अथर्ववेदपरिशिष्टस् · भाग 8195
(अव्परिस्_68,2.33) स्वप्ने यदा प्रसूयेत सुभिक्षं निर्दिशेत् तदा । शयनासनयानानि गृहग्रामपुराणि च ॥
(अव्परिस्_68,2.34) येषां स्वप्ने प्रलीयन्ते तेषां वृद्धिम् अथादिशेत् । गोवृषं पुरुषं वृक्षं हस्तिनं पर्वतं गृहम् ॥
(अव्परिस्_68,2.35) नरस्यारोहणाद् वृद्धिः पाण्डुराणि विशेषतः । दैवतानि द्विजा गावः पितरो लिङ्गिनो ग्रहाः ॥
(अव्परिस्_68,2.36) यद् वदन्ति नरं स्वप्ने तत् तथैव विनिर्दिशेत् । सरित्सरसमुद्राणां तरणे शोकतारणम् ॥
(अव्परिस्_68,2.37) नरस्य शोणितं पीत्वा प्रकृताण्ल् लभते नरः । चन्द्रेन्द्रध्वजसूर्याणां पतने नृपतेर् भयम् ॥
(अव्परिस्_68,2.38) महार्णवमहेन्द्राणां क्षोभे क्षोभं विनिर्दिशेत् । केशश्मश्रुनखानां च पतने शोकसंभवः ॥
(अव्परिस्_68,2.39) कृमिणत्वं भवेद् धन्यं क्रोष्टुकेर् वचनं यथा । क्रव्यादैर् दम्ष्ट्रिभिश् चापि विनाशो भूतविग्रहे ॥
(अव्परिस्_68,2.40) शस्त्रमुष्टिप्रहारेषु विजानीयाज् ज्वरागमम् । यद्यद् उज्ज्वलवद् द्रव्यं तत्तत् सुखकरं भवेत् ॥
(अव्परिस्_68,2.41) यद्यद् विरुध्यते वापि स्वप्ने तत् तस्य निर्दिशेत् । [नोपानेन] प्रजातानां दर्शने स्थानम् आदिशेत् ॥
(अव्परिस्_68,2.42) उपानहबलछत्त्रदर्शने च ग्र्हे तथा । हसद्भिर् वा परिवृतो नृत्यद्भिः स्वजनैर् अपि ॥
(अव्परिस्_68,2.43) संयुक्तं सूकरखरैर् उष्ट्रैः कृष्णचतुष्पदैः । रथम् आरुह्य यो यायाद् अक्षतस् तु युगंधरः ॥
(अव्परिस्_68,2.44) प्रकीर्णकेशो ह्रियते दक्षिणेनापरेण वा । दक्षिणेनागता कन्या कालिकाकुलवासिनी ॥
(अव्परिस्_68,2.45) नीयते पुरुषैर् यश् च पाशहस्तैर् विशेषतः । निरस्तानां विषमाणां प्रेतेनाकुशलं भवेत् ॥
(अव्परिस्_68,2.46) पिण्याकस्य तिलानां च कर्षासु लवणस्य च । रूढश्मश्रुनखानां च दुश्चेलानां च वाससाम् ॥
(अव्परिस्_68,2.47) विरागवाससां वापि विकृतानां तथैव च । सरीसृपाणां व्यालानां शत्रूणां चापि दर्शनम् ॥
(अव्परिस्_68,2.48) कृष्णानां वापि सर्वेषां राजद्विजवृषाद् ऋते । दर्शनं गमनं वापि शोकम् आयासवेदनम् ॥
(अव्परिस्_68,2.49) पद्मैर् वा जलभाण्डैर् वा क्रीडितायासदर्शनम् । पद्मानि वाहरेत् स्वप्ने हस्तछेदम् अवाप्नुयात् ॥
(अव्परिस्_68,2.50) प्रसन्ने तु ध्रुवं शोको रज्जुछेदे म्रियेत सः । रूढस्य स्रोतसा शोको मृत्युः स्रिओतसि नश्यतः ॥
(अव्परिस्_68,2.51) दन्ता बाहुं तथा शीर्ष्णो छिन्नांशद्रव्यदर्शनम् । भ्रातरं पितरं वापि पुत्रं वा नाशयन्ति ते ॥
(अव्परिस्_68,2.52) द्वारे वा सार्गले वापि शय्यां शखां तथैव च । स्वप्ने यस्य प्रनश्यन्ति भार्या तस्य विनश्यति ॥
(अव्परिस्_68,2.53) कृकलासो वृको वापि पुरुषो वापि पिङ्गलः । शय्यां यस्याधिरोहन्ति भार्या तस्यापि दुष्यति ॥
(अव्परिस्_68,2.54) स्वप्ने यो मारयेत् सर्पं श्वेतपीतकलोहितम् । कृष्णस्य वा शिरश् छिन्द्यात् पुत्रस् तस्य विनश्यति ॥
(अव्परिस्_68,2.55) राजपुत्रश् च चोरश् च राजभृट्यश् च यो भवेत् । तस्य स्वप्नाः फलं दद्युर् एतेषु यद् उदाहृतम् ॥
(अव्परिस्_68,2.56) येषां लाभे भवेद् वृद्धिस् तेषां नाशे गुणो भवेत् । येषां लाभे भवेद् धानिस् तेषां लाभे गुणो भवेत् ॥
(अव्परिस्_68,2.57) शुभं दृष्ट्वा तु यः स्वप्ने पुनः पश्यत्य् अपूजितम् । शुभं वाप्य् अशुभं वापि यत् पश्चात् तत्फलं लभेत् ॥
(अव्परिस्_68,2.58) स्वप्नास् तु प्रथमे यामे संवत्सरविपाकिनः । द्वितीये ऽष्टसु मासेषु तृतीये तु तदर्धभाक् ॥
(अव्परिस्_68,2.59) मासिको गोविसर्गे तु सद्यःपाकः प्रभातिके. कालः पञ्चस्व् अवस्थासु शर्वर्याः कीर्तितः पृथक् ॥
(अव्परिस्_68,2.60) विप्रेभ्यः शक्तितो दानं शान्तिः स्वष्ट्ययनादयः । विनाशयन्ति दुःस्वप्नं प्रातश् चाश्वत्थसेवनम् ॥
(अव्परिस्_68,2.61) अश्वत्थसेवा तिलपात्रदानं गोस्पर्शनं ब्राह्मणतर्पणं च । शान्तिक्रिया स्वस्त्ययनक्रिया च दुःस्वप्नम् एतानि विनाशयन्ति ॥
(अव्परिस्_68,2.62) वस्नकनकदानदेवपूजागुरुगोष्ठनिषेवितानि कुर्युः । द्विजवृषब्ःगवाश्वपार्थिवानां दर्शनम् इतिहासमङ्गलाः स्युः ॥
(अव्परिस्_68,3.1) इमान् दृष्ट्वाशुभान् स्वप्नान् प्रातर् उत्थाय सत्वरः । नदीसंगमतोयेन मुखं संमार्ज्य तत्त्वतः ॥
(अव्परिस्_68,3.2) हिरण्यवर्णाभिर् उदकं शंतातीयमयोभुवा । अभिमन्त्र्य प्रयत्नेन मुखं संमार्ज्य तत्त्वतः ॥
(अव्परिस्_68,3.3) यो न जीवः परो ऽपेहि विद्म ते स्वप्न वेदनम् । रोचना सर्षपा मृदा समित् सकुसुमं दधि ॥
(अव्परिस्_68,3.4) गाम् अजं कनकं सत्त्वं कुमारीं ब्राह्मणं शुभम् । अभिवन्द्य नृपो यायात् सुहृदांश् च मनोहरान् ॥
(अव्परिस्_68,3.5) यदा तु यात्रां नृपतिः कर्तुम् इच्छेद् विधानवित् । अथ स्वस्त्ययनैः [सौम्यैः सौम्यैस् तम् अभिमन्त्रयेत् ॥
(अव्परिस्_68,3.6) ततः शुक्लाम्बरधरो वाग्यतः संयतेन्द्रियः । तां निशं संविशेद् राजा भूमौ चैवाभिमन्त्रयेत् ॥
(अव्परिस्_68,3.7) [अन्यथैव हि न स्वप्नदर्शनार्थनिदर्शनम्] । एवम् उक्त्वा नरपतिः प्रयतात्मा ततः स्वपेत् ॥
(अव्परिस्_68,3.8) प्रशस्तस्वप्नतां दृष्ट्वा ततो यायान् नराधिपः । स्वप्नेषु वाप्रशस्त्रेषु ततः शान्तिं समारभेत् ॥
(अव्परिस्_68,3.9) माहेन्द्रीम् अमृतां रौद्रीं कुर्याद् वाप्य् अपराजिताम् । कौबेरीं वा प्रयुञ्जीत आदित्यां वा सदक्षिणाम् ॥
(अव्परिस्_68,3.10) रजनिकरदिवाकरौ कराभ्यां स्पृशति यदा ग्रसते ऽथ वा नरेन्द्रः । लवणजलनिधिं नदीं च दोर्भ्यां तरति ह्रदापदकर्दमं तमो वा ॥
(अव्परिस्_68,3.11) नरतुरगमहीरुहान् नगान् वा भवनचरान् न विरोहयेद् गजान् वा । ज्वलनमरणकालवृद्धयोगान् यदि नृप आत्मगतांश् च पश्यतीह ॥
(अव्परिस्_68,3.12) यदि च नृपतिर् आत्मनो ऽभ्रचारैर् भ्रमति महीं सपुरां परिक्षिपेत् । यदि च स चिरमग्नगात्रमात्रो भ्रमति नृपो ग्रसते ऽथ मेदिनीं वा ॥
(अव्परिस्_68,3.13) यदि च जयति दम्ष्ट्रिणो नरान् वा यदि च भवेत् सितमाल्यदानधारी । यदि च रुदिति चैवम् आदि दृष्ट्वा परविषयं हृषितस् ततस् तु यायात् ॥
(अव्परिस्_68,4.1) स कलुषसलिलावपांसुमग्नो मधुघ्}ऋततैलवसाप्रदिग्धगात्रः । मलिनवसनजीर्णरक्तवासा यदि सुमनोभिर् अलंकृतः स्वयं वा ॥
(अव्परिस्_68,4.2) स्वपिति जयति खादति प्रहृष्टो विलपति नर्तति गायनप्रहासैः । भवति च मुदितो लभेत कन्यां यदि नृपतिर् नयशो भवेज् जयार्थी ॥
(अव्परिस्_68,4.3) मयखरसूकरवानराधिरूढो हृतमुकुटाङ्गदवस्त्रचिह्ननग्नः । विनिहततुरगद्विपो नरेन्द्रो यदि पतितध्वजवांस् ततो न यायात् ॥
(अव्परिस्_68,4.4) नरपतिर् अपराजितः परैर् यो यदि च परैः परिहस्यते मदद्भिः । यदि च भवति दुर्दृशोग्ररूपो <अथ> न स ईदृशकः परान् प्रयायात् ॥
(अव्परिस्_68,4.5) स्वप्नान् दृष्ट्वा शुभान् राजा जपद्भिर् अभिमन्त्रितः । युक्तः स शकुनैर् भूप उत्पातगणवर्जितः ॥
(अव्परिस्_68,4.6) सहायवान् सुसंनद्धो निमित्तज्ञैः समन्वितः । सुमुहूर्ते सुनक्षत्रे प्रयायाद् वसुधाधिपः ॥
(अव्परिस्_68,5.1) तैलाभ्यक्तश् च कृसरां भुङ्क्ते तैलपरिप्लुताम् । मातरं प्रविशेद् यश् च ज्वलितं च हुताशनम् ॥
(अव्परिस्_68,5.2) प्रासदात् पर्वताग्राद् वा पतेद् यश् चापि मानवः । मग्नः कर्दमकूपेषु जले यश् चापि नश्यति ॥
(अव्परिस्_68,5.3) द्रुमम् उन्मूलयेद् यस् तु पश्येद् राज्ञोपसेवकम् । कुमारीवदने यश् च वानरीं वाधिगच्छति ॥
(अव्परिस्_68,5.4) रक्तकण्ठगते वापि यस्य कण्ठे विसर्जति । विवर्णो वापि पाशैर् यो बध्यते म्रियते तु सः ॥
(अव्परिस्_68,5.5) कांस्यं वा कांस्यपात्रीं वा यस्य तेजो ऽधिरोहति । अचिरेणैव कालेन सो ऽसिना वध्यते नरः ॥
(अव्परिस्_68,5.6) यूपाग्रम् अधिरुह्याथ नावाग्रम् अधिरोहति । अचिरेणैव कालेन शूलाग्रं सो ऽधिरोहति ॥
(अव्परिस्_68,5.7) मुण्डः काषायवासो वा श्वेतरक्तपटो ऽपि वा । स्वप्ने यस्याधिरोहन्ति व्याधिस् तस्याधिरोहति ॥
(अव्परिस्_68,5.8) श्वा वा अजगरो गोधा तरक्षु शल्यको ऽपि वा । कृकलासो रुरुर् व्याघ्रो द्वीपी यस्याधिरोहति ॥
(अव्परिस्_68,5.9) अहिश् च रौद्रजटिलः श्वेतरक्तपटो ऽपि वा । स्वप्ने यम् उपतिष्ठन्ति व्याधिस् तम् उपतिष्ठति ॥
(अव्परिस्_68,5.10) महीभस्मप्रदिग्धाङ्गो निरावरण एव च । समस्यानां सजातानाम् उत्सवानां च दर्शनम् ॥
(अव्परिस्_68,5.11) दुर्गम् अध्वानगमनम् अनूपानां च सेवनम् । अभ्यङ्गश् चैव गात्राणां तिलगोमयकर्दमैः ॥
(अव्परिस्_68,5.12) सुवर्णमणिमुक्तानि भूषणं रजतानि च । दर्शनं वाप्य् अथैतेषां व्याधीनां संप्रवेशनम् ॥
(अव्परिस्_68,5.13) गायनं नर्तनं हास्यं विवाहकरणं तथा । आनन्दश् च प्रमोदश् च व्यसनस्य च दर्शनम् ॥
(अव्परिस्_68,5.14) पुराणघृतदिग्धाङ्गो नरो मरणम् आप्नुयात् । एवम् उक्ता महोत्पाता विविधाः पूर्वचोदितः ॥
(अव्परिस्_68,5.15) उल्काभेदास् तथा पञ्च परिवेषा नव स्मृताः । दिग्दाहो ऽष्टविधः प्रोक्तो विद्युद् अष्टविधा तथा ॥
(अव्परिस्_68,5.16) चत्वारो भूमिकम्पाश् च निर्घातो ऽष्टविधस् तथा । विंशती द्वे च विज्ञेया भेदा ह्य् उल्कादिषु स्मृताः ॥
(अव्परिस्_68,5.17) महोत्पाताश् च बहवः शान्तियोगेषु कीर्तिताः । तेषु सर्वेषु विधिवच् छान्तिकामो नराधिपः ॥
(अव्परिस्_68,5.18) अथर्वाणं च वृणुयात् सर्वशास्त्रविदं नृपः । स वृतो भयभीतेन शमनार्थं महात्मना ॥
(अव्परिस्_68,5.19) प्रजानाम् अभयं सम्यग् दापयेत् पृथिवीपतिः । अनन्तरं गवां पूजा ब्राह्मणानां विशेषतः ॥
(अव्परिस्_68,5.20) देवतायतने सद्यो दोहान् भूमौ प्रकारयेत् । सततं चानुलिप्यस् तु पुष्पैर् धूपैर् यथोदितैः ॥
(अव्परिस्_68,5.21) प्रदीपैर् विविधैः शुभ्रैः सर्वदिक्षुप्रकल्पितैः । तथा बल्युपहारैश् च पायसापूपसंयुतैः ॥
(अव्परिस्_68,5.22) हृद्यैर् बहुविधैर् भक्षैः सर्वदिक्षुप्रकल्पितैः । तस्मिन्न् एवान्तरे शान्ते गोष्ठे वा जलसंनिधौ ॥
(अव्परिस्_68,5.23) निर्गत्य नगराद् वापि शुचौ देशे समाहितः । वृणुयाच् छान्तितत्त्वज्ञान् उत्पातविहिताञ् शुभान् ॥
(अव्परिस्_68,5.24) षोडशाष्टौ वृतास् ते च पुरश्चरणशोधिताः । अङ्गानि कुर्युर् अन्ये च शतसंख्या द्विजोत्तमाः ॥
(अव्परिस्_68,5.25) उदयास्ते सुखासीना जपं कुर्युर् अतन्द्रिताः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥
(अव्परिस्_68,5.26) तेषां वरिष्ठः शान्तिज्ञ उपद्रष्टा मनोहरः । सर्वकर्मसु वेत्ता य आनयेत् सो ऽप्य् अथादरात् ॥
(अव्परिस्_68,5.27) भूमिं संशोध्य विधिवत् कृत्वा तत्र च मण्डपम् । विधिवत् कल्पयेद् वेदिं यज्ञपात्राणि च स्वयम् ॥
(अव्परिस्_68,5.28) एवं यथोक्तविधिना अग्निमन्थनपूर्वकाम् । महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशिनीम् ॥
(अव्परिस्_68,5.29) अन्नैर् वस्त्रैश् च विविधैः संयुक्तां बहुदक्षिणाम् । कारयित्वा महाशान्तिं वरं गां च निवेदयेत् ॥
(अव्परिस्_68,5.30) गृहम् आभरणं छत्त्रम् अनडुद्वाजिनं तथा । कुञ्जरं वा तथा दत्त्वा घण्ताभरणभूषितम् ॥
(अव्परिस्_68,5.31) महत् सुखम् अवाप्नोति कार्यसिद्धिं च विन्दति । कार्यसिद्धिं च विन्दति ॥
(परिशिष्ट_69. अथर्वहृदयम्)
(अव्परिस्_69,1.1) ओम् उपसंगम्य मुनयः सर्वज्ञं शान्तमानसम् । अपृच्छन् गतमात्स्यर्यं भृगुं ब्रह्मविदां वरम् ॥
(अव्परिस्_69,1.2) कामा हि बहवो लोके संस्थिता भिन्नसाधनाः । एकम् एव परं तेषां सम्यक् त्वं ब्रूह्य् असंशयम् ॥
(अव्परिस्_69,1.3) समासेन प्रवक्ष्यामि येन सर्वं प्रदद्यते । अतिप्रश्नो ऽयम् उद्गीर्णस् तथापि कथयाम्य् अहम् ॥
(अव्परिस्_69,1.4) सर्वार्थसाधनार्थाय श्रुतिर् आङ्गिरसी हिता । स्वतेजसा प्रज्वलन्ती हृदयं तद् अथार्वणाम् ॥
(अव्परिस्_69,1.5) प्रभावं तस्य वक्ष्यामि उपरिष्टाद् यथाविधि । दुःसाध्यानि निमित्तानि तानि वेद्मि हि कानि चित् ॥
(अव्परिस्_69,2.1) अकाले यस्य जायन्ते दन्ताः केशैर् विवर्जितः । प्रभूतलम्बकेशो वा तथा हीनाधिकाङ्गुलिः ॥
(अव्परिस्_69,2.2) द्विदन्तश् चापि जायेत तस्य कर्म स्वशाखिकम् । स्वशाखायां तु यत् प्रोक्तं कुर्याद् वाथर्वणं विधिम् ॥
(अव्परिस्_69,2.3) द्विमूर्धा वा त्रिनेत्रो वा तथैकाक्षिर् द्विनासिकः । हीनहस्तो ऽपरो ह्य् अर्थे न त्व् अथर्वशिराः स च ॥
(अव्परिस्_69,2.4) कृतोपचारः पञ्च सप्त शुद्धात्मा साध्यसत्कृतः । स शान्त्युदकम् आचम्य शान्तवृक्षसमीपतः ॥
(अव्परिस्_69,2.5) शान्तवृक्षसमिद्भिस् तु तिलैस् त्रिमधुरैस् तथा । होमं कुर्याद् अथर्वा तु तेन नन्दति सत्कुलम् ॥
(अव्परिस्_69,3.1) न लभेद् यद्य् अथर्वाणं कुर्याद् दशगुणं स्वयम् । महाव्याहृतिहोमं च सावित्रं जपम् एव च ॥
(अव्परिस्_69,3.2) विकृताङ्गो ऽधिकाङ्गो वा जातो हीनाङ्गो एव वा । कुलस्याद्भुतम् अत्यर्थं तद् अथर्वा शमं नयेत् ॥
(अव्परिस्_69,3.3) कप्युष्ट्रेभगवादीनां जायन्ते ऽङ्गमुखैः समाः । यस्मिन् राष्ट्रे नृपस् तत्र षण्मासाद्द् हि विनश्यति ॥
(अव्परिस्_69,3.4) कप्यादयो व जायन्ते अन्यस्य तुल्यगात्रकाः । वृक्षे ऽन्यवृक्षजं पुष्पं जायते फलम् एव वा ॥
(अव्परिस्_69,3.5) द्विजोत्तमम् अथर्वाणं तत्रेच्छेच् छान्तिम् आत्मनः । कारयेत महाशान्तिं राष्ट्रस्य च पुरस्य च ॥
(अव्परिस्_69,4.1) उपस्थिते राज्यनाशे महारौरव एव वा । दुर्भिक्षे मरके वापि अनावृष्टिभये ऽपि वा ॥
(अव्परिस्_69,4.2) सर्वं राष्ट्रे विनश्येत सस्यं शलभमूषकैः । अकस्मान् निर्जला वा स्याद् अशोषा वा महासरित् ॥
(अव्परिस्_69,4.3) तथान्येष्व् अपु अनुक्तेषु घोरेषूपस्थितेषु च । कुर्युः शान्तिम् अथर्वाणो द्विजा ह्य् एतेषु भेषजम् ॥
(अव्परिस्_69,4.4) लभते राज्ययोग्यो ऽपि न राज्यं रज^नन्दनः । पठन् न लभते विद्यां द्विजः शृण्वन्न् अपि श्रुतम् ॥
(अव्परिस्_69,4.5) आधित्सुर् अपि नाधानं कुर्याद् आवासम् एव च । कन्या परिणिनीषुर् वा काम्येष्व् इष्टपतिं न च ॥
(अव्परिस्_69,5.1) वन्ध्या वा मृतवत्सा या दुर्भगा स्त्रीप्रसू च या । सकृत्प्रसूता या नारी गर्भं गृह्णाति नैव च ॥
(अव्परिस्_69,5.2) सूतिकाले ऽप्य् अतिक्रान्ते गर्भे स्फुरणवत्य् अपि । न सूतिं लभते या तु बहुपुत्रीयते च या ॥
(अव्परिस्_69,5.3) कृषीवलः कृषीवलं जयत्य् आयुधजीव्य् अपि । जयाप्सुर् व्यवहारे वा सौभाग्यं सार्वभौतिकम् ॥
(अव्परिस्_69,5.4) अथापहन्तुं भयम् एवमादिकं यदाभिलष्येत् फलम् उक्तम् एव वा । तदाङ्गिरस्यं वरमन्त्रसंपदा स्फुरन्तम् उच्चैः शरणं व्रजेद् द्विजम् ॥
(अव्परिस्_69,5.5) रात्रौ द्विछायवृक्षं वा कुस्वप्नं वापि रिष्टदम् । दिवा ग्रहान् निरीक्षेत भूमिकम्पैवमादिकम् ॥
(अव्परिस्_69,6.1) ज्वालाद्भुतान्य् अथ प्रोक्तानि यानि उल्कादिभेदा गदितास् तथा ये । स्वप्नाद्भुतान्य् अपि वान्याद्भुतानि गृहेषु यान्य् अर्थविदो वदन्ति ॥
(अव्परिस्_69,6.2) एतेषु शान्तिं कुर्वीत अमृतां वा सदक्षिणाम् । रौद्रीं वा वैश्वदेवीं वा अभयां वापराजिताम् ॥
(अव्परिस्_69,6.3) गोभूहिरण्यवस्त्रान्नैस् तिलैर् वा सफलैः शुभैः । उपानच्छत्त्रसंयुक्तां गुर्वाभरणसंयुताम् ॥
(अव्परिस्_69,6.4) प्रतिपतीयथोक्तं वा यः कुर्वीत विधान्वित् । एतद् उत्पातजं सर्वं महाशान्त्या प्रलीयते ॥
(अव्परिस्_69,6.5) यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्य् अपि तद्राष्ट्रं वर्धते निरुपद्रवम् ॥
(अव्परिस्_69,7.1) यस्य राज्ञो जनपदे स नास्ति विविधैर् भयैः । पीड्यते तस्य तद् राष्ट्रं पङ्ले गौर् इव मज्जति ॥
(अव्परिस्_69,7.2) तस्माद् राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसंमानसत्कारैर् नित्यं समभिपूजयेत् ॥
(अव्परिस्_69,7.3) नित्यं च कारयेच् छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥
(अव्परिस्_69,7.4) चतुष्पथेषु गोष्ठेषु तीर्थेष्व् अप्सु च कारयेत् । गोतर्पणं च विधिवत् सर्वदोषविनाशनम् ॥
(अव्परिस्_69,7.5) एवं तु ख्यापयन् राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखम् आप्नोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥
(अव्परिस्_69,8.1) उपस्थितं मृत्युम् अपि द्विजोत्तमः शमं नयेत् । अधीत्याथर्वाङ्गिरसस् तादृशम् आधृतव्रतः ॥
(अव्परिस्_69,8.2) द्युतिं प्रभां सदा स्फुरन् मन्त्रपवित्रवान् नरः । नृपे धनिनि चान्यत्र शान्त्याप्त्वा दक्षिणां बुधः ॥
(अव्परिस्_69,8.3) सीदन् कुटुम्बकः पोषं गृहीत्वान्यत् समुत्सृजेत् । त्रिः संहितां हविष्याद्यं जपेत् कृच्छ्रं च शुद्धये ॥
(अव्परिस्_69,8.4) सावित्रीलक्षम् अयुतं सहसरम् अथ चोत्तरम् । जप्त्वा दशांशको होमः कार्यो दोषानुसारतः ॥
(अव्परिस्_69,8.5) शतीरनिर्मलो यस् तु नार्चितो ऽपि द्विजोत्तरम् । अमत्सरी नितान्तं यः सो ऽत्र शान्तिं समारभेत् ॥
(अव्परिस्_69,8.6) एवंविधो ऽङ्गिरा यत्र यानि साध्यानि साधयेत् । न न्यूनं तत्र किंचित् स्याद् इति तद् भृगुभाषितम् ॥
(अव्परिस्_69,8.7) लघुशान्त्युदकविधिना गायत्र्या वापु अथर्वकः । कुर्यात् सर्वम् इदं जानन्न् अथर्वहृदयं बुधः ॥
(अव्परिस्_69,9.1) ये न जानन्त्य् अधीता अपि श्रुतिम् आङ्गिरसीं द्विजाः । अथर्वहृदयं चापि न ते वेदविदः स्मृताः ॥
(अव्परिस्_69,9.2) अथर्वहृदयं वेत्ता अथर्वा परमः स्मृतः । नाथर्वणे ऽप्य् इदं देयं गुरोर् विद्वेषयायिनि ॥
(अव्परिस्_69,9.3) अन्यशाख्यं द्विजो मोहात् पाठयन् प्रविलीयते । अथर्वहृदयं बुद्ध्वा यः पठेद् भक्तिपूर्वकम् ॥
(अव्परिस्_69,9.4) अथर्वा नाद्भुतं तस्य शान्तिर् एव सदा भवेत् । शान्तिर् एव सदा भवेत् ॥
(परिशिष्ट_70. भार्गवीयाणि)
(अव्परिस्_70,1.1) ओं संपूज्य विधिवत् प्राज्ञं विद्वांसो मुनयः पुरा । अपृच्छन् भृगुम् अव्यग्रं सर्वसत्त्वहिते रतम् ॥
(अव्परिस्_70,1.2) लोकत्रयनिविष्टानाम् उत्पातानाम् अनेकधा । भिन्नानां शमनं नोक्तं वद त्व् असंशयं मुने ॥
(अव्परिस्_70,1.3) प्रत्युवाच भृगुर् विप्रान् शृणुताहितमानसः । उत्पातशमनत्रित्वं कथ्यमानम् असंशयम् ॥
(अव्परिस्_70,1.4) तत्र विप्रान् प्रवक्ष्यामि दुरिष्टशमनक्षमान् । अथर्वाङ्गिरसो वेदे विधिज्ञान् सर्वकर्मणाम् ॥
(अव्परिस्_70,1.5) अहिंसासत्यदाक्षिण्यशौचश्रद्धासमन्विताः । श्रुतिस्मृतिसदाचाराः कुलशीलवयो ऽन्विताः ॥
(अव्परिस्_70,1.6) तेषाम् एकः प्रधानत्वे यः शान्तो द्विजसत्तमः । भृग्वङ्गिरोविद् अत्यर्थं शुचिः स्यात् साधुसंमतः ॥
(अव्परिस्_70,1.7) ब्रह्माणं तं नृपः कुर्याद् धोतारं सर्ववेदिनम् । एवम् उक्ते भृगुं विप्राः प्रोचुर् विगतकल्मषम् ॥
(अव्परिस्_70,1.8) होतारो भूमिभर्तॄणां महाशान्तेः प्रकीर्तिताः । ननु क्षीणे विद्वन् स्वधर्मप्रच्युते ऽपि वा ॥
(अव्परिस्_70,1.9) तत्र शान्तौ प्रयुक्तायां कस्य शान्तिफलं भवेत् । नृपो ऽप्य् अधार्मिकः कुर्याद् ब्रह्मणस् तर्पणं पुरा ॥
(अव्परिस्_70,1.10) ततः कृता महाशान्ती राजानं पाति सर्वतः । स वृतः पावनं गच्छेद् द्विजानां पावनाय वै ॥
(अव्परिस्_70,1.11) द्वादशाहं व्रतं तत्र पयोमूलफलाशनैः ॥
(अव्परिस्_70,2.1) त्रीणि त्र्यहाणि कुर्वीत पयोमूलफलैः शुभैः । अनश्नंश् च त्र्यहं धीरः स पुरश्चरणो भवेत् ॥
(अव्परिस्_70,2.2) तथैकोनं शतं नॄणां शुश्रूषूणाम् अकल्मषम् । अनुक्तवच् च त्र्यहं तत् कर्मणः करणे क्षमम् ॥
(अव्परिस्_70,2.3) कृच्छ्रं चापि हितं कृत्वा कुर्युः कर्म समाहिताः । शुद्धात्मानो जपैर् होमैर् वैदिकैर् वीतमत्सराः ॥
(अव्परिस्_70,2.4) ततः परं पुरोधःसु दिव्यं तत्रम् अवाप्नुयात् । ग्रहातिथ्यं च संरभ्य दिशां यागं च सर्वतः ॥
(अव्परिस्_70,2.5) नक्षत्रेषु च सर्वेषु यागं कृत्वा विधानतः । ततो ऽमृतमहाशान्त्या स्थापयेत् पद्मसंभवम् ॥
(अव्परिस्_70,3.1) सावित्र्या लक्षहोमं तु भौमे तिष्ठेद् विशारदाः । कुर्युर् देयं च दानानां विप्रेभ्यो यस्य यत् प्रियम् ॥
(अव्परिस्_70,3.2) गोभूमिकाञ्चनाश्वानां रत्नानां धान्यवाससाम् । रथानां वारणानां च दानं कामम् अतः परम् ॥
(अव्परिस्_70,3.3) तुष्येयुर् येन वा विप्राः संभवो यस्य यस्य हि । तत् तत् सर्वम् उपादेयम् एष दानविधिः स्मृतः ॥
(अव्परिस्_70,3.4) दद्याच् च गुरवे ग्रामं धेनुं वासोयुगं तथा । अलंकारैश् च संपूज्य प्रीणयेत् प्रीतमानसः ॥
(अव्परिस्_70,3.5) अनेन विधिना भौमम् अद्भुतं शमयेद् गुरुः । एष एव विधिर् ज्ञेयो वियत्ये ऽप्य् अद्भुताश्रये ॥
(अव्परिस्_70,4.1) विशेषो ऽयं तु सावित्र्या दशलक्षांस् तु होमयेत् । होमसमाहितमनाः कुर्याच् च घृतकम्बलम् ॥
(अव्परिस्_70,4.2) धेनूनां द्वादशं देयं शतनिष्कसमन्वितम् । गुरवे दीयमानं तच् छमयत्य् अम्बराद्भुतम् ॥
(अव्परिस्_70,4.3) दिव्याद्भुतेषु कर्तव्यः कोटिहोमसमन्वितैः । गोसहस्रं च दातव्यं गुरवे दक्षिणाविधिः ॥
(अव्परिस्_70,4.4) एष प्रोक्तो विधिः सम्यग् दिव्यानिष्टविपत्करे । सुभिक्षक्षेमसंपत्त्या प्रजानां पुष्टिवर्धनः ॥
(अव्परिस्_70,4.5) कोटिहोमेषु सर्वेषु द्रव्यभेदाश्रयं फलम् । शान्तिपुष्ट्यभिचारार्थं तन् मे निगदतः शृणु ॥
(अव्परिस्_70,4.6) सौम्यवृक्षाश्रयाः कार्याः समिधः शान्तिम् इच्छता । अर्ककाश्मर्यनिम्बानां समिद्भिः शत्रुशातनम् ॥
(अव्परिस्_70,4.7) दुर्नामकण्टकम्बूनां समिद्भिश् च विशेषतः । भग्नस्फुटितवृक्षाणां फलं शत्रुनिबर्हणम् ॥
(अव्परिस्_70,4.8) बिल्वपद्मोत्पलानां तु शुचिदेशप्ररोहिणाम् । सर्वदा सर्वकामांस् तु होमैः प्राप्नोति मानवः ॥
(अव्परिस्_70,4.9) तिलव्रीहियवादीनां दध्नो मधुघृतस्य च । पयोगोधूमशालीनां होता शान्तिं समारभेत् ॥
(अव्परिस्_70,4.10) सर्वेषां हविषां चैव घृतं शान्तिकरं स्मृतम् । सर्वद्रव्ये घृतं तस्माद् धोमे प्रक्षेपम् अर्हति ॥
(अव्परिस्_70,5.1) यज्ञोपवीतिना कार्यं शान्तिकर्म विपश्चिता । उपवीतं तु पित्र्येषु सर्वेष्व् एव समारभेत् ॥
(अव्परिस्_70,5.2) मध्वाज्यदधिदुग्धेषु भक्ष्यमाणे विलेपने । यन्त्रवाहनशस्त्रेषु भवनेष्व् आयुधेषु च ॥
(अव्परिस्_70,5.3) दर्पणे भक्तपात्रे च मणिमुक्ताफलेषु च । भूषणेषु तथान्येषु शय्यायाम् आसनेषु च ॥
(अव्परिस्_70,5.4) काकोलूककपोतानां मधोर् वा दर्शनं भवेत् । अन्येषां चाप्रशस्तानाम् आगमो मृगपक्षिणाम् ॥
(अव्परिस्_70,5.5) अश्वेतानां च पुष्पाणां सरीसृपगणस्य च । वसालोहितमांसानाम् अस्थिमज्जाशिरोरुहाम् ॥5 ॥
(अव्परिस्_70,6.1) अकस्माच् चैव संघाते दर्शने नखभस्मनाम् । रसान्यत्वे रसानां च दुर्गन्धे वानिमित्तजे ॥
(अव्परिस्_70,6.2) पद्मपुष्पाकृतिर् यत्र दृश्यते मधुसर्पिषि । कृसरापायसे चैव क्षयस् तस्य धनायुषोः ॥
(अव्परिस्_70,6.3) घृते वा मधुदध्नि वा यदा पद्माकृतिर् भवेत् । स्वस्तिको वापि दृश्येत तदा मरणम् आदिशेत् ॥
(अव्परिस्_70,6.4) विकारो यत्र दृश्येत क्षीरोदनहविह्षु वा । श्रोत्रियाय तु तद् दद्याद् भावैव शमयेन् नरः ॥
(अव्परिस्_70,6.5) यत्रस्थं चाद्भुतं पश्येत् तत्रापि प्रतिपादयेत् । कुर्याद् वा वारुणीं शान्तिं परमेण समाधिना ॥
(अव्परिस्_70,7.1) अन्याकृतिषु वाप्य् एतद् ये स्थाने शान्तिकारकाः । तेषाम् अथाक्षयं विद्याद् आयुषार्थधनेन वा ॥
(अव्परिस्_70,7.2) चलिते ज्वलिते पाते स्फुरित उत्पतिते तथा । महाजनगजाश्वानां स्थाने विद्यान् महद् भयम् ॥
(अव्परिस्_70,7.3) तत्र युध्यन्ति जातीनां भयं तत् स्याद् असंशयम् । तत्रापि चार्थनिचयैः पशुभिर् विद्ययापि वा ॥
(अव्परिस्_70,7.4) उत्पातशमनार्थं तु ये क्रिया न प्रयुञ्जते । नराः क्षिप्रं विनश्यन्ते सान्वयाः सपरिच्छदाः ॥
(अव्परिस्_70,7.5) विप्राणां भोजनं कार्यं सहस्रस्यायुतस्य वा । बलिपुष्पोपहारैश् च देवतानां प्रसादनम् ॥
(अव्परिस्_70,7.6) कर्तव्यं च यथान्यायं शान्तिकर्म विपश्चिता । एवं कृते भयं सर्वं तत्क्षणाद् एव नश्यति ॥
(अव्परिस्_70,8.1) शुभाशुभस्थितं चैव मुनयो भृगुम् अब्रुवन् । स प्रत्युवाच पुरुषु संवत्सरसमाश्रये ॥
(अव्परिस्_70,8.2) शीतोष्णवृष्टिकालेषु वीतदोषेषु सर्वदा । संवत्सराख्यः पुरुषो निरुपद्रव उच्यते ॥
(अव्परिस्_70,8.3) यदि निर्घातभूकम्पदिग्दाहादिविवर्जितः । केतुभिश् चैव युज्येत यदि वादित्यकीलकैः ॥
(अव्परिस्_70,8.4) अन्यैर् वा लोकनाशार्थैर् अद्भुतैर् नाशनाकुलैः । तत एष विशुद्धात्मा पुरुषः सुखम् एधते ॥
(अव्परिस्_70,8.5) अथ चेत् स बहुविधैर् अद्भुतैः परिसंयुतः । संवत्सरं भवेच् छीघ्रं कुर्युस् तच्छमनं बुधाः ॥
(अव्परिस्_70,9.1) तत्र शान्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । दिव्यतन्त्रविद् आचार्यो यया फलम् अवाप्नुयात् ॥
(अव्परिस्_70,9.2) पूर्वं तावद् विशुद्धात्मा स पुरश्चरणो भवेत् । देवतानां ततो यागं यथाश्रुति समाचरेत् ॥
(अव्परिस्_70,9.3) यागं कृत्वा ग्रहाणां तु नक्षत्राणां ततः परम् । ऋतून् अथार्तवांश् चैव महादेवगणाधिपान् ॥
(अव्परिस्_70,9.4) दिशश् च विदिशश् चैव यमेन्द्रवरुणांस् तथा । विश्वेश्वरं च विष्णुं च यजेताद्भुतकर्म च ॥
(अव्परिस्_70,9.5) सूर्याचन्द्रमसाव् अग्निं सर्वान् ग्रहगणांस् तथा । वायुं तथाश्विनौ चैव महाशान्तिं विधानतः ॥
(अव्परिस्_70,9.6) कुर्याद् देवादृतो धीमान् एवं दोषः प्रशाम्यति ॥
(अव्परिस्_70,10.1) श्वेतं वा भवति पयो विलोहितं वा पीतं वा भवति हि कृष्णपिङ्गलं वा । उत्पातः फलति यथा चतुःप्रकारस् तत् सर्वं शृणुत समासतो मयोक्तम् ॥
(अव्परिस्_70,10.2) विप्राणां भवति हि शुक्लम् अम्बुदोषे राजानं सपदि निहन्ति लोहितं च । पीतं चेद् भवति निहन्ति वैश्यवर्गं शूद्राणां भवति हि कृष्णपिङ्गदोषे ॥
(अव्परिस्_70,10.3) बीजं यत्र प्ररोहेत फलम् अथ प्रमादतः । एतद् अत्यद्भुतं नाम दम्पत्योस् तु विनाशनम् ॥
(अव्परिस्_70,10.4) अपूजनात् तु पूज्यस्य तथापूज्यस्य पूजनात् । अन्तःकरणदोषाच् च हेतोः शान्तिर् न जायते ॥
(अव्परिस्_70,10.5) तस्माद् वेदार्थशास्त्रज्ञान् वीतरागान् अमत्सरान् । परिचारकमुख्यांश् च कारयेत् कुशलान् द्विजान् ॥
(अव्परिस्_70,11.1) विचारितं च विद्वद्भिर् निश्चितं सुधिया पुनः । देशकालसमायुक्तं कर्म कुर्याद् विचक्षणः ॥
(अव्परिस्_70,11.2) चोदिते कर्मण्य् अन्यस्मिन् नान्यत् कुर्याद् विधानवित् । न च प्रारभ्य कर्माणि स्थातव्यं क्व चिद् अन्तरे ॥
(अव्परिस्_70,11.3) नापि कुर्वीत मतिमान् कदा चित् कर्मसंकरम् । कुर्वंस् तु न तथा कर्म दोषम् उत्पादयेद् भृशम् ॥
(अव्परिस्_70,11.4) अन्यथाकरणे दोषान् समीक्ष्य तु बहून् इह । संकल्पवान् न समाप्तिः [सावीर्याकृतिकर्मणी] ॥
(अव्परिस्_70,11.5) दृष्ट्वाद्भुतं तु कार्त्स्न्येन ततः शान्तिं समारभेत् । असमीक्ष्य तु कुर्वाणो न शान्तिं लभते नरः ॥
(अव्परिस्_70,12.1) वातिकस्य यथा वैद्यः पैत्तिकस्य च निश्चये । रोगस्य भैषजे दत्ते कर्मसिद्धिम् अवाप्नुयात् ॥
(अव्परिस्_70,12.2) तस्मात् तावत् परीक्षेत यावन् निष्पन्नम् अद्भुतम् । असदस्यसदस्यानां कर्तुः कारयितुस् तथा ॥
(अव्परिस्_70,12.3) विगुणं क्रियमाणं तु कर्म कुर्याद् उपद्रवम् । विशेषतो निहन्येत कर्तारं सपरिच्छदम् ॥
(अव्परिस्_70,12.4) हेतुश्रुतं च दृष्टं च तस्मात् सागुण्यम् आचरेत् । सगुणे च कृते तस्मिन् सर्वसंपद् भवेद् ध्रुवम् ॥
(अव्परिस्_70,12.5) अशोकपुष्पैर् होमे तु मधुक्षीरसमन्वितैः । प्राप्नोति सुकृतैर् विप्रो गन्धर्वपदम् उत्तमम् ॥
(अव्परिस्_70,12.6) ब्रह्मादिस्तम्बपर्यन्तं यं यं कामं समीहते । तत् तत् प्राप्नोत्य् अयत्नेन सत्यम् एतद् द्विजोत्तमाः ॥
(परिशिष्ट_70ब्. गार्ग्याणि)
(अव्परिस्_70ब्,1.1) ओं प्रणम्य विष्टरासीनां ब्रह्माणं कविसत्तमम् । प्रणम्य शिरसा देवं गौतमः पर्यपृच्छत ॥
(अव्परिस्_70ब्,1.2) अद्भुतानि सुरश्रेष्ठ प्रजानाम् अहिताय वै । शमनं च तथा तेषां प्रब्रूहि विनयेन मे ॥
(अव्परिस्_70ब्,1.3) तस्य तद् वचनं श्रुत्वा ब्रह्मा लोकपितामहः । अब्रवीत् परमः प्रीतः सर्वोत्पातप्रतिक्रियाम् ॥
(अव्परिस्_70ब्,1.4) शृणु वत्स यथान्यायं द्वादशाध्यायसंग्रहम् । प्रच्यमानम् अशेषं तं वातवैकृतनोदितम् ॥
(अव्परिस्_70ब्,1.5) यस्माच् च वायुर् वलवाञ् श्रेष्ठः सर्वाद्भुतोद्भवः । तस्मात् तम् एव प्रथमं प्रवक्ष्यामि यथाविधि ॥
(अव्परिस्_70ब्,2.1) यान्ति यानान्य् अयुक्तानि विना नृभिस् तथा । युक्तानि वा न गच्छन्ति नरेन्द्राणां महद् भयम् ॥
(अव्परिस्_70ब्,2.2) भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्य् अनाहताः । आहताश् च न वाद्यन्ते अचलानि चलन्ति वा ॥
(अव्परिस्_70ब्,2.3) अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः । शरीरं व्यथते तत्र यदि वा वेश्मनि श्रुतः ॥
(अव्परिस्_70ब्,2.4) श्रूयन्ते च महाशब्दा गीतगान्धर्वनिस्वनाः । शरीरं बाध्यते तत्र व्याधिर् वा सुमहान् भवेत् ॥
(अव्परिस्_70ब्,2.5) कोष्ठे वा पतते यत्र हस्ताद् दर्वी कदा चन । पतते मुसलं चापि शूर्पं वा धूयते यदि ॥
(अव्परिस्_70ब्,3.1) गोलाङ्गलानां संसर्गो विकारश् चन्द्रसूर्ययोः । नारीं वा धयते नारी जायते तुमुलं भयम् ॥
(अव्परिस्_70ब्,3.2) प्रत्याहरन्ति सर्पन्ति स्तम्भप्रासादपादपाः । शयनासनयानानि नियतं नृपतेर् वधः ॥
(अव्परिस्_70ब्,3.3) वाति चाकालिलो वायुर् घोरः शर्करकर्षणः । पातयन् वृक्षवेश्मानि कल्पान्त इव भीषणः ॥
(अव्परिस्_70ब्,3.4) सप्ताहम् अथ वा पक्षं निबध्नात्य् अतिदारुणम् । त्र्यहाद् यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥
(अव्परिस्_70ब्,3.5) वायव्येष्व् एव नृपतिर् वायुं सप्तभिर् अर्चयेत् । द्वाव् इमाव् इति तिस्रो हि जप्तव्याः प्रयतैर् द्विजैः ॥
(अव्परिस्_70ब्,4.1) बह्वन्नदक्षिणो होमः कर्तव्यो ऽतिप्रयत्नतः । वायव्याम् एव शान्तौ च वायोः सवितुर् आवपेत् ॥
(अव्परिस्_70ब्,4.2) आदाव् अन्ते च मध्ये च तथैवम् अनुयोजयेत् । गुरवे दक्षिणां दद्याद् वायवीशान्तिसिद्धये ॥
(अव्परिस्_70ब्,4.3) यमकं जायते पुष्पं फलं वा यमकं यदि । कुमुदोत्पलपद्मानि एकनाले बहून्य् अपि ॥
(अव्परिस्_70ब्,4.4) बहुशीर्षा द्विशीर्षा वा तथान्यप्रसवा अपि । यवा वा व्रीहयो वापि स्वामिनो मरणाय ते ॥
(अव्परिस्_70ब्,4.5) एकवृक्षे च संपश्येन् नानात्वं फलपुष्पयोः । व्यत्यासम् अन्यथात्वं वा परचक्रागमो भवेत् ॥
(अव्परिस्_70ब्,5) [थे मनुस्च्रिप्त्स् चोन्तैन् नो खण्डिका fइवे.]
(अव्परिस्_70ब्,6.1) अनृतु फलपुष्पं वा न यथर्तु फलन्ति वा । ओषधीवीरुधो वापि जनमारभयं भवेत् ॥
(अव्परिस्_70ब्,6.2) अथ धान्यविपर्यासे अभद्रं चापि शंसति । तिला वा समतैलाः स्युः सुरातैला भवन्ति वा ॥
(अव्परिस्_70ब्,6.3) अग्राम्यं कारयेत् पुष्पं फलं वा विकृतं नृपः । धान्यानां वैकृते क्षेत्रं सह सस्येन दापयेत् ॥
(अव्परिस्_70ब्,6.4) सौर्यं चरुं पुष्पफले विकृते पशुम् एव च । क्षैत्रपत्यं च भौमं च निर्वपेत् सस्यवैकृते ॥
(अव्परिस्_70ब्,6.5) सौर्यी शान्तिः प्रयोक्तव्या सौर्यैर् मन्त्रैर् यथाविधि । उच्चा पतन्तम् इत्य् ऋग्भ्यां गर्भं तु परिकीर्तितम् ॥
(अव्परिस्_70ब्,7.1) भौमेन चानुवाकेन गर्भयेत् सस्यवैकृते । सदक्षिणैर् द्विजैर् भुक्तैः कर्तारं चार्चयेत् ततः ॥
(अव्परिस्_70ब्,7.2) पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः । रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून् रसान् ॥
(अव्परिस्_70ब्,7.3) अरोगा वा निवाते च शाखा मुञ्चन्त्य् असंभ्रमे । फलं पुष्पं तथा बाला दर्शयन्तीति हासनम् ॥
(अव्परिस्_70ब्,7.4) सर्वावस्थां दर्शयन्तः फलपुष्पम् अनार्तवम् । [क्षिप्रं तत्र भयं घोरं घोरं प्रवर्य्तेत चतुर्विधम् ॥
(अव्परिस्_70ब्,7.5) सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद् भयं वातिप्रवर्तते ॥
(अव्परिस्_70ब्,7.6) सुरासवं तथा क्षौद्रं सर्पिस् तैलं तथा दधि । यत्र वर्षति पर्जन्यः क्षुद्रगस् तत्र जायते ॥
(अव्परिस्_70ब्,7.7) उल्काताराश् च धिष्ण्येषु यदाङ्गारांश् च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(अव्परिस्_70ब्,7.8) नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(अव्परिस्_70ब्,7.9) पुमान् अश्वो गजो वापि यदा यत्र प्रदीप्यते । नश्यन्ति सेवकास् तत्र प्रधानश् च विनङ्क्ष्यति ॥
(अव्परिस्_70ब्,7.10) यत्र स्रवेच् चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक् समस्तान् वा तत् प्रवक्ष्यामि लक्षणम् ॥
(अव्परिस्_70ब्,7.11) घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि पानीये घृते चैवापरं पयः ॥
(अव्परिस्_70ब्,7.12) यत्रैतच् च महोत्पातं वृक्षेषु स्यात् सुदारुणम् । सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् ॥
(अव्परिस्_70ब्,7.13) तैले प्रधाना वध्यन्ते भक्ते क्षुद्भयम् आदिशेत् । अनृतौ चेत् फलं यत्र पुष्पं वा दृश्यते द्रुमे ॥
(अव्परिस्_70ब्,7.14) ध्रुवं स्याद् दशमे मासि राज्ञस् तत्र विपर्ययः । पुष्पे पुष्पं भवेद् यत्र फले चैव तथा फलम् ॥
(अव्परिस्_70ब्,7.15) पर्णे पर्णं विजानीयात् तत्र नानाविधं भयम् । शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः ॥
(अव्परिस्_70ब्,7.16) ब्राह्मणानां भयं घोरं तदा तीव्रं विनिर्दिशेत् । रक्तवस्त्रावृतैश् चान्यैः क्षत्रैयाणां महाभयम् ॥
(अव्परिस्_70ब्,7.17) पीतवस्त्रैश् तु वैश्यानां शूद्राणां कृष्णवाससैः । नीलैः सस्योपघाताय मिश्रैस् तु मृगपक्षिणाम् ॥
(अव्परिस्_70ब्,7.18) विवर्णैर् वायवस् तीव्राः परं स्युर् दशमासतः । दैवतानि प्रलपन्ति यस्य राष्ट्रे हसन्ति वा ॥
(अव्परिस्_70ब्,7.19) उदीक्षन्ते पुरो वापि तत्र विद्यान् महद् भयम् । विहसन्ति निमीलन्ति लिङ्गानि विकृतानि च ॥
(अव्परिस्_70ब्,7.20) मासान्तरेण जानीयात् तत्र तत्र महद् भयम् । यत्र चित्रम् उदीक्षेत गायते चेष्टते मुहुः ॥
(अव्परिस्_70ब्,7.21) एतेष्व् अष्टसु मासेषु राज्ञो मरणम् आदिशेत् । चित्राणि यत्र लिङ्गानि तथैवायतनानि च ॥
(अव्परिस्_70ब्,7.22) विकारं कुर्युर् अत्यर्थं तत्र विद्यान् महाभयम् । उत्पाटनं तदागानां सरसो वा fइरेस् तथा ॥
(अव्परिस्_70ब्,7.23) समुद्देशे प्रदीप्यन्ते विद्यात् तत्र भयं महत् । यत्र वृक्षा अकालीनं दर्शनं फलपुष्पयोः] ॥
(अव्परिस्_70ब्,7.24) क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति वा । शूष्यन्त्य् अरोगाः सहसा शुष्का रुहन्ति वा पुनः ॥
(अव्परिस्_70ब्,7.25) उत्तिष्ठन्ति निषीदन्ति तत् प्रवक्ष्यान्य् अतः परम् ॥
(अव्परिस्_70ब्,8.1) हसने देहनाशः स्याद् योधा नश्यन्ति शखया । संभ्रमो देशनाशाय फली शिल्पिक्षयाय च ॥
(अव्परिस्_70ब्,8.2) बालानां मरणं कुर्याद् बालानां फलपुष्पता । स्वराष्ट्रभेदं कुरुते फलपुष्पम् अनार्तवम् ॥
(अव्परिस्_70ब्,8.3) क्षयः क्षीरस्रवे ज्ञेयः स्नेहे दुर्भिक्षलक्षणम् । वाहनापचयं मद्ये रक्ते संग्रामम् आदिशेत् ॥
(अव्परिस्_70ब्,8.4) मधुस्रावे भवेद् व्याधिर् जलस्रावे न वर्षति । अरोगा यदि शुष्यन्ते विद्याद् दुर्भिक्षलक्षणम् ॥
(अव्परिस्_70ब्,8.5) भेदः स्वपतितोत्थाने रुदत्स्व् अन्नक्षयो भवेत् । जल्पने धननाशः स्याद् गुल्मवल्लीलतासु च ॥
(अव्परिस्_70ब्,9.1) पूजितानां जलस्रुतौ राज्ञो मृत्युं समादिशेत् । आच्छादयित्वा तं वृक्षां गन्धमाल्यैर् विभूषयेत् ॥
(अव्परिस्_70ब्,9.2) भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् । छत्त्रध्वजं च दातव्यं पर्णहोमस् तथा परम् ॥
(अव्परिस्_70ब्,9.3) मन्त्रैर् औषधसंयुक्तैर् भ्वोरदाबन् अतः परम् । बलिं चैवोपहारांश् च गीतनृत्यं समन्ततः ॥
(अव्परिस्_70ब्,9.4) गन्धमाल्यं च धूपं च दीपं दद्यात् तथैव च । भक्षभोज्यान्नपानं च रुद्रस्योपहरेन् निशि ॥
(अव्परिस्_70ब्,9.5) पाकश् च दशमे मासि शुक्रस्य वचनं यथा । बृहस्पतिस् तथादित्ये ब्रुवेते यत् तथैव तत् ॥
(अव्परिस्_70ब्,10.1) रौद्री चैवात्र कर्तव्या वृक्षाद्भुतविनाशिनी । दुरवे दक्षिणां दद्यान् निष्कं भूमिं च तत्र वै ॥
(अव्परिस्_70ब्,10.2) अकालप्रसुवो नार्यः कालातीताः प्रजास् तथा । संबद्धयुग्मप्रसवा द्वियुग्मप्रसवा अपि ॥
(अव्परिस्_70ब्,10.3) अमानुषाणि रुण्डानि संजायन्ते यदा स्त्रियाम् । अत्यङ्गानि अनङ्गानि हीनाङ्गान्य् अथ वा पुनः ॥
(अव्परिस्_70ब्,10.4) चतुष्पत्पक्षिसदृशान्य् अर्धमानुषवन्ति च । विनाशस् तत्स्य देशस्य कुलस्य च विनिर्दिशेत् ॥
(अव्परिस्_70ब्,10.5) अप्राप्तवयसो गर्भो द्विचतुष्पत्स्त्रियो ऽपि वा । विध्वस्तं विकृतं चापि प्रजायेत भयाय तत् ॥
(अव्परिस्_70ब्,11.1) तान्य् आशु परभूमिषु त्यक्तव्यानि शुभार्थिभिः । शान्तिश् चात्र प्रकर्तव्या ब्राह्मणैर् ब्रह्मवादिभिः ॥
(अव्परिस्_70ब्,11.2) वडवा हस्तिनी गौर् वा यदि युग्मं प्रसूयते । विजातं विकृतं वापि षण्मासैर् म्रियते नृपः ॥
(अव्परिस्_70ब्,11.3) अपत्यानि च यूथेभ्यस् त्याज्यानि परभूमिषु । स्वामिनो नगरं यूथम् अन्यथा तु विनाशयेत् ॥
(अव्परिस्_70ब्,11.4) वियोनिषु यदा यान्ति ंश्रीभावः प्रजास्व् अपि । खरोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
(अव्परिस्_70ब्,11.5) अकाले वापि माद्यन्ते काले वापु अमदा यदि । शिवोष्ट्रहयमातङ्गाः पक्षिणो वा न साधु तत् ॥
(अव्परिस्_70ब्,12.1) अथानड्वान् अनड्वाहं धेनुर् धेनुं पिबेद् यदि । शुनी वा धयते धेनुं शुनीं धेनुर् अथापि वा ॥
(अव्परिस्_70ब्,12.2) [तिर्यग्योनौ मानुषी वा परचक्रागमो भवेत् । अमानुषा मानुषाणि जलपन्ते प्राणिनो यदि ॥
(अव्परिस्_70ब्,12.3) विचेष्टां वा विरावं वा मासेन म्रियते नृपः] । चतुष्पत्पक्षिभुजगान् मानुषी जनयेद् यदि ॥
(अव्परिस्_70ब्,12.4) तिर्यग्योनौ मानुषं वा परचक्रागमो भवेत् । जङ्गमे स्थावरं जातं स्थावरे वाथ जङ्गमम् ॥
(अव्परिस्_70ब्,12.5) तस्मिन् योनिविपर्यासे परचक्रागमो भवेत् । त्यागो विवासो दानं वा दत्त्वाप्य् आशु शुभं भवेत् ॥
(अव्परिस्_70ब्,13.1) स्थालीपाकेन यष्टव्यं पशुना वा पुरोहितः । प्राजापत्येन मन्त्रेण यजेद् बह्वन्नदक्षिणाम् ॥
(अव्परिस्_70ब्,13.2) याम्याकर्मप्रयोगस् तु प्रथमं तत्र दृश्यते । प्राजापत्यां ततः शान्तिं प्राजार्थी कारयेन् नृपः ॥
(अव्परिस्_70ब्,13.3) आदाव् अन्ते च मध्ये च शान्ताव् उक्तस् तु तद्गणः । आरोग्यं च शिवं चैव देशे तस्मिन् नृपे भवेत् ॥
(अव्परिस्_70ब्,13.4) यत्राद्भुतानि दृश्यन्ते विचित्राणि समन्ततः । सुसमृद्धो ऽपि देशः स क्षिप्रम् एव विनश्यति ॥
(अव्परिस्_70ब्,13.5) राजवेश्मसु वैकृत्ये प्रासादध्वजतोरणे । औत्पातिकानि दृश्यन्ते राज्ञस् तत्र महद् भयम् ॥
(अव्परिस्_70ब्,14.1) प्रासादतोरणाट्टालद्वारप्रासादवेश्मनाम् । अकस्मात् पतनं तेषां राजमृत्युकरं स्मृतम् ॥
(अव्परिस्_70ब्,14.2) देवराजध्वजानां च पतनं भङ्ग एव वा । निषेवणं वा क्रव्यादैः..........प्रभ्रष्टैर् वीतरश्मिकैः ॥
(अव्परिस्_70ब्,15.1) प्रभ्रष्टग्रहनक्षत्रैर् दिशः सर्वाः समाकुलाः । संध्या चोभयथा दीप्ता तत्र विद्यान् महद् भयम् ॥
(अव्परिस्_70ब्,15.2) यदि वा दीर्यते ऽकस्माद् भूमिश् छिद्रीभवेद् यदि । प्रकम्पते ऽतिमात्रं वा सर्वेषु च भयाय तत् ॥
(अव्परिस्_70ब्,15.3) रक्षःपतंगैः पन्थानो न वहन्ति भयान्विताः । रक्षोरूपाणि दृश्यन्ते न च रक्षा गृहेष्व् अपि ॥
(अव्परिस्_70ब्,15.4) संप्रविष्टैः पिशाचैर् वा रक्षोभिर् वापि तन्निभैः । अचिरान् नगरं तत्र जनमारेण मार्यते ॥
(अव्परिस्_70ब्,15.5) ऋतवस् तु विपर्यस्ता ब्राह्मणाश् च विधर्मिणः । नक्षत्राणि वियोगीनि भयम् ईदृक् प्रदर्शनम् ॥
(अव्परिस्_70ब्,16.1) अपूज्या यत्र पूज्यन्ते न पूज्यन्ते च पूजिताः । पूज्येष्व् अदाननिष्ठा च भयम् ईदृक् प्रदर्शनम् ॥
(अव्परिस्_70ब्,16.2) नादीयन्ते न पूज्यन्ते ब्राह्मणा बलिभिः सुराः । न चैवात्मीयधर्मेषु रतिं कुर्वन्त्य् अधर्मतः ॥
(अव्परिस्_70ब्,16.3) भिन्नाः कौटिल्यबहुला गजाः पुरुषवाजिनः । कलहे स्युर् निरुत्साहाः ससत्याः सत्यवर्जिताः ॥
(अव्परिस्_70ब्,16.4) शीलाचारविहीनाश् च मद्यमांसानृतप्रियाः । नग्नपाषण्डभूयिष्ठा विनाशे पर्युपस्थिते ॥
(अव्परिस्_70ब्,16.5) महाबलिं महाशान्तिं भोज्यानि सुमहान्ति च । प्राजापत्यं महेन्द्रं च महादेवम् अथापि वा ॥
(अव्परिस्_70ब्,17.1) ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् । गवाम् अष्टशतं दद्याद् विप्रेभ्यो मनुजाधिपः ॥
(अव्परिस्_70ब्,17.2) गुरवे तु शतं निष्कं प्रजास्व् एवं शिवं भवेत् । अनावृष्ट्यातिवृष्ट्या वा दुर्भिक्षेण भयं भवेत् ॥
(अव्परिस्_70ब्,17.3) अकालवर्षो रोगाय अतिवृष्टिर् भयाय च । अनभ्रं वर्षते ऽकस्माद् वैद्युतं गर्जितं तथा ॥
(अव्परिस्_70ब्,17.4) अनभ्रे वापि निर्घातः पतितो राजमृत्यवे । तीक्ष्णं च वर्षत्य् अनृतौ ऋतुष्व् एव न वर्षति ॥
(अव्परिस्_70ब्,17.5) यदा चोष्णे भवेच् छीतं शीते चोष्णं तथैव च । दृष्टो भावस् तु विकृतो न यथर्तु स्वरूपकः ॥
(अव्परिस्_70ब्,17.6) अनारोग्यं भवेच् चैव प्रजानाम् इति निर्दिशेत् ॥
(अव्परिस्_70ब्,18.1) सप्तरात्रं यदा वर्षेत् प्रबद्धं पाकशासनः । अनृतौ तस्य देशस्य प्रधानस्य वधो ध्रुवम् ॥
(अव्परिस्_70ब्,18.2) शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् । मज्जास्थिस्नेहमांसं वा जनमारीभयं भवेत् ॥
(अव्परिस्_70ब्,18.3) अङ्गारपांसुवृष्टेस् तु नगरं तद् विनश्यति । फलं पुष्पं शमीधान्यं हिरण्यं वा भयाय तत् ॥
(अव्परिस्_70ब्,18.4) जन्तवो दीनविकृताः पलालो ऽपि विनाशनः । छिद्रावर्ताः प्लवङ्गश् च सस्यानाम् अतिवर्धनम् ॥
(अव्परिस्_70ब्,18.5) अनभ्रे वा दिवा रात्रौ श्वेतम् इन्द्रायुधं भवेत् । पूर्वपश्चादुत्तरे वा दक्षिणे वापि दृश्यते ॥
(अव्परिस्_70ब्,18.6) सुसमृद्धम् अपि स्थानं दुर्भिक्षेण विनश्यति ॥
(अव्परिस्_70ब्,19.1) यद्य् अनभ्रे ऽपि विमले सूर्यछाया न दृश्यते । न निरभ्रे प्रतीपा वा तत्र देशभयं भवेत् ॥
(अव्परिस्_70ब्,19.2) सूर्येन्द्रवायुपर्जन्या यष्टव्या वर्षवैकृते । अन्नानि सहिरण्यानि धान्यं गावश् च दक्षिणाः ॥
(अव्परिस्_70ब्,19.3) वैश्वदेवी च कर्तव्या सर्वाद्भुतविनाशिनी । गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः ॥
(अव्परिस्_70ब्,19.4) शतं निष्कं सुवर्णस्य दातव्यं वा गवां शतम् ॥
(अव्परिस्_70ब्,19.5) अथातो ऽग्निवैकृतम् अध्यायं व्याख्यास्यामो यथोवाच भगवाञ्शुक्रः ॥
(अव्परिस्_70ब्,19.6) अनिन्धनो ऽग्निर् दीप्येत यत्र तूर्णम् अघस्वनः । न दीप्यते सेन्धनो वा सराष्ट्रं पीडयेन् नृपम् ॥
(अव्परिस्_70ब्,19.7) प्रज्वलेद् दधि मांसं वा तथा दूर्वापि किं चन । अग्निं विना यदाशुष्कं नियतं नृपतेर् वधः ॥
(अव्परिस्_70ब्,20.1) प्रासादं तोरणं द्वारं प्राकारं काश्यपं गृहम् । शयनासनयानं च ध्वजं छत्त्रं सचामरम् ॥
(अव्परिस्_70ब्,20.2) अनग्निना यदि दहेद् विद्युता वापि निर्दहेत् । सप्ताहाभ्यन्तरे तत्र नियतं नृपतेर् वधः ॥
(अव्परिस्_70ब्,20.3) अनिशायां तमांसि स्युर् यदि वा पांसवो रजः । धूमाश् चानग्निजा यत्र तत्र विद्यान् महद् भयम् ॥
(अव्परिस्_70ब्,20.4) रात्रौ दिवा चानभ्रे वा यदि ज्वाला प्रदृश्यते । गर्हितं ज्योतिषां चैव दर्शनं वा भवेन् निशि ॥
(अव्परिस्_70ब्,20.5) पुराणां चैव पतनं ज्वलतां च मुहुर्मुहुर् । दृश्यते ऽन्यच् च सहसा तत्राप्य् अग्निभयं वदेत् ॥
(अव्परिस्_70ब्,21.1) प्रासादादिषु चैत्येषु यदि धूमो विनाग्निना । भवत्य् अग्निर् अधूमो वा तथैवातिभयावहः ॥
(अव्परिस्_70ब्,21.2) ज्वलन्ति यदि शस्त्राणि विनमन्त्य् उन्नमन्ति वा । कोशेभ्यो वापि निर्यान्ति संग्रामस् तुमुलो भवेत् ॥
(अव्परिस्_70ब्,21.3) प्रदीप्यन्ते च सहसा चतुष्पत्पक्षिमानुषाः । वृक्षा वा पर्वता वापि तत्र विद्यान् महद् भयम् ॥
(अव्परिस्_70ब्,21.4) शयनासनयानेषु केशप्रावरणेषु च । दृश्यते ऽतीव सहसा तत्राप्य् अग्निभयं भवेत् ॥
(अव्परिस्_70ब्,21.5) गर्जन्त्य् आयुधशस्त्राणि विनमन्त्य् उन्नमन्ति वा । धनुना सह वा बाणाः संग्रामस् तुमुलो भवेत् ॥
(अव्परिस्_70ब्,22.1) समिद्भिः क्षीरऋक्षाणां सर्षपैस् तु घृतेन च । होतव्यो ऽग्निः स्वकैर् मन्त्रैः मन्त्रैः सुवर्णं चात्र दक्षिणा ॥
(अव्परिस्_70ब्,22.2) पायसं सर्पिषा मिश्रं द्विजातीन् भोजयेत् ततः । तेभ्य एव यथाशक्त्या दक्षिणां दापयेन् नृपः ॥
(अव्परिस्_70ब्,22.3) अग्निर् भूम्याम् इति त्रिभिर् आग्नेयं तत्र कारयेत् । गुरवे दक्षिणां दद्यान् निष्कम् अश्वं च सुन्दरम् ॥
(अव्परिस्_70ब्,23.1) गार्ग्येणोक्तं प्रवक्ष्यामि कृत्स्नम् उत्पातलक्षणम् । भूमिकम्पो भवेद् यत्र देवताप्रतिमा हसेत् ॥
(अव्परिस्_70ब्,23.2) देवता भ्रमते यत्र मृत्युस् तत्र विनिर्दिशेत् । गर्जनं वापि कूपानाम् उपसर्गस् तु जायते ॥
(अव्परिस्_70ब्,23.3) प्रतिस्रोतवहा नद्यो भवन्ति च कथं चन । षड्भिर् मासैर् विजानीयात् परचक्राभिमर्शनम् ॥
(अव्परिस्_70ब्,23.4) अकालजं फलं पुष्पं शीतोष्णत्वम् अकालजम् । अन्यं स्वामिनम् इच्छन्ति नद्यश् चाकालसंभवाः ॥
(अव्परिस्_70ब्,23.5) अचलं च चलं यत्र चलं वा<प्य्> अचलं भवेत् । राजा विनश्यते तर देशो वापि विनश्यति ॥
(अव्परिस्_70ब्,23.6) दिवा तारा यत्र पश्येच् छ्वेतः पक्ष्य् अथ वा भवेत् । रात्रौ चेन्द्रायुधं पश्येद् देशभङ्गं विनिर्दिशेत् ॥
(अव्परिस्_70ब्,23.7) शशकं जम्बुकं वापि सूकरं हरिणं तथा । स्थानमध्ये यदा पश्येच् छून्यं भवति निश्चयम् ॥
(अव्परिस्_70ब्,23.8) अरण्यमृगजातीयाः स्वयं यान्ति नृपालयम् । तत् स्थानं तु भवेच् छून्यं भग्नप्राकारतोरणम् ॥
(अव्परिस्_70ब्,23.9) प्राकारवेश्मभिट्टीषु तोरणे गोकुले ऽपि वा । मधूनि यत्र दृश्यन्ते तत्र वै कस्य किं फलम् ॥........................
(अव्परिस्_70ब्,23.10) कालनष्टपथं सीमां तृणवल्लीसमाकुलाम् । स देशो मानुषैर् मुक्तो मृगाणां गोचरो भवेत् ॥
(अव्परिस्_70ब्,23.11) प्रत्यादित्यं यदा पश्येत् पुरे देवकुले ऽपि वा । अपि शक्रसमो राजा अब्दमध्ये विनश्यति ॥
(अव्परिस्_70ब्,23.12) वापीकूपतडागेषु नद्यां वा तरते शिला । राजभङ्गं भवेच् चैव चौरव्याधिभयं तथा ॥
(अव्परिस्_70ब्,23.13) राजगामिषु पुष्पेषु वस्त्रेष्व् आभरणेषु च । अनग्निना यदि दहेत् परिघं तत्र वै ध्रुवम् ॥
(अव्परिस्_70ब्,23.14) तत् पातपरित्यक्त कदा चिद् अपि बुधस्यादयं भवति । दहनं पवनजलमरणरोगरक्षक्षयाय बुद्धिवाक् करोति बुधः ॥
(अव्परिस्_70ब्,23.15) तत्र कुर्यान् महाशान्तिम् अमृतां विश्वभेषजीम् ॥
(परिशिष्ट_70च्. बार्हस्पत्यानि)
(अव्परिस्_70च्,22.1) ओम् आसीनं तु हिमवति बृहस्पतिं सुखावहम् । गौतमः परिपृच्छति विनयात् संशितव्रतः ॥
(अव्परिस्_70च्,22.2) कथम् अग्निः परीक्ष्यो ऽयं मन्त्रकर्मणि शोभनः । स्वरूपं ज्ञापय त्वं हि शुभाशुभनिबोधने ॥
(अव्परिस्_70च्,23.1) बृहस्पतिः प्रत्याह तं गौतम् ॥ श्वेतः सुगन्धिः पद्माभो निर्भूमो दुन्दुभिस्वनः । असक्तो ऽमुटितशिखः स्निग्धोत्थायी प्रदक्षिणः ॥
(अव्परिस्_70च्,23.2) हूयमानः प्रदीप्तः स्याद् दीप्ततेजाः सुखप्रदः । शान्तिकर्मणि यत्राग्निर् नियतं सिद्धिलक्षणम् ॥
(अव्परिस्_70च्,23.3) स्वस्तिका वर्धमाना च श्रीवत्सा च प्रदक्षिणा । ज्वालारूपेण दृश्येत सा वै श्रीः सर्वतोमुखी ॥
(अव्परिस्_70च्,23.4) यदा होत्र प्रसन्नेन हूयमानो यथा शिखी । घोषम् उत्पादयन् स्निग्धं कल्याणं तद् विनिर्दिशेत् ॥
(अव्परिस्_70च्,23.5) दीप्तश् च रत्नसंकाशः क्षेमो दुन्दुभिवद् घनः । धूमः प्रशस्तो भवति स्वार्थसिद्धिकरो नृणम् ॥
(अव्परिस्_70च्,24.1) स्निग्धघोषो ऽल्पधूमश् च गौरवर्णो महान् भवेत् । पिण्डितार्चिर् वपुष्मान् वा पावकः सिद्धिकारकः ॥
(अव्परिस्_70च्,24.2) यदा त्व् अग्निः सर्वदिक्था ज्वालाग्रैः स्पृशते हविः । तदास्य नृपतिः शीघ्रं परराष्ट्रं च मर्दति ॥
(अव्परिस्_70च्,24.3) तिष्ठन्तं स्थावरं स्निग्धं श्रूयते यत्र गीतकम् । वाचः प्रसन्ना होमेषु मङ्गल्याश् चैव सिद्धये ॥
(अव्परिस्_70च्,24.4) कोकिलस्य मायुरस्य भासस्य कुरलस्य च । होमेषु श्रवणं चैव प्रादक्षिण्यं च शस्यते ॥
(अव्परिस्_70च्,24.5) शतपत्त्रा रुदन्ती च चाषस्य नन्दनं तथा । रम्भणं चैव धेनूनां हवनेषु प्रशस्यते ॥
(अव्परिस्_70च्,25.1) पद्मवैडूर्यनिकाशा वादित्राणां च निस्वनाः । गावः सवर्णवत्सा च दृष्टा होमे प्रशस्यते ॥
(अव्परिस्_70च्,25.2) विकासिपद्मसदृशः प्रसन्नार्चिर् हुताशनः । सुसमानाभिर् अर्चाभिः स्निग्धाभिर् अनुपूर्वशः ॥
(अव्परिस्_70च्,25.3) गम्भीरं नर्दते यत्र तद् अग्र्यं सिद्धिलक्षणम् । अक्षतान् फलपुष्पाणि वर्धमानम् अपां घटम् ॥
(अव्परिस्_70च्,25.4) दृष्ट्वा वा यदि वा श्रुत्वा कर्मसिद्धिं समादिशेत् । पीठछत्त्रध्वजनिभा ज्वाला वारणसंनिभाः ॥
(अव्परिस्_70च्,25.5) प्रशस्ता उज्ज्वलाश् चैव वज्रकुण्डलसंनिभाः । प्रदक्षिणगतिः श्रीमान् अग्निः कर्तुर् मनोहरः । यस्य स्याद् विजयं कुर्यात् क्षिप्रं नरपतेर् ध्रुवम् ॥
(अव्परिस्_70च्,26.1) भूम्यां मेघाभिवृष्टानां मधुपायससर्पिषाम् । कृष्णवर्त्मा सुगन्धिः स्याज् जयं क्षितिपतेर् वदेत् ॥
(अव्परिस्_70च्,26.2) शङ्खस्वस्तिकरूपाणि चक्ररूपं तथा गदा । शिरोमाला च दृश्येत तद् वै विजयलक्षणम् ॥
(अव्परिस्_70च्,26.3) घृतवर्णनिभस् त्व् अग्निः स्निग्धघोषो महास्वनः । चित्रभानुः प्रसन्नो वा नियतं सिद्धिलक्षणम् ॥
(अव्परिस्_70च्,26.4) मृगपक्षिण आरण्याः प्रविशन्ति यदा पुरम् । ग्राम्या वा त्यक्त्वा नगरम् अरण्यं यान्ति निर्भयाः ॥
(अव्परिस्_70च्,26.5) दिवा रात्रिचरा वापि रात्रौ वापि दिवाचराः । दिवा वा पुरमध्यस्था घोरं वाश्यन्ति निर्भयाः ॥
(अव्परिस्_70च्,27.1) राजद्वारे पुरद्वारे शिवा वाप्य् अशुभं वदेत् । [त्यक्त्वारण्यं च तिष्ठन्ति नगरं मृगपक्षिणः] ॥
(अव्परिस्_70च्,27.2) आषाढे श्रावणे वापि शून्यं भवति तत्पुरम् । [त्यक्त्वा सिंहाः सहरिणा मूषिकं सूकरं रुरुम् ॥
(अव्परिस्_70च्,27.3) दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत्पुरम्] । अभिवाचं वदन्ते च पशव्या मृगपक्षिणः ॥
(अव्परिस्_70च्,27.4) श्येना गृध्रा बकाः काकाः सर्वे मण्डलचारिणः । वाशन्ते भैरवं यत्र तद् अप्य् आशु विनश्यति ॥
(अव्परिस्_70च्,27.5) निशायां बहवः श्वानो रोरुवन्ति यदा तु ते । हन्यमाना न गच्छन्ति तत्र वासो न रोचते ॥
(अव्परिस्_70च्,27.6) प्रासादध्वजशालासु प्राकारद्वारतोरणैः । गर्दभऋश्यभासानां पिण्डान् दृष्ट्वा पुरं त्यजेत् ॥
(अव्परिस्_70च्,27.7) पूर्वमुखश् च संध्यायाम् अप्रशान्तस्वरो मृगः । ग्रामीणघातं शंसेत् स ग्रामण्यप्रतिचारतः ॥
(अव्परिस्_70च्,27.8) ग्रामद्वारे च वाश्येत वनाद् आगत्य जम्बुकः । तीक्ष्णस्वरेण महता दिष्टो ग्रामवधो हि सः ॥
(अव्परिस्_70च्,27.9) यद् याति वेश्म कपोतः प्रविशेत विशेषतः । राजवेश्मन्य् उलूको वा तत् त्याज्यम् अचिराद् गृहम् ॥
(अव्परिस्_70च्,27.10) अकस्माद् वेश्मप्राकारे प्रासादे तोरणे ध्वजे । पतन्ति बहवो गृध्राः काकोलूका बकैः सह ॥
(अव्परिस्_70च्,28.1) अथाप्य् एतेषु स्थानेषु मधु संजायते यदा । नलिनी चैव वल्मीकः षण्मासैर् म्रियते नृपः ॥
(अव्परिस्_70च्,28.2) मृगः पशुर् वा पक्षी वा सूकरो वापि वाश्यते । यदि चोत्थाय शृणुते स मनुष्यो विनश्यति ॥
(अव्परिस्_70च्,28.3) काकमूषिकमार्जाराञ् श्वपतंगान् भयावहान् । अतीव बहुशो दृष्ट्वा दुर्भिक्षेण क्षयं वदेत् ॥
(अव्परिस्_70च्,28.4) श्वानः शिवाभिर् वाश्यन्तो भ्रमन्तः पुरमध्यतः । अस्थीनि वा मृतादीनां जनमारभयंकराः ॥
(अव्परिस्_70च्,28.5) काष्ठं वा यदि वा शृङ्गं गृहीत्वा शुनकः स्वयम् । ग्राममध्येन धावन् स्यात् तथैवाहुर् महद् भयम् ॥
(अव्परिस्_70च्,29.1) पुरोहितस् तु कुर्वीत कापोतीं शान्तिम् उत्तमाम् । देवाः कपोत इति च सूक्तं तत्र समादिशेत् ॥
(अव्परिस्_70च्,29.2) आवापे व्यतिषङ्गे च उपरिष्टाच् च हूयते । कामिकां दक्षिणां दद्याद् गुरुर् वा येन तुष्यति ॥
(अव्परिस्_70च्,29.3) देवतार्चाः प्रनृत्यन्ति दीप्यन्ति प्रज्वलन्ति वा । उद्विजन्ति रुदन्ते वा प्रस्विद्यन्ते हसन्ति वा ॥
(अव्परिस्_70च्,29.4) उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पिबन्ति वा । एजन्ति विक्षिपन्ते वा गात्रप्रहरणध्वजान् ॥
(अव्परिस्_70च्,29.5) अवाङ्मुखा वदन्ते वा स्थानात् स्थानं व्रजन्ति वा । वपन्ते वाग्निम् उदकं स्नेहं रक्तं पयो वसाम् ॥
(अव्परिस्_70च्,30.1) जल्पन्ति वा निश्वसन्ति विचेष्टन्ते रुदन्ति वा । चित्रं संवीक्ष्यते यत्र गात्रैर् वापि विचेष्टितैः ॥
(अव्परिस्_70च्,30.2) यत्रैते संप्रदृश्यन्ते विकाराः सहसोत्थिताः । लिङ्गायतनचैत्येषु तत्र वासो न रोचते ॥
(अव्परिस्_70च्,30.3) राज्ञो वा व्यसनं तत्र स वा देषः प्रलीयते । क्षुच्शस्त्रमरणैर् वापि किं चित् तत्राभिशस्यते ॥
(अव्परिस्_70च्,30.4) देवतायतनैर् वापि प्रयाताः सुमहोत्सवैः । जपहोमश् च कल्पन्ता सीदतां च समे पथि ॥
(अव्परिस्_70च्,30.5) समे पातम् अकस्माच् च उदासीनां तथैव च । दृश्यते तद् विनाशाय राज्ञो जनपदस्य वा ॥
(अव्परिस्_70च्,31.1) यत्र प्रस्थानि भूतानि लिङ्गस्यायतनानि च । तत्र शाम्यन्ति घोराणि जपहोमश् च कल्पते ॥
(अव्परिस्_70च्,31.2) प्रसादः पुण्डरीकं वा विशीर्येत पतेत वा । वातवज्रहतो वापि पुरमुख्ये भयं भवेत् ॥
(अव्परिस्_70च्,31.3) पितामहस्य धर्मेषु यन् निमित्तं द्विजेषु तत् । अश्वक्रान्ताग्नियानेषु यानि तानि पुरोहिते ॥
(अव्परिस्_70च्,31.4) पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम् । ज्ञेयं माण्डलिकानां च यत् तत् स्कन्दविशाखयोः ॥
(अव्परिस्_70च्,31.5) लौकिकं वैष्णवं ज्ञेयं वैश्वदेवं च सर्वदा । सेनापतौ गणेशानां गान्धर्वं सचिवेषु च ॥
(अव्परिस्_70च्,31.6) देवप्रेष्यं नृपप्रेष्ये देवस्त्रीणां नृपस्त्रियाम् । काश्यपं यन्त्रप्रासादे वास्तोष्पत्यं पुरे स्थितम् ॥
(अव्परिस्_70च्,31.7) कुमारीषु कुमारीजं कुमारेषु कुमारजम् । यक्षराक्षसनागैश् च यथोक्तैः पानकर्म च ॥
(अव्परिस्_70च्,32.1) अथातः सर्वसर्वसमुच्छयः एकम् अध्यायं व्याख्यास्यामो यथोवाच भगवान् बृहस्पतिः ॥
(अव्परिस्_70च्,32.2) यद् द्वादशभिर् अध्यायैर् व्याख्यानं परिकीर्तितम् । तत् समासेन भूयो ऽपि शृणु पर्यायम् आगतम् ॥
(अव्परिस्_70च्,32.3) पराजितो राहुनिपीडितमण्डलो विवर्णः संध्याविकृतो निःप्रभो यदा । अस्तमनं याति दिवाकरः तदाशु विद्यात् सुब्रह्मजनक्षयम् ॥
(अव्परिस्_70च्,32.4) गृहीतो राहुणा सार्धम् उत्तिष्ठति दिवाकरः । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥
(अव्परिस्_70च्,32.5) अमुक्तो राहुणा सार्धम् उत्तिष्ठति यदा शशी । तदा धर्मफलं क्षीणं कलिम् आविशते प्रजा ॥
(अव्परिस्_70च्,32.6) अमुक्तो राहुणा सार्धम् अस्तं गच्छति चन्द्रमाः । तदा ततो भयं विद्यान् मृत्युम् आविशते प्रजा ॥
(अव्परिस्_70च्,32.7) अवाद्यमानाः पटहाः प्रवदन्ति मुहुर्मुहुः । शस्त्राणि वाहनानि च ज्वलन्त्य् अशुभदारुणम् ॥
(अव्परिस्_70च्,32.8) वातप्रकोपो रजसानुविद्धा दिशश् च संध्या च घनानुयाता । द्रक्षन्ति संध्या यदि पञ्चवर्णा भयानि राज्ञः प्रतिवेदयन्ति ॥
(अव्परिस्_70च्,32.9) अनभ्रे स्तनते यत्र नभोगुल्म गुल्मायते । क्षिप्रं विद्रवते राष्ट्रं दशवर्षाणि पञ्च च ॥
(अव्परिस्_70च्,32.10) अनभ्रे पतते विद्युद् दर्शयेद् वाघनोत्थिताम् । अनभ्रे वापि निर्घातः पतितो राजमृत्यवे ॥
(अव्परिस्_70च्,32.11) यद्य् अह्नि वातेषु महेन्द्ररेखा महेन्द्रचापः समुदेति रात्रौ । तदा भयं पार्थिवमण्डलानां वदन्ति शास्त्रार्थविदो द्विजेन्द्राः ॥
(अव्परिस्_70च्,32.12) निकल्कयुक्तो निशि सेन्द्रचापो विवर्धमानः समुदेति रात्रौ । विशीर्यमाणा पतते तथोल्का तदा भयं पार्थिवमण्डलानाम् ॥
(अव्परिस्_70च्,32.13) मुञ्चन्ति नागा रुधिरं करैश् च लोमानि दीप्यन्ति तुरंगमाणाम् । दीप्यन्ति खड्गानि च खेचराणि चिह्नानि राज्ञः प्रतिवेदयन्ति ॥
(अव्परिस्_70च्,32.14) गिरिवरपतनं स्वभूमिचालः प्रतिभयता च तथैव मानुषाणाम् । विकृतजननम् उक्तिम् उग्रवाचा महति भये मृगपक्षिणो वदन्ति ॥
(अव्परिस्_70च्,32.15) छत्त्रे गृहे वासरथे ध्वजे च धूमः समुत्तिष्ठति यस्य चाग्निः । स पार्थिवः क्षीनमनुष्यकोशः प्राप्नोति नाशं च जनक्षयं च ॥
(अव्परिस्_70च्,32.16) महोर्मिभिः स्वैर् विततैर् जलोघैर् नद्यः स्वकूलाच् च हरन्ति वृक्षान् । यदि प्रतिस्रोतवहास् तदा स्युर् विनाशना देशपरा नृपस्य ॥
(अव्परिस्_70च्,32.17) यदा तु घाते च दिवाकरप्रभाः स्वरेणुभिर् वापि विधूमसंभ्रमाः । न तस्य वासं विषये वदन्ति आहुर् गणानां च विवृद्धिनाशः ॥
(अव्परिस्_70च्,32.18) हुताशनस्य् ज्वलनं निरेधं तथा न चैव ज्वलते च सेध्मा । .......... भयानि राज्ञः प्रतिवेदयन्ति ॥
(अव्परिस्_70च्,32.19) शिलोच्चयानां च शिलानिपातः पुरद्रुमाणां च विषाणपातः । चैत्यद्रुमाणां च तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
(अव्परिस्_70च्,32.20) अचाल्यवत्साः पुरगोपुरेषु भ्रमन्ति गावः कृतरौद्रशब्दाः । मृणालबाद्धाश् च गजा भवन्ति भयानि राज्ञः प्रतिवेदयन्ति ॥
(अव्परिस्_70च्,32.21) प्रासादगोपुरमुखाश् च पतन्ति यत्र इन्द्रध्वजोत्थितवनस्पतिवाजिनां च । तेषां वदन्ति पचनानि सुखावहानि सौम्यादि संप्रभयता च तथादिशन्ति ॥
(अव्परिस्_70च्,32.22) ऊर्ध्वं विलोक्य नगरं प्रतिसंनिविष्टाः सूर्योदये खलु रुदन्ति शिवातिरौद्रम् । गृध्राश् च मण्डलसमुत्पतिता भ्रमन्ति प्राप्तं भयं जनपदस्य समादिशन्ति ॥
(अव्परिस्_70च्,32.23) दण्डाशनिः पतति यत्र सविस्फुलिङ्गा भूः कम्पते दिनकरस्य भवेत् प्रशान्तिः । चन्ध्रे च यत्र विकृतं च भवेद् अशान्तं मासात् समुद्भवति तत्र भयो ऽतिघोरः ॥
(अव्परिस्_70च्,32.24) चैत्यद्रुमाणां रुधिरप्रकोपाः कबन्धयानानि भवन्ति यत्र । संध्यासु रक्षो ऽधिपतेर् जनानां प्रभूति राज्ञो ऽतिभये भवन्ति ॥
(अव्परिस्_70च्,32.25) वृष्टिर् यदा वर्षति रेणुवर्षैस् ततोपरिष्टाद् धरितालवर्षम् । ततः परं वर्षति शैलवर्षं तदा बलं नश्यति पार्थिवस्य ॥
(अव्परिस्_70च्,32.26) आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासी वनान्ते गृध्राणां संनिपातो नरपतिभवने गोपुरे वा पुरे वा । यत्र स्यान् मानुषीणां खरकरभमुखानेकरूपा प्रसूतिस् तत्स्थाने जीवितार्थी स्थितिम् अति कुरुते नैव पातैः प्रदुष्टे ॥
(अव्परिस्_70च्,32.27) प्रयान्ति देवाः सहसायतस्था वनानि वा यत्र पतन्ति भूमौ । स्थानानि मुच्यन्ति नदन्ति के चित् तथा परं शोणितजग्धगात्राः ॥
(अव्परिस्_70च्,32.28) उत्पातसंघैर् अत्युग्रैः क्षात्रहानिः प्रजायते । लोकानां पीडनं चैव रोगचौराग्निसंभवम् ॥
(अव्परिस्_70च्,32.29) अग्नीनां संप्रदोषाः प्रतिभयजनना दीप्यमाना दिशश् च मध्याह्ने चान्तरिक्षे ग्रहगणखचिता गृध्रसंघैः प्रकीर्णाः । निर्घातैः पांसुवर्षैः सततमलिनता भूप्रचालश् च घोरो देवानां चाश्रुपातो नृपतिभयकरा राष्ट्रनाशाय चैते ॥
(अव्परिस्_70च्,32.30) शिवादये यत्र दिवाकरस्य ज्वालाविमुच्य् ऊर्ध्वमुखी प्ररोदिति । समावृता वायसगृध्रसंघैस् तदा भयं वेदविदो वदन्ति ॥
(अव्परिस्_70च्,32.31) रुदन्ति नागास् तु विमुक्तहस्ता विमुक्तदन्तास् तुरगा रुदन्ति । रुदन्ति नार्यश् च समागमे च तदा भयं स्याच् छ्रुतिलिङ्गमूलम् ॥
(अव्परिस्_70च्,32.32) यदा तु वस्त्राणि वरद्रुमाणां प्रकाशवृष्ट्या निपतन्ति मूर्ध्नि । समीक्ष्य पातं च यथार्थदृष्टं भयाय राष्ट्रस्य नृपस्य विद्यात् ॥
(अव्परिस्_70च्,32.33) शकटाद्यानि यानानि यदायुक्तानि संचलेत् । तदा जनपदे विद्यान् महाभयम् उपस्थितम् ॥
(अव्परिस्_70च्,32.34) यथैव नित्यं दृश्यन्ते तथैव समुदाहरेत् । न तस्यातिक्रमः कश् चिद् अकृते शान्तिकर्मणि ॥
(अव्परिस्_70च्,32.35) क्षयो जनपदस्त्रीणां विद्याद् गजपुरोहिते । जपं होमं च शान्तिं च उत्पातेषु प्रयोजयेत् ॥
(अव्परिस्_70च्,32.36) विशेषेणामृतां कुर्याद् बृहस्पतिवचो यथा । होमं लक्षमितं कुर्याज् जपेद् वा वेदसंहिताम् । दानानि तु हिरण्यानि शान्तिकर्मणि योजयेत् ॥
(परिशिष्ट_71. औशनसाद्भुतानि)
(अव्परिस्_71,1.1) पप्रच्छोशनसं काव्यं नारदः पर्यवस्थितः । दिव्यांश् चैवान्तरिक्षांश् च उत्पातान् पार्थिवांस् तथा ॥
(अव्परिस्_71,1.2) ऋतूनां च विपर्यासे तथैव मृगपक्षिणाम् । अमानुषाणां व्याहारे स्थावराणां व्यतिक्रमे ॥
(अव्परिस्_71,1.3) योनिव्यतिकरे चैव मांसशोनितवर्षणे । अनग्निज्वलने चैव तथा यानानुसर्पणे ॥
(अव्परिस्_71,1.4) शस्त्रप्रज्वलने चैव चैत्यशुष्कविरोहणे । लिङ्गायतनचित्राणां रोदने गर्जने तथा ॥
(अव्परिस्_71,1.5) उदपानतडागाबान् ज्वलने गर्जने ऽपि वा । मत्स्यसर्पद्विजातीनां रसानां च प्रवर्षणे ॥
(अव्परिस्_71,2.1) आयुधानां प्रज्वलने गर्जने च विशेषतः । पुष्पे फले च वृक्षाणाम् अकाले च विरोहणे ॥
(अव्परिस्_71,2.2) प्रासादाद्रिविमानानां प्राकाराणां च कम्पने । गीतवादित्रशब्दाश् च यत्र स्युर् अनिमित्ततः ॥
(अव्परिस्_71,2.3) ये चान्ये के चिद् उत्पाता जायन्ते विकृतात्मकाः । तेषां फलं च कालं च तत्त्वेनाचक्ष्व भार्गव ॥
(अव्परिस्_71,2.4) स तस्मै पृच्छते सम्यङ् नारदायाशनाः कविः । त्रिविधान् अप्य् अथोत्पातान् व्याख्यातुम् उपचक्रमे ॥
(अव्परिस्_71,2.5) यदा शीते भवत्य् उष्णम् उष्णे शीतम् अतीव च । नवमासात् परं विद्यात् तेषु देशेषु वै भयम् ॥
(अव्परिस्_71,3.1) यत्रानृतौ प्रबद्धेन त्र्यहाद् ऊर्ध्वं प्रवर्षति । तस्मिन् देशे प्रधानस्य पुरुषस्य वधो भवेत् ॥
(अव्परिस्_71,3.2) कोकिलाश् च मयूराश् च अकाले मदभागिनः । संसर्गं वापि गच्छेयुर् विद्याज् जानपदं भयम् ॥
(अव्परिस्_71,3.3) रुरवश् चैव रौद्राश् च पृषता हरिणास् तथा । येषु देशेषु दृश्यन्ते तान् अरण्याय निर्दिशेत् ॥
(अव्परिस्_71,3.4) प्रधानाश् चैव वध्यन्ते पक्षे सप्तदशे तथा । तस्मिञ् जनपदे चैव महद् उत्पद्यते भयम् ॥
(अव्परिस्_71,3.5) गावो ऽश्वाः कुञ्जराः श्वानः खरोष्ट्रा वानरोरगाः । नकुलाः पक्षिणो व्यालाः सूकरा महिषा मृगाः ॥
(अव्परिस्_71,4.1) सत्त्वान्य् एतानि जल्पन्ति येषु देशेषु मानुषम् । तेषु देशेषु राजा तु षष्ठे मासि विनश्यति ॥
(अव्परिस्_71,4.2) उत्पाता विकृतात्मानो दृश्यन्ते यत्र तत्र वै । देशे भवति शीघ्रं हि षण्मासाद् भयम् उत्तमम् ॥
(अव्परिस्_71,4.3) आसनं शयनं यानं यदा यत्र प्रसर्पति । विपक्षात् तत्र तत्स्वामी भयं प्राप्नोति दारुणम् ॥
(अव्परिस्_71,4.4) धान्यकोष्ठायुधागाराः पाषाणाः कूपपर्वताः । एतानि यत्र सर्पन्ति विकृतानि वदन्ति च ॥
(अव्परिस्_71,4.5) बहु वा जायते तीव्रं तस्मिन् देशे भयं महत् । त्रीन् मासान् परकाले तु शेषे सौम्यातिकं फलम् ॥
(अव्परिस्_71,5.1) देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् । तत्र संवत्सराद् ऊर्ध्वं महद् उत्पद्यते भयम् ॥
(अव्परिस्_71,5.2) गौर् अश्वं वडवा वापि यस्मिन् देशे प्रसूयते । अभ्यन्तरेण तद्वर्षाद् राज्ञो मरणम् आदिशेत् ॥
(अव्परिस्_71,5.3) मानुषी जनयेद् यत्र तृणादान् विविधान् पशून् । षण्मासोत्थं भयं तीव्रं तत्र तूत्पद्यते महत् ॥
(अव्परिस्_71,5.4) परचक्रागमं चैव निर्दिशेद् इह शास्त्रवित् । संग्रामाश् चात्र विपुला जायन्ते विकृतात्मकाः ॥
(अव्परिस्_71,5.5) सर्पं वा पक्षिणं वापि जनयेद् यत्र मानुषी । प्रचलस् तस्य देशस्य षण्मासात् तु परं भवेत् ॥
(अव्परिस्_71,6.1) उष्ट्रं वा या प्रसूयेत वानरं वापि मानुषी । अन्यद् वा जङ्गमं किं चित् स्थावरं वापि किं चन ॥
(अव्परिस्_71,6.2) रोगेण शस्त्रपातेन दुर्भिक्षेण च पीडितः । स देशो व्यथते शीघ्रं राजा तत्र विनश्यति ॥
(अव्परिस्_71,6.3) अमानुषी मानुषं वा मानुषी वाप्य् अमानुषम् । प्रसूयते तु जानीयात् परचक्रागमं ध्रुवम् ॥
(अव्परिस्_71,6.4) चतुरक्षं द्विशीर्षं वा गात्रैर् न्यूनाधिकैस् तथा । व्यञ्जनैश् चोपसंपन्नं मानुषी या प्रसूयते ॥
(अव्परिस्_71,6.5) द्विसंवत्सरपर्यन्ताद् राजा तत्र विनश्यति । उष्ट्रो वृषो वाप्य् अश्वो वा गजो वा यत्र जायते ॥
(अव्परिस्_71,6.6) पक्षान् मासाच् च भवति राज्ञस् तत्र भयं महत् । परचक्रसमुत्थं वा स देशो भयम् ऋच्छति ॥
(अव्परिस्_71,7.1) योनिव्यतिकरं यत्र कुर्युर् एवंविधं स्त्रियः । गौर् वा सूयेत् तथान्यानि तत्र राज्यं विनश्यति ॥
(अव्परिस्_71,7.2) वसन्ति येषु देशेषु तेषु विद्यान् महद् भयम् । तस्माद् एतानि सत्त्वानि राजा क्षिप्रं प्रवासयेत् ॥
(अव्परिस्_71,7.3) अश्वा किशोरं जनयेच् छृङ्गिणं यत्र तत्र तु । आदिशेन् मरणं राज्ञो वर्षाभ्यन्तर एव हि ॥
(अव्परिस्_71,7.4) माघे बुधे च महिषी श्रावणे वडवा दिवा । सिंहे गावः प्रसूयन्ते स्वामिनो मृत्युदायकाः । इति शास्त्रसमुच्चयात् ॥
(अव्परिस्_71,7.5) नारी खरवृषोष्ट्राश्वाञ् शुनः सूकरगर्दभान् । राक्षसान् वा पिशाचान् वा यदाप्य् एवं प्रसूयते ॥
(अव्परिस्_71,7.6) व्यापद्यन्ते ऽत्र धान्यानि सस्यानि च धनानि च । चतुर्विधं भयं घोरं क्षिप्रं तत्र प्रवर्तते ॥
(अव्परिस्_71,8.1) वध्यन्ते हि प्रधानास् तु सार्धमासाष्टमे तथा । व्याधींश् च तेषु देशेषु त्रीणि वर्षाणि निर्दिशेत् ॥
(अव्परिस्_71,8.2) अनग्निर् ज्वलते यत्र देशे तूर्णम् अनिन्धनः । यो राजा तस्य देशस्य सदेशः स विनश्यति ॥
(अव्परिस्_71,8.3) मांसवर्षेण मघवा यत्र देशे प्रवर्षति । अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥
(अव्परिस्_71,8.4) परचक्रागमः शीघ्रं विज्ञेयस् तु महद् भयम् । आहवाश् चात्र जायन्ते विपुला विकृतात्मकाः ॥
(अव्परिस्_71,8.5) अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति । क्षिप्रं तत्र भयं घोरं प्रवर्तेत चतुर्विधम् ॥
(अव्परिस्_71,9.1) सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र सस्योपघातः स्याद् भयं चातिप्रवर्तते ॥
(अव्परिस्_71,9.2) सुरासवं तथा क्षौद्रं सर्पिस् तैलं पयो दधि । यत्र वर्षति पर्जन्यः क्षुद्रोगस् तत्र जायते ॥
(अव्परिस्_71,9.3) उल्काताराश् च धिष्ण्येषु यदाङ्गारांश् च वर्षति । तदा व्याधिभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(अव्परिस्_71,9.4) पुमान् अश्वो गजो वापि यदा यत्र प्रदीप्यते । दशमासात् परं तत्र जानीयाद् राष्ट्रसंप्लवम् ॥
(अव्परिस्_71,9.5) नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः । तदा शस्त्रभयं घोरं तेषु देशेषु निर्दिशेत् ॥
(अव्परिस्_71,10.1) चैत्यवृक्षाः प्रभज्यन्ते विस्वरं विनदन्ति च । प्रहसन्ति प्रसर्पन्ति गायन्ति च रुदन्ति च ॥
(अव्परिस्_71,10.2) आगमः परचक्रस्य तेषु चापद्यते त्वरम् । सचक्रा वापि नश्यन्ति प्रधानश् चात्र वध्यते ॥
(अव्परिस्_71,10.3) यत्र स्रवेच् चैत्यवृक्षः सहसा विविधान् रसान् । पृथक्पृथक् समस्तान् वा तत् प्रवक्ष्यामि लक्षणम् ॥
(अव्परिस्_71,10.4) घृते मधुनि दुग्धे च घृते दुग्धे तथाम्भसि । क्षौद्रे मधुनि तैले वा व्याधयः स्युः सुदारुणाः ॥
(अव्परिस्_71,10.5) सुरासवे मिथोभेदः शोणिते शस्त्रपातनम् । तैले प्रधाना वध्यन्ते भक्षे क्षुद्भयम् आदिशेत् ॥
(अव्परिस्_71,11.1) अनृतौ चेत् फलं यत्र पुष्पं वा सूयते द्रुमः । विद्याद् द्वादशमे मासि राज्ञस् तत्र विपर्ययम् ॥
(अव्परिस्_71,11.2) पुष्पे पुष्पं भवेद् यत्र फले वा स्यात् तथा फलम् । पर्णे पर्णं विजानीयात् तत्र जानपदं भयम् ॥
(अव्परिस्_71,11.3) शुक्लेन वाससा यत्र चैत्यवृक्षः समावृतः । ब्राह्मणानां भयं घोरम् आशु तीव्रं विनिर्दिशेत् ॥
(अव्परिस्_71,11.4) रक्तवस्त्रावृतैश् चान्यैः क्षत्रियाणां महद् भयम् । पीतवस्त्रैस् तु वैश्यानां शूद्राणां कृष्णवाससैः ॥
(अव्परिस्_71,11.5) नीलैः सस्योपघातः स्याच् चित्रैस् तु मृगपक्षिणाम् । विवर्णैर् व्याधयस् तीव्राः परं स्युर् दशमासतः ॥
(अव्परिस्_71,12.1) दैवतानि प्रसर्पन्ति यत्र राष्ट्रे हसन्ति वा । उदीक्षन्ते ऽथ रोधांसि तत्र विद्यान् महद् भयम् ॥
(अव्परिस्_71,12.2) विहसन्ति निमीलन्ति गायन्ति विकृतानि च । मांसशोनितगन्धानि यत्र तत्र महद् भयम् ॥
(अव्परिस्_71,12.3) यत्र चित्रम् उदीक्षेत गायते चेष्टते मुहुः । एतेष्व् अष्टसु मासेषु राज्ञो मरणम् आदिशेत् ॥
(अव्परिस्_71,12.4) चित्राणि यत्र लिङ्गानि तथैवायतनानि च । विकारं कुर्युर् अत्यर्थं तत्र विद्यान् महद् भयम् ॥
(अव्परिस्_71,12.5) उदपानं तडागं वा सरः पर्वत एव वा । समुद्देशेषु दीप्यन्ते विद्याद् भयम् उपस्थितम् ॥
(अव्परिस्_71,13.1) [प्रहसेयुः स्तनेयुर् वा] श्वा वा मार्जारवद् वदेत् । तस्य देशस्य राजा तु पीडाम् आप्नोति दारुणाम् ॥
(अव्परिस्_71,13.2) शङ्खवैणवतूर्याणां दुन्दुभीनां च निस्वनः । देशे यत्र भृशं तत्र राजदण्डो निपात्यते ॥
(अव्परिस्_71,13.3) यस्य राज्ञो जनपदे नित्योद्विग्नाः प्रजाः क्षयम् । गच्छन्ति न चित्रात् तत्र विनाशम् अपि निर्दिशेत् ॥
(अव्परिस्_71,13.4) यस्य राज्ञो जनपदे नित्यम् एव गवां क्षयः । भयं तत्र विजानीयाद् अचिरात् समुपस्थितम् ॥
(अव्परिस्_71,13.5) यस्य राज्ञो जनपदे नदी वहति कर्दमम् । काष्ठं तृणं चोपलं वा मृतमत्स्यान् ग्रहांस् तथा ॥
(अव्परिस्_71,14.1) मद्यं क्षौद्रं च मांसं च सर्पिस् तैलं पयो दधि । अन्यराजागमभयं तत्र देशे समादिशेत् ॥
(अव्परिस्_71,14.2) यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् । मासाष्टकाज् जानपदं भयं स्याच् छस्त्रपाणिनः ॥
(अव्परिस्_71,14.3) कूपो वा गर्जते यत्र यदा वाप्य् अवदीर्यते । लोहितं वाथ पूयं वा भयं तत्र विनिर्दिशेत् ॥
(अव्परिस्_71,14.4) आयुधानि प्रधावन्ति तीव्रं प्रत्याहरन्ति च । तूणीरात् सहसा बाणा उद्गिरन्ति नदन्ति च ॥
(अव्परिस्_71,14.5) स्वभावतश् च पूर्यन्ते धनूम्षि प्रज्वलन्ति च । संग्रामो दारुणस् तत्र देशे भवति बिश्चितः ॥
(अव्परिस्_71,15.1) अकाले पुष्पवन्तश् च फलवन्तश् च पादपाः । दृश्यन्ते यस्य राष्ट्रेषु तस्य नाशो विभाव्यते ॥
(अव्परिस्_71,15.2) वृक्षा वल्ल्यश् च तरुणा यत्र स्युः फलपुष्पदाः । अकाले चापि दृश्येयुस् तत्र विद्यान् महद् भयम् ॥
(अव्परिस्_71,15.3) प्रासादानि विमानानि प्रज्वलन्ति तु यत्र वै । दृढानि च विशीर्यन्ते यस्य स म्रियते ऽचिरात् ॥
(अव्परिस्_71,15.4) वदन्त्य् अरण्ये तूर्याणि श्रूयन्ते व्योम्नि नित्यशः । निवसेत तदा राजा समागम्य दिशो दश ॥
(अव्परिस्_71,15.5) यस्य वेश्मनि श्रूयन्ते गीतवादित्रनिस्वनाः । अकस्मान् म्रियते सम्यग् धनं चास्य विलुप्यते ॥
(अव्परिस्_71,15.6) शङ्खवैणववीणाश् च भेरीमुरजगोमुखाः । वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्य् अघट्टिताः ॥
(अव्परिस्_71,15.7) संभृत्यैव ततो भारम् अन्यं जनपदं व्रजेत् । मृगवांस् तु स देशो हि वायुश् चात्रोपजायते ॥
(अव्परिस्_71,15.8) अनाहता दुन्दुभयो वादित्राणि वदन्ति च । छिद्राणि च गृहे यस्य स शीघ्रं भयम् ऋच्छति ॥
(अव्परिस्_71,15.9) देवराजध्वजानां च पतनं भङ्ग एव वा । क्रव्यादानां प्रवेशं च राज्ञः पीडाकरं भवेत् ॥
(अव्परिस्_71,15.10) वाजिवारणमुख्यानाम् अकस्मान् मरणं भवेत् । इतरक्षमापतेस् तत्र विज्ञेया सत्वरागतिः ॥
(अव्परिस्_71,16.1) अश्वत्थे पुष्पिते क्षत्रं ब्राह्मणं चाप्य् उदुम्बरे । प्लक्षे वैश्याश् तु पीड्यन्ते न्यग्रोधे दस्यवस् तथा ॥
(अव्परिस्_71,16.2) श्वेतम् इन्द्रायुधं विप्रान् रक्तं क्षत्रियनाशनम् । वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥
(अव्परिस्_71,16.3) निर्घाते भूमिकम्पे च चैत्यशुष्कविरोहणे । देशपीडां विजानीयात् प्रधानश् चात्र वध्यते ॥
(अव्परिस्_71,16.4) इन्द्रयष्टिर् भज्यते वा विशस्तो वा पशुर् व्रजेत् । यदा तदा विजानीयाद् राज्ञः पीडाम् उपस्थिताम् ॥
(अव्परिस्_71,16.5) पितामहे वासुदेवे सोमधर्मार्यमेष्व् अपि । निमित्तम् अशुभं यत्र ब्राह्मणानां भयावहम् ॥
(अव्परिस्_71,17.1) बृहस्पतौ वा शुक्रे वा पावके पाकशासने । यानि रूपाणि दृश्यन्ते विद्यात् तानि पुरोहिते ॥
(अव्परिस्_71,17.2) महादेवे कुबेरे च तथा स्कन्दविशाखयोः । निमित्तं तत् पार्थिवेषु विज्ञेयं संप्रवर्तितम् ॥ [अकस्माद् दृश्यते यत् तु निमित्तं संप्रकीर्तितम् ॥]
(अव्परिस्_71,17.3) देवानां पार्थिवानां च रथो यत्र निमज्जति । भयं तत्र विजानीयात् पार्थिवस्याशुरद्भुतम् ॥
(अव्परिस्_71,17.4) सोमे च वासुदेवे च वरुणे पाकशासने । यद् भयं दृश्यते तद्द् हि ज्ञेयं भाण्डाधिके कने ॥
(अव्परिस्_71,17.5) वाते प्राजापतौ चैव विश्वकर्मणि चैव हि । प्रवर्तते यन् निमित्तं तज् जानपदिकं भवेत् ॥
(अव्परिस्_71,17.6) कुमारीषु कुमारीणां कुमाराणां कुमारजम् । तथा प्रेष्येषु सर्वेषु कल्पयेच् छास्त्रतः फलम् ॥
(अव्परिस्_71,17.7) इन्द्राणि वरुणानी च भद्रकाली महाबला । वीरमाता च यद् ब्रूयुस् तद् राजमहिषीभयम् ॥
(अव्परिस्_71,17.8) एकैवासां तथा चान्या याश् चान्या देवताः स्त्रियः । कुर्युर् निमित्तं तत् स्त्रीणां प्रधानानां च निर्दिशेत् ॥
(अव्परिस्_71,17.9) गन्धर्वेषु निमित्तं यत् तद् अन्येषु प्रदृश्यते । सेनापतीनां भयकृत् सचिवानां भयाय च ॥
(अव्परिस्_71,17.10) रक्षपन्नगयक्षेषु लिङ्गस्यायतनेषु च । यथारूपं यथाकर्म पुरुषेषु व्यवस्थितम् ॥
(अव्परिस्_71,18.1) दक्षिणेषु शरीरेषु देवतानां च वेश्मसु । सर्वेष्व् अङ्गेषु नारीणां तुल्यं स्याद् उभयोर् भयम् ॥
(अव्परिस्_71,18.2) स्वशरीरे यथोत्पाता विहिता दैवचिन्तकैः । तथैव परिसंख्येयं सर्वत्रैव शुभाशुभम् ॥
(अव्परिस्_71,18.3) माणिभद्रादयो यक्षा गन्धर्वाश् चित्रसेनयः । तद्भयं तु प्रधानानाम् अमात्यानां विभावयेत् ॥
(अव्परिस्_71,18.4) येषु देशेषु दृश्येत दैवतेषु शुभाशुभम् । ते च देशा विनश्यन्ति राजा वाथ विनश्यति ॥
(अव्परिस्_71,18.5) ब्राह्मणा यत्र वध्यन्ते ग्रामे राष्ट्रे ऽथ वा पुरे । राजधानीषु वा यत्र तद् अभावस्य लक्षणम् ॥
(अव्परिस्_71,19.1) यत्राबलं वध्यमानं राजा नैवाभिरक्षति । तत्र दैवकृतो दण्डो निपतत्य् आशु राजनि ॥
(अव्परिस्_71,19.2) छत्त्रध्वजपताकासु देवस्थाने गृहेषु च । द्वाराट्टालक^हर्म्येषु [कारयेद्द् होमवाचनम्] ॥
(अव्परिस्_71,19.3) यत्र प्रकृतिभूतानि लिङ्गानि विकृतानि च । देवताश् चापि नद्यश् च क्षरक्षाममहीरुहाः ॥
(अव्परिस्_71,19.4) सेना चैव न दृश्येत हस्त्यश्वैश् च पदातिभिः । हीनाङ्गा विकृताङ्गा वा प्रलयं तत्र निर्दिशेत् ॥
(अव्परिस्_71,19.5) स्तम्भवृक्षा ध्वजा यत्र स्रवेयू रुधिराम्बु च । धूमयेयुर् ज्वलेयुर् वा मन्त्रिणां तत्र वै वधः ॥
(अव्परिस्_71,19.6) जगत्स्वामिनि जानीयाद् यदि चेद् दिवि जायते । आन्तरिक्षं तु देशे स्याद् भौमं सस्योपतिष्ठति ॥
(अव्परिस्_71,19.7) भार्यायां वाहने पुत्रे कोशे सेनापतौ पुरे । पुरोहिते नरेन्द्रे वा पतते दैवम् अष्टधा ॥
(अव्परिस्_71,19.8) माहेन्द्रीम् अमृतां रौद्रीं वैश्वदेवीम् अथापि वा । उत्पातेषु महाशान्तिं कारयेद् बहुदक्षिणाम् ॥
(अव्परिस्_71,19.9) शाम्यन्ति येन घोराणि योगक्षेमं च जायते । राजानो मुदितास् तत्र पालयन्ति वसुंधराम् ॥
(परिशिष्ट_72. महाद्भुतानि)
(अव्परिस्_72,1.1) अथ महाद्भुतानि व्याख्यास्यामः ॥
(अव्परिस्_72,1.2) क्षिप्रविपाकीन्य् अमोघानि घोराणि ग्रहोपहतम् उल्काभिहतं ग्रस्तं निरस्तम् उपधूपितं वा यदा स्याज् जन्मनक्षत्रं कर्मनक्षत्रम् अभिषेचनीयजनपदनक्षत्रम्
(अव्परिस्_72,1.3) एतेषु क्षिप्रम् एव महाशान्तिम् अमृतां कारयेद् राजाष्टमे च चन्द्रमसः स्थाने <वज्रे> च देवोपसृष्टे स्कम्भे वा
(अव्परिस्_72,1.4) अथ वा नानावर्णे बहुरूपे शृङ्गिणि चादित्ये कीलवति च्[आद्भुतान्य्] उल्काभिहते
(अव्परिस्_72,1.5) कचन्ध एव निश्वसति हसति भ्रमति
(अव्परिस्_72,1.6) हासे भासे नादे शब्दे वासने च वैश्वानरे ऽप्रज्वलिते ऽन्तरिक्षे भस्मास्थ्यश्माङ्गारा वीथी चेन्द्रधनुषि रात्रौ वीध्र एव तु ॥
(अव्परिस्_72,2.1) चन्द्रार्कौ यस्य राष्ट्रे परिविष्येतातां तान् विपक्षान् परोलकसंस्थाञ् जनपदांस्
(अव्परिस्_72,2.2) तथैव काककपोतकङ्कगृध्रयक्षराक्षसपिशाचश्वापदेषु नक्तं वदत्स्व् अभिवदत्सु गायत्सु रायत्सु वा चक्रध्वजवेश्मावसथप्रासादाग्रे
(अव्परिस्_72,2.3) वापीकूप उदपाने चोद्गिरति नदति विद्योतति वा
(अव्परिस्_72,2.4) रथयन्त्रवारणप्रवहणवादित्रादिषूल्कादयो ऽङ्गारा धूमो ऽर्चिर् वा प्रादुर्भावे
(अव्परिस्_72,2.5) लिङ्गं विलिङ्गे राज्ञः
(अव्परिस्_72,2.6) कालोलूककृकलासश्येननिपतिते राजछत्त्रे भग्ने ध्वजे चक्रस्य राज्ञो दण्डे राज्ञश् च दन्ते
(अव्परिस्_72,2.7) हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायाम्
(अव्परिस्_72,2.8) राजरथश् च राजाधिरूढो भग्नाक्षः सप्तरात्राद् राज्ञो हन्ति पुरोहितम् अमात्यं सेनापतिं जायां हस्तिनं महिषीं कुमारं राजानम् एव वा ऋध्नुयाद् य एवं वेद
(अव्परिस्_72,2.9) द्वादशं शतं गवां धेनूनां कंसवसनं हिरण्यं निष्को ऽश्व एताश् च दक्षिणाः ॥
(अव्परिस्_72,3.1) नानुत्पन्नेषु दैवेषु राज्ञां शान्तिर् विधीयते । अस्थानेषु कृता शान्तिर् निमित्तायोपपद्यते । तस्मात् स्थानं समुद्दिश्य कारयेच् छान्तिम् आत्मनः ॥
(अव्परिस्_72,3.2) सर्पसमितौ वायुसंभ्रमे उदकप्रादुर्भावगमनेषु
(अव्परिस्_72,3.3) धनुःसंध्योल्कापरिवेषविद्युद्दण्डाशनिपरिघपरिधिनिर्घाते
(अव्परिस्_72,3.4) रजोवर्षम् उपलवर्षं दधिमधुघृतक्षीरवर्षं मज्जारुधिर<वर्षम्> वर्षति
(अव्परिस्_72,3.5) हीनगभस्ती द्वे मार्गे वीथ्यौ वित्तक्षये सोमस्य क्षये ऽपूर्णपूरणे क्षयस्यावभासाः सद्यो ऽपररात्राद् दिग्दाहोपधूपनम्
(अव्परिस्_72,3.6) ग्रहवैषम्यम् आरोहणम् आक्रमणं गन्धर्वनगरं मारुतप्रकोपस् तिथिकरणमुहूर्तनक्षत्रग्रहादीनां सोमवियोगः
(अव्परिस्_72,3.7) प्रतिस्रोतोगामिन्यो नद्यः प्रासादतोरणध्वजेषु वायससमवाया वृकशकटारोहणं वृषदंशातिमार्जनम् उलूकप्रतिगर्जनं श्येनगृध्रादीनां ध्वजाभिलपनम्
(अव्परिस्_72,3.8) विकृताश् च मानुषामानुषप्रभवाः स्त्रीबालवृद्धप्रलापाः प्रदीप्तेन्द्रयष्टिपादभग्ने ऽद्रव्येष्व् एकवृक्षे द्विछाये प्रतिछाये परिवृक्तम्
(अव्परिस्_72,3.9) अत ऊर्ध्वम् [छायो] ऽकस्माच् चैत्यवृक्षस्तम्भपतने विरोहत्स्व् अविरोहेष्व् अछिन्नपर्णप्रपाताच् छुष्कशाखिनो द्रुमा धूमरजोदकप्रादुर्भावगमनेषु वनस्पतिषु
(अव्परिस्_72,3.10) बहुशस्त्रभङ्ग इन्द्रकीलगोपुराट्टालकध्वजादीनां भङ्ग उचितानां व्युच्छेदने ऽनुचितानां प्रवर्धने दृढभङ्गेसु
(अव्परिस्_72,3.11) शुष्कविरोहे गृहे वल्मीके शयनदेशे दर्हस्तम्बोत्पत्तौ मित्रविरोधे ऽमित्रप्रीतौ च देवतार्चयो तथछेदने
(अव्परिस्_72,3.12) यत्र राजाप्रसादमुखः पौरेषु च भृत्यादिषु भवति भवन्ति चात्र श्लोकाः
(अव्परिस्_72,3.13) यदा तु प्रतिपत् सोमो विकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राज्ञो मरणम् आदिशेत् ॥
(अव्परिस्_72,3.14) आयुधाकाररूपाणि श्वेतवर्णाकृतीनि च । पञ्चवर्णानि चाभ्राणि तथा दण्डनिभानि च ॥
(अव्परिस्_72,3.15) यदा चन्द्रार्कयोर् मध्ये कृष्णं भवति मण्डलम् । स शङ्कुर् इति विज्ञेयो ग्रहः परमदारुणः ॥
(अव्परिस्_72,3.16) तत्र राज्ञो वधं विद्यात् सर्वभूतभयावहम् । तत्र कुर्यान् महाशान्तिम् अमृतां विश्वभेषजीम् इति ॥
(अव्परिस्_72,4.1) अथ यस्मिन्न् एव जनपदे गोब्राह्मणसूतसांवत्सरवैद्यानां परिव्राजकचारणवानप्रस्थब्रह्मचारिणां वापि संकरः प्रवर्तते तद् अद्भुतं विद्यात्
(अव्परिस्_72,4.2) कर्मसंकरं यज्ञसंकरं व्यवहारसंकरं च यत्र च धर्मो ऽधर्मेष पीड्यते तद् अद्भुतं विद्यात्
(अव्परिस्_72,4.3) तेषाम् अज्ञातप्रायश्चित्तं यद् अज्ञातम् अनाम्नातम् इति मध्ये जुहुयात् पुरुषसूक्तं च तेष्व् अकृतप्रायश्चित्तेषु महाद्भुतानि प्रादुर्भवन्ति ॥
(अव्परिस्_72,4.4) दिव्यानीत्य् आचक्षते देवगृहेष्व् अथ हसन्ति गायन्ति रुदन्ति क्रोशन्ति प्रस्विद्यन्ति प्रधूमायन्ति प्रज्वलन्ति प्रकम्पन्त्य् उन्मीलयन्ति निमीलयन्ति लिहितं स्रवन्ति परिवर्तयन्ति वा
(अव्परिस्_72,4.5) तेषाम् प्रादुर्भावगमनेष्व् अन्यराजागमनं वा विद्याद् उदग्रं वा[ङ्गेगम्] अवृष्टिशस्त्रभयं बुभुक्षामारं जानपदम् अमात्यानां राज्ञो विनाशम्
(अव्परिस्_72,4.6) तेषु सर्वेषु भृग्वङ्गिरोविदम् इत्य् उक्तं स चतुष्पथ ईशानं प्रपद्येत ॥ ओं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत् प्रपद्य इति प्रपद्येत
(अव्परिस्_72,4.7) कपिलानाम् अष्टशतस्य क्षीरेण पायसं श्रपयित्वा कपिलास्व् अलभ्यमानासु दोग्ध्रीणां शतस्य क्षीरेण पायसं शरपयित्वा प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रौद्रेण गणेन शान्ता जुहुयात् ॥ सर्पिर् जुहुयात् पायसं जुहुयाच् छुक्लाः सुमनस उपहरेद् ब्राह्मणान् भक्तेनोपेपसन्ति ता एव गा दद्याद् राज्यं वा परिमितकालं तस्य परितुष्टये गोसहस्रं कर्त्रे दद्याद् ग्रामवरं च ॥
(अव्परिस्_72,5.1) अथ यत्रैतच् छयने वाथ वस्त्रे वा जायते यद् धुताशनः । एतद् अत्यद्भुतं नाम सर्वक्षयकरं नृणाम् ॥
(अव्परिस्_72,5.2) अत्र ब्राह्मीं महाशान्तिं कारयेद् बहुदक्षिणाम् । बह्वन्नां बहुसंभाराम् अनूचानसुदक्षिणाम् । राज्यकामो ऽर्थकामो वा पूजयेत् तु बृहस्पतिम् ॥
(अव्परिस्_72,5.3) सृजन्ति देवा दिव्याद्भुतानि प्राग् उपसर्गात् प्रतिबोधनार्थम् । कार्याणि विघ्नानि तथा जनानां कर्माकुले वर्णसमाकुले च ॥
(अव्परिस्_72,5.4) दैव्योपसृष्टेन बलेन कार्यं कार्य च शान्तिः प्रणिपत्य देवान् । ततोपसर्गाद् विघ्नात् प्रमुच्यते दिवि चेद् अनिष्टं न पुनः स कुर्यात् ॥
(अव्परिस्_72,5.5) पृथिव्याम् अन्तरिक्षे च दिवि चाप्य् उपलक्षयेत् । चेष्टितं सर्वभूतानां रुतं च मृगपक्षिणाम् ॥
(अव्परिस्_72,6.1) ग्रामे कुले वा यदि वापि देशे राजन्य् अमात्येषु तथा द्विजेषु । भावः पशूनां विकृतो विरूपस् तद् अद्भुतं तस्य देशस्य विद्यात् ॥
(अव्परिस्_72,6.2) अमात्यभेदो विविधैकशीर्ष एकद्विशीर्षे भवति द्विराज्यम् । अपादहस्ते म्रियते ह्य् अमात्यो जाते कवन्धे नृपतिर् विनश्येत् ॥
(अव्परिस्_72,6.3) यदाधिकाङ्गो यदि वाङ्गहीनो भवेत् पशूनां विकृतो विरूपः । स्त्रीणां तथैव विकृतो विरूपस् तद् अद्भुतं तस्य देशस्य विद्यात् ॥
(अव्परिस्_72,6.4) अनास्यं वाप्य् अनोष्ठं वा जायते चेद् विदूलकम् । अरूपम् असरूपं वा जायते चेद् विदूलकम् ॥
(अव्परिस्_72,6.5) अधरादीन्न् अचक्षुर् वा जायते चेद् विदूलकम् । एतद् अत्यद्भुतं नाम राष्ट्रे राज्यक्षयम्करम् ॥
(अव्परिस्_72,6.6) तम् अद्भिः स्नातं सुरभिं सुगन्धिं गतासुम् अग्नौ जुहुयाद् घृताक्तम् । गनेण रौद्रेण घृतं च हुत्वा तथा महात्मा शिवम् अस्य कुर्यात् ॥
मूल पाठ: Atharvavedapariśiṣṭas · Edition: George Melville Bolling and Julius von Negelein: "The Pariśiṣṭas of the Atharvaveda", Vol. 1, parts 1 and 2 (all published), Leipzig : Harrassowitz 1909-1910. · Data entry Yuri Ishii · GRETIL (Göttingen) · CC BY-NC-SA 4.0