववेद इति
(अव्परिस्_41,5.4) तद् यथेदम् अक्षरम् ओम् इत्य् अक्षरं तत् परमं शम् इत्य् अक्षरं गुह्यं तत् परमं पवित्रम् ॥
(अव्परिस्_41,5.5) आदित्यो वै सावित्र्य् आदित्येन सह सावित्री स्तौति सुवति प्रातः प्रसुवति तस्मात् सावित्रीत्<व्>अम् ॥
(अव्परिस्_41,5.6) अक्षरदैवतं व्याख्यास्यामः
(अव्परिस्_41,5.7) प्रथमम् आग्नेयं द्वितीयम् आश्विनं तृतीयं सौम्यं चतुर्थं वैष्णवं सावित्रं पञ्चमं षष्ठं पौष्णं सप्तमं मारुतम् अष्टमं बार्हस्पत्यं नवमं मैत्रं दशमं वारुणम् एकादशम् ऐन्द्रं द्वादशं वैश्वदेवं वसूनां त्रयोदशं चतुर्दशं रुद्राणां पञ्चदशम् आदित्यानाम् अदितेः षोडशं वायव्यं सप्तदशमं भौमम् अष्टादशम् एकोनविंशम् आन्तरिक्षं दिव्यं विंशं दिग्देवतानि चत्वार्य् अक्षराणि ॥
(अव्परिस्_41,6.1) अथ यत् पूर्वां संध्याम् उपास्ते तद् गायत्र्याः शिरस् तेन पृथिवीं जयति ॥
(अव्परिस्_41,6.2) अथ यन् मध्याह्ने तीक्ष्णं रुद्रस् तपति <तद्> द्वितीयं शिरस् तेनान्तरिक्षं जयति ॥
(अव्परिस्_41,6.3) अथ यद् अस्तमियात् तत् तृतीयं शिरस् तेन दिवं जयति ॥
(अव्परिस्_41,6.4) तस्या ओंकारः शिरः सह व्याहृतिभिर् दर्भाः केशा ओषधीवनस्पतयो लोमानि चक्षुषी सूर्याचन्द्रमसौ विद्युद् धसितं विष्णुवरुणौ उरसी रुद्रो हृदये पौर्णमासी चामावास्या च स्तनौ अहश् च रात्री च पार्श्वे
(अव्परिस्_41,6.5) दश दिशः कुक्षी सर्वज्ञानानि व्याकरणम् उदरं पृथिवी श्रोणी वायुः स्थानं भूषणं नक्षत्राणि श्रीसरस्वतीरूपा पदक्रममन्त्रब्राह्मणकल्पशरीरा सावित्री गोत्रेण ब्रह्मदेया भवति ब्रह्मदेया भवतीति ब्राह्मणम् ॥
(परिशिष्ट_42. स्नानविधिः)
(अव्परिस्_42,1.1) अथ स्नानविधिं पुण्यं वक्ष्यमाणं निबोधत । येन स्नाता दिवं लोकं प्राप्नुवन्ति द्विजोत्तमाः ॥
(अव्परिस्_42,1.2) सरित्सु वा तडागे वा देवखाते ह्रदे ऽपि वा । गर्तप्रस्रवणे वापि पुण्यं स्नानं समाचरेत् ॥
(अव्परिस्_42,1.3) पारक्ये तु ताडागे हि स्नानं नैव विधीयते । तडागकर्तुर् दुष्कृतैर् लिप्यते स्नानम् आचारन् ॥

(अव्परिस्_42,1.4) सरितां सरसां चैव अप्राप्तौ निर्झरस्य च । उद्धृत्य चतुरः पिण्डान् स्नायात् तु परखातके ॥
(अव्परिस्_42,1.5) अन्वीक्ष्यमाणः पार्श्वानि कुशहस्तः समाहितः । द्विजो मध्यंदिनाद् अर्वाग् अरोगी स्नानम् आचरेत् ॥
(अव्परिस्_42,1.6) यत् ते भूम इति मृदं संगृह्य र्चा समाहितः । यस् ते गन्ध इति त्रिभिर् मृधिर् आत्मानम् आलभेत् ॥
(अव्परिस्_42,1.7) अघद्विष्टेति सूक्तेन दूर्वां शिरसि विन्यसेत् । अग्रमग्रम् इत्य् एतया गोमयेनानुलेपयेत् ॥
(अव्परिस्_42,1.8) अग्रमग्रं चरन्तीनाम् ओषधीनां वनेवने । यन् मे रोगं च शोकं च तन् मे त्वं नुद गोमय ॥
(अव्परिस्_42,1.9) प्रणवाद्या व्याहृतीस् तु गायत्रीं च शिरोयुताम् । पठेत् त्रिर् अनवानं हि प्राणायामः स उच्यते ॥
(अव्परिस्_42,1.10) अम्बयो यन्तीत्य् आदीनि त्रीणि सूक्तानि हि क्रमात् । हिरण्यवर्णा यद् अदो वायोः पूतः पुनन्तु मा ॥
(अव्परिस्_42,2.1) वैश्वानरो रश्मिभिश् च तथाप्सु त इति स्मृतम् । एतैः संप्लावयेत् सूक्तैस् ततो ऽघमर्षणम् ॥
(अव्परिस्_42,2.2) अपो दिव्याश् च सं माग्ने इदम् आपः शिवेन मा । यद् आपो नक्तम् इति च एतत् स्याद् अघमर्षणम् ॥
(अव्परिस्_42,2.3) यद् आपो नक्तं मिथुनं चकार यद् वा दुद्रोह दुरितं पुराणम् । हिरण्यवर्णास् तत उत् पुनन्तु प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥
(अव्परिस्_42,2.4) सरस्वतीं गयां गङ्गां नैमिषं पुष्कराणि च । स्मृत्वा तीर्थानिपुण्यात्नि अवगाहेज् जलं ततः ॥
(अव्परिस्_42,2.5) गच्छतः स्नानकार्याय पितरः सह दैवतैः । पृष्ठतः त्व् अनुगच्छन्ति तत्समीपं जलार्थिनः ॥
(अव्परिस्_42,2.6) आशां त्यक्त्वा निवर्तन्ते वस्त्रनिष्पीडनेन तु । तस्मान् न पीडयेद् वस्त्रम् अकृत्वा पितृतर्पणम् ॥
(अव्परिस्_42,2.7) उत्साहं वरुणः स्नाने अग्निर् होतुः श्रियं हरेत् । आयुष्यं भुञ्जतो मृत्युस् त्रिषु मौनम् अतश् चरेत् ॥
(अव्परिस्_42,2.8च्द्) स्नानवस्त्रे मृदस् तिस्रः प्रदद्याच् छुद्धिहेतुना । 8अब् । स्नात्वा पर्युक्ष्य वासो ऽन्यच् छोध्ये जङ्घे मृदा पुनः ॥
(अव्परिस्_42,2.9) वस्त्रनिष्पीडतोयेन अपवित्रीकृते हि ते । उत्तिर्य वस्त्रं निष्पीड्य जपेद् आध्यात्मिकानि तु ॥
(अव्परिस्_42,2.10) अध्यात्मम् अस्यवामीयं कौत्सं कौष्माण्डिकं तथा । जप्त्वाथर्वशिरश् चैव भवाशर्वीयम् एव च ॥
(अव्परिस्_42,2.11) प्राणाश् च भगवान् कालः पुरुषो मन्युर् एव च । उच्छिष्टो रोहितो व्रात्य एतान्य् आध्यात्मिकानि तु ॥
(अव्परिस्_42,2.12) संवत्सरेण यत् पापं कृतं घोरम् अविस्तरम् । जप्त्वैतानि ततः पापान् मुच्यते नात्र संशयः ॥
(अव्परिस्_42,2.13) विषासहिं मनसा हि जप्त्वा गायत्रीं च तथा त्रिदिवं प्रायाति । परिभ्रष्टस् त्रिदिवात् तपःक्षये जातिस्मरत्वं पुनर् एव विन्दते ॥
(परिशिष्ट_43. तर्पणविधिः)
(अव्परिस्_43,1.1) ओम् अथ तर्पणविधिम् अनुक्रमिष्यामः ॥
(अव्परिस्_43,1.2) स्नातोपस्पर्शनकाले ऽवगाह्य देवतास् तर्पयति ॥
(अव्परिस्_43,1.3) वसूनां नमो
(अव्परिस्_43,1.4) ब्रह्मणे नमो
(अव्परिस्_43,1.5) वैश्रवणाय नमो
(अव्परिस्_43,1.6) धर्माय नमः
(अव्परिस्_43,1.7) कामाय नमो
(अव्परिस्_43,1.8) लोकाय अमो
(अव्परिस्_43,1.9) देवाय नमो
(अव्परिस्_43,1.10) वेदाय नम
(अव्परिस्_43,1.11) ऋषिभ्यो नम
(अव्परिस्_43,1.12) आर्षेयेभ्यो नमो
(अव्परिस्_43,1.13) अङ्गिरोभ्यो नम
(अव्परिस्_43,1.14) आङ्गिरसेभ्यो नमो
(अव्परिस्_43,1.15) अथर्वेभ्यो नम
(अव्परिस्_43,1.16) आथर्वणेभ्यो नमो
(अव्परिस्_43,1.17) मरुद्भ्यो नमो
(अव्परिस्_43,1.18) मारुतेभ्यो अमो
(अव्परिस्_43,1.19) वसुभ्यो नमो

(अव्परिस्_43,1.20) रुद्रेभ्यो नम
(अव्परिस्_43,1.21) आदित्येभ्यो नमः
(अव्परिस्_43,1.22) सिद्धेभ्यो नमः
(अव्परिस्_43,1.23) साध्येभ्यो नम
(अव्परिस्_43,1.24) आप्येभ्यो नमो
(अव्परिस्_43,1.25) अश्विभ्यां नमो
(अव्परिस्_43,1.26) गुरुभ्यो नमो
(अव्परिस्_43,1.27) गुरुपत्नीभ्यो नमः
(अव्परिस्_43,1.28) पितृभ्यो नमो
(अव्परिस्_43,1.29) मातृभ्यो नमः ॥
(अव्परिस्_43,2.1) अग्निस् तृप्यतु ॥
(अव्परिस्_43,2.2) वायुस् तृप्यतु ॥
(अव्परिस्_43,2.3) सूर्यस् तृप्यतु ॥
(अव्परिस्_43,2.4) विष्णुस् तृप्यतु ॥
(अव्परिस्_43,2.5) प्रजापतिस् तृप्यतु ॥
(अव्परिस्_43,2.6) विरूपाक्षस् तृप्यतु ॥
(अव्परिस्_43,2.7) सहस्राक्षस् तृप्यतु ॥
(अव्परिस्_43,2.8) सोमस् तृप्यतु ॥
(अव्परिस्_43,2.9) ब्रह्मा तृप्यतु ॥
(अव्परिस्_43,2.10) देवास् तृप्यन्तु ॥
(अव्परिस्_43,2.11) वेदास् तृप्यन्तु ॥
(अव्परिस्_43,2.12) ऋषयस् तृप्यन्तु ॥
(अव्परिस्_43,2.13) आर्षेयास् तृप्यन्तु ॥
(अव्परिस्_43,2.14) सर्वाणि छन्दांसि तृप्यन्तु ॥
(अव्परिस्_43,2.15) ओम्कारवषट्कारौ तृप्यताम् ॥
(अव्परिस्_43,2.16) महाव्याहृतयस् तृप्यन्तु ॥
(अव्परिस्_43,2.17) सावित्री तृप्यन्तु ॥
(अव्परिस्_43,2.18) गायत्री तृप्यतु ॥
(अव्परिस्_43,2.19) द्यावापृथिव्यौ तृप्यताम् ॥
(अव्परिस्_43,2.20) यज्ञास् तृप्यन्तु ॥
(अव्परिस्_43,2.21) ग्रहास् तृप्यन्तु ॥
(अव्परिस्_43,2.22) नक्षत्राणि तृप्यन्तु ॥
(अव्परिस्_43,2.23) अन्तरिक्षं तृप्यतु ॥
(अव्परिस्_43,2.24) अहोरात्राणि तृप्यन्तु ॥
(अव्परिस्_43,2.25) संख्यास् तृप्यन्तु ॥
(अव्परिस्_43,2.26) संध्यास् तृप्यन्तु ॥
(अव्परिस्_43,2.27) समुद्रास् तृप्यन्तु ॥
(अव्परिस्_43,2.28) नद्यस् तृप्यन्तु ॥
(अव्परिस्_43,2.29) गिरयस् तृप्यन्तु ॥
(अव्परिस्_43,2.30) केषेत्रौषधिवनस्पतयस् तृप्यन्तु ॥

(अव्परिस्_43,2.31) गन्धर्वाप्सरसस् तृप्यन्तु ॥
(अव्परिस्_43,2.32) नागास् तृप्यन्तु ॥
(अव्परिस्_43,2.33) वयांसि तृप्यन्तु ॥
(अव्परिस्_43,2.34) सिद्धास् तृप्यन्तु ॥
(अव्परिस्_43,2.35) साध्यास् तृप्यन्तु ॥
(अव्परिस्_43,2.36) विप्रास् तृप्यन्तु ॥
(अव्परिस्_43,2.37) यक्षास् तृप्यन्तु ॥
(अव्परिस्_43,2.38) रक्षांसि तृप्यन्तु ॥
(अव्परिस्_43,2.39) मन्त्रास् तृप्यन्तु ॥
(अव्परिस्_43,2.40) भूतान्य् एवमादीनि तृप्यन्तु ॥
(अव्परिस्_43,2.41) श्रुतिं तर्पयामि ॥
(अव्परिस्_43,2.42) स्मृतिं तर्पयामि ॥
(अव्परिस्_43,2.43) धृतिं तर्पयामि ॥
(अव्परिस्_43,2.44) रतिं तर्पयामि ॥
(अव्परिस्_43,2.45) गतिं तर्पयामि ॥
(अव्परिस्_43,2.46) मतिं तर्पयामि ॥
(अव्परिस्_43,2.47) दिशं तर्पयामि ॥
(अव्परिस्_43,2.48) विदिशं तर्पयामि ॥
(अव्परिस्_43,2.49) श्रद्धामेधे तर्पयामि ॥
(अव्परिस्_43,2.50) धारणां तर्पयामि ॥
(अव्परिस्_43,2.51) गोब्राह्मणांस् तर्पयामि ॥
(अव्परिस्_43,2.52) स्थावरजङ्गमानि तर्पयामि ॥
(अव्परिस्_43,2.53) सर्वान् देवांस् तर्पयामि ॥
(अव्परिस्_43,2.54) सर्वभूतानि तर्पयामि ॥
(अव्परिस्_43,3.1) यज्ञोपवीतं ग्रीवायाम् अवलम्ब्य सनकादिमनुष्यांस् तर्पयति ॥ सनकस् तृप्यतु
(अव्परिस्_43,3.2) सनन्दनस् तृप्यतु ॥
(अव्परिस्_43,3.3) सनातनस् तृप्यतु ॥
(अव्परिस्_43,3.4) कपिलस् तृप्यतु ॥
(अव्परिस्_43,3.5) वोढस् तृप्यतु ॥
(अव्परिस्_43,3.6) आसुरिस् तृप्यतु ॥
(अव्परिस्_43,3.7) पञ्चशिखस् तृप्यतु ॥
(अव्परिस्_43,3.8) सनन्दनं तर्पयामि ॥
(अव्परिस्_43,3.9) ससनकं तर्पयामि ॥
(अव्परिस्_43,3.10) विद्वांसं सनातनं तर्पयामि ॥
(अव्परिस्_43,3.11) सनत्कुमारं तर्पयामि ॥
(अव्परिस्_43,3.12) सनकं तर्पयामि ॥
(अव्परिस्_43,3.13) सहदेवं सनातनं तर्पयामि ॥
(अव्परिस्_43,3.14) प्लुतिं तर्पयामि ॥
(अव्परिस्_43,3.15) पुलस्त्यं तर्पयामि ॥
(अव्परिस्_43,3.16) पुलहं तर्पयामि ॥

(अव्परिस्_43,3.17) भृगुं तर्पयामि ॥
(अव्परिस्_43,3.18) अङ्गिरसं तर्पयामि ॥
(अव्परिस्_43,3.19) मरीचिं तर्पयामि ॥
(अव्परिस्_43,3.20) क्रतुं तर्पयामि ॥
(अव्परिस्_43,3.21) दक्षं तर्पयामि ॥
(अव्परिस्_43,3.22) अत्रिं तर्पयामि ॥
(अव्परिस्_43,3.23) वसिष्ठं तर्पयामि ॥
(अव्परिस्_43,3.24) मानसांस् तर्पयामि ॥
(अव्परिस्_43,3.25) अञ्जली द्विर्द्विः ॥
(अव्परिस्_43,4.1) अथापसव्यं कृत्वा पित्र्यां दिशम् ईक्षमाणः शतर्चिनाद्यृषींस् तर्पयति ॥ शतर्चिनस् तृप्यन्तु ॥
(अव्परिस्_43,4.2) माध्यमिकास् तृप्यन्तु ॥
(अव्परिस्_43,4.3) गृत्समदस् तृप्यतु ॥
(अव्परिस्_43,4.4) विश्वामित्रस् तृप्यतु ॥
(अव्परिस्_43,4.5) अघमर्षणस् तृप्यतु ॥
(अव्परिस्_43,4.6) वामदेवस् तृप्यतु ॥
(अव्परिस्_43,4.7) अत्रिस् तृप्यतु ॥
(अव्परिस्_43,4.8) भरद्वाजस् तृप्यतु ॥
(अव्परिस्_43,4.9) वसिष्ठस् तृप्यतु ॥
(अव्परिस्_43,4.10) प्रगाथास् तृप्यन्तु ॥
(अव्परिस्_43,4.11) पावमान्यस् तृप्यन्तु ॥
(अव्परिस्_43,4.12) क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥
(अव्परिस्_43,4.13) शुनस् तृप्यतु ॥
(अव्परिस्_43,4.14) जैमिनिस् तृप्यतु ॥
(अव्परिस्_43,4.15) वैशम्पायनस् तृप्यतु ॥
(अव्परिस्_43,4.16) पाणिनिस् तृप्यतु ॥
(अव्परिस्_43,4.17) पैलस् तृप्यतु ॥
(अव्परिस्_43,4.18) सुमन्तुस् तृप्यतु ॥
(अव्परिस्_43,4.19) भाष्यगार्ग्यौ तृप्यताम् ॥
(अव्परिस्_43,4.20) बभ्रुबाभ्रव्यौ तृप्यताम् ॥
(अव्परिस्_43,4.21) मण्डुमाण्डव्यौ तृप्यताम् ॥
(अव्परिस्_43,4.22) गार्गी तृप्यतु ॥
(अव्परिस्_43,4.23) वाचक्नवी तृप्यतु ॥
(अव्परिस्_43,4.24) वडवा तृप्यतु ॥
(अव्परिस्_43,4.25) प्रातिथेयी तृप्यतु ॥
(अव्परिस्_43,4.26) सुलभा तृप्यतु ॥
(अव्परिस्_43,4.27) मैत्रेयी तृप्यतु ॥
(अव्परिस्_43,4.28) कहोलं तर्पयामि ॥
(अव्परिस्_43,4.29) कौषीतकिं तर्पयामि
(अव्परिस्_43,4.30) महाकौषीतकिं तर्पयामि ॥
(अव्परिस्_43,4.31) सुयज्ञं तर्पयामि ॥

(अव्परिस्_43,4.32) शाङ्खायनं तर्पयामि ॥
(अव्परिस्_43,4.33) महाशाङ्खायनं तर्पयामि ॥
(अव्परिस्_43,4.34) आश्वलायनं तर्पयामि ॥
(अव्परिस्_43,4.35) ऐतरेयं तर्पयामि ॥
(अव्परिस्_43,4.36) महैतरेयं तर्पयामि ॥
(अव्परिस्_43,4.37) पैठीनसिं तर्पयामि ॥
(अव्परिस्_43,4.38) मधुछन्दांसि तृप्यन्तु ॥
(अव्परिस्_43,4.39) भारद्वाजं तर्पयामि ॥
(अव्परिस्_43,4.40) जातूकर्ण्यं तर्पयामि ॥
(अव्परिस्_43,4.41) पैङ्ग्यं तर्पयामि ॥
(अव्परिस्_43,4.42) महापैङ्ग्यं तर्पयामि ॥
(अव्परिस्_43,4.43) शाकलं तर्पयामि ॥
(अव्परिस्_43,4.44) बाष्कलं तर्पयामि ॥
(अव्परिस्_43,4.45) गार्ग्यं तर्पयामि ॥
(अव्परिस्_43,4.46) माण्डुकेयं तर्पयामि ॥
(अव्परिस्_43,4.47) पैङ्ग्यस् तृप्यतु ॥
(अव्परिस्_43,4.48) महापैङ्ग्यस् तृप्यतु ॥
(अव्परिस्_43,4.49) मदमित्रं तर्पयामि ॥
(अव्परिस्_43,4.50) महामदमित्रं तर्पयामि ॥
(अव्परिस्_43,4.51) औदवाहं तर्पयामि ॥
(अव्परिस्_43,4.52) सौयामिं तर्पयामि ॥
(अव्परिस्_43,4.53) शौनकिं तर्पयामि ॥
(अव्परिस्_43,4.54) पैठीनसिं तर्पयामि ॥
(अव्परिस्_43,4.55) महापैठीनसिं तर्पयामि ॥
(अव्परिस्_43,4.56) शाकपूणिं तर्पयामि ॥
(अव्परिस्_43,4.57) ये चान्य आचार्यास् तान् सर्वांस् तर्पयामि ॥
(अव्परिस्_43,4.58) प्रतिपुरुषं पितरः ॥
(अव्परिस्_43,4.59) पितृवंशस् तृप्यतु ॥
(अव्परिस्_43,4.60) मातृवंशस् तृप्यतु ॥
(अव्परिस्_43,4.61) अञ्जलीं त्रींस्त्रीन् ॥
(अव्परिस्_43,5.1) धरस् तृप्यतु ॥
(अव्परिस्_43,5.2) ध्रुवस् तृप्यतु ॥
(अव्परिस्_43,5.3) सोमस् तृप्यतु ॥
(अव्परिस्_43,5.4) आपस् तृप्यतु ॥
(अव्परिस्_43,5.5) अनलस् तृप्यतु ॥
(अव्परिस्_43,5.6) अनिलस् तृप्यतु ॥
(अव्परिस्_43,5.7) प्रत्यूषस् तृप्यतु ॥
(अव्परिस्_43,5.8) प्रभासस् तृप्यतु ॥ इति वसवः ॥
(अव्परिस्_43,5.9) मृगव्याधस् तृप्यतु ॥
(अव्परिस्_43,5.10) सर्पस् तृप्यतु ॥

(अव्परिस्_43,5.11) निरृतिर् महाशयस् तृप्यतु ॥
(अव्परिस्_43,5.12) अज एकपात् तृप्यतु ॥
(अव्परिस्_43,5.13) अहिर् बुध्न्यस् तृप्यतु ॥
(अव्परिस्_43,5.14) पिनाकी परंतपस् तृप्यतु ॥
(अव्परिस्_43,5.15) भुवनस् तृप्यतु ॥
(अव्परिस्_43,5.16) ईश्वरस् तृप्यतु ॥
(अव्परिस्_43,5.17) कपाली महाद्युतिस् तृप्यतु ॥
(अव्परिस्_43,5.18) स्थाणुस् तृप्यतु ॥
(अव्परिस्_43,5.19) भवो भगवांस् तृप्यतु ॥ इति रुद्राः
(अव्परिस्_43,5.20) भगस् तृप्यतु ॥
(अव्परिस्_43,5.21) अंशस् तृप्यतु ॥
(अव्परिस्_43,5.22) अर्यमा तृप्यतु ॥
(अव्परिस्_43,5.23) मित्रस् तृप्यतु ॥
(अव्परिस्_43,5.24) वरुणस् तृप्यतु ॥
(अव्परिस्_43,5.25) सविता तृप्यतु ॥
(अव्परिस्_43,5.26) धाता तृप्यतु ॥
(अव्परिस्_43,5.27) त्वष्टा तृप्यतु ॥
(अव्परिस्_43,5.28) पूषा तृप्यतु ॥
(अव्परिस्_43,5.29) विवस्वान् महाबलस् तृप्यतु ॥
(अव्परिस्_43,5.30) इन्द्रस् तृप्यतु ॥
(अव्परिस्_43,5.31) विष्णुस् तृप्यतु ॥
(अव्परिस्_43,5.32) कव्यवालं तर्पयामि ॥
(अव्परिस्_43,5.33) अनलं तर्पयामि ॥
(अव्परिस्_43,5.34) अनिलं तर्पयामि ॥
(अव्परिस्_43,5.35) सोमं तर्पयामि ॥
(अव्परिस्_43,5.36) यमं तर्पयामि ॥
(अव्परिस्_43,5.37) अर्यमणं तर्पयामि ॥
(अव्परिस्_43,5.38) अग्निष्वात्तांस् तर्पयामि ॥
(अव्परिस्_43,5.39) सोमपांस् तर्पयामि ॥
(अव्परिस्_43,5.40) बर्हिषदस् तर्पयामि ॥ इति देवपितरः ॥
(अव्परिस्_43,5.41) यमाय नमो
(अव्परिस्_43,5.42) धर्मराजाय नमो
(अव्परिस्_43,5.43) मृत्यवे नमो
(अव्परिस्_43,5.44) अन्तकाय नमो
(अव्परिस्_43,5.45) वैवस्वताय नमः
(अव्परिस्_43,5.46) कालाय नमश्
(अव्परिस्_43,5.47) चित्राय नमश्
(अव्परिस्_43,5.48) चित्रगुप्ताय नमः
(अव्परिस्_43,5.49) सर्वभूतक्षयाय नमः
(अव्परिस्_43,5.50) कृताय नमः

(अव्परिस्_43,5.51) कृतान्ताय नमो
(अव्परिस्_43,5.52) महोदराय नमो
(अव्परिस्_43,5.53) धात्रे नमो
(अव्परिस्_43,5.54) विधात्रे नमो
(अव्परिस्_43,5.55) यमेभ्यो नमो
(अव्परिस्_43,5.56) यमदूतेभ्यो नमः ॥
(अव्परिस्_43,5.57) विश्वेशास् तृप्यन्तु ॥
(अव्परिस्_43,5.58) सिकतास् तृप्यन्तु ॥
(अव्परिस्_43,5.59) पृश्निजास् तृप्यन्तु ॥
(अव्परिस्_43,5.60) नीलास् तृप्यन्तु ॥
(अव्परिस्_43,5.61) शृङ्गिणस् तृप्यन्तु ॥
(अव्परिस्_43,5.62) श्वेतास् तृप्यन्तु ॥
(अव्परिस्_43,5.63) कृष्णास् तृप्यन्तु ॥
(अव्परिस्_43,5.64) अजास् तृप्यन्तु ॥ इति यमदूताः ॥
(अव्परिस्_43,6.1) यां कां चित् सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर् मिश्रान् दद्यात् त्रीन् उदकाञ्जलीन् ॥
(अव्परिस्_43,6.2) आ यातेति हि तिसृभिः पितॄन् आवाहयेत् ततः । उद् ईरताम् इति तिसृभिः पितृभ्यो दद्यात् तिलोदकम् ॥
(अव्परिस्_43,6.3) नाभिमात्रे जले स्थित्वा चिन्तयेन् मनसा पितॄन् । तथा मातामहेभ्यश् च शुचौ देशे ऽथ बर्हिषि ॥
(अव्परिस्_43,6.4) परा यातेत्य् एतया पितॄंस् तृप्तान् विसर्जयेत् । मनो न्व् आ ह्वामहीत्य् एवं पञ्चभिर् मन उपाह्वयेत ॥
(अव्परिस्_43,6.5) एतद्द् हि तर्पणं श्रेष्ठं स्वयम् उक्तं स्वयंभुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥
(परिशिष्ट_44. श्राद्धविधिः)
(अव्परिस्_44,1.1) ओम् अथातः श्राद्धविधिं व्याख्यास्यामः ॥
(अव्परिस्_44,1.2) चतुष्प्रकारं श्राद्धं भवति ॥
(अव्परिस्_44,1.3) नित्यम् आभ्युदयिकं काम्यम् एकोद्दिष्टं चेति ॥
(अव्परिस्_44,1.4) तत्र नित्यम् अमावास्यायाम् ॥
(अव्परिस्_44,1.5) आभ्युदयिकं मातृपूर्वकं पुंसवनादिषु संस्कारेषु ॥
(अव्परिस्_44,1.6) काम्यं तिथिद्रव्यब्राह्मणसंयोगे ॥
(अव्परिस्_44,1.7) एकोद्दिष्टं संचयनप्रभृत्य् आ सपिण्डीकरणात् ॥
(अव्परिस्_44,1.8) तत्र नित्ये युग्मान् दैवे ब्राह्मणान् उपामन्त्रयेत् ॥
(अव्परिस्_44,1.9) आभ्युदयिके उभयत्र युग्मान् ॥
(अव्परिस्_44,1.10) यवैस् तिलार्था ऋजवो दर्भाः प्रदक्षिणं कुर्यात् ॥
(अव्परिस्_44,1.11) काम्यं तु नित्यवत् ॥
(अव्परिस्_44,1.12) अथैकोद्दिष्टं तूष्णीं यावद् उक्तम् ॥
(अव्परिस्_44,1.13) नाग्नेवं न दैवम् अयुग्मान्ब्राह्मणान् ॥
(अव्परिस्_44,1.14) दक्षिणामुख उपविश्य पित्र्येणोपचर्यैकं पवित्रम् एकम् उदपात्रम् अप्रत्यावृत्तिम् आसनं नामगोत्रेणैकं पिण्डम् एतत् ते अन्नम् इति ॥
(अव्परिस्_44,2.1) श्वे ऽद्येति वा श्राद्धं करिष्यामीति ब्राह्मणान् उपामन्त्रयेत् ॥
(अव्परिस्_44,2.2) त्रीन् पञ्च सप्त वा न प्रसज्येत विस्तर इति वचनात् ॥
(अव्परिस्_44,2.3) प्राङ्मुखान् विश्वेदेवान् उदङ्मुखान् पितॄन् ॥
(अव्परिस्_44,2.4) वेदवेदाङ्गविदः पञ्चाग्निर् अनूचानो ऽव्यवहारी श्रोत्रियस् त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णी छन्दोगो ज्येष्ठसामगो ऽथर्वशिरसो ऽध्येता संध्यास्नायी देवपितृसदाह्निको मातृपितृशुश्रूषुर् भृग्वङ्गिरोविद् धर्मशास्त्रविद् इति ॥
(अव्परिस्_44,2.5) प्रयतो ऽपराह्णे शुचिः शुक्लवासाः ॥
(अव्परिस्_44,2.6) स्वागतेनाभ्यर्च्याचमनीयं कृत्वा दत्त्वा ब्राह्मणान् उपसंगृह्योपवेशयेद्

(अव्परिस्_44,2.7) दैवे पित्र्ये च सदर्भेष्व् आसनेषु
(अव्परिस्_44,2.8) ततो ऽनुज्ञापयेद् देवान् पितॄंश् चावाहयिष्यामीति
(अव्परिस्_44,2.9) आवाहय सौम्यास् ते सन्त्व् इत्य् अनुज्ञातः पूर्वं देवान् आवाहयेद् विश्वे देवास आ गतेति ॥
(अव्परिस्_44,2.10) विश्वे देवास आ गत शृणुता म इमं हवम् । एदं बर्हिर् नि षीदत इति ॥
(अव्परिस्_44,2.11) आ यातेति पितॄन् आवाहयेद् आच्या जान्व् इत्य् उपवेशयेत् सं विशंत्व् इति संवेशयेद् इति ॥
(अव्परिस्_44,3.1) यज्ञोपवीती सावित्र्योदपात्रम् अभिमन्त्र्य
(अव्परिस्_44,3.2) विश्वेभ्यो देवेभ्यः पादयम् अर्घ्यम् आचमनीयम् इति ब्राह्मणहस्तेषु निनयेत् ॥
(अव्परिस्_44,3.3) त्रीण्य् उदपात्राणि कल्पयेद् गन्धमाल्यतिलैर् मिश्राणि कृत्वाऽ
(अव्परिस्_44,3.4) ऽउद् ईरताम् इति तिसृभिर् उदपात्राण्य् अन्वृचं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत् ॥
(अव्परिस्_44,3.5) प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यश् चेति दत्त्वा
(अव्परिस्_44,3.6) गन्धमाल्यधूपाञ्जनादर्शप्रदीपस्योपहरनम्
(अव्परिस्_44,3.7) सर्वान्नप्रकारम् आदायाग्नौ करिष्यामीत्य् अनुज्ञाप्य कुरुष्वेत्य् अनुज्ञातो दर्भैर् दक्षिणाग्रैर् अग्निं परिस्तीर्य जुहुयाद् अग्नये कव्यवाहनायेति तिसृभिर्
(अव्परिस्_44,3.8) हुतशेषं ब्राह्मणेभ्यो दद्याद्
(अव्परिस्_44,3.9) अङ्गुष्ठम् उपयम्य प्रदक्षिणं दैवे प्रसव्यं पित्र्य इदं विष्णुर् इति जपेज् जानुं निषद्य भूमाव्
(अव्परिस्_44,3.10) अतस् तिलैर् मांसैः शाकैर् युषैः कृसरापायसापूपैर् लाजैर् भक्षैर् इक्षुविकारैः पानैर् मधुना घृतेन दध्ना पयसा चैव प्रभूतमृष्टतो ऽन्नं दद्याद् अनसूयः ॥
(अव्परिस्_44,4.1) पवित्रपाणिर् धर्भेष्व् आसीनो मधु वाता इति जपेत्
(अव्परिस्_44,4.2) पवित्रं धर्मशास्त्रम् अप्रतिरथं प्राणसूक्तं पुरुषसूक्तम् उपनिषदम् अन्यद् वाध्यात्मिकं किं चित्
(अव्परिस्_44,4.3) तृप्ताञ् ज्ञात्वान्नं प्रकीर्य दत्त्वा चापः सकृत्सकृद् अन्नं ये ऽग्निदग्धा इति विकिरम् ॥
(अव्परिस्_44,4.4) दर्भिर् आस्तीर्य द्युऔर् दर्विर् अक्षितेति तिसृभिः सर्वान्नप्रकारम् उद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान् निदधात्य्
(अव्परिस्_44,4.5) एतत् ते प्रततामहेति दक्षिणतः पत्नीभ्य इदं वः पत्न्या इतीदम् आशंसूनाम् इदम् आशंसमानानाम् इत्य् अन्नेन प्रसव्यं परिकिरनम् ॥ ये दस्यव इत्य् उल्मुकेनाभिपरिहरणम्
(अव्परिस्_44,4.6) एकोद्दिष्टे त्व् एकं पिण्डम् एकम् उदपात्रम् आचम्योपोत्थाय एतं भागम् एतं सधस्थाः श्येनो नृचक्षा इति च श्राद्धं दत्त्वाभिमन्त्रयेच् छेषम्
(अव्परिस्_44,4.7) अनुज्ञाप्याचमनीयं दत्त्वा पुण्याहं वाचयेद् दक्षिणां च दत्त्वा यथाशक्त्य् उदपात्रशेषं सपवित्रेषु ब्राह्मणहस्तेषु निनयेत्
(अव्परिस्_44,4.8) पुत्रं पौत्रम् इत्य् एकम् आपो अग्निम् इति द्वितीयं युक्ताभ्यां तृतीयं पुत्रं पौत्रम् इत्य् एकयोदपात्रम् इति कौशिकः ॥
(अव्परिस्_44,4.9) प्रपितामहेभ्यः पितामहेभ्यः पितृभ्यो मातुलमातामहेभ्यो निर्दिष्टं तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावद् अक्षय्यम् अस्त्व् अक्षय्यम् अस्त्व् इति व्राह्मणवचनम् ॥
(अव्परिस्_44,4.10) दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च । श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इत्य्
(अव्परिस्_44,4.11) एवं वरान् वाचयित्वा नमो वः पितर इत्य् एवमादि मनो न्व् आ ह्वामहीत्य् एवमन्तं समानं पिण्डपितृयज्ञेन मध्यमपिण्डप्रदानं चेति ॥
(अव्परिस्_44,4.12) वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
(अव्परिस्_44,4.13) इति ब्राह्मणान् हस्तेषु गृहीत्वोत्थाप्य प्रदक्षिणं कुर्याद्
(अव्परिस्_44,4.14) एष श्राद्धविधिर् अनेन विधिना पुत्रान् पशून् धान्यं हिरण्यम् आयुश् च लभते य एवं वेदेति च ब्राह्मणम् ॥
(अव्परिस्_44,4.15) माहकिः कौशिकाच् च माहकिः कौशिकाच् चेति ॥
(परिशिष्ट_45. अग्निहोत्रहोमविधिः)
(अव्परिस्_45,1.1) ओम् अग्निहोत्रम् ॥
(अव्परिस्_45,1.2) सायम् आरम्भः प्रातर् अपवर्गः ॥
(अव्परिस्_45,1.3) नान्तरेणान्यत् कुर्यात् ॥
(अव्परिस्_45,1.4) प्रातर् आरम्भमित्य् एके ॥
(अव्परिस्_45,1.5) यज्ञपात्राणि प्रक्षाल्याग्निहोत्रं श्रपयेत् ॥
(अव्परिस्_45,1.6) श्रप्यमाणं चेद् विष्यन्देत् तद् अद्भिर् उपनिनयेत्
(अव्परिस्_45,1.7) तद् अनुमन्त्रयते पृथिवीं तुरीयम् इत्य् एताभिः
(अव्परिस्_45,1.8) प्रत्यानीयोदग् उद्वास्य बर्हिर् उदपात्रम् उन्दयति पर्युक्ष्य ॥
(अव्परिस्_45,1.9) ऋतं त्वा सत्येन परिषिञ्चामीति होष्यन् ॥

(अव्परिस्_45,1.10) सत्यं त्व र्तेनेति हुते ॥
(अव्परिस्_45,1.11) गार्हपत्याद् आहवनीयम् उदकधारां निनयति ॥ अमृतम् अस्य् अमृतम् अमृतेन संधेहीति ॥
(अव्परिस्_45,1.12) आहवनीयं पर्युक्ष्य गार्हपत्यं प्राप्याङ्गारान् अवलोड्य चरुस्थाल्या संस्पर्शयति ॥
(अव्परिस्_45,1.13) निरूढं जपत्य् उभयम् इति प्रत्यूढम् इति प्रतिनिनयति
(अव्परिस्_45,1.14) स्रुवं स्रुचं च प्रतितपति निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्य्
(अव्परिस्_45,1.15) अद्भिर् अभ्युक्ष्य चरुस्थाल्यां स्रुवेण स्रुचि गृहीतम् इति समानम्
(अव्परिस्_45,1.16) स्रुचम् आदाय <मुखसंमिताम् उद्> गृह्याहवनीयम् अभिक्रामतीदम् अहं यजमानं स्वर्गं लोकम् उन्नयामीति ॥
(अव्परिस्_45,1.17) बर्हिषि स्रुचं निधाय समिधम् आदधाति ॥
(अव्परिस्_45,1.18) अग्निज्योतिषं त्वा वायुमतीं प्राणवतीं स्वर्ग्यां स्वर्गायोपदधामि भास्वतीं स्वाहेति <सायम् ॥ सूर्यज्योतिषम् इति प्रातः> ॥
(अव्परिस्_45,1.19) समिधं प्रदीप्ताम् अभिजुहोति ॥
(अव्परिस्_45,1.20) सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या जुषाणो अग्निर् वेतु स्वाहेति सायम् ॥
(अव्परिस्_45,1.21) सजूर् देवेन सवित्रा सजूर् उषसेन्द्रवत्या जुषाणः सूर्यो वेतु स्वाहेति प्रातर्
(अव्परिस्_45,1.22) आहुतिर् उदयहोमे ऽग्नेर् एव
(अव्परिस्_45,1.23) ज्योतिष्मान् उदेत्य् आयंतनताम् इति ॥
(अव्परिस्_45,1.24) प्रजापते न त्वद् एतान्य् अन्य इति मनसैवोभयत्र प्राजापत्योत्तराभुतीर् हुत्वा
(अव्परिस्_45,1.25) स्रुवं त्रिर् उदञ्चम् उन्नयति रुद्रान् प्रीणामीति
(अव्परिस्_45,1.26) बर्हिषि स्रुवं निधायोन्मृज्य
(अव्परिस्_45,1.27) पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां करोमीति ॥
(अव्परिस्_45,2.1) हुतम् अग्निहोत्रं सर्वेष्व् इत्य् एके ॥
(अव्परिस्_45,2.2) चरुस्थाल्याः स्रुवेण ॥
(अव्परिस्_45,2.3) इह पुष्टिं पुष्टिपतिर् दधात्व् इह प्रजां जनयतु प्रजापतिः । अग्नये गृहपतये रयिमते पशुपतये पुष्टिपतये स्वाहेति गार्हपत्ये ॥
(अव्परिस्_45,2.4) अग्नये ऽन्नादायान्नपतये स्वाहेति दक्षिणाग्नौ हुत्वा ॥
(अव्परिस्_45,2.5) मनसैवोभयत्र प्रजापतेश् चरुस्थाली
(अव्परिस्_45,2.6) स्रुचं स्रुवं बर्हिष्य् आधायोत्तरतो ऽग्नेर् उपविश्य प्राश्नाति ॥
(अव्परिस्_45,2.7) प्राणान् प्रीणामीत्य् उपस्पृश्य गर्भान् प्रीणामीति द्वितीयं विश्वान् देवान् प्रीणामीत्य् अन्ततः सर्वम्
(अव्परिस्_45,2.8) अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् प्रीणामीति
(अव्परिस्_45,2.9) बर्हिषा प्रक्षाल्य सर्पपुण्यजनान् प्रीणामीति द्वितीयम् ॥
(अव्परिस्_45,2.10) गन्धर्वाप्सरसः प्रीणामीति अपरेणाहवनीयम् उदकं तृतीयम् ॥
(अव्परिस्_45,2.11) सप्त र्षीन् प्रीणामीति स्रुचं स्रुवं च प्रतितपति
(अव्परिस्_45,2.12) दक्षिणान् नयामीति रात्रौ स्रुग्दण्डम् अवमार्ष्टि ॥
(अव्परिस्_45,2.13) प्रातर् उन्मार्ष्टि ॥
(अव्परिस्_45,2.14) इत्य् उक्तं समिदाधानम्
(अव्परिस्_45,2.15) अग्न्युपस्थानम् ॥ रात्रिं रात्रिम् अप्रयातं भरन्त इति ॥
(अव्परिस्_45,2.16) यथाकालं सायम्सायं गृहपतिर् अयं नो अग्निर् इति द्वे
(अव्परिस्_45,2.17) गार्हपत्यपश्चाद् दुग्धान्नस्याग्निहोत्रश्रपणी विधीयते ॥
(अव्परिस्_45,2.18) यज्ञ ते वेद पृष्ठम् इत्य् एतयालभ्याभिमन्त्रयते ॥
(अव्परिस्_45,2.19) उखायं स्रवन्त्यां स मर्दकर्मभ्यो ऽन्यस्यां दृढतरायां प्रत्यासिच्य सुता देवेष्व् इत्य् अनुमन्त्रयते ॥
(अव्परिस्_45,2.20) एवं सर्वासूखासु सोमकलशमहावीरे वा
(अव्परिस्_45,2.21) अथ यस्याग्निहोत्रधेन्वादि व्यापद्येत । तत्र यथादेवतं जुहुयाद् अप्रतिभावे व्याहृतिभिः ॥
(परिशिष्ट_46. उत्तमपटलम्)

(अव्परिस्_46,1.1) अथ वेदव्रतस्यादेशनविधिं व्याख्यास्यामः ॥
(अव्परिस्_46,1.2) सांवत्सरिकं वेदव्रतम् ॥
(अव्परिस्_46,1.3) कल्पानां षाण्मासिकम् ॥
(अव्परिस्_46,1.4) रोमनखानि धारयेत् त्रिषवणं तु स्नायाद् धविष्यम् अश्नीयान् न तु नक्तम् अणून् माशान् मसूरांस् तु ॥
(अव्परिस्_46,1.5) दण्डमथितम् उद्धृतस्नेहं नाशीयात् ॥
(अव्परिस्_46,1.6) दण्डकमण्डलुधारणं वासश् चाथोर्णम्
(अव्परिस्_46,1.7) शिरस्व्रतं च सांवत्सरिकं वेदव्रतेनैव व्याख्यातम् ॥
(अव्परिस्_46,1.8) अथ प्रमाणानि वक्ष्यामो
(अव्परिस्_46,1.9) यमानां मित्रस्य मृगार्थस्याक्षीराक्षारभोजनम् अयुग्मम् आछादनम् अनन्तर्हिता शय्या
(अव्परिस्_46,1.10) मृगार्थेष्व् अविशेषेण यमेषु सर्वम् एव शमीधान्यं न भुञ्जीता
(अव्परिस्_46,1.11) अथोपसमादधाति ॥
(अव्परिस्_46,2.1) समास् त्वास्मै क्षत्राण्य् एतम् इध्मम् अग्निर् भूम्याम् इति तिसृभिर् ममाग्ने वर्च इति सर्वसूक्तेनायुष्यैर् वर्चस्यैः स्वस्त्ययनैर् अभयैर् अपराजितैः शर्मवर्मभिश् चोपसमादधाति ॥
(अव्परिस्_46,2.2) व्रतं निवेद्य व्रातपतीभिः समिधो ऽभ्यादध्याद्
(अव्परिस्_46,2.3) आङ्गिरसान् समासान् हुत्वा भार्गवैर् विपर्यस्ताम् आङ्गिरसीम्
(अव्परिस्_46,2.4) वेदादिभिर् वेदोत्तमैः वर्गादिभिर् वर्गोत्तमैः पदादिभिः पदोत्तमैः काण्डादिभिः काण्डोत्तमैर् अनुवाकादिभिर् अनुवाकोत्तमैर् महत्काण्डैर् विशेषेण सूक्तादिभिः सूक्तोत्तमैर्
(अव्परिस्_46,2.5) अत्रैतान्य् अष्टर्चप्रभृतीनि व्याख्यातानि ॥
(अव्परिस्_46,2.6) ब्रह्मज्येष्ठेति एका कामोजज्ञे कामस् तद् इति हुत्वा
(अव्परिस्_46,2.7) कल्पव्रते विशेषो वचनकर्मसु ब्राह्मणं श्रावयेत् ॥
(अव्परिस्_46,2.8) केशीब्राह्मणं च
(अव्परिस्_46,2.9) येषु व्रतविशेषः स्यान् न तान् मन्त्रान् उदाहरेत् समासवत् स होतव्यः पुराणार्थं विजानता ॥
(अव्परिस्_46,3.1) अग्निम् ईले पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारं रत्नधातमम् ॥
(अव्परिस्_46,3.2) तच् छं योर् आवृणीमहे गातुं यज्ञाय गातुं यज्ञपतये । दैवी स्वस्तिर् अस्तु नः स्वस्तिर् मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
(अव्परिस्_46,3.3) इषे त्वोर्जे त्वा वायव स्थोपायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वम् अघ्न्या इन्द्राय भागम् [ऊर्जस्वतीः पयस्वतीः] प्रजावतीर् अनमीवा अयक्ष्मा मा व स्तेन ईशत माघशंसो रुद्रस्य हेतिः परि वो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर् यजमानस्य पशून् पाहि ॥
(अव्परिस्_46,3.4) दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयुम्षि तारिषत् ॥
(अव्परिस्_46,3.5) अग्न आ याहि वीतये गृणानो गव्यदातये । नि होता सत्सि बर्हिषि ॥
(अव्परिस्_46,3.6) एष स्य ते धारया सुतो ऽव्यो वारेभिर् यवने मदितव्यम् । क्रीडन् रश्मिर् अपार्थिवः ॥
(अव्परिस्_46,4.1) ये त्रिषप्ता वस्योभूयाय ये त्रिषप्ता मर्माणि ते वस्योभूयाय ये त्रिषप्ता ये दिशां मर्माणि ते यां देवा वस्योभूयाय ये त्रिषप्ताः समानां मासाम् आ ते नयत्व् आ अर्जन्यस्य ये दिशां कृत्याकृतं वलगिनम् अक्षितास् ते मर्माणि ते विषम् एवेन्द्रं मित्रं वशां देवा यां देयाः सूर्य एनम् अन्नाद्येन यशसा प्र बुध्यस्वाह्ना प्रत्यग् वस्योभूयाय ॥
(अव्परिस्_46,5.1) ये त्रिषप्ताः शं न आपो यथा वातो यदि नो गां हंस्य् अपेन्द्र द्विषतः पुत्रम् अत्तु समानां वृषायमाणः सूर्यम् ऋतं परिपाणम् अस्य् आ हरामिये क्रिमय
(अव्परिस्_46,5.2) आ ते नयतु पर्णो ऽसीन्द्रपुत्रे विश्वाहा ते गोसनिं व्य् अस्मै मित्रावरुणाव् आ पर्जान्यस्य स्वप्न स्वप्नाभिकरएन देवानाम् अस्थि महान्तं कोशं यो अन्तरिक्षेणोप श्रेष्ठा अहम् एव वात इवाव बाधे ये दिशाम्
(अव्परिस्_46,5.3) अर्धम् अर्धेनैवा महान् अर्वाञ्चम् इन्द्रं शीर्षामयम् उपहत्याम् अश्वस्याश्न इन्द्रस्य वरूथं हिरण्यवर्णा सुभगा अत्रैनान् इन्द्रोद् आयुर् उद् बृहता मनो
(अव्परिस्_46,5.4) देवो देवाय सद्यो जातस् तस्तुवन्न् अग्निर् इवैतु शतं च मे यद्य् एकादशो ऽसि नास्य धेनुर् इषुर् इव दिग्धा न वर्षम् अच्युतच्युद् एता देवसेना
(अव्परिस्_46,5.5) गन्धारिभ्यः सर्वेषां च क्रिमीणां ततस् ततामहाः प्रजापते श्रेष्ठेनाश्विना ब्रह्मणाग्ने स्वाहा घृताद् उल्लुप्तं तार्ष्टाघीर् अयं लोकः कृत्याक्र्तं वलगिनम् ॥
(अव्परिस्_46,6.1) दिवे चक्षुषे अयं नस् त्रिंशद् धाम मा नो हासिषुर् यत् किं चेदम् अहं जजान यावदङ्गीनं यस् ते ऽङ्कुशस् तानूष् टे वाजिन्न् आञ्जनस्य द्वादशधा
(अव्परिस्_46,6.2) अभ्यञ्जनम् अक्षितास् ते यावन्तो मा ब्रध्नः समीचीर् यदि वासि बृहस्पतिर् नो यो नः शपात् सूयवसाद् यं देवा यथा शेपो नमस्कृत्य मर्माणि ते अग्नेः शरीरम्
(अव्परिस्_46,6.3) प्रति चक्ष्वाप्रजास्त्वम् इतो जय [यत् प्रत्याहन्ति] विषम् एव यास् ते शिवा एतं वो युवानं ज्योतिष्मतो लोकान् सं ते शीर्ष्ण इन्द्रं मित्रं प्रभ्राजमानाम् आरे अभूद्
(अव्परिस्_46,6.4) एतम् इध्मम् अकामो धीरो वशां देवा नमस् ते घोषिणीभ्यः प्राण मा मद् यन् मातली अप्सु स्तीमासु यां देवा भूमे मातः प्रत्यञ्चम् अर्कम् ऊर्ध्वायै त्वा यदि हुताम्
(अव्परिस्_46,6.5) सूर्य एनं यो यज्ञस्याबोध्य् अग्निः कृष्णायाः पुत्रो अन्नाद्येन यशसा ब्रह्मापरं प्र बुध्यस्वैनं श्रद्धा अह्ना प्रत्यं शक्वरी स्थ वस्योभूयाय ॥
(अव्परिस्_46,7.1) व्रतैर् भृग्वङ्गिरःप्रोक्तैर् आनुपूर्व्याद् विधानतः । उपसन्ने गुरुः कुर्याद् व्रतविद् ब्रह्मचारिणि ॥
(अव्परिस्_46,7.2) ग्रामाद् यथोक्तं बाह्येन स्थण्डिले ऽग्निं प्रणीय तु । नित्येनोपसमाधाय संस्कृत्य जुहुयाद्द् हविः ॥
(अव्परिस्_46,7.3) औपगव्या व्याहृतयः सावित्री शान्तिर् एव च । व्रातपत्यः समासौ च तन्मन्त्रांहोमुचैः सह ॥

(अव्परिस्_46,7.4) कूष्माण्ड्यः कामसूक्तं च ब्रह्मवत्यो ऽथ देवताः । व्रतादेशे तथोत्सर्गे होमः क्षीरोदनः स्मृतः ॥
(अव्परिस्_46,7.5) उत्सर्गे कामसूक्तं च पूर्वां चाहुतिम् उद्धरेत् । निवेद्य व्रातपत्यो ऽन्ते इदावत्सर एव च ॥
(अव्परिस्_46,8.1) आवर्तनान्तं सामान्यं व्याहृत्याद्य् उभयोर् अपि । एतत् सामासिकं प्रोक्तम् आदेशोद्दीक्षणं बुधैः ॥
(अव्परिस्_46,8.2) व्रतेषु दक्षिणा धेनुः कल्याणी तरुणी च या । अनड्वान् वा धुरंधरस् तत्समं वापि काञ्चनम् ॥
(अव्परिस्_46,8.3) सावित्र्या अथ वेदस्य कल्पानां तदनन्तरम् । मैलं मैलोत्तरं चैव षष्ठं संमितम् उच्यते ॥
(अव्परिस्_46,8.4) षड्व्रतं ब्राह्मणं विद्यात् त्रिव्रतं क्षत्रियं विदुः । द्विव्रतस् तु भवेद् वैश्य एतद् आचार्यशासनम् ॥
(अव्परिस्_46,8.5) विषासहिं सहमानम् अग्निर् मा गोप्ता ओ चित् सखायम् इत एत उदारुहन् धनुर् हस्ताद् एतद् आ रोह चन्द्रमा अप्स्व् इति ॥
(अव्परिस्_46,9.1) ओम् आङ्गिरसानाम् आद्यैः पञ्चानुवाकैः स्वाहा ॥
(अव्परिस्_46,9.2) षष्ठाय स्वाहा ॥
(अव्परिस्_46,9.3) सप्तमाष्टमाभ्यां स्वाहा ॥
(अव्परिस्_46,9.4) नीलनखेभ्यः स्वाहा ॥
(अव्परिस्_46,9.5) हरितेभ्यः स्वाहा ॥
(अव्परिस्_46,9.6) क्षुद्रेभ्यः स्वाहा ॥
(अव्परिस्_46,9.7) पर्यायिकेभ्यः स्वाहा ॥
(अव्परिस्_46,9.8) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥
(अव्परिस्_46,9.9) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥
(अव्परिस्_46,9.10) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥
(अव्परिस्_46,9.11) उपोत्तमेभ्यः स्वाहा ॥
(अव्परिस्_46,9.12) उत्तमेभ्यः स्वाहा ॥
(अव्परिस्_46,9.13) उत्तरेभ्यः स्वाहा ॥
(अव्परिस्_46,9.14) ऋषिभ्यः स्वाहा ॥
(अव्परिस्_46,9.15) शिखिभ्यः स्वाहा ॥
(अव्परिस्_46,9.16) गणेभ्यः स्वाहा ॥
(अव्परिस्_46,9.17) महागणेभ्यः स्वाहा ॥
(अव्परिस्_46,9.18) सर्वेभ्यो ऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥
(अव्परिस्_46,9.19) पृथक् सहस्राभ्यां स्वाहा ॥
(अव्परिस्_46,9.20) ब्रह्मणे स्वाहा ॥
(अव्परिस्_46,9.21) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥
(अव्परिस्_46,10.1) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥
(अव्परिस्_46,10.2) पञ्चर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.3) षडर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.4) सप्तर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.5) अष्टर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.6) नवर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.7) दशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.8) एकादशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.9) द्वादशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.10) त्रयोदशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.11) चतुर्दशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.12) पञ्चदशर्चेभ्यः स्वाहा ॥

(अव्परिस्_46,10.13) षोडशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.14) सप्तदशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.15) अष्टादशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.16) एकनविंशर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.17) विंशतिः स्वाहा ॥
(अव्परिस्_46,10.18) महत्काण्डाय स्वाहा ॥
(अव्परिस्_46,10.19) तृचेभ्यः स्वाहा ॥
(अव्परिस्_46,10.20) एकर्चेभ्यः स्वाहा ॥
(अव्परिस्_46,10.21) क्षुद्रेभ्यः स्वाहा ॥
(अव्परिस्_46,10.22) एकानृचेभ्यः स्वाहा ॥
(अव्परिस्_46,10.23) रोहितेभ्यः स्वाहा ॥
(अव्परिस्_46,10.24) सूर्याभ्यां स्वाहा ॥
(अव्परिस्_46,10.25) व्रात्याभ्यां स्वाहा ॥
(अव्परिस्_46,10.26) प्राजापत्याभ्यां स्वाहा ॥
(अव्परिस्_46,10.27) विषासह्यै स्वाहा ॥
(अव्परिस्_46,10.28) मङ्गलिकेभ्यः स्वाहा ॥
(अव्परिस्_46,10.29) ब्रह्मणे स्वाहा ॥
(अव्परिस्_46,10.30) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान । भूतानां ब्रह्मा प्रथमो ऽथ जज्ञे तेनार्हति ब्रह्मना स्पर्धितुं क इति ॥
(परिशिष्ट_47. वर्णपटलम्)
(अव्परिस्_47,1.1) ओं वर्णान् पूर्वं व्याख्यास्यामः प्राकृता ये च वैकृताः । श्रुतिनिर्वचनात् सर्वे विवदन्ते विवृत्तिषु ॥
(अव्परिस्_47,1.2) वृत्तिः करणं वर्णानां कर्णयोस् तु श्रुतिर् यथा । श्रुतिप्रदेशाद् विमतस् तद् यथा वर्ण उच्यते ॥
(अव्परिस्_47,1.3) समानसंध्यक्षराणि स्पर्शा अन्तःस्था ऊष्माणः । एतैर् अन्ये न दृश्यन्ते एतावान् वर्णसंचयः ॥
(अव्परिस्_47,1.4) [येषां च श्रुतिसंहितायां विभागे असदृशी स्यात् ॥ तान् एव वर्नान् विरुद्रादये च प्रदिसे कृतः] ॥
(अव्परिस्_47,1.5) ये वर्णाभ्यां श्रूयन्ते च येषां नास्ति विभागतः । मानसांश् चापि संग्राह्यान् उपदेशेन वर्तयेत् ॥
(अव्परिस्_47,1.6) क्रान्तान् बहिर् निधानस्य यमांश् चाननुनासिकान् । सव्याक्षेपं ततो वर्णान् उपदेशेन वर्तयेत् ॥
(अव्परिस्_47,1.7) इति वर्णाः स्वराः प्रोक्तास् तेषाम् आद्याश् चतुर्दश । समानाक्षराण्य् उच्यन्ते शेषः संध्यक्षराणि तु ॥
(अव्परिस्_47,1.8) अनवर्णस्वरो नामि कादयो व्यञ्जनं स्मृतम् । पञ्चविंशतिर् आद्यैषां स्पर्शा वर्गाश् च पञ्चकाः ॥
(अव्परिस्_47,1.9) चत्वारो यादयो ऽन्तःस्थाः शादिर् ऊष्माष्टको गणः । अयोगवाहा वर्तन्ते तेषाम् आद्याः पृथग्विधाः ॥
(अव्परिस्_47,1.10) विसर्जनीयो ऽनुस्वारो जिग्वामूलीय [इत्य् अधः] । उपध्मानीय इत्य् एते चत्वारो ऽथ परे यमाः ॥
(अव्परिस्_47,1.11) नासिक्याभिनिधानौ च विद्यते येन पूरणम् । पञ्चषष्टिर् इयान् वाचो राशिर् यो वेदलोकयोः ॥
(अव्परिस्_47,1.12) मुखनासिके ये वर्णा उच्यन्ते ते ऽनुनासिकाः । समानास्यप्रयत्ना ये ते सवर्णा इति स्मृताः ॥
(अव्परिस्_47,1.13) ह्रस्वो ऽवर्णपरस् तस्य सवर्णस्य च वाचकः । ह्रस्वोत्तरस् तु दीर्घो ऽपि तस्मात् तस्मात् तस्यैव वाचकः ॥
(अव्परिस्_47,1.14) वर्गान्तरस् तु वर्गादिर् वर्गस्य ग्राहको मतः । वर्गाणां च यथासंख्यं प्रथमादित्वम् इष्यते ॥
(अव्परिस्_47,1.15) अकारेणोच्यते ऽतस् तु कारो यस्मात् परो भवेत् । तस्य तद् ग्रहणं बोध्यं ककारो ऽत्र निदर्शनम् ॥
(अव्परिस्_47,1.16) व्यञ्जनं घोषवत्संज्ञम् अन्तःस्था हः परौ यमौ । त्रयस्त्रयश् च वर्गान्त्या अगोषः शेष उच्यते ॥
(अव्परिस्_47,1.17) शषसाश् च यमौ द्वौ च द्वितीयाः प्रथमाश् च ये । अघोषा व्यञ्जनशेषं घोषवद् दृश्यते बुधैः ॥
(अव्परिस्_47,1.18) अतः स्थानानि वर्णानां कण्ठो ऽवर्णहकारयोः । वोसर्जनीय ऐ औ च स्वाद्ययोर् मात्रयोः स्मृतः ॥
(अव्परिस्_47,1.19) शेषस् ताल्वोष्ठयोर् बोध्यः स यथासंख्यम् इष्यते । द्विस्थानं यमयोश् चापि वर्गान्त्यानां च शिष्यते ॥
(अव्परिस्_47,1.20) जिह्वामूलाम् ऋवर्णस्य कवर्गस्य च भाष्यते । यश् चैव जिह्वामूलीय ल्वर्णश् चेति च स्मृतः ॥
(अव्परिस्_47,2.1) ताल्व् एयशचवर्गाणाम् इवर्णस्य च भाष्यते । मूर्धा स्थानं षकारस्य टवर्गस्य तथा मतः ॥

(अव्परिस्_47,2.2) दन्ता लसतवर्गाणाम् उवर्णस् त्व् ओष्ठ्य उच्यते । उपध्मानीय ओकारो वः पवर्गश् च तथा मताः ॥
(अव्परिस्_47,2.3) नासिक्ये नासिका स्थानं तथानुस्वार इष्यते । यमा वर्गोत्तमाश् चापि यथोक्तं चैव ते मताः ॥
(अव्परिस्_47,2.4) रेफस्य दन्तमूलानि प्रत्यग् वा तेभ्य इष्यते । इति स्थानानि वर्णानां कीर्तितानि यथाक्रमम् ॥
(अव्परिस्_47,2.5) अपर आह । हनुमूले तु रेफः स्याद् दन्तमूलेषु वा पुनः । प्रत्यग् वा दन्तमूलेभ्यो मूर्धन्य इति चापरे ॥
(अव्परिस्_47,2.6) उरःस्थो घोषो विसृष्टः कण्ठदेशे निहन्यते । ततो नादो वितिष्ठते तस्य विकृतिर् अक्षरम् ॥
(अव्परिस्_47,2.7) पूर्वाभिर् अणुमात्राभिः कण्ठ्यं संसेव्यते ऽक्षरम् । उत्तराभिस् तु मात्राभिर् मुखविकृतिर् उच्यते ॥
(अव्परिस्_47,2.8) अपि प्रयोगस्य हेतोः संयोगः सह धार्यते । अव्यवहितो ऽक्षरेण नानावर्णः स्वरोदयः ॥
(अव्परिस्_47,2.9) द्वितीयेषु तथोष्मणां तृतीयेषु च घोषाणाम् । चतुर्थेषु घोषोष्मणाम् उपदेशेन वर्तयेत् ॥
(अव्परिस्_47,2.10) उत्तमेषु तु नासिक्यम् अन्तःस्थेषु घोषं स्मृतम् । हकारस्य घोषोष्माणाव् उपदेशेन वर्तयेत् ॥
(अव्परिस्_47,3.1) ऋकाराक्षरयो रेफम् अणुमात्र सर्व... । स्वरितस्य द्वैधीभावे उपदेशेन वर्तयेत् ॥
(अव्परिस्_47,3.2) ऋवर्णदेशसंदेहो ऽस्वरः स्यात् स्याद् अनन्तरम् । परो वा यदि वा पूर्वो रेफम् एव तु विद्धि तम् ॥
(अव्परिस्_47,3.3) अकारश् च इकारश् च उकार ऋकार एव च । ह्रस्वदीर्घप्लुताः सर्वे ल्वर्णे नास्ति दीर्घता ॥
(अव्परिस्_47,3.4) एकारश् च तथाइकार ओकार औकार एव च । दीर्घमात्रप्लुतास् तेषां संज्जा संध्यक्षराणि च ॥
(अव्परिस्_47,3.5) उदात्तश् चानुदात्ताश् च स्वरिताः कम्पिताश् च ये । अनुनासिकास् तथा शुद्धा दृश्यते ह्रस्वता बुधैः ॥
(अव्परिस्_47,3.6) वर्णाः पञ्चषष्टिः स्वरा द्वाविंशतिः समानाक्षराणि चतुर्दश अष्टौ संध्यक्षराण्य् एकोनविंशतिर् नामिनस् त्रिचत्वारिंशद् व्यञ्जनानिस्पर्शाः पञ्चविंशतिश् चत्वारस् त्व् अन्तःस्थाः चत्वारो यमाश् चाष्टाव् ऊष्माणो ऽयोगवाहा दशायोगवाहा दश ॥
(परिशिष्ट_48. कौत्सव्यनिरुक्तनिघण्टुः)
(अव्परिस्_48,1) ओम् अथर्वणे नमः ॥
(अव्परिस्_48,2) [पचति । पचते । अशनशि । सिस्रते । गमेः । वायि । चायि ॥1 ॥ व्यापि । चक्रि । देवा चष्टे । अव चाकशत् । व्यानशे । त्रिषि निषामयत्योः । योष्टिः सप्ते च ॥2 ॥ रिञ्जति] ।
(अव्परिस्_48,3) वश्मि । वश्मि । उश्मसि । अव वेति । वाञ्छति । वेष्टि । वनोति । जुषते । हर्यति । आचके । उशिक् । मन्यते । अछान्त्सुः ॥3 ॥ छन्त्सत् । चाकनत् । चकमानः । कनति । कानिषत् । कामे ॥
(अव्परिस्_48,4) मिमेति ॥4 ॥ नर्दति । ध्वनति ॥
(अव्परिस्_48,5) ध्वंसते । [कृणति । किंशक्ते ॥]
(अव्परिस्_48,6) वनति । भनति । [स्तर्षति ।] स्फूर्जति ॥
(अव्परिस्_48,7) ह्लादते । [निरृते ।] ह्लादयति ॥
(अव्परिस्_48,8) शब्दयति ॥
(अव्परिस्_48,9) अर्चति । अर्चति । रेभति । गायति । जल्पति । स्तोभति । स्तौति । यौति । रौति । नौति । गदति । नदति । भनति । भनते । [तत्रते ।] पणते । पणस्यति । पणायते । भन्दते । [यत्रस्यते. कृकृम्धम्पात्] कृपण्यति । धमति । सपति । पपृक्षाः । गूर्धयति । वेदयति । वादयति ॥5 ॥ वल्गूयति । महयति । मन्त्रयते । सेवते । पृच्छति ॥6 ॥ छन्दति । शशमानः । जरते । [छरति ।] वेनति । वन्दते ॥
(अव्परिस्_48,10) इरजति । इरज्यति ॥7 ॥विधेम । दुवस्यति । नमस्यति । विवासति । ऋध्नोति । ऋणद्धि । ऋच्छति ॥
(अव्परिस्_48,11) परि स्रव । परिस्रव ॥8 ॥ पवस्व । अभ्य् अर्ष । आशिषः ॥
(अव्परिस्_48,12) ईमहे । ईमहे । यामि । मन्महे । दद्धि । पूर्धि । शग्धि । मिमीहि । रिरीहि । रिरिढ्ढि । मिमिढ्ढि । पीपरत् । यन्तारः । इषुध्यति । वनेमहि । मनामहे । याचते ॥
(अव्परिस्_48,13) <दासति ।> दासति ॥9 ॥ दाशति । शिक्षति । महते । पृणाति । राति । रासति । प्राति । तुञ्जति । [मत्स्यति ।] ददाति ॥
(अव्परिस्_48,14) य्र्य्ष्यति । उरुष्यति ॥10 ॥ पिपर्ति । पारयति । पाति । पासति । प्राति । तुञ्जति । पृणाति । रक्षे ॥
(अव्परिस्_48,15) <आ वयति ।> आ वयति । भर्वति । बभस्ति । वेनति । वेति । वेवेष्टि । अविष्यन् । [प्रग] प्साति । बप्सति । भसथः । बब्धाम् ।
(अव्परिस्_48,16) [वदति । आदेति । तिरति । त्विष्यति । हिनोति । वृद्धेः ॥]
(अव्परिस्_48,17) [उत्पपीति । उत्पपीति ॥11 ॥ तपति । पिप्पहु । सहोति । युग्भिदी भेदयोजनयोश् च ॥]
(अव्परिस्_48,18) हेडते । हेडते ॥12 ॥ भामते । हृणीयते । भ्रीणाति । भ्रेषते । दोधति । हेडः । हरः । हृणिः । त्यजः । भामः । मन्युः । क्रोधे नामानि च क्रोधस्य ॥
(अव्परिस्_48,19) श्नथति । श्नथति ॥13 ॥ [दोवति । कुर्वति ।] तूर्वति । [मनुष्यति । धनुष्यति ।] शृणाति । मृणाति । भृज्जति । अमति । तृणेढि । दभ्नोति । [शूषति ।] ध्वरति । धूर्वति । कृन्तति । श्वसति । स्नेहयति । मृद्नाति । [स्रध्नाति ।] दासति । स्तृणुते । स्तरते । [कृणाति ।] नि तोजति । नि वपति । [अमति । रिति ।] यातयते । आखण्डल । तडित् । हिंसायाम् ॥
(अव्परिस्_48,20) इनद्धि । इनद्धि ॥14 ॥ स्वरति । हृष्यति । पथति । सृजति । ज्योतते । द्योतते । [द्योप्यते ।] भ्राजते । भ्राशते । दीदयति । साधते । द्युमत् । जमत् । कल्मलीकिनम् । मल्मलाभवन् । जञ्जणाभवन् । अर्चिः । शोचिः । तपः । तेजः । हरः । सृङ्गाणि । ज्वलेज्वलतश् च नामानि ॥
(अव्परिस्_48,21) <इरज्यति ।> इरज्यति ॥15 ॥ पत्यते । क्षय्ति । राजति । ईश्वरे ॥
(अव्परिस्_48,22) [स्वस्त्ययलेपी । स्वपे ॥]
(अव्परिस्_48,23) सिषक्ति । सेचति । सेचते ॥
(अव्परिस्_48,24) [अबिभस्ते ।] अभि दासते । अभि मन्यते ॥

(अव्परिस्_48,25) बिभर्ति । दधति । धारयते ॥
(अव्परिस्_48,26) हृणीयते । भृणीयते ॥
(अव्परिस्_48,27) वादयते । पुनाति । पणायति । पूजयति । वदति । [कुसी । हूर्छि । सासुद्यति ।] श्लाघायाम् ॥
(अव्परिस्_48,28) सूर्क्षति । [रादले । च्व्युच्छति । र प्रसादे । शरुलिप्सायाम् । मुक्षति ।] सादरे । [व्युच्छति । अप्रमादे । शरुलिप्सायाम् । व्याखदि । पृथग्भावे ओषधिकिच्छ्रजीवने । दशस्यति । द्रोहे । पीयति । स्पर्धायाम् । वक्षति । निवासे । इष्टाति । स्वादने ॥]
(अव्परिस्_48,29) पिबति । पाने ॥
(अव्परिस्_48,30) धिनोति । प्रीतौ ॥
(अव्परिस्_48,31) जिन्वति । उभयत्र ॥
(अव्परिस्_48,32) जिघर्ति । सेचने ॥
(अव्परिस्_48,33) [विस्वति । विस्याप्ये ॥]
(अव्परिस्_48,34) गोपयति । गोपने ॥
(अव्परिस्_48,35) शुम्भति । शोभने ॥
(अव्परिस्_48,36) मुञ्चति । शुद्धौ च ॥
(अव्परिस्_48,37) शर्धति । ध्वंसने ॥
(अव्परिस्_48,38) मृदति । सुखने ॥
(अव्परिस्_48,39) चक्षुर्भिर् माहते । दृशिहाने ॥
(अव्परिस्_48,40) विन्दति । लाभे ॥
(अव्परिस्_48,41) पुष्यति । वृद्धौ ॥
(अव्परिस्_48,42) [कोभति] । क्षये । दस्यति च ॥
(अव्परिस्_48,43) [स्रोशित च । लितगुतौ ॥]
(अव्परिस्_48,44) ऋञ्जति । [पार्जन्यः ।] ऋजुगमने ॥
(अव्परिस्_48,45) [वाचौष्टयति । विलासे ॥]
(अव्परिस्_48,46) रदति । खनने ॥
(अव्परिस्_48,47) [सेवति । आ क्रोशति । स्पर्शे ॥
(अव्परिस्_48,48) नसति । र्नचते ॥
(अव्परिस्_48,49) जिघर्ति । ग्रहणे । गिरणे च ॥]
(अव्परिस्_48,50) मन्दति । तृप्तौ ॥
(अव्परिस्_48,51) [अमनि । भावने ॥]
(अव्परिस्_48,52) चक्रति । प्रतिवेदने ॥
(अव्परिस्_48,53) जक्षति । क्षुत्सहने ॥
(अव्परिस्_48,54) श्लिष्यति । आश्लेषे ॥
(अव्परिस्_48,55) भजति । प्रेप्सायाम् ॥
(अव्परिस्_48,56) सेवति । सेवायाम् ॥
(अव्परिस्_48,57) ह्लादयति । शीतीभावने ॥
(अव्परिस्_48,58) काशति । प्रकाशने ॥
(अव्परिस्_48,59) [दानपनुपरिवस्यते ॥]
(अव्परिस्_48,60) रोदसी ॥16 ॥ रोदसी । रोधसी । क्षोणी । स्वधे । पुरंधी । ऋतावृतौ । प्रपित्वे । प्रतिष्ठे । प्रशस्ये । उरूची । [सान्तापे] । रजसी । विषाणे । धिष्ण्ये । गभीरे । गम्भीरे ॥17 ॥ ओण्यौ । चंवौ । नप्त्यौ । नप्त्यौ ॥18 ॥ पार्श्वौ । दूरे अन्ते । अनन्ते । द्यावापृथिव्योः ॥
(अव्परिस्_48,61) अपः । अपः ॥19 ॥ अप्नः । दंसः । वेपः । [वेदः ।] वेषः । विष्ट्वी । व्रतम् । कर्वरम् । शक्म । क्रतुः । करणानि । करांसि । करिक्रत् । करन्ती । चक्रत् । कर्तुम् । कर्ता । कर्तवे । [थलित । हिंसायाम् । इनद्धि ।] धीः । सवः । शमी । शक्तिः । शिल्पम् । कर्मणः ॥
(अव्परिस्_48,62) अस्रेमा । अस्रेमा ॥20 ॥ अनेद्यः । अनिन्द्यः । अबभिशस्तिः । अनवद्यः । उक्थ्यः । सुनीथः । पाकः । प्रशस्यस्य ॥
(अव्परिस्_48,63) आगः । आगः । एनः । अंहः । रिपुः । दुरितम् । अशस्तिः । शमलम् । वृजिनम् । अघस्य ॥
(अव्परिस्_48,64) शिम्बाता । शिम्बाता ॥21 ॥ शतरा । शातवन्ता । शिल्पम् । शेवृधम् । स्यूमकम् । मयः । द्योतनम् । सुदिनम् । शूषम् । द्युम्नम् । इन्द्रियम् । शेवम् । शिवम् । शुनम् । शम् । भेषजम् । जलाषम् । सुखस्य ॥

(अव्परिस्_48,65) निरृतिः । निरृतिः ॥22 ॥कृच्छ्रम् । तृप्रम् । दुःखस्य ॥
(अव्परिस्_48,66) <तुवि> तुवि । पुरु । भूरि । शश्वत् । विश्वम् । व्यानशिः । व्योमनी । शतम् । सहस्रम् । अयुतम् । नियुतम् । प्रयुतम् । अर्बुदम् । अत्यर्बुदम् । असंख्येयम् । सरिरम् । बहोः ॥
(अव्परिस्_48,67) ऋहन् । ऋहन् । निघृष्वः । कृशमः । मायुकः । प्रतिष्ठा । कृधुकः । दहरकः । वम्रकः । अर्भकः । [अथुराणः] । ह्रस्वस्य ॥
(अव्परिस्_48,68) महः । महः । ब्रध्नः । ऋष्वः । उक्षः । गभीरः । अभ्वः । तवसः । ऋभुक्षा । उक्षा । [उक्षिता ।] विहायाः । यह्वः । उरु । बृहत् । अम्भृणः । विरप्शी । अद्भुतः । [वविषिपुः । वरिषीः] । महतः ॥
(अव्परिस्_48,69) नवम् । नवम् ॥23 ॥ नूतनम् । नूतनम् । नव्यम् । अधुना । इदानीम् । नवस्य ॥
(अव्परिस्_48,70) प्रत्नम् ॥24 ॥ प्रत्नम् । प्रदिवः । प्रवयाः । सनेमि । [मोक्तः । माहुः । यतः ।] पुराणस्य ॥
(अव्परिस्_48,71) [अधाह्यः] ॥25 ॥ सत्रा । बट् । ऋतम् । अद्धा । सत्यस्य ॥
(अव्परिस्_48,72) गौः । गौः ॥26 ॥ ग्मा । ज्मा । क्ष्मा । क्षा । क्षमा । क्षोणी । क्षितिः । अवनिः । उर्वी । मही । रिपः । अदितिः । इडा । निरृतिः । गातुः । भूः । भूमिः । पूषा । गोत्रा । पृथिव्याः । पराणि तदायतनानाम् ॥
(अव्परिस्_48,73) <तडित् ।> तडित् । आसात् । अम्बरम् । तुर्वशे । अस्तमीले । उपाके । अर्वाके । अन्तमानाम् । अवमे । उपमे । अन्तिकस्य ॥
(अव्परिस्_48,74) <श्यावी ।> श्यावी । क्षपा । शर्वरी । अक्तुः । [उर्वी ।] ऊर्म्या । रम्या । नम्या । [चोषा ।] दोषा । नक्ता । तमः । रजः । असिक्नी । तमस्वती । [दमस्वती ।] महस्वती । यशस्वती । घृताची । शिरिणा । मोकी । शोकी । ऊधः । पयः । हिमा । वस्वी । रात्रेः ॥
(अव्परिस्_48,75) अरणः । अरणः ॥27 ॥ गरः । क्षोदः । क्षद्म । नभः । अम्भः । कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु । पुरीषम् । पिप्पलम् । क्षीरम् । विषम् । रेतः । शकम् । जह्म । बृबूकम् । बुसम् । तुग्र्याः । सुक्षेमम् । वरुणः । सुरा । अररिन्द्रानि । ध्वस्मन्वत् । जामि । आयुधानि । क्षपः । अहिः । अक्षराः । तृप्तिः । रसः । सरः । पयः । भेषजम् । स्रवः । शवः । सहः । ओजः । सुखम् । क्षत्रम् । आवयाः । शुभम् । यादः । भूतम् । भुवनम् । भविष्यत् । आपः । महत् । व्योम । यशः । सर्णीकम् । [स्वर्णीकरम् ।] गहनम् । गभीरम् । [गम्भीरम् ।] गह्वरम् । कम् । अन्नम् । [सु] हविः । सद्म । सदनम् । ऋतम् । [ऋत] योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । सर्पिः । अपः । पवित्रम् । अमृतम् । इन्दुः । हेम । सर्गाः । शम्बरम् । अभ्वम् । वपुः । अम्बु । तोयम् । तूयम् । कृपीटम् । अक्षरम् । क्षराः । वारि । जलम् । [चूर्णाः । संस्त्यानाः । धानाप्यम् ।] विस्रुतम् । जलाषम् ॥28 ॥ कर्बुरम् । काष्ठाः । [इदम्] इदम् । शुक्रम् । मेध्यम् । पावकम् । पावनम् । ह्रादनम् । ह्लादनम् । [पार्वम् ।] अम्भः । [भूरी ।] उदकस्य ॥
(अव्परिस्_48,76) अवनयः । अवनयः ॥29 ॥ यह्व्यः । खाः । सीराः । स्रोत्याः । एन्यः । धुनयः । रुजानाः । वक्षणाः । खादो अर्णाः । रोधचक्राः । हरितः । योषितः । स्वसृतः । अर्णवाः । सिन्धवः । कुल्याः । वहाः । उर्व्यः । इरावत्यः । पार्वत्यः । ओजस्वत्यः । सरस्वत्यः । हरस्वत्यः । अजिराः । मातरः । नदीनाम् ॥ [मधुः । वथः]
(अव्परिस्_48,77) काटः । काटः । खातः । अवतः । अवटः । क्रिविः । सूदः । उत्सः । ऋश्यदः । कारोतरः । कुशयः । केवतः । [त्रपुः] कूपस्य ॥
(अव्परिस्_48,78) नराः । नराः ॥30 ॥ जन्तवः । विशः । क्षितयः । कृष्टयः । चर्षणयः । नहुषः । अरयः । अर्याः । मर्याः । मर्ताः । व्राताः । पूर्वाः । तुर्वशाः । द्रुह्यवः । आयवः । यदवः । अनवः । पूरवः । जगतः । तस्थुषः । पञ्चजनाः । विवस्वन्तः । मानवः । मनुष्याणाम् ॥
(अव्परिस्_48,79) निर्णिक् । निर्णिक् ॥31 ॥ वव्रिः । वर्पः । वपुः । अमतिः । अप्सः । रप्सु । पिष्टम् । शष्यम् । कृशनम् । पेशः । मरुत् । रूपस्य ॥
(अव्परिस्_48,80) जठरम् ॥32 ॥ जठरम् । [परीसानम् । जगृतम् । गर्दनम् ।] कृदरम् । उदरम् । [दर्दुरम् ।] उदरस्य ॥
(अव्परिस्_48,81) आयती । आयती । च्यवाना । अभीशू । अप्नवाना । विनङ्गृसौ । गभस्ती । बाहू । भुरिजौ । शक्वरी । भरित्रे । बाह्वोः ॥
(अव्परिस्_48,82) <अग्रुवः ।> अग्रुवः ॥33 ॥ अण्व्यः । व्रिशः । शर्याः । रशनाः । धीतयः । अथर्यः । विपः । कक्ष्याः । हरितः । स्वसारः । जामयः । योक्त्राणि । योजनानि । धुरः । शाखाः । अभीशवः । दीधितयः । अङ्गुलीनाम् ॥34 ॥
(अव्परिस्_48,83) [व्रजिः । धुनिः । तर्थाः ।] तक्वा । <रिपुह्> । रिभ्वा । रिक्वा । रिह्वा । तायुः । तस्करः । वनर्गुः । मलिम्लुचः । अघशंसः । वृकः । स्तेनस्य ॥
(अव्परिस्_48,84) धीः । धीः । मेधा । केतुः । चेतः । चित्तम् । क्रतुः । असुः । शची । वयुनम् । माया । बुद्धेः ॥35 ॥
(अव्परिस्_48,85) विप्रः । विप्रः । विग्रः । गृत्सः । धीरः । [रेनुः ।] वेनः । मेधाः । कण्वः । ऋभुः । नवेदाः । कविः । मनीषी । मन्धाता । मनश्चित् । आकेनिपासः । उशिजः । कीस्तासः । अद्धातयः । मतयः । मतुथाः । मेधाविनः ॥
(अव्परिस्_48,86) मेना । मेना । ग्ना । योषा । नना । अङ्गना । रतयः । स्त्रीणाम् ॥36 ॥
(अव्परिस्_48,87) तुक् । तुक् । तोकम् । तनयम् । तक्म । शेषः । प्रजा । बीजम् । अप्नः । गयः । [ऋषः] जाः । यहुः । सूनुः । नपात् । अपत्यस्य ॥37 ॥
(अव्परिस्_48,88) [कङ्कम् ।] अन्धः । [घा] सिनम् । श्रवः । [शवः । शाहः । वनः ।] अन्नम् । वाजः । पयः । पृक्षः । पितुः । सुतम् । क्षु । धासिः । इडा । इषम् । ऊर्जः । रसः । स्वधा । अर्कः । नेमः । ससम् । नमः । वयः । सूनृता । ब्रह्म । कीलालम् । अन्नस्य ॥38 ॥
(अव्परिस्_48,89) ..... गर्तः । हर्म्यम् । नीरम् । पस्त्यम् । दुरोणम् । दुर्याः । स्वसराणि । अमा । दमः । कृत्तिः । योनिः । वर्म । शर्म । शरणम् । वरूथम् । क्षया । छन्दः । छदिः । छर्दिः । छाया । वेश्म । अज्मः । कुलायम् । तुकः । गृहस्य ॥39 ॥
(अव्परिस्_48,90) मघम् । मघम् । रेक्णः । रिक्थम् । वेदः । श्वात्रम् । रत्नम् । रयिः । क्षत्रम् । क्षेत्रम् । भगः । मीढम् । द्युम्नम् । इन्द्रियम् । वसु । रायः । राधः । दानः । वृत्रम् । दानम् । वृतम् । वामम् । धनस्य ॥40 ॥
(अव्परिस्_48,91) हेम । हेम । चन्द्रम् । रुक्मम् । अरः । पेशः । कृशनम् । लोहम् । कनकम् । काञ्चनम् । हरितम् । भर्गः । अमृतम् । मरुत् । दत्रम् । जातरूपम् । हिरण्यम् । सुवर्णस्य ॥41 ॥
(अव्परिस्_48,92) अघ्न्या । अघ्न्या । उस्रा । उस्रिया । स्त्री । मही । अदितिः । इडा । निरृतिः । गोः ॥42 ॥

(अव्परिस्_48,93) अत्यः । अत्यः । हयः । अर्वा । वाजी । सप्तिः । वह्निः । दधिक्राः । दधिक्रावा । एतग्वः । एतशः । पैद्वः । दौर्गहः । उच्चैह्श्रवसः । तार्क्ष्यः । आशुः । ब्रध्नः । अरुषः । मांश्चत्वः । अव्यथयः । श्येनासः । सुपर्णाः । नराः । वार्याणाम् । हंसासः । अश्वानाम् ॥43 ॥
(अव्परिस्_48,94) रोहितः । रोहितो ऽग्नेः । नियुतो वायोः । हरी इन्द्रस्य । विश्वरूपा बृहस्पतेः । पृषत्यो मरुताम् । रासभाव् अश्विनोः । अरुण्यो गाव उषसाम् । हरय आदित्यस्य । हरितः सूर्यस्य । श्यावाः सवितुः । अजाः पूष्णः ॥44 ॥
(अव्परिस्_48,95) अध्वरः । अध्वरः । वेषः । वेदः । [वेपः । भायी ।] विदथः । सवनम् । होत्रा । इष्टिः । देवताता । मखः । विष्णुः । इन्दुः । प्रजापतिः । घर्मः । क्रतुः । कर्म । यज्ञस्य ॥
(अव्परिस्_48,96) <भरताः ।> भरताः ॥45 ॥ कुरवः । वाघतः । वृक्तवर्हिषः । सबाधः । यतस्रुचः । वृकः । मरुतः ॥46 ॥ देवयवः । ऋत्विजः ॥
(अव्परिस्_48,97) <रेभः ।> रेभः । जरिता । कारुः । कीरिः । सूरिः । नदः । नादः । छन्दस्यः । [क्वोसनः ।] रुद्रः । कृपण्युः । स्तामुः । <स्तोतुह्> ॥47 ॥
(अव्परिस्_48,98) <अम्बरम् ।> अम्बरह्म् । वियत् । व्योम । बर्हिः । स्वः । आकाशम् । आपः । पृथिवी । भूः । स्वयंभूः । अध्वा । ब्रध्नः । [पीरिठम् । पीठम् ।] सगरः । सलिलम् । समुद्रः । अन्तरिक्षस्य । पराणि तदायतनानाम् ॥48 ॥
(अव्परिस्_48,99) <आताः ।> आताः । आशाः । आष्ठाः । उपराः । काष्ठाः । व्योम । ककुभः । दिशाम् ॥49 ॥
(अव्परिस्_48,100) सस्निः । सस्निः । अलातृणः । क्वणन् कुणारुः । दानवः । उदधिः । [सिरिः ।] वृत्रः । पर्वतः । चमसः । अहिः । अभ्रम् । बलाहकः । दृतिः । ओदनः । वृषन्धिः । वृत्रः । कोशः । असुरः । मेघस्य ॥50 ॥
(अव्परिस्_48,101) <अद्रिः ।> अद्रिः । ग्रावा । गोत्रः । वलः । अश्नः । पुरुभोजाः । वलिशानः । अश्मा । गिरिः । व्रजः । चरुः । वराहः । शम्बरः । रौहिणः । रैवतः । परिघः । [पाणिघः ।] उपरः । उपलः । सानौ । रुद्रः । पर्वतस्य ॥51 ॥
(अव्परिस्_48,102) गौः । गौः । गौरी । गान्धर्वी । गभीरा । गम्भीरा मन्द्रा । मन्द्राजनी । [वाणीः] । वाशी । वाणी । वाणीची । वाणः । पविः । भारती । धमनिः । मेडिः । सूर्या । सरस्वती । निवित् । स्वाहा । वग्नुः । उपब्दिः । काकुः । मायुः । जिह्वा । घोषः । श्लोकः । शब्दः । स्वरः । स्वनः । ऋक् । होत्रा । गीः । गाथा । गणः । धेना । ग्नाः । विपा । नना । कशा । धिषणा । नौः । अक्षरम् । मही । अदितिः । शची । [त्सघीः ।] अनुष्टुप् । [शब्दः ।] रसः । [वसा । मधु । कशा ।] विराट् । वाचः ॥52 ॥
(अव्परिस्_48,103) ओजः । ओजः । पाजः । शवः । शर्धः । त्वक्षः । बाधः । नृम्णम् । तरः । तविषी । शुष्मम् । शुष्णम् । दक्षः । वीडु [तु] । च्यौत्नम् । द्युम्नम् । इन्द्रियम् । सहः । वयः । वधः । वर्गः । मज्मना । पौंस्यानि । धर्णसि । स्यन्द्रासः । द्रविणम् । बलस्य ॥53 ॥
(अव्परिस्_48,104) विद्युत् । विद्युत् । नेमिः । पविः । वज्रः । सृकः । [यतः ।] वधः । अर्कः । शम्बः । कुलिशः । कुत्सः । सायकः । त्रपुषी । वज्रस्य ॥54 ॥

(अव्परिस्_48,105) रणः । रणः । विवाक् । वदनुः । विखादः । भरे । क्रन्दः । आहावः । सम्[अन्]ईके । ममसत्यम् । नेमधितिः । सङ्का । समनम् । स्पृधः । पृत्सु । समत्सु । समरणे । समोहे । संख्ये । वृत्रतूर्ये । समर्ये । आणौ । प्रतरणे । [मंतसा ।] समनीके । [खाय । सेने ।] खले । खजे । पौंस्ये । महाधने । पृतना । ज्येष्ठः । संग्रामस्य ॥55 ॥
(अव्परिस्_48,106) [खरे । स्वारम् । सुष्टि ।] नु । नु । मक्षु । द्रवत् । ओषम् । जीराः । जूर्णिः । शूर्ताः । शूघनाः । शीभम् । तृषु । तूयम् । तूर्णिः । अजिरम् । भुरण्युः । आशु । प्राशु । तूतुजानः । तूतुजिः । तुज्यमानासः । अज्राः । साचीवित् । द्युगत् । ताजत् । तरणिः । वातरंहा । क्षिप्रस्य ॥56 ॥
(अव्परिस्_48,107) निण्यम् । निण्यम् । अपीच्यम् । सस्वः । <हिरुक् ।> [तत्र । तत्तन्त । तायतम् ।] अन्तर्हितस्य ॥
(अव्परिस्_48,108) <स्वः ।> स्वः । पृश्निः । नाकः । गौः । विष्टप् । इष्टम् । नभः । दिवः । अन्तरिक्षस्य च । पराणि तदायतनानाम् ॥57 ॥
(अव्परिस्_48,109) [हिरुक् । हिरुक् ।] आके । पराचैः । आरे । परावते । इति दूरस्य ॥58 ॥
(अव्परिस्_48,110) विभावरी । विभावरि । सूनरी । [भावती । सुनरी] भास्वरी । अहना । द्योतना । श्वेत्या । अरुषी । सूनृतावरी । उषसः ॥59 ॥
(अव्परिस्_48,111) वस्तोः । वस्तोः । भानुः । वासरम् । स्वसराणि । घ्रंसः । घर्मः । घृणिः । दिवा । दिनम् । दिवे<दिवे> । द्यविद्यवि । अह्नः ॥60 ॥
(अव्परिस्_48,112) दीधितयः । गभस्तयः । वनम् । उस्राः । वसवः । मरीचयः । सप्त ऋषयः । साध्यासः । सुपर्णासः । मयूखाः । रश्मीनाम् ॥61 ॥
(अव्परिस्_48,113) खेदयः । खेदयः । किरणाः । गावः । अभीशवः । [रश्मीन् ।] रश्मीनां च ॥62 ॥
(अव्परिस्_48,114) आर्यः । आर्यः । राष्ट्री । नियुत्वान् । इनः । ईश्वरस्य ॥63 ॥
(अव्परिस्_48,115) संयोगः । संयोगः । आशुशुक्षणिः । जहा । शिताम । मेहना । मूषः । मन्दू । ईर्मान्तासः । [वाजरान्ध्यम् ।] कायमानः । विद्रधे । तुग्वनि । [नोधात् । नदः ।] च्यवनः । कश्यपः । नू चित् । अकूपारस्य । अप्रायुवः । रजः । जुहुरे । क्राणा । विषुणः । जामिः । जसुरिः । चयसे । अन्धः । दुग्धम् । आहनः । नदः । अर्कः । सचा । चित् । पवित्रम् । पृथुज्रयाः । काणुका । अध्रिगुः । आङ्गूषः । आपान्तमन्युः । श्मशा । वाजगन्ध्यम् । [जराध्य ।] पाकस्थामा कौरयाणः । व्रन्दी । निष्षपी । क्षुम्पम् । निचुम्पुणः । [मजायेम । धृरुः ।] जोषवाकम् । कुटस्य । केपयः । सललूकम् । अस्कृधोयुः । निशृम्भाः । [ध्रुवद्रक्षम् ।] उपलप्रक्षिणी । उपसि । सवीमनि । विदथानि । श्रायन्त इव । अमूरः । विजामातुः । अमवान् । अमीवा । अमतिः । रिशादसः । आनुषक् । गिर्वणाः । अम्यक् । यादृश्मिन् । शुरुधः । अप्रतिष्कुतः । द्विबर्हाः । उराणः । जवारु । ततनुष्टिम् । इलीबिशः । [इराविणः ।] कियेधाः । तुरीपम् । प्रतद्वसू । दिविष्टिषु । दूतः । ऋचीषमः । अनर्शरातिम् ॥64 ॥ अनर्वा । [अनर्वा । चाण्डा । वाल्हा] जढवः । बकुरः । [वक्तारः] बेकनाटान् । अभि धेतन । सदान्वे । पराशरः । करूडती । दनः ॥
(अव्परिस्_48,116) इक्षुणा । कीलालम् । विजाम्नि । दोषा । [अष्टमर्त्यः] ॥65 ॥ ज्येष्ठम् । [ज्येष्ठम् । असिपक्व ।] विश्वाहा । विवसवान् । वाते । [तन्यन्तः । व्राल्म । काम्पीवकंसम् । जस्यत्यम् । जलाली ।] अन्धः । विपश्यन् । अया चिष्ठा । [आंसा । रन्तु । तमायीवयः ।] शमोप्यात् । गुल्फः । बिष्कले खर्गला । प्रतोदः । वेदः । [यत्रास्मन्नतः । रध्रः । चिक्रिः । नुलुः ।] पुच्छधौ । [सुनिः ।] अपाष्ठः । मेदी । [ज्येना ।] मर्यः । [सप्तघ्नेतः ।] वालिनि । यातारम् । [रुषंकिः । सिक्तः ।] सगणाः । [मुडिम्नाना । लिङ्गकाः । नादिना ।] मल्वः । अम्नः । [जुगुः ।] नीलागलसाला । ऐलबः । [दरिद्रः ।] नीललोहितः । श्वापदः । कुनखी । कुरीरम् । [उपसः ।] तादुरि । [कमथ । रुमथा । सर्वर्तेभ्यः । इदम् । अध्वर्युः । द्युम्नी । कुवितः । दम्नना ।] दुरोणे । [परेक्तौति] । तितौ । [उत्पवाधत ।] किमीदी । वामस्य । एकचक्रम् । अमतिः । सुमतिः । [दयते । दयन्ति । व्रीहि । वृत्ते] ॥66 ॥ ईडे । ईडे । क्षयति । तपति । रजति । अनेकार्थाः ॥
(अव्परिस्_48,117) प्रपित्वे । अभीके । प्राप्तस्य ॥
(अव्परिस्_48,118) तिरः । सतः । अप्राप्तस्य ॥
(अव्परिस्_48,119) त्वः । नेमः । अर्धस्य ॥
(अव्परिस्_48,120) ऋक्षाः । स्तृभिः । इति नक्षत्राणाम् ॥
(अव्परिस्_48,121) वम्रीभिः । उपजिह्विका । सीमिकानाम् ॥
(अव्परिस्_48,122) रम्भः । [रथः ।] पिनाकम् । इति दण्डस्य ॥
(अव्परिस्_48,123) शेपः । वैतसः । इति पुंस्प्रजननस्य ॥
(अव्परिस्_48,124) [परंगतिविलीके] । इति स्त्रीप्रजननस्य ॥
(अव्परिस्_48,125) अनेन । अनया । [पनस्य]]
(अव्परिस्_48,126) मकि । ह्वकिर्] । इति प्रतिषेधस्य ॥
(अव्परिस्_48,127) वरूथम् । [असग्रम्] । चर्मणो ऽरुत्साहस्य ॥
(अव्परिस्_48,128) पणिः प्रकलविद् वणिजः ॥
(अव्परिस्_48,129) श्वघ्नी । कितवस्य । अक्षधूर्तस्य ॥
(अव्परिस्_48,130) [मृण्यः] । सीमिकस्य ॥
(अव्परिस्_48,131) कुटस्य । कुलिशः ॥
(अव्परिस्_48,132) अग्निः । जातवेदाः । वैश्वानरः । द्रविणोदाः । वनस्पतिर् इति सूक्तभाञ्जि ॥
(अव्परिस्_48,133) इध्मः । [विष्णुः ।] तनूनपात् । नराशंसः । देवीर् द्वारः । उषासानक्ता । दैव्या होतारा । तिस्रो देवीः । त्वष्टा । वनस्पतिः । स्वाहाकृतय इति निपातभाञ्जि ॥
(अव्परिस्_48,134) इन्द्रः । विष्णुः । सोमः । पर्जन्यः । ऋतुः । अग्नायी । पृथिवी । इडा । भृगवः । अथर्वाण इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥
(अव्परिस्_48,135) वहनम् <च हविषाम् आवाहनं च> देवानां यच् च दाएष्टिविषयिकं तद् अस्य कर्म ॥
(अव्परिस्_48,136) अयं लोकः । वसन्तः । प्रातःसवनम् । गायत्री त्रिवृद् रथंतरम् इति तद्भक्तीनि ॥67 ॥
(अव्परिस्_48,137) वायुः । वरुणः । इन्द्रः । रुद्रः । पर्जन्यः । बृहस्पतिः । ब्रह्मणस्पतिः । वास्तोष्पतिः । क्षेत्रस्य पतिः । कः । यमः । अपां नपात् । मित्रः । विश्वकर्मा । मन्युः । तार्क्ष्यः । दधिक्राः । सरस्वान् । अग्निः । असुनीतिः । वाजः । कुतः । वातः । ऋतः । मृत्युः । धाता । विधाता । पुरूरवाः । गन्धर्वाः । अनड्वान् । प्राणाः । स्तम्भः । व्रात्य इति सूक्तभाञ्जि ॥
(अव्परिस्_48,138) प्रजापतिः । चन्द्रमाः । सोमः । इन्दुः । अदितिः । धेनवः । अहिर् बुध्न्य इति निपातभाञ्जि ॥
(अव्परिस्_48,139) सरस्वती । वाक् । अदितिः । उर्वशी । गौः । धेनुः । सरमा । उषा । इन्द्राणी । पृथिवी । दस्य । गोधुकसा । विराट् । अघ्न्या । सिनीवाली । कुहूः । अनुमतिः । राका । यमी । सरण्यूः । पथ्या । रोदसी । देवपत्न्यः । मरुतः । रुद्राः । ऋभवः । अङ्गिरसः । भृगवः । अथर्वाण इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥
(अव्परिस्_48,140) स्नेहानुप्रदानं वृत्रवधो या चका च बलकृतिस् तद् अस्य कर्म ॥

(अव्परिस्_48,141) अन्तरिक्षलोकः । ग्रीष्मः । मध्यंदिनं सवनम् । त्रिष्टुप् पञ्चदशः । बृहद् इति तद्भक्तीनि ॥68 ॥
(अव्परिस्_48,142) आदित्यः । सविता । भगः । सूर्यः । पूषा । विष्णुः । केशी । विश्वानरः । वृषाकपिः । कालः । ब्रह्मचारी । रोहित इति सूक्तभाञ्जि ॥
(अव्परिस्_48,143) दध्यङ् । अथर्वा । यमः । अज एकपात् । मनुः । विवस्वान् । दक्षः । अर्यमा । वैश्वानरः । सुपर्ण इति निपातभाञ्जि ॥
(अव्परिस्_48,144) उषाः । सूर्या । वृषाकपायी । साध्याः । वसवः । आदित्या । सप्त ऋषयः । वाजिनः । विश्वे देवा इति संस्तविकास् तस्यैकवद् बहुवत् स्त्रीवच् च ॥

मूल पाठ: Atharvavedapariśiṣṭas · Edition: George Melville Bolling and Julius von Negelein: "The Pariśiṣṭas of the Atharvaveda", Vol. 1, parts 1 and 2 (all published), Leipzig : Harrassowitz 1909-1910. · Data entry Yuri Ishii · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc