अथर्ववेदपरिशिष्टस् · भाग 2140
(अव्परिस्_18ब्,2.2) शस्त्रसस्वसंपातः ॥
(अव्परिस्_18ब्,2.3) त्र्तीयायां हस्त्यश्ववाहग्राम्याश्वानां कर्म सप्तम्यां हस्त्यश्वानां दर्शनम् ॥
(अव्परिस्_18ब्,2.4) अष्टम्याम् अथ पिष्टमयीम् इत्यादि नवम्यां दुर्गापूजनम् ॥
(अव्परिस्_18ब्,2.5) अथ वा वनम्याम् इत्यादि नवम्याम् ॥
(अव्परिस्_18ब्,2.6) अथापराजितदशम्याम् ॥
(अव्परिस्_18ब्,2.7) पूर्वाह्णे विजयमहूर्ते उक्तं प्रास्थानिकम् ॥
(अव्परिस्_18ब्,2.8) एतानि खलु प्राग्द्वाराणीत्यादि ॥
(अव्परिस्_18ब्,3.1) अथ श्रवणे नक्षत्रे राज्ञाम् इन्द्रमहस्येति व्याख्यातः ॥
(अव्परिस्_18ब्,4.1) अथ पौर्णमास्याम् अपराह्णे पौर्णमासिकं कर्म ॥
(अव्परिस्_18ब्,5.1) अथापामार्गत्रयोदश्यां श्वेते मुहूर्ते स्नानं कृत्वापामार्गं त्रिः परिभ्रामयेद् राज्ञ उपरि मन्त्रेण ॥
(अव्परिस्_18ब्,5.2) इशानां त्वा भेषजानाम् इति त्रिभिः सूक्तैः प्रतीचीनफल इति सूक्तेन वा पुनः स्नानम् ॥
(अव्परिस्_18ब्,5.3) तत आरात्रिकं परिधत्तेति द्वाभ्याम् इति समानम् ॥
(अव्परिस्_18ब्,6.1) अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिक्दीक्षासमानम् ॥
(अव्परिस्_18ब्,6.2) अभ्यातानान्तं कृत्वा ये ऽस्यां प्राची दिग् इति ॥
(अव्परिस्_18ब्,6.3) मा नो देवा यस् ते सर्प इत्य् एतैः सूक्तैस् तृणानि युगतर्द्मना संपातवन्ति गणं च प्रातितमितधानाशने हस्त्यश्वादियुगपत् तन्त्रं समानम् ॥ धेनुर् दक्षिणा ॥
(अव्परिस्_18ब्,7.1) अथाक्षय्यनवम्यां रात्रौ हस्त्यश्वादीनाम् अनीकानां रथस्य परहोमश् च ॥
(अव्परिस्_18ब्,8.1) अथ विष्णुद्वादश्यां पुरोहितः पश्चिमां संध्याम् उपास्य गृहीतदर्भो यत्र राजानम् अभिगम्य पौष्टिकहोमश् च रात्रौ नीराजनं कृत्वा हस्त्यश्वेभ्यश् च ॥
(अव्परिस्_18ब्,9.1) अथ कार्त्तिक्यां पौर्णमास्यां रैवत्याम् अश्वयुज्यां वृषोत्सर्गः ॥
(अव्परिस्_18ब्,10.1) अथाग्रयणीपौर्णमास्यां तन्त्रं कृत्वापाद् अग्रेति द्वाभ्यां रसं संपात्याभिमन्त्र्य राजानं प्राशयेत् ॥ धेनुर् दक्षिणा ॥
(अव्परिस्_18ब्,11.1) अथ पौष्यां पौर्णमास्याम् उक्तः पुष्याभिषेकः ॥
(अव्परिस्_18ब्,12.1) अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलाका ॥
(अव्परिस्_18ब्,12.2) महानवम्याम् उक्तप्रज्वलनं नीराजं वा ॥
(अव्परिस्_18ब्,13.1) अथ ग्रीष्मप्रतिपद्य् आयुष्यम् इति स्नानं कृत्वापां सूक्तैर् आप्लुत्य प्रक्षिणम् आव्र्त्याप उपस्पृश्येत्य् उक्तम् ॥
(अव्परिस्_18ब्,14.1) अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रम् अश्नातीत्य् उक्तम् ॥
(अव्परिस्_18ब्,15.1) अथ मदनत्रयोदश्यां वैशाख्यां पौर्णमास्यां च मध्याह्ने गर्ते वा वाप्यां पुष्करिण्यां घते वा सर्वगन्धान् प्रक्षिप्य प्राक्तन्त्रम् अभ्यातानान्तं कृत्वा सिंहे व्याघ्रे यशो हविः प्रातर् अग्निं गिराव् अरगराटेषु दिवस् पृथिव्या इत्य् एतैः सूक्तैर् उदकं संपात्याभिमन्त्र्य राजानं स्नापयेत् ॥ प्रविश्य संप्रोक्ष्येति च तन्त्रं संस्थापयेत् ॥ धेनुर् दक्षिणा ॥
(अव्परिस्_18ब्,16.1) अथ श्रावण्यां पौर्णमास्यां विजये मुहूर्ते रक्षन्तु त्वाग्नय इति चतसृभी रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोपनिष्क्रम्येति पैठीनसिः ॥
(अव्परिस्_18ब्,17.1) अथादित्यदिन आदित्यमण्डलको व्याख्यातः ॥
(अव्परिस्_18ब्,18.1) अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः ॥
(अव्परिस्_18ब्,19.1) अथ राजकर्माणि प्रतिनक्षत्रं कर्तव्यानीत्य् आयुधानि खड्गप्रभृतीनि बिभृयाद् इति कृत्तिकारोहिण्यादीनि व्याख्यातानि ॥
(अव्परिस्_18ब्,19.2) इन्द्रोत्सव इन्द्रमहोत्सवो व्याख्यातः ॥
(अव्परिस्_18ब्,19.3) प्रतिदिनं ग्रहयागः ॥ प्रतिदिनं नक्षत्रयागः ॥ प्रतिदिनं दशगणी महाशान्तिः ॥
(अव्परिस्_18ब्,19.4) प्रतिस्थानं कृत्तिकारोहिणीव्याख्याता नक्षत्रस्नानानि नक्षत्रक्षिणाश् च ॥
(अव्परिस्_18ब्,20.1) राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा समाप्ता ॥
(परिशिष्ट_18च्. वृषोत्सर्गः)
(अव्परिस्_18च्,1.1) अथ वृषोत्सर्गः ॥
(अव्परिस्_18च्,1.2) कार्त्तिकेयां पौर्णमास्यां रैवत्याम् आश्वयुज्यां वा गवां गोष्ठे पौर्णमासतन्त्रम् आज्यभागान्तं कृत्वा रुद्ररौद्राभ्याम् आज्यं जुहुयात् ॥
(अव्परिस्_18च्,1.3) पूषा गा अनु एतु न इति चतसृभिः पौष्णस्य जुहुयात् ॥
(अव्परिस्_18च्,1.4) पूषा गा अनु एतु नः पूषा रक्षातु सर्वतः । पूषा वाजं सनोतु नः ॥
(अव्परिस्_18च्,1.5) पूषन्न् अनु प्र गा इहि(इति) यजमानस्य सुन्वतः । अस्माकं स्तुवताम् उत ॥
(अव्परिस्_18च्,1.6) पूषन् तव व्रते वयं परि पूषा पुरस्ताद् इति ॥
(अव्परिस्_18च्,1.7) इन्द्रस्य कुक्षिः साहस्रस् त्वेष इति ऋषभं संपातवन्तं कृत्वा य इन्द्र इव देवेषु इति ऋषभस्य दक्षिणे कर्णे जपेत् ॥
(अव्परिस्_18च्,1.8) लोहितेन स्वधितिन इति वत्सतरीम् अनुमन्त्रयते ॥
(अव्परिस्_18च्,1.9) अयं प्रजानां जनिता प्रजापतिर् गवां गोष्ठ इह मध्यतो वसः । वत्सतरीषु अपसदने गवाम् अधि तिष्ठ पशून् भवनस्य गोपाः ॥
(अव्परिस्_18च्,1.10) इति मण्डलानि भ्रामयति
(अव्परिस्_18च्,1.11) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्व7अतिसृजामि अपरिमितपोषायै त्वातिसृजामीति पर्युक्ष्यैकरूपं द्विरूपं बहुरूपं वा यो वा यूथं छादयति यूथेन तेजस्विनालंकृतेनालंकृतम् अपराजितां दिशं निष्क्रामयेयुः सह वत्सतरीभिस् तन्त्रं संस्थापयेयुर्
(अव्परिस्_18च्,1.12) अथ ब्रह्मणे गां पयस्विनीं दद्यात् पायसेन ब्राह्मणान् भोजयित्वोत्सृज्य सर्वान् कामान् आप्नोति अक्षयाण् च लोकान् आप्नोतीति
(परिशिष्ट_19. इन्द्रमहोत्सवः)
(अव्परिस्_19,1.1) अथ राज्ञम् इन्द्रमहोत्सवस्य उपचारकल्पं व्याख्यास्यामः ॥
(अव्परिस्_19,1.2) प्रौष्ठपदे शुक्लपक्षे ॥
(अव्परिस्_19,1.3) संभृतेषु संभारेषु ब्रह्मा राजा च उभौ स्नातौ अहतवसनौ सुरभिसुजातानुलेपनौ कर्मण्यौ व्रतवन्तौ उपवसतः
(अव्परिस्_19,1.4) [व्रतवन्तौ] श्वो भूते शम्नोदेव्याः पादैर् अर्धर्चाभ्याम् ऋचा षकृत्वोदकं परि वाचम् आचान्तो
(अव्परिस्_19,1.5) बर्हिर् उपकल्पयित्वा राजानम् अन्वालभ्य जुहुयात् ॥
(अव्परिस्_19,1.6) अर्वाञ्चम् इन्द्रं त्रातारम् इन्द्रम् इन्द्रः सुत्रामा इमम् इन्द्र वर्धय क्षत्रियं मे हन्ताय वृष इन्द्रस्य इन्द्रो जयाति इति च हुत्वा राष्ट्रसंवर्गैश् चा
(अव्परिस्_19,1.7) अथ इन्द्रम् उत्थापयन्ति आ त्वा अहार्षम् अन्तर् ध्रुवाद्यौर् विशस् त्वा सर्वा वाञ्छन्तु इति सर्वतो ऽप्रमत्ता धारयेरन्न्
(अव्परिस्_19,1.8) अद्भुतं हि सवनानयेत् समुत्थितं भवति ॥ यदि प्राच्याम् अग्निभयम् ॥ यदि दक्षिणस्यां यमभयम् ॥ यदि प्रतीच्यां वरुणभयम् ॥ यदि उदीच्यां क्षुद्भयम् ॥ यदि अन्तर्देशेभ्योभयतो विद्याद्
(अव्परिस्_19,1.9) अग्निर् मा पातु अग्निं ते वसुमन्तम् ऋच्छन्त्व् इति ॥ यथास्वलिङ्गं द्वाभ्यां-द्वाभ्यां प्रदक्षिणं प्रतिदिशम् उपस्थापयेत् ॥
(अव्परिस्_19,1.10) गृध्रश् चेद् अस्मिन् निपतति मृत्योर् भयं भवति ॥ यद् वा कृष्णशकुनिर् अन्तरिक्ष्र्ण पतति इति जपेद् यस् त्वा गृध्रः कपोत इति अन्ततो जपेत्
(अव्परिस्_19,1.11) सर्वत्र अनाज्ञातेषु त्रिरात्रं घृतकम्बलम् ॥
(अव्परिस्_19,1.12) शिरोभङ्गे तु राजानं मध्यभङ्गे तु मन्त्रिणम् । आदिभङ्गे जनपदं मूलभङ्गे तु नागरान् ॥
(अव्परिस्_19,1.13) इन्द्राटको यदा भिद्याद् राजकोशो विलुप्यते । रज्जुछेदे परिजाते नृपतिस् तु विनश्यति ॥
(अव्परिस्_19,2.1) सावित्र्या अभिमन्त्रितं कृत्वा प्रदक्षिणम् आवर्तयेद् राजानम् अभिभूर् यज्ञ इति एतैस् त्रिभिः सूक्तैर् अन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥
(अव्परिस्_19,3.1) अथ पशूनाम् उपाचारम् ॥
(अव्परिस्_19,3.2) इन्द्रदेवताः स्युर् ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युर्
(अव्परिस्_19,3.3) इन्द्रं चोपसद्य यजेरन् ॥ त्रिरात्रं सप्तरात्रं वा
(अव्परिस्_19,3.4) त्रिर् अयनम् अह्नाम् उपतिष्ठन्ते हविसा च यजन्ते ॥
(अव्परिस्_19,3.5) आवृत इन्द्रम् अहम् इति इन्द्र क्षत्रम् इति हविषो हुत्वा
(अव्परिस्_19,3.6) ब्राह्मणान् स्वस्तिवाच्य इन्द्रम् अवभृथाय व्रजन्ति
(अव्परिस्_19,3.7) अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्य अप उपस्पृश्य अनपेक्षमाणाः प्रत्येत्य ब्राह्मणान् भक्त्या यद् ईप्सितं वरप्रदानैः परितोषयेत् ॥
(अव्परिस्_19,3.8) अथ हैषमितिकम् इति ॥
(अव्परिस्_19,3.9) श्वःश्वो ऽस्य राष्ट्रं ज्यायो भवति एको ऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश् चैवंविद्वान् इन्द्रमहेण चरति इति ब्राह्मणम् ॥
(परिशिष्ट_19ब्. ब्रह्मयागः)
(अव्परिस्_19ब्,1.1) ओं भार्गवं प्रणिपत्याथ भगवाञ् शौनको ऽवदत् । ब्रह्मयागविधिं कृत्स्नं विस्तरेण वदस्व मे ॥
(अव्परिस्_19ब्,1.2) परिपृष्टः स तेन अथ अथर्वा यजतां वरः । विधिं कृत्स्नं प्रतिष्ठाय आख्यातुम् उपचक्रमे ॥
(अव्परिस्_19ब्,1.3) सर्वेषाम् एव यागानां परमो ऽयम् उदाहृतः । ब्रह्मयागं प्रयत्नेन शृणु एतं तद् यथाक्रमम् ॥
(अव्परिस्_19ब्,1.4) हृद्ये मनोहरे शुभ्रे सर्वाबाधाविवर्जिते । श्लेष्मान्तकाक्षगृध्रादिपरित्यक्ते समे शुभे ॥
(अव्परिस्_19ब्,1.5) मण्डपं कारयेत् तत्र यथोक्तविधिना गुरुः । पताकातोरणिर् युक्तं द्वारैश् च अपि पृथग्विधैः ॥
(अव्परिस्_19ब्,2.1) अभ्युक्ष्य शान्तितोयेन पञ्चगव्येन वा सकृत् । गोमयेन प्रलिप्य आदौ पूजयेद् वर्णकिः पृथक् ॥
(अव्परिस्_19ब्,2.2) पुष्पैश् च विविधैः शुभ्रैः फलैश् च अपि अर्चयेद् बुधः । ततो बलिं हरेद् रात्रौ चतुर्दिक्षु विधानवित् ॥
(अव्परिस्_19ब्,2.3) प्रदीपान् घृतपूर्णांश् च प्रदद्याद् विविधान् तथा । त्ततो मण्डपमध्ये तु वर्तयेद् दिव्यमण्डलम् ॥ [चतुरश्रं चतुर्द्वारं वृत्ताकारम् अथ अपि वा] ॥
(अव्परिस्_19ब्,2.4) सितचूर्णेन तन्मध्ये लिखेत् पद्मं सुशोभनम् । बहिश् च वर्णैः शुभ्रैर् नाना शोभां प्रकल्पयेत् ॥
(अव्परिस्_19ब्,2.5) मध्ये पद्मं तु संस्थाप्य ब्रह्माणं परमेश्वरम् । ब्रह्मजज्ञानसूक्तेन यथोक्तम् उपकल्पयेत् ॥
(अव्परिस्_19ब्,3.1) तथ इमा आप इत्या द्यैर् यथावद् अधिवासयेत् । रोचनाचन्दनाद्यैश् च पुष्पैर् धूपैश् च पूजयेत् ॥
(अव्परिस्_19ब्,3.2) घृतप्रदीपमाल्यैश् च वस्त्रैर् भक्षैश् च शोभनैः । सितचन्दनकर्पूरं दद्याद् वा अपि हि गुग्गुलम् ॥
(अव्परिस्_19ब्,3.3) प्रदक्षिणं ततः कृत्वा नमेत् सर्वाङ्गकैर् नरः । दक्षिणे पश्चिमे वा अपि भागे वेदिः प्रशस्यते ॥
(अव्परिस्_19ब्,3.4) कृत्वाज्यभागपर्यन्तं ततः शान्त्युदकं पुनः । ब्रह्मजज्ञानसूक्तेन कुर्याच् चैवात्र पूजनम् । तथैव रौद्रमन्त्रैश् च अभिषेकाय कल्पयेत् ॥
(अव्परिस्_19ब्,3.5) हुत्वाभ्यातानमन्त्रांश् च ततो रुद्रगणेन च । नीलरुद्रैश् चरुं विद्वान् विधिना श्रपयेद् बुधः ॥
(अव्परिस्_19ब्,4.1) होमयेत् कुत्ससूक्तेन उच्छुष्मैश् च यथाविधि । जपेन् मन्त्रान् तथायुष्यान् मङ्गल्यांश् चापि यत्नतः ॥
(अव्परिस्_19ब्,4.2) हुत्वा च चातनं तत्र मातृनामगणेन च । स्नापयेत् पञ्चगव्येन तथा शान्त्युदकेन च ॥
(अव्परिस्_19ब्,4.3) फलस्नानं च कुर्वीत युक्तो मङ्गलवादिभिः । बन्दिभिर् वेदविद्भिश् च स्त्रीसण्गीतैर् मनोरमैः ॥
(अव्परिस्_19ब्,4.4) चारुचामरहस्ताभिश् चित्रदण्डैः सदर्पणैः । स्नापयेद् ब्रह्मसूक्तेन रौद्रेणापि तथार्चयेत् ॥
(अव्परिस्_19ब्,4.5) ततः प्रदक्षिणं कृत्वा जानुभ्यां धरणीं गतः । आशास्येष्टफलं तत्र युक्तो मङ्गलपाठकैः ॥
(अव्परिस्_19ब्,5.1) तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा । कुर्याद् दुन्दुभिनादं तु शङ्खभेरिप्रपूरितम् ॥
(अव्परिस्_19ब्,5.2) कुर्याद् उत्तरतन्त्रं च सदस्यान् वाचयेत् ततः । भोजयेच् छक्तितस् तत्र ब्राह्मणान् वेदपारगान् ॥
(अव्परिस्_19ब्,5.3) दीनानाथान्धकृपणान् भक्षभोज्यैर् अनेकधा । अन्नपानविहीनांश् च विशेषेण प्रपूजयेत् ॥
(अव्परिस्_19ब्,5.4) दत्त्वा च दक्षिणां शक्त्या दद्याद् गणबलिं निशि । गृहदेवास् तु संपूज्याः कार्यश् चाप्य् उत्सवो गृहे ॥
(अव्परिस्_19ब्,5.5) योगिनो भोजयेत् पश्चाद् गृहेसु गृहमेधिनः । अछेद्यास् तरवः कार्याः प्राणिहिंसां च वर्जयेत् ॥
(अव्परिस्_19ब्,5.6) बन्धनस्थाश् च मोक्तव्या बद्धाः क्रोधाच् च शत्रवः । अभयं घोषयेद् देशे गुरुं च परिपूजयेत् ॥
(अव्परिस्_19ब्,5.7) अभयं सर्वतो दत्त्वा इष्टे च परमेश्वरे । दीर्घम् आयुर् अवाप्नोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥
(अव्परिस्_19ब्,5.8) ब्रह्मयागविधिः कृत्स्नो भक्तानां तु मयोदितः । अथर्वणा सुरेन्द्राय प्रणताय शुभेच्छया ॥
(अव्परिस्_19ब्,5.9) कृताभिषेकः कृतयाग एष कृताह्ह्निकः कृतरक्षः सुरेशः । अथर्वणो ऽनुग्रहम् आशु लब्ध्वा त्रिविष्टपं विरराजासपत्नम् ॥ इति ॥
(परिशिष्ट_20. स्कन्दयागः ओर् धूर्तकल्पः)
(अव्परिस्_20,1.1) अथातो धूर्तकल्पं व्याख्यास्यामः ॥
(अव्परिस्_20,1.2) चतुर्षुचतुर्षु मासेषु फाल्गुणाषाढकार्त्तिकपूर्वपक्षेषु नित्यं कुर्वीत ॥
(अव्परिस्_20,1.3) श्वो भूते षष्ठ्याम् उपवासं कृत्वा प्रागुदीचीं दिशं निष्क्रम्य शुचौ देशे मनोहरे नोषरे मण्डलं त्रयोदशरत्निं कृत्वा मध्ये मण्डपस्य सर्ववानस्पत्यां मालां कृत्वा घण्टापताकास्रजः प्रतिसरं च मालापृष्ठे कृत्वा मध्ये दर्पणांश् चोपकल्पयित्वा तत्र यं वहन्ति हयाः श्वेता इत्य् आवाहयेत् ॥
(अव्परिस्_20,2.1) यं वहन्ति हयाः श्वेता नित्ययुक्ता मनोजवाः । तम् अहं श्वेतसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.2) यं वहन्ति गजाः सिंहा व्याघ्राश् चापि विषाणिनः । तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.3) यं वहन्ति मयूराश् च चित्रपक्षा विहंगमाः । तम् अहं चित्रसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.4) यं वहन्ति सर्ववार्णाः सदायुक्ता मनोजवाः । तम् अहं सर्वसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.5) यस्यामोघा सदा शक्तिर् नित्यं घण्तापताकिनी । तम् अहं शक्तिसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.6) यश् च मातृगणैर् नित्यं सदा परिवृतो युवा । तम् अहं मातृभिः सार्धं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.7) यश् च कन्यासहस्रेण सदा परिवृतो महान् । तम् अहं सिंहसंनाहं धूर्तम् आवाहयाम्य् अहम् ॥
(अव्परिस्_20,2.8) आयातु देवः सगणः ससैन्यः सवाहनः सानुचरः प्रतीतः । षडाननो ऽष्टादशलोचनश् च सुवर्णवर्णो लघुपूर्णभासः ॥
(अव्परिस्_20,2.9) आयातु देवो मम कार्त्तिकेयो ब्रह्मण्यपित्रैः सह मातृभिश् च । भ्रात्रा विशाखेन च विश्वरूप इमं बलिं सानुचर जुषस्व ॥
(अव्परिस्_20,2.10) संविशस्वेति संवेशयेत् ॥
(अव्परिस्_20,3.1) संविशस्व वरघण्टाप्सरःस्तवे यत्र सुभुजो हि निर्मिताः । संविष्टो मे धेहि दीर्घम् आयुः प्रजां पशूंश् चैव विनायकसेन ॥
(अव्परिस्_20,3.2) इमा आप इति गन्धोदकं पाद्यं दद्यात् ॥ प्रतिगृह्णातु भगवान् देवो धूर्त इति ॥ षत् चैव हिरण्यवर्णा इतीमे दिव्यो गन्धर्व इति गन्धान् यस् ते गन्ध इति चेमाः सुमनस इति सुमनसः ॥ प्रियं धातुर् इति... ॥
(अव्परिस्_20,3.3) वनस्पतिर् असो मेध्य इति धूपम् ॥ यक्ष्येण ते दिवा अग्निः शुक्रश् चेति दीपम् ॥ यो विश्वतः सुप्रतीक इति पर्णानि ॥
(अव्परिस्_20,3.4) प्रक्षाल्य हविष्य् उपसादयेद् दध्योदनं क्षीरोदनं गुडोदनं मुद्गपयसमिश्रधान्यमोदकानि सर्वगन्धान् सर्वर्सान् उदकपूर्णं मूलपुर्णं पुष्पपूर्णं फलपूर्णं रसपूर्णं चोपकल्पयित्वा
(अव्परिस्_20,3.5) इन्द्रः सीतम् इत्य् उल्लिख्य अग्ने प्रेत्य् अग्निं प्रणीय प्रज्वल्य प्राञ्चम् इध्मम् उपसमाधाय भग एतम् इध्मम् इति तिसृभिर् एतम् इध्मं सुगार्हस्पत्य इत्य् उपसमाधाय समिद्धो अग्निर् इति समिद्धम् अनुमन्त्रयते ॥
(अव्परिस्_20,4.1) भद्रम् इच्छन्तो हिरण्यगर्भो ममाग्ने वर्चस् त्वया मन्यो यस् ते मन्यो यद् देवा देवहेडनम् इति षत् कामसूक्तादयो दश महीपतये स्वाहा ॥
(अव्परिस्_20,4.2) धूर्ताय स्कन्दाय विशाखाय पिनाकसेनाय भ्रातृस्त्रीकामाय स्वच्छन्दाय वरघण्ताय निर्मिलाय लोहितगात्राय शलकटङ्कटाय स्वाहेति हुत्वा अग्नये प्रजापतये ये देवा दिव्य् एकादश स्थेति अनुमतये अग्नये स्विष्टकृत इति च ॥
(अव्परिस्_20,5.1) शिवाग्निकृत्तिकानां तु स्तोष्यामि वरदं शुभम् । स मे स्तुतो विश्वरूपज् सर्वान् अर्थान् प्रयच्छतु ॥
(अव्परिस्_20,5.2) धनधान्यकुलान् भोगान् स मे वचनवेदनम् । दासीदासं तथा स्थानं मणिरत्नं सुराञ्जनम् ॥
(अव्परिस्_20,5.3) ये भक्त्या भजन्ते धूर्तं ब्रह्मण्यं च यशस्विनम् । सर्वे ते धनवन्तः स्युः प्रजावन्तो यशस्विनः ॥
(अव्परिस्_20,5.4) यथेन्द्रस् तु वरान् लब्ध्वा प्रीतस् तु भगवान् पुरा । देहि मे विपुलान् भोगान् भक्तानां च विशेषत इति ॥
(अव्परिस्_20,5.5) कामसूक्तेनोपहारम् उपहरेत् ॥
(अव्परिस्_20,5.6) उपहारम् इमं देव मया भक्त्या निवेदितम् । प्रतिगृह्य यथान्यायम् अक्रुद्धः सुमना भव ॥
(अव्परिस्_20,6.1) सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवेभवे नादिभवे भजस्व मां भवोद्भवेति भवाय नमः ॥
(अव्परिस्_20,6.2) देवं प्रपद्ये वरदं प्रपद्ये स्कन्दं प्रपद्ये च कुमारम् उग्रम् । षण्णां सुतं कृत्तिकानां षडास्यम् अग्नेः पुत्रं साधनं गोपथोक्तैः ॥
(अव्परिस्_20,6.3) रक्तानि यस्य पुष्पाणि रक्तं यस्य विलेपनम् । कुक्कुटा यस्य रक्ताक्षाः स मे स्कन्दः प्रसीदतु ॥
(अव्परिस्_20,6.4) आग्नेयं कृत्तिकापुत्रम् ऐन्द्रं के चिद् अधीयते । के चित् पाशुपतं रौद्रं यो ऽसि सो ऽसि नमो ऽस्तु त इति ॥
(अव्परिस्_20,6.5) स्वामिने नमः शङ्करायाग्निपुत्राय कृत्तिकापुत्राय नमः ॥
(अव्परिस्_20,6.6) भगवान् क्व चिद् अप्रतिरूपः स्वाहा भगवान् क्व चिद् अप्रतिरूपः ॥
(अव्परिस्_20,6.7) मणिरत्नवरप्रतिरूपः ॥ काञ्चनरत्नवरप्रतिरूप इति ॥
(अव्परिस्_20,6.8) एते [ते] देव गन्धा एतानि पुष्पाण्य् एष धूप एतां मालां त्रिः प्रदक्षिणां कृत्वा आदित्यकर्तितं सूत्रम् इति प्रतिसरम् आबध्नीयात् ॥
(अव्परिस्_20,7.1) आदित्यकर्तितं सूत्रम् इन्द्रेण त्रिवृतीकृतम् । अश्विभ्यां ग्रथितो ग्रन्थिर् ब्रह्मणा प्रतिसरः कृतः ॥
(अव्परिस्_20,7.2) धन्यं यशस्यम् आयुष्यम् अशुभस्य च घातनम् । बध्नामि प्रतिसरम् इमं सर्वशत्रुनिबर्हनम् ॥
(अव्परिस्_20,7.3) रक्षोभ्यश् च पिशाचेभ्यो गन्धर्वेभ्यस् तथैव च । मनुष्येभ्यो भयं नास्ति यच् च स्याद् दुष्कृतं कृतम् ॥
(अव्परिस्_20,7.4) स्वकृतात् परकृताच् च दुष्कृतात् प्रतिमुच्यते । सर्वस्मात् पातकान् मुक्तो भवेद् वीरस् तथैव च ॥
(अव्परिस्_20,7.5) अभिचाराच् च कृत्यातः स्त्रीकृताद् अशुभं च यत् । तावत् तस्य भतं नास्ति यावत् सूत्रं स धारयेत् ॥
(अव्परिस्_20,7.6) यावद् आपश् च गावश् च यावत् स्थास्यन्ति पर्वताः । तावत् तस्य भयं नास्ति यः सूत्रं धारयिष्यतीति ॥
(अव्परिस्_20,7.7) अन्वायं भुक्त्वा देवं विसर्जयेत् ॥
(अव्परिस्_20,7.8) प्रमोदो नाम गन्धर्वः प्रदोषो परिधावति । मुञ्च शैलमयात् पापन् मुञ्चमुञ्च प्रमुञ्च च ॥
(अव्परिस्_20,7.9) [यावत्] इमा आपः पवनेन पूता हिरण्यवर्णा अनवद्यरूपाः । तावद् इमं धूर्तं प्रवाहयामि प्रवाहितो मे देहि वरान् यथोक्तान् ॥
(अव्परिस्_20,7.10) उदितेषु नक्षत्रेषु गृहान् प्रविष्टो गृहिणीं पश्येत् धनवति धनं मे देहीति ॥
(अव्परिस्_20,7.11) यद् भोक्तुं कामजातं जगत्यां मनसा संहीहते तत्तद् द्विजन्मा पिनाकसेनयजमानात् कामम् उपभुक्तो भुक्त्वामृतत्वं तद्वद् एवाभ्युपैति ॥
(परिशिष्ट_21. संभारलक्षणम्)
(अव्परिस्_21,1.1) ओं संभारान् कीर्तयिष्यामो यथालक्षणसंयुतान् । यैः कर्म क्रियमाणं हि फलवत् स्याद् द्विजन्मनाम् ॥
(अव्परिस्_21,1.2) अछिन्नाग्रान् कुशान् आर्द्रान् इन्द्रनीलसमप्रभान् । शुष्कान् अपि श्वेतवर्णान् आहुः शान्तिकरान् बुधाः ॥
(अव्परिस्_21,1.3) सुरभीणि च पुष्पाणि सुस्वादूनि फलानि च मनोहराणि वासांसि संभारेषूपकल्पयेत् ॥
(अव्परिस्_21,1.4) सुरभीण्य् एव बीजानि अन्यवस्तूनि यानि च । अर्घचन्दनधूपादि हेमरत्नादि चोत्तमम् ॥
(अव्परिस्_21,1.7च्द्) गावश् च दक्षिणार्थं हि पयस्विन्यः सुलक्षणाः ।
(अव्परिस्_21,1.8अब्) षोडशाष्टौ च चत्वारश् चतुर्णां वेदवित्तमाः ॥
(अव्परिस्_21,1.5) ऋत्विजस् तु समाख्याता वयःशीलगुणान्विताः । द्वात्रिंशत् षोडशाष्टौ वा शान्तिकार्ये तथाद्भुते ॥
(अव्परिस्_21,1.6) सहिरण्याः सवस्त्राश् च सालंकाराः सवत्सकाः । ते सदस्या इति प्रोक्ता वाचने यज्ञकर्मणि ॥
(अव्परिस्_21,1.7अब्) सर्वे ते ऽपि ह्य् अथर्वाण ऋत्विजः षोडश स्मृताः ।
(अव्परिस्_21,1.8च्द्) शुद्धात्मानो जपैर् होमैर् वैदिकैर् वीतमत्सराः ॥
(अव्परिस्_21,2.1) ताम्रराजतहैमानां मृन्मयानाम् अथापि वा । अछिद्राणां सवर्णानां कलशानां च संग्रहः ॥
(अव्परिस्_21,2.2) चरूणाम् अथ पात्राणाम् इन्धनानां विशेषतः । यवव्रीहितिलऽऽआदीनाम् आज्यस्याहरणं तथा ॥
(अव्परिस्_21,2.3) अछिद्रास्फातितावक्रा दीर्घपर्वाः सुमध्यमाः । शमीदूर्वातरूणां तु ज्ञेयाः शान्तौ शभावाः ॥
(अव्परिस्_21,2.4) पुष्करतन्तुगोवालत्रुटिसर्षपयवस्य तु । षड्गुणितःषड्गुणितो [भवति] नरस्याङ्गुलमाने ॥
(अव्परिस्_21,2.5) गोपुच्छसदृशो दण्डः समः श्लक्ष्णो मनोहरः । स्रुवश् च शान्तुके ज्ञेयः स्रुग् उक्ता यज्ञलक्षणा ॥
(अव्परिस्_21,3.1) सौवर्णः शान्तिके प्रोक्तः पालशो वाथ खादिरः । अभिचारे विशेषेण कुर्यात् स्रुवम् अयोमयम् ॥
(अव्परिस्_21,3.2) कांस्यं य्च्चाटने कुर्याद् आश्वत्थं वश्यकर्मणि । विशेषेण तु विद्वेषे स्रुवो निम्बमयः स्मृतः ॥
(अव्परिस्_21,3.3) पौष्टिके राजतं विद्यात् ताम्रं च विजयावहम् । अमृतादौ तु विज्ञेयश् चान्दनः सिद्धिदः स्रुवः ॥
(अव्परिस्_21,3.4) स्रुवाणां विषयं ज्ञात्वा कीलकानां विधिं तथा । गृहस्याश्मविधिं दिक्षु कर्मसिद्धिम् अवाप्नुयात् ॥
(अव्परिस्_21,3.5) श्लेष्मातकार्ककण्टकिकटुतिक्तादिवर्जिते । अरिष्टगृध्रकौशिकविहंगैश् च विवर्जिते ॥
(अव्परिस्_21,4.1) गुल्मवल्लीलतायुक्ते हृद्यैश् च मधुरैर् द्रुमैः । तरुणैः फलवद्भिश् च श्मशानास्थिविवर्जिते ॥
(अव्परिस्_21,4.2) मयूरचक्रवाकादिहंसकारण्डवादिभिः । सुस्वरैर् नादिते देशे हृद्याङ्कुरसमन्विते ॥
(अव्परिस्_21,4.3) नदीतटे समुद्रस्य संगमे वा विशेषतः । अनिन्द्ये दिग्विभागे च उत्तरे वापराजिते ॥
(अव्परिस्_21,4.4) भूमिं संशोधयेत् कर्ता प्रागुदक्प्प्रवणे शुभे । प्राचीं संशोध्य यत्नेन मण्डपं तत्र कारयेत् ॥
(अव्परिस्_21,4.5) नवकोष्ठं समं वापि हस्तैः षोषशभिर् मितम् । चतुरश्रं चतुर्द्वारम् एकोर्ध्वद्वारम् एव वा ॥
(अव्परिस्_21,5.1) तत ईशानकोणे तु स्नानवेदिं समाचरेत् । दशद्वादशहस्तं वा यथावितानम् एव वा ॥
(अव्परिस्_21,5.2) चतुर्गुणोच्छ्रयाश् चैव मूलस्तम्भास् तु ये ततः । उपस्तम्भास् तु ये पार्श्वे तदर्धेन प्रकीर्तिताः ॥
(अव्परिस्_21,5.3) कुम्भाः स्तम्भैस् तथा देयाः कामैर् द्वारं दिशां स्मृतम् । यजमानोच्छ्रयं वापि तदर्धेन प्रकीर्तिताः ॥
(अव्परिस्_21,5.4) कुण्डाकृति गृहं कुर्याद् द्विगुणं परिवेष्तितम् । सर्वदिक्षु प्लवं चैव कुण्डस्योर्ध्वं न छादयेत् ॥
(अव्परिस्_21,6.1) परितो द्वादशस्थूनं चतु[ः]स्तम्भं तु मध्यतः । अर्चितं पूजितं नित्यं शान्तौ शान्तिगृहं स्मृतम् ॥
(अव्परिस्_21,6.2) नेत्राद्युल्लोचशोभिष्ठं नानावर्णध्वजाकुलम् । रक्ता पीता च धूम्रा च कृष्णा नीलाथ पाण्डुरा ॥
(अव्परिस्_21,6.3) विचित्रा हीन्द्रनीलाभा पताकाः षोडश स्मृताः । [ऐन्द्रायुधधूम्रकृष्णनीलपाण्डुरवर्णकाः] ॥
(अव्परिस्_21,6.4) [पीतरक्तसिताः श्यामा पताकाः षोडश स्मृताः ।] कलशान् षोडशान् तत्र उपरिष्टान् महाध्वजः ॥
(अव्परिस्_21,6.5) वस्त्रेणाछादितान् कुर्यात् सहिरण्यान् पृथक्पृथक् । मणिमुक्ताफलैः पुष्पैर् हृद्यैश् च मधुरैः फलैः ॥
(अव्परिस्_21,6.6) समन्ताद् दिक्षु विन्यस्तैः प्रदीपैश् चाप्य् अलंकृतम् । धूपैर् बल्युपहारैश् च जयघोषैश् च बन्दिनाम् ॥
(अव्परिस्_21,6.7) शङ्खतूर्यनिनादैस् तु वीणादुन्दुभिसस्मितैः । पूज्यमानो हि नृपतिः प्रविशेत् सपुरोहितः ॥
(अव्परिस्_21,6.8) ततः शान्त्युदकं कृत्वा चातनेनानुयोजितम् । संप्रोक्ष्य विधिवन् मन्त्रैर् आनयेद् अरणी ततः ॥
(अव्परिस्_21,7.1) मथिते ऽग्नौ विधानेन शान्त्युदकेन समन्त्रकम् । होमं कृत्वा यथोक्तं तु निमित्तान्य् उपलक्षयेत् ॥
(अव्परिस्_21,7.2) मेघदुन्दुभिनिर्घोषैः प्रज्वलन् सर्वतस् तथा । अव्यवछिन्नदीर्घार्चिः सुस्निग्धः सिद्धिकारकः ॥
(अव्परिस्_21,7.3) किंशुकाशोकपद्माभो नीलोत्पलनिभस् तथा । वह्निः सिद्धिकरो ज्ञेयः सप्तरात्रान् न संशयः ॥
(अव्परिस्_21,7.4) हुतमात्रे प्रज्वलति विहसन्न् इव दृश्यते । तं विद्यात् सिद्धिदं वह्निं पद्मवर्णनिभं तथा ॥
(अव्परिस्_21,7.5) अस्निग्धार्चिः सधूमो यः कृष्णवर्णो ऽप्रदक्षिणः । यथोक्तविपरीतस् तु न वह्निः स्यात् प्रयंकरः ॥
(अव्परिस्_21,7.6) यस्मिन् प्रसन्नताम् एति हूयमाने हुताशने । तत्र नित्यं महासिद्धिर् असमाप्ते विनिर्दिशेत् ॥ असमाप्ते विनिर्दिशेत् ॥ इति संभारलक्षणं समाप्तम् ॥
(परिशिष्ट_22. अरणिलक्षणम्)
(अव्परिस्_22,1.1) ओम् अथातः संप्रवक्ष्यामि अरण्योश् चैव लक्षणम् । रूपम् अथा प्रमाणं च गुणदोषान् तथैव च ॥
(अव्परिस्_22,1.2) चोदितान् शब्दशास्त्रेण आचार्येण तु धीमता । पुरा कल्पे च यद् दृष्टम् ऋषिभिश् चैव लक्षणम् ॥
(अव्परिस्_22,1.3) गृह्याग्निं परिसंगृह्य धर्मपत्न्या सहैव तु । वैतानिकास् ततः कुर्याद् आधानाद्या यथोदिताः ॥
(अव्परिस्_22,1.4) तिथौ शुभायां नक्षत्रे दिशं गत्वा त्व् अनिन्दिताम् । अश्वत्थात् तु शमीगर्भाद् उक्तम् आहरणं श्रुतेः ॥
(अव्परिस्_22,1.5) शमीवृक्षे तु यो ऽश्वत्थो नान्यवृक्षेण संयुतः । मध्ये मूलं न बाह्ये तु स गर्भः परिकीर्तितः ॥
(अव्परिस्_22,2.1) अभावे तु शमीगर्भे अश्वत्थाद् एव वाहरेत् । प्राप्ते चैव शमीगर्भे समारोप्य विसर्जयेत् ॥
(अव्परिस्_22,2.2) चतुर्विंशाङ्गुला दीर्घा विस्तरेण षडङ्गुला । चतुरङ्गुलोच्छ्रया च अरणिश् चोत्तरारणिः ॥
(अव्परिस्_22,2.3) आ स्कन्धाद् उरसो वापि इति स्तौदायनैः स्मृता । बाहुमात्रा देवदर्शैर् जाजलैर् ऊरुमात्रिका ॥
(अव्परिस्_22,2.4) चारणवैद्यैर् जङ्घे च मौदेनाष्टाङ्गुलानि च । जलदायनैर् वितस्तिर् वा षोडशेति तु भार्गवः ॥
(अव्परिस्_22,2.5) शिरःप्रमाणे नाभौ तु चतुर्विंशतिकैव हि । शौनकादिभिर् आचार्यैर् एतन् मानं प्रकीर्तितम् ॥
(अव्परिस्_22,3.1) तस्यास् तु पिण्डः षड्भागे चतुर्भागे तु विस्तरे । चतुरश्रा च श्लक्ष्णा च छिद्रग्रन्थिविवर्जिता ॥
(अव्परिस्_22,3.2) क्लिन्ना भिन्नाग्निसंस्पृष्टा स्फुटिता विद्युता हता । अन्यैश् च दोषैः संयुक्ता वर्जनीया प्रयत्नतः ॥
(अव्परिस्_22,3.3) शिरोग्रन्थिर् हरेच् चक्षुश् छिद्रा पत्नीविनाशिनी । क्लिन्ना विनाशयेत् पुत्रान् स्फुटिता शोकम् आवहेत् ॥
(अव्परिस्_22,3.4) ऊर्ध्वशुष्के न कर्तव्या कृष्णे रूक्षे तथैव च । उभे अप्य् एकवृक्षे च अरणिश् चोत्तरारणिः ॥
(अव्परिस्_22,3.5) तत्प्रमाणा तदर्धा वा भूयसी वा यथेच्छया । अनेनैव तु मन्थव्यो न कुर्याद् योनिसंकरम् ॥
(अव्परिस्_22,4.1) योनिसंकरसंकीर्णे महान् दोषः प्रपद्यते । स यज्ञस् तामसो नाम फलं तत्र न विद्यते ॥
(अव्परिस्_22,4.2) पिण्डे त्व् अयनविषुवौ पृथुत्वे ऋतवः स्थिताः । अर्धमासाश् च दीर्घत्वे कालश् चात्र प्रतिष्ठितः ॥
(अव्परिस्_22,4.3) यजमानो ऽरणिर् इति वदन्त्य् एके विपश्चितः । तत्प्रधानाः क्रियाः सर्वा यज्ञश् चापि तथैव हि ॥
(अव्परिस्_22,4.4) प्रथमे मूलषड्भागे पादौ जङ्घेति कीर्त्यते । द्वितीये जानुनी ऊरू तृतीये श्रोणिर् उच्यते ॥
(अव्परिस्_22,4.5) चतुर्थे जठरं साङ्गं ग्रीवा चैव तु पञ्चमे । षष्थे शिरः समाख्यातम् अङ्गान्य् एतानि निर्दिशेत् ॥
(अव्परिस्_22,5.1) मथिते पादजङ्घे च पिशाचः संप्रजायते । जानुनोश् च तथा चोर्वो राक्षस्त्वं प्रयाति हि ॥
(अव्परिस्_22,5.2) श्रोण्यां च सर्वकामा[ः] स्युर् जठरे क्षुत् तथा स्मृता । उरस्य् अमित्रा ग्रीवायां मृत्युः शिरसि वेदना ॥
(अव्परिस्_22,5.3) श्रोण्याम् एवात ऐच्छन्ति निर्दोषा कीर्तिता यतः । तथा वित्तपशून् पुत्रान् स्वर्गम् आयुः प्रियं सुखम् ॥
(अव्परिस्_22,5.4) प्रथमं मन्थनं श्रोण्याम् आधाने च विशेषतः । इतराणि यथेष्तं हि ग्रीवां सर्वत्र वर्जयेत् ॥
(अव्परिस्_22,5.5) त्रीण्य् अङ्गुलानि त्यक्त्वादौ तथा चत्वारि चान्ततः । मध्ये देवाः स्थितास् तस्माद् वह्निं तत्रैव मन्थयेत् ॥
(अव्परिस्_22,6.1) अनुलोमा भवेद् योनिः पार्श्वभेदो न विद्यते । आनुलोम्येन मथितः सर्वान् कामान् प्रयच्छति ॥
(अव्परिस्_22,6.2) मूलाद् अङ्गुलम् उत्सृज्य त्रीणित्रीणि च पार्श्वयोः । देवयोनिस् तु विज्ञेया तत्र मथ्यो हुताशनः ॥
(अव्परिस्_22,6.3) [मूलात् त्यक्त्वाङ्गुलान्य् अष्टौ अग्रात् तु द्वादशैव हि । अन्तरे देवयोनिः स्यात् तत्र मथ्यो हुताशनः] ॥
(अव्परिस्_22,6.4) वेदा यज्ञाय संभूता यज्ञा अग्नौ प्रतिष्ठिताः । अरण्योर् जायते चाग्निस् तयोस् तस्मात् प्रधानता ॥
(अव्परिस्_22,6.5) अरण्यर्धेन चैव स्युः खादिरौ चात्रपीडकौ । नेत्रं तु षड्गुणं चात्राद् उत्तरो ऽष्टाङ्गुलः स्मृतः ॥
(अव्परिस्_22,7.1) अष्टाङ्गुलः प्रमन्थः स्याच् चात्रं स्याद् द्वादशाङ्गुलम् । ओवीली द्वादशाङ्गुला एष यज्ञविधिः स्मृतः ॥
(अव्परिस्_22,7.2) व्याममन्त्रं वदन्त्य् एके अन्ये हस्तत्रयं विदुः । त्रिवृतं मुष्टिसंयुक्तं यज्ञवृक्षजवल्कलैः ॥
(अव्परिस्_22,7.3) चात्रे च भास्कराः प्रोक्ता उत्तरे वसवस् तथा । नेत्रे देवगणाः सर्वे विष्णुश् चैव तु पीडके ॥
(अव्परिस्_22,7.4) अरणिर् या द्वितीया तु उत्तरा सा प्रकीर्तिता । तत्रैकदेशं संगृह्य उत्तरः स च कीर्तितः ॥
(अव्परिस्_22,7.5) प्राङ्मुखोदङ्मुखो वापि भ्रामकः पश्चिमामुखः । पाणिभ्यां पीडनं शुभ्रम् उत्तराग्रं प्रगृह्य तु ॥
(अव्परिस्_22,8.1) मूले मूलं तु संयोज्य चात्रस्यैवोत्तरस्य च । अरण्युपरि संस्थाप्य पीडकेन तु पीडयेद् ॥
(अव्परिस्_22,8.2) नेत्रेण भ्रामयेच् चात्रं यावद् वह्निः प्रजायते । सर्वैर् हि देवैः संपन्नस् तेन सर्वसुखः स्मृतः ॥
(अव्परिस्_22,8.3) ब्रह्माद्यैर् दैवतैश् चैव विद्वद्भिश् च तपोधनैः । एष यन्त्रप्रयोगस् तु दृष्टो यज्ञार्थहेतुभिः ॥
(अव्परिस्_22,8.4) यजमानेन मन्थव्यः स्वशाखाश्रोत्रियेण वा । तन्मन्त्रेन द्विजाग्र्यैर् वा स्मृतम् एतद् धि मन्थनम् ॥
(अव्परिस्_22.9.1) (अथ) यद्य् अरणी जीर्णे स्यातां जन्तुभिर् मन्थनेन वा ॥ समानीते नवे अरणी आहृत्य श्वे भूते दर्शेनाष्ट्वा तस्मिन् पूर्वे शकलीकृत्य गार्हपत्ये प्रक्षिप्योपर्य् अग्नौ धारयन् जपति ॥
(अव्परिस्_22,9.2) उद् बुध्यस्वाग्ने प्र विशस्य योन्यां देवयज्यायै वोढवे जातवेदः । अरण्योर् अरणी सं चरस्व जीर्णां त्वचम् अजीर्णया निर् णुदस्वेत्य्
(अव्परिस्_22,9.3) आज्यं संस्कृत्याहवनीये मनस्वतीं जुहोति ॥ [पुत्रार्थी श्रावयेत्] ॥
(अव्परिस्_22,9.4) मनो ज्योतिर् जुषताम् आज्यस्य विछिन्नं यज्ञं सम् इमं दधातु । या इष्टा उषसो या अनिष्टास् ताः सं चिनोमि हविषा घृतेन स्वाहेति अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपति ॥ शराव् ओदनं सदक्षिणं ददाति ॥ सा प्रकृतेष्तिः संगृह्यते ॥
(अव्परिस्_22,10.1) प्रसङ्गेनैव कथितम् अग्निमन्थनम् अत्र वै । अरण्योश् चाङ्गसंभूतं नेत्रं चात्रं च पीडकः ॥
(अव्परिस्_22,10.2) य इदं धारयिष्यति अरण्योर् इह लक्षणम् । न तस्य दुर्लभं किं चिद् लोके परत्र च ॥
(अव्परिस्_22,10.3) पुत्रार्थी श्रावयेन् नित्यम् अचिराल् लभते सुतम् । श्रुतशीलं वृत्तवन्तं दीर्घायुर् विपुलां प्रजाम् ॥
(अव्परिस्_22,10.4) एतद् एवं समाख्यातं पिप्पलादेन धीमता । द्विजानां बालवृद्धानां पुरश्चरणम् उत्तमम् ॥
(अव्परिस्_22,10.5) अधीत्यैतच् च देहान्ते परं ब्रह्माधिगच्छति । न तस्य मृत्युर् न जरा निद्रा व्याधिर् न चैव हि । क्षुत्पिपासाभयं नास्ति ब्रह्मभूतः स तिष्ठति ॥
(परिशिष्ट_23. यज्ञपात्रलक्षणम्)
(अव्परिस्_23,1.1) ओम् अथातो यज्ञपात्राणां लक्षणं योनिर् एव च । रूपं तथा प्रमाणं च क्रमेनैव प्रकथ्यते ॥
(अव्परिस्_23,1.2) चमसग्रहपात्राणि होमपात्राणि यानि च । यज्ञवृक्षास् तथा शाखा ब्रह्मवेदे प्रदर्शिताः ॥
(अव्परिस्_23,1.3) पितृपिण्डेषु दर्व्याद्यम् अग्निष्वात्तं च याज्ञिकम् । सायंहोमेषु नित्यानि तथा नैमित्तिकानि च ॥
(अव्परिस्_23,1.4) बिल्वाकृतिश् चरुः प्रोक्तस् ताम्रो वा मृन्मयो ऽपि वा । ग्रीवायां मुखविस्तीर्णश् चरुस्थालीति कीर्त्तितः ॥
(अव्परिस्_23,1.5) कुशस्याम्रस्य वा पर्णैर् वेणोर् वा बल्बजस्य वा । चतुष्कोणार्धवीतं च लोके शूर्पं तद् उच्यते ॥
(अव्परिस्_23,2.1) असिः खड्गं च निस्त्रिंशः पर्यायाः परिकीर्त्तिताः । तदाकृट्य् एव यद् रूपं यज्ञे स्फ्यं च वदन्ति तम् ॥
(अव्परिस्_23,2.2) इध्मोच्छ्रयम् अर्धखातं खातेनैव तु विस्तरः । मध्ये हीनं तथोर्ध्वाग्रं वारणं तद् उलूखलम् ॥
(अव्परिस्_23,2.3) स्थूलत्वान् मुष्टिमात्रं च स्कन्धमात्रं प्रमाणतः । वारणं मुसलं चैव अधस्ताल् लोहवेष्टितम् ॥
(अव्परिस्_23,2.4) स्रुवस् तु मूलदण्डश् च बिलं चाङ्गुष्ठपर्वणः । समवेते पृथग्भूते बिलार्धे दण्डवृत्तता ॥
(अव्परिस्_23,2.5) वैकङ्कती ध्रुवा प्रोक्ता सर्वयज्ञेषु या स्मृता । तथाग्निहोत्रहवणी स्रुवश् चापि तथा स्मृतः ॥
(अव्परिस्_23,3.1) मूलदण्डा त्वग्बिला च पुष्करं चतुरङ्गुलम् । पुष्कराद् द्विगुणं चाग्रं गजोष्ठं परिपठ्यते ॥
(अव्परिस्_23,3.2) [नेत्रादिकरणैर् हीनं नासिकाभ्यां द्विजैस् तथा । द्व्यङ्गुलः खाता च बिलाद् अङ्गुलं चैव पिण्डिका । वृत्ता वा चतुरश्रा वा साधस्ताच् छोभना स्मृता] ॥
(अव्परिस्_23,3.3) अर्धाङ्गुलं पृथुत्वेन बिलबाह्यं समन्ततः । बिलं वृत्तं स्रुचो मध्ये दण्डस्थौल्यं बिलार्धतः ॥
(अव्परिस्_23,3.4) चतुर्विंशत्यङ्गुलं दण्डं वदन्त्य् एके मनीषिणः । सप्तत्रिंशद् अङ्गुलानि सा स्रुक् चैव प्रकीर्तिता ॥
(अव्परिस्_23,3.5) भिन्ना विशीर्णा वक्रा च क्लिन्ना च स्फुटिता तथा । सुषिरा ग्रन्थिभिर् युक्ता चक्षुरादिविनाशिनी ॥
(अव्परिस्_23,4.1) दग्धशेषे ऽर्धशुष्के च विद्युता चैव पातिते । उन्मूल्ये पतिते भग्ने मनसापि न चिन्तयेत् ॥
(अव्परिस्_23,4.2) शुभनक्षत्रातिथिषु शुभां गत्वा दिशं बुधः । स्रुवार्थं पातयेद् वृक्षं प्रातः प्राग्रं च सौम्यवाक् ॥
(अव्परिस्_23,4.3) मृगो हरिणरुरुश् च कृष्णपृष्ठशिरस् तथा । यत् तस्य चर्म त्वक् चैव तत् कृष्णाजिनम् उच्यते ॥
(अव्परिस्_23,4.4) वाममुष्टिगृहीतास् तु प्रछिद्यन्ते सकृत् कुशाः । परशुनासिना वा तत् सकृदाछिन्नम् उच्यते ॥
(अव्परिस्_23,4.5) अङ्गुष्ठपर्वाग्रमुखं दर्व्याकृति तु मेक्षणम्. वैकङ्कते पालाशे वा प्रादेशस् तु प्रमाणतः ॥
(अव्परिस्_23,5.1) अलाबु वैणवं वापि दार्व्यं वैणवम् एव वा । अक्षाव् अमण्डलौ प्रोक्तौ यथा दृष्टं पुर र्षिभिः ॥
(अव्परिस्_23,5.2) चक्राभ्यां काष्ठसंघातैः शिल्पिभिश् चैव यत् कृतम् । लोके प्रसिद्धं शकटम् अग्निष्ठं याज्ञिके विधौ ॥
(अव्परिस्_23,5.3) आज्यं घृतं विजानीयान् नवनीतं सुसंस्कृतम् । सौवीराद्य् अञ्जनं चैव अथ वा दैविकं तथा ॥
(अव्परिस्_23,5.4) अभ्यञ्जनं च तत् प्रक्तं तिलतैलं च यद् विदुः । आसनं कशिपु प्रोक्तं कायस्थं चोपबर्हणम् ॥
(अव्परिस्_23,5.5) यवोदरैर् अष्टभिस् तु अङ्गुलं परिपठ्यते । चरुत्विंशत्यङ्गुलं तु याज्ञिकैर् हस्त आकृतः ॥
(अव्परिस्_23,6.1) हस्तमात्रं स्रुवः खड्गं सकृदाछिन्नम् एव च । बाहुमात्रा जुहूः प्रोक्ता ध्रुवा बर्हिस् तथैव च ॥
(अव्परिस्_23,6.2) ताम्रश् चैव स्रुवः प्रोक्तः खड्गं खादिरम् एव च । पालाशी च जुहूः कार्या इध्माश् चैव विशेषतः ॥
(अव्परिस्_23,6.3) ग्रहाः पात्राणि चमसा दण्डयूपासनानि च । वृक्षेषु याज्ञिकेषु स्युर् यथालाभेषु नान्यतः ॥
(अव्परिस्_23,6.4) समिधः प्रादेशमात्र्यो नित्यहोमे प्रकीर्तिताः । समिल्लक्षणदृष्टानि प्रमाणानि यथाक्रमम् ॥
(अव्परिस्_23,6.5) शम्य् अश्वत्थ[ः] पलाशश् च खादिरो ऽथ विकङ्कतः । काश्मर्योदुम्बरो बिल्वो यज्ञवृक्षाः प्रकीर्तिताः ॥
(अव्परिस्_23,7.1) एषाम् अलाभे वृक्षाणाम् अन्ये ग्राह्यास् तु याज्ञिकैः । यज्ञाङ्गकार्ये द्रष्टव्याः समिदर्थं विशेषतः ॥
(अव्परिस्_23,7.2) यवव्रीहिमहाव्रीहिप्रयङ्गूणां हि तण्डुलाः । श्यामाकतण्डुलतिला आसाद्याः श्रुतिचोदिताः ॥
(अव्परिस्_23,7.3) सायंहोमेषु यद् द्रव्यं प्रातर्होमेषु तद् भवेत् । भिन्नद्रव्यहुतं यत् तु न हुतं तस्य तद् भवेत् ॥
(अव्परिस्_23,7.4) उदिते ऽनुदिते चैव समयाध्युषिते तथा । क्षुधाकाले तथाप्य् केके पक्षहोमं तु कारयेत् ॥
(अव्परिस्_23,7.5) यायावराणां मुनिभिः पक्षहोमस् तु तैः स्मृतः । यथा कथं चिद् वचनं श्रुत्युक्तं द्विज आचारेत् ॥
(अव्परिस्_23,8.1) आतुरः पथिकश् चैव राजोपद्रवपीडितः । पक्षहोमं तदा कुर्यान् निस्तीर्य सततं चरेत् ॥
(अव्परिस्_23,8.2) चतुर्दशगृहीतं तु सकृद् उन्नयते हविः । एका समित् सकृद् धोमः सो ऽर्धमासाय कल्पते ॥
(अव्परिस्_23,8.3) चतुर्दशगुणं कृत्वा स्रुचा पात्रेण पूर्ववत् । एवं गार्हपत्ये च दक्षिणाग्नौ च जुह्वति ॥
(अव्परिस्_23,8.4) पूर्वा हुत्वाहुतीः सायं व्युष्टायाम् अपरे ऽह्नि । एतेनैव विधानेन जुह्वति प्रातराहुतीः ॥
(अव्परिस्_23,8.5) ऋषिभिश् च पुरा दृष्टम् आपत्कालेषु सर्वतः । अरण्योश् च समारोप्य श्रुतिदृष्टेन कर्मणा ॥
(अव्परिस्_23,9.1) होमार्थेष्व् एतद् द्रष्टव्यम् आहिताग्निगृहेष्व् अपि । तत्प्रयोजनमात्रं तु न दोषः सूतकेषु च ॥
(अव्परिस्_23,9.2) सद्यःशौचादिकं प्रोक्तं सूतकं च द्विजातिभिः । स्वयंहोमीति वचनान् न दोषः श्रुतिचोदनात् ॥
(अव्परिस्_23,9.3) व्रतिनां सत्त्रिणां चैव महाराजाहिताग्नयः । एषां दोषो न विद्येत सायम्प्रातः क्रिये स्थिते ॥
(अव्परिस्_23,9.4) पालाश्यः समिधो ऽदोषा नित्यं होमे प्रकीर्तिताः । अथ वा कौशिकोक्तानां यज्ञियानां महीरुहाम् ॥
(अव्परिस्_23,9.5) अङ्गुलत्रयम् आवर्त्य उच्छ्रये ऽप्य् अङ्गुलत्रयम् । पुरोडाशप्रमाणं तु सर्वत्र कथितं नृणाम् ॥
(अव्परिस्_23,10.1) षोडशाङ्गुलम् आवर्त्य त्रिभागं चोत्तरम् ऋजु । दक्षिणस्यां दिशि स्थानं दक्षिणाग्नेः प्रकीर्तितम् ॥
(अव्परिस्_23,10.2) अष्टाविंशत्य् अङ्गुलानि गार्हपत्यं प्रकीर्तितम् । आहवनीयम् [चतुर्]विंशतिश् चतुरश्रं तु कारयेत् ॥
(अव्परिस्_23,10.3) अङ्गुलानि तु षट्त्रिंशद् ध्न्वाकृत्या तु कारयेत् । दक्षिणाग्नेस् तु वै कुण्डं विद्वद्भिज् परिकथ्यते ॥
(अव्परिस्_23,10.4) ईशान्यां दिशि सभ्यस्य गार्हपत्यविधानतः । सभ्यं नेच्छन्ति शालाग्नौ माहकिः कौशिकस् तथा ॥
(अव्परिस्_23,10.5) मौदायनास् तथेच्छन्ति शौनकेयास् तथैव च । मन्ताद् एव तथा प्रोक्तं द्रव्यं यत्र न दृश्यते ॥
(अव्परिस्_23,10.6) आज्यं तत्र विजानीइयाद् धोमस् तत्र स्रुवेण च । अभ्युक्षणं हविःकर्म कर्तव्यं वज्रपाणिना ॥
(अव्परिस्_23,10.7) कुशहस्तेन कर्तव्या जपहोमपितृक्रियाः । यज्ञे चैव अङ्गभूताश् च पात्रमन्त्रहविर्द्विजाः । चरुत्भिश् च क्रियाः सर्वाश् चातुर्होत्रं तद् उच्यते ॥
(अव्परिस्_23,11.1) याज्ञिकास् तु वदन्त्य् अन्ये चतुर्भिर् यच् च हूयते । ब्रह्मणाध्वर्युहोतृभ्यां त्रिभिर् अग्निचतुर्थकैः ॥
(अव्परिस्_23,11.2) दुर्भिक्षे चाकुले भङ्गे ऋत्विजां चाप्य् असंभवे । एकश् चातुर्होत्रं कुर्याद् आपस्तम्बे प्रपठ्यते ॥
(अव्परिस्_23,11.3) ऋत्विजां च7अप्य् असाम्निध्ये अध्वर्युस् तत् पठेत् स्वयम् । अस्थानपठिते कुर्युर् ऋत्विग् इत्यादि चोदितम् ॥
(अव्परिस्_23,11.4) खाते लूने तु यच् चोक्तं संस्कारश्रुतिहेतुभिः । द्रव्याणां यज्ञक्ल्प्त्यर्थं कुर्यात् पूर्वेण संग्रहम् ॥
(अव्परिस्_23,11.5) पात्रासादं द्वितीयं च प्रोक्षणेन विवर्जितम् । उभयोश् चैव कुर्वीत पाकयज्ञेष्टिकर्मवत् ॥
(अव्परिस्_23,12.1) कृष्णाजिनं तिला दर्भा मन्त्रा आज्यं द्विजोत्तमाः । दोषो न विद्यते ह्य् एषां यथार्थं संनियोजयेत् ॥
(अव्परिस्_23,12.2) आज्यं धूमहविर् ज्वाला परिपाकः स्फुलिङ्गकैः । दावाग्निकाष्ठसंस्पर्शे अग्नेर् दोषो न विद्यते ॥
(अव्परिस्_23,12.3) जपाध्यायतपोदानैः सोपवासैः सहोमकैः । श्राद्धादिपितृकार्यैस् च न दोषः परिवेदने ॥
(अव्परिस्_23,12.4) पितृभ्रातृसपत्नैश् च पतितोन्मत्तषण्ढकैः । जात्यन्धमूकबधिरैर् न दोषः परिवेदने ॥
(अव्परिस्_23,12.5) अत्यन्तकामिना चैव पत्नीहीनेन चैव हि । एषाम् अनुज्ञाम् आदाय कुर्याद् वैतानिकी[ः] क्रियाः ॥
(अव्परिस्_23,13.1) रौद्रराक्षसपैशाचान् आसुरांश् चाभिचारिकान् । मन्तांश् च पितृकर्मैवं कृत्वालभ्योदकं स्पृशेत् ॥
(अव्परिस्_23,13.2) स्रुक् स्रुवश् च ध्रुवा खड्गं मुसलोलूखलं चरुः । उदकेनैव सोष्णेन संप्रक्षाल्य विशुध्यति ॥
(अव्परिस्_23,13.3) पात्रं ग्रहाश् च चमसा हविः शूर्पं कुशासनम् । सोमस्पृष्टं च यद् भाण्डं वारिशौचेन शुध्यति ॥
(अव्परिस्_23,13.4) वेदोक्तं सर्वमन्तोक्तं शौनकेन महात्मना । अवश्यं तद् द्विजैः कार्यं श्रेयस्कामैस् तु नित्यशः ॥
(अव्परिस्_23,13.5) पात्रानां तु प्रसाङ्गेन यद् अन्यत् परिकीर्तितम् । सायं प्रातस् तु होमाङ्गं पुरा दृष्टं महर्षिभिः ॥
(अव्परिस्_23,14.1) गुरुणा भाषितेनैव याज्ञिकानुमतेन च । सदापदिष्टद्रव्याणां लक्षणं परिकीर्तितम् ॥
(अव्परिस्_23,14.2) नित्यं ये ऽनुस्मरिष्यन्ति यज्ञपात्रेषु लक्षणम् । राजसूयाश्वमेधाभ्यां फलं प्राप्स्यन्ति ते ध्रुवम् ॥
(अव्परिस्_23,14.3) पिप्पलादेन महता समाख्यातम् इदं शुभम् । ब्राह्मणानां हितार्थाय पुत्रशिष्यहिताय च ॥
(अव्परिस्_23,14.4) निष्कामो वा सकामो वा वेदोक्तं यः समाचरेत् । निष्कामस्य तु मुक्तिः स्यात् सकामः फलम् अश्नुते ॥
(अव्परिस्_23,14.5) निष्कामेण तु यत् किं चित् कर्तव्यम् इति वैदिकम् । तत् सर्वं मुक्तिदं ज्ञेयं परापरपरं सुखम् ॥
(अव्परिस्_23,14.6) न शोकस् तस्य नो व्याधिर् न मृत्युर् न जरा तथा । न क्षुधा न पिपासा च अमृतात्मा स तिष्ठति ॥
(परिशिष्ट_24. वेदिलक्षणम् [+ अग्निवर्णलक्षणम्])
(अव्परिस्_24,1.1) ओम् अथ र्षिपुत्रिकायां तु स्फुतं सर्वेषु कर्मसु । लक्षणं ह्य् अग्निवर्णानां प्रवक्ष्यामि यथाक्रमम् ॥
(अव्परिस्_24,1.2) वास्तुकर्मण्य् अथोत्पाते पतेर् नीराजने विधौ । सर्वनक्षत्रहोमेषु ग्रहातिथ्यविधौ तथा ॥
(अव्परिस्_24,1.3) यात्रोद्याने विवाहेषु चूडोपनयनेषु च । सर्वेषु चाग्निहोमेषु वह्निवर्णान् निबोधत ॥
(अव्परिस्_24,1.4) मानेनाध्यर्धशीर्सण्या त्रिमध्या षण्मुखा स्मृता । चतुरश्रा चकर्तव्या वेदिः शान्तीष्टिकर्मसु ॥
(अव्परिस्_24,1.5) एषा वै विपरीता च कार्या घोरेषु कर्मसु । कर्मणाम् अनुरूपां तु वेदिं वक्ष्याम्य् अतः परम् ॥
(अव्परिस्_24,1.6) यथावर्तनगोचर्मचक्रतल्पेषु संमिता । संमृज्य प्रोक्ष्य संस्तीर्य विधिवच् चोपशोभयेत् ॥
(अव्परिस्_24,1.7) श्लक्ष्णाः समाहिताः सर्वाः प्रागुदक्प्रवणाः शुभाः । संमृज्य प्रोक्ष्य संस्तीर्य विधिवच् चोपशोभयेत् ॥
(अव्परिस्_24,1.8) दक्षिणेन तु या वक्रा याज्ञिकं सा विनाशयेत् । या च वक्रोत्तरेण स्याद् यजमानं विनाशयेत् ॥
(अव्परिस्_24,1.9) पुरस्तात् पृष्ठतो वापि मध्यतो विषमा च या । पुरम् अन्तःपुरं चापि नायकं च हिनस्ति सा ॥
(अव्परिस्_24,1.10) एषा संक्षेपतः प्रोक्ता वेदिः सामान्यलक्षणा । विशेषतस् तु तेष्व् एव कर्मस्व् एवाभिधास्यते ॥
(अव्परिस्_24,2.1) प्राचीं संशोधयेद् भूमिं यज्ञवास्तु यथोदितम् । समित्कुशाग्निवर्णानां लक्षणज्ञो भवेद् गुरुः ॥
(अव्परिस्_24,2.2) ततस् तु यत्नवान् सम्यग् अग्नाव् उपसमाहिते । अग्निवर्णान् परीक्षेत यथोवाचोशनाः कविः ॥
(अव्परिस्_24,2.3) शब्दं वर्णं च गन्धं च रूपं स्नेहं प्रभां गतिम् । स्पर्शं चापि परीक्षेत अग्नाव् इति विनिश्चयः ॥
(अव्परिस्_24,2.4) स्वाहाकारावसाने तु स्वयम् उत्थाय पावकः । हविर् यात्राभिलषति तद् विद्याद् अर्थसिद्धये ॥
(अव्परिस्_24,2.5) वृषवारणमेघौघनेमिदुन्दुभिनिःस्वनः । मृणालपद्मदूर्वाभकुमुदोत्पलगन्धमुक् ॥
(अव्परिस्_24,3.1) तथा महात्मा स्तनयन् वाहकुम्भनिभद्युतिः । संहितज्वालनिकरः पावकः पापनाशनः ॥
(अव्परिस्_24,3.2) कुरण्टाकृतिगोक्षीरहेमारुणतडित्प्रभः । प्रोत्फुल्लोत्पलकुन्देन्दुकुमुदाभोत्पलद्युतिः ॥
(अव्परिस्_24,3.3) हुतो ऽपि संज्वलत्य् एव स्निग्धो विप्रस्य दक्षिणः । लेलिहानः प्रमुदितः कृष्णवर्णो ऽर्थसिधये ॥
(अव्परिस्_24,3.4) विशालमूलो ह्य् अमलो नीलः पृथुलमध्यमः । प्रदीप्ताग्रो ऽमलततो ज्वालामालाकुलो ऽनलः ॥
(अव्परिस्_24,3.5) प्रदक्षिणः प्रसन्नार्चिर् अर्चिष्मान् अर्चितद्युतिः । अर्चनीयश् च नृपतेर् अर्चितो हव्यवाहनः ॥
(अव्परिस्_24,4.1) परिस्तरणयोगाच् च यज्ञकाण्डपरिच्छदम् । शान्तिवेश्मार्ध्वदीप्तार्चिर् ऋत्विजश् चानुलिम्पति ॥
(अव्परिस्_24,4.2) प्रहसन्न् इव शब्देन द्योतयन्न् इव तेजसा । कृतपुण्यस्य नृपतेर् हूयमानो हुताशनः ॥
(अव्परिस्_24,4.3) कर्मणो ऽवभृथे यस्य हविषो ऽन्ते च पार्थिवम् । सुगन्धाभिर् अधूमाभिः शिखाभिः संस्पृशन्न् इव ॥
(अव्परिस्_24,4.4) अर्चिभिर् ज्वालभारैश् च प्रदहन् द्विषतां दिशः । विधूमः कुण्डली यः स्याद् अनुलोमश् च सिद्धये ॥
(अव्परिस्_24,5.1) कुरण्टहेमारुणशङ्खकुन्दमुक्तावलीन्दुप्रतिमे हुताशे । समस्वने सिंहवृषैर् गजेन्द्रबलाहकौघस्वनदुन्दुभीनाम् ॥
(अव्परिस्_24,5.2) विशालमूले पृथुले च मध्ये ज्ञेयानले संप्रति पीडिताग्रे । मृणालपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य ॥
(अव्परिस्_24,5.3) आतप्तपद्मानिलतुल्यगन्धे त्रिसागरान्ता वसुधा नृपस्य । तस्यार्थबान्धववती सकला महीयं वीर्यांशुजालविवराहतराजशब्दा ॥
(अव्परिस्_24,5.4) विभ्राजते त्व् अखिलरागयुतो हुताशो हस्तावृतं कथयतीव जयं नृपस्य । सूर्यांशुभिः कृतविघट्टनहेमपद्मकिंजल्कचूर्णनिकरारुणतामलांशुः ॥
(अव्परिस्_24,5.5) क्षीरोदशुक्तिपुटगर्भविकीर्णमुक्तासंघातपाण्डुररजो रथनेमिघोषः । दाता नृपाय वसुधां तु हिमांशुमौलिज्योत्स्नाविकाशितसमुद्रजलां हुताशः ॥
(अव्परिस्_24,6.1) लक्ष्मीप्रदोहरमृणालकपालशुभ्रस्निग्धानुवृत्तशिखरप्रकृतिश् च यत्र । वैश्वानरो ज्वलति यस्य विशुद्धमूर्तिः स प्राप्नुयान् नृपशताधिपतां नरेन्द्रः ॥
(अव्परिस्_24,6.2) बालार्कबोधितसरोरुहगर्भगन्धस् तोयावलम्बिजलदस्तनिताभिरामः । राज्ञो ददाति वसुधां हुतभुग् गजेन्द्रदन्ताग्रकम्पितमहार्णववीचिवृक्षाम् ॥
(अव्परिस्_24,6.3) यस्यां वसन्तरविमण्डलतुल्यबिम्बो वेद्यां नृपस्य परिपूर्णमरीचिजालः । तस्यानलाकलितसागरतोयवस्त्रा म्रागैक्षवेनिर् अवनिर् वशम् अभ्युपैति ॥
(अव्परिस्_24,6.4) यस्यानलो ज्वलति काञ्चनतुल्यगौरो प्रज्वाल्यमानवपुर् उत्पलकोशगन्धः । आयाति तस्य भवनं ह्य् अलिदीप्तिमाला सव्रीडसूर्यकिरणा क्षितिपाललक्ष्मीर् इति ॥
(परिशिष्ट_25. कुण्डलक्षणम्)
(अव्परिस्_25,1.1) ओं शौनकं तु सुखासीनं भार्गवः परिपृच्छति । कुण्डं कस्मिन् भवेत् कीदृक् कस्यां वा दिशि किं फलम् ॥
(अव्परिस्_25,1.2) स तस्मा उपसन्नाय आचष्टे भार्गवाय तु । कुण्डं यस्मिन् भवेद् यादृग् यस्यां वा दिशि यत् फलम् ॥
(अव्परिस्_25,1.3) चतुरश्रं शफाकृत्या अर्धचन्द्रं त्रिकोणकम् । वर्तुलं पञ्चकोणं च पद्माभं सप्तकोणकम् ॥
(अव्परिस्_25,1.4) कुण्डान्य् एतानि पूर्वादिदिक्षु अष्टसु विनिर्दिशेत् । दिग्देवतानां चाष्टानां कर्मणि स्वम्स्वम् आदिशेत् ॥
(अव्परिस्_25,1.5) चतुरश्रं तु पूर्वस्याम् ऐन्द्रेष्व् अपि च कर्मसु । शफाकृति तदाग्नेय्याम् आग्नेयेष्व् अपि कर्मसु ॥
(अव्परिस्_25,1.6) अर्धचन्द्रं तु याम्यायां याम्येष्व् अपि च कर्मसु । नैरृत्यां च त्रिकोणं स्याद् अभिचारविधौ शुभम् ॥
(अव्परिस्_25,1.7) वारुण्यां वर्तुलं ज्ञेयं वारुण्येष्व् अपि कर्मसु । वायव्यां पञ्चकोणं तु वायव्येष्व् अपि कर्मन् ॥
(अव्परिस्_25,1.8) उत्तरस्यां तु पद्माभं सौम्येष्व् अपि च कर्मसु । ऐशान्यां सप्तकोणं तु रौद्रेष्व् अपि यथोदितम् ॥
(अव्परिस्_25,1.9) सर्वकर्मसु विज्ञेयं कुण्डं पद्मनिभं तु यत् । चतुरश्रं तु सर्वत्र समं स्याद् विजयावहम् ॥
(अव्परिस्_25,1.10) सर्वशान्तिकरं कुण्डं पद्माकारं विशेषतः । शान्तिके चतुरश्रं च पौष्टिके वर्तुलं तथा ॥
(अव्परिस्_25,1.11) अभिचारे त्रिकोणं च वश्यादौ चार्धचन्द्रकम् । षट्कोणं मारणादौ च विद्वेषे चाष्टकोणकम् ॥
(अव्परिस्_25,1.12) मेखला सर्वकुण्डेषु द्वादशाङ्गुलम् इष्यते । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥
(अव्परिस्_25,2.1) न चेत् पुरस्ताद् धीनं स्यात् सुखं यज्ञः समाप्यते । यत् तु दक्षिणतो ऽहीनं तद् राज्ञस् त्व् अभयप्रदम् ॥
(अव्परिस्_25,2.2) यथाहीनं पश्चिमेन भवेत् तत् सिद्धिदं शुभम् । उत्तरेण समम्यत् स्यात् तद् राज्ञो राज्यवर्धनम् ॥
(अव्परिस्_25,2.3) मध्ये समं च सुखदं दिग्विदिक्षु समं तु यत् । तद् राजजनसंपत्कृत् सर्वांश् चारीन् विनाशयेत् ॥
(अव्परिस्_25,2.4) न चेत् पुरस्ताद् इत्यादि य एष कथितो विधिः । मण्डपानां गृहाणां च माने शान्तिकरः स्मृतः ॥
(अव्परिस्_25,2.5) हस्तकुण्डं सदाहोमे अयुते द्विकरं स्मृतम् । लक्षहोमे चतुष्पाणि कोट्याम् अष्टकरं स्मृतम् ॥
(परिशिष्ट_26. समिल्लक्षणम्)
(अव्परिस्_26,1.1) ओं समिधां संप्रवक्ष्यामि प्रमाणं लक्षणं शुभम् । तथाशुभं च तत्त्वेन यथाफलविभागतः ॥
(अव्परिस्_26,1.2) यज्ञकर्मणि कर्तव्या[ः] शान्तिके पौष्टिके तथा । प्रादेशमात्रीः समिधः प्रोक्ताः सर्वेषु कर्मसु ॥
(अव्परिस्_26,1.3) तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः । अङ्गुलस्य प्रमाणेन प्रादेशो द्वादशाङ्गुलः ॥
(अव्परिस्_26,1.4) अत ऊर्ध्वं न कर्तव्या नापि ह्रस्वा न चोर्ध्वतः । न वक्रा चैव कर्तव्या नापि ग्रन्थिसमन्विता ॥
(अव्परिस्_26,1.5) ऊर्ध्वतस् तु यतो वक्रा चित्रदद्रुविचर्चिकाः । करोति यागे क्षिप्रं तु तस्मात् तां परिवर्जयेत् ॥
(अव्परिस्_26,2.1) द्विफला पिण्डवर्जापि त्रिफला वापि या भवेत् । षट्फला सप्तफला या चतुरङ्गं विनश्यति ॥
(अव्परिस्_26,2.2) सपत्त्रपुष्पसमिधः कल्पयित्वा विचक्षणः । पौष्टिकं कर्म कुर्वीत सिध्यते नात्र संशयः ॥
(अव्परिस्_26,2.3) पत्त्रपुष्पयुता यास् तु शान्तद्रुमसमुद्भवाः । समिधो गोष्ठमध्ये तु प्रशस्ताः परिकीर्तिताः ॥
(अव्परिस्_26,2.4) [अथापरं प्रवक्ष्यामि समिधां चैव लक्षणम्] ॥
(अव्परिस्_26,2.5) विशीर्णा द्विदला ह्रस्वा वक्रा चैव द्विधाग्रतः । कृशा च दीर्घा स्थूला च कर्मसिद्धिविनाशिनी ॥
(अव्परिस्_26,2.6) [यद् यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि । तत्र तेनैव सिद्धिः स्याद् विपरीते तथा भयम्] ॥
(अव्परिस्_26,2.7) समाहृतानां समिधां तासां चैव फलं शृणु ॥
(अव्परिस्_26,2.8) विशीर्णायुःक्षयं कुर्याद् द्विदला रोगदा भवेत् । अभिमुखगतमात्रा सद्यो ह्रस्वा निवर्तयेत् ॥
(अव्परिस्_26,3.1) दुर्भगं कुरुते वक्रा स्थानभ्रंशं द्विधाग्रतः । कृशा सर्वविनाशाय दीर्घा नाशयते श्रियम् ॥
(अव्परिस्_26,3.2) स्थूला तु कुरुते विघ्नं सर्वकार्ये द्विजस्य तु । अतः प्रमाणं विविधं फलं चापि तथा शृणु ॥
(अव्परिस्_26,3.3) लतापल्लवसंजाता द्वादशाङ्गुलकल्पिता । क्षीराक्ता शान्तिके होमे होतव्या तु विशेषतः ॥
(अव्परिस्_26,3.4) केवलं मुक्तिसिद्ध्यर्थं घृताक्ता[म्] होमयेद्द्विजः । दशाङ्गुलप्रमाणां हि होमयेन् मन्त्रकर्मणि ॥
(अव्परिस्_26,3.5) नवाङ्गुला तु कर्तव्या तैलाभ्यक्ताभिचारिके । अष्टाङ्गुला विभूत्यर्थे घृतदध्ना तु होमयेत् ॥
(अव्परिस्_26,4.1) केवलं मधुसंयुक्ता सप्ताङ्गुलदलीकृता । उच्चाटने प्रशस्ता सा द्विदला च न शान्तये ॥
(अव्परिस्_26,4.2) विद्वेषे कटुतैलाक्ता द्विदला तु षडङ्गुला । सर्वतो ग्रन्थिहीना तु विप्राणां स्यात् समिच् छुभा ॥
(अव्परिस्_26,4.3) अवक्राग्रन्थिसंयुक्ता क्षत्रियाणां जयावहा । मध्ये तु ग्रन्थिसंयुक्ता वैश्यानां भूतिसाधनी ॥
(अव्परिस्_26,4.4) त्रयाणाम् अपि वक्ष्यन्ते या ग्राह्याः समिधः स्मृतः । नात्यार्द्रा नातिशुष्का वा नैव चोषरसंभवाः ॥
(अव्परिस्_26,4.5) न दग्धा न कृमिदष्टाः सर्वदोषविवर्जिताः । समिधाम् इन्धनानां च तुल्यान् वृक्षान् ब्रवीम्य् अतः ॥
(अव्परिस्_26,4.6) शुषुकैर् या इन्धनैः पूर्वं यज्ञवृक्षमयैः शुभैः । आर्द्राणि होमयेच् चैव शुष्कैः कलहकर्मणि । शुष्काणि हीन्धनानि स्युः समिधस् तु यथोदिताः ॥
(अव्परिस्_26,5.1) पुष्टिकामः पलाशस्य गृह्णीयाच् छान्तिकर्मणि उदुम्बरस्य वित्तार्थी वटाश्वत्थस्य राज्यधीः ॥
(अव्परिस्_26,5.2) श्रीकामो बिल्ववृक्षस्य कदम्बस्य तथैव च । विद्वेषं कटुकैः कुर्यात् कण्टकैर् मरणं भवेत् ॥
(अव्परिस्_26,5.3) ककुभं कटभं वृक्षं कौविरालं तु कौहकम् । वंशं विभीतकं शिग्रुं विद्याद् उच्चाटने हितान् ॥
(अव्परिस्_26,5.4) स्तम्भने सर्वसैन्यानां विजयार्थे जयं दिशेत् । अपामार्गेण सौभाग्यम् आयुष्कामो हि दूर्वया ॥
(अव्परिस्_26,5.5) पुन्नागचम्पकौ वृक्षा ये चान्ये क्षीरिणः शुभाः । यद् यत्र लक्षणं प्रोक्तं यस्मिन् काले यथाविधि ॥
(अव्परिस्_26,5.6) तत्र तेनैव सिद्धिः स्याद् विपरीते तथा भयम् । अर्कः पलाशो मधुको न्यग्रोधोदुम्बरस् तथा ॥
(अव्परिस्_26,5.7) प्लक्षो ऽश्वत्थो गोमयानिकुशाश् च समिधः क्रमात् । यथाक्रमेण समिध आदित्यादिग्रहेषु च ॥
(अव्परिस्_26,5.8) शतं सहस्रं लक्षं वा गायत्र्या परमाहुतिः । हूयमानं तु यत् किं चित् कृतान्नं यदि वा तिलाः ॥
(अव्परिस्_26,5.9) ग्रहनक्षत्रपीडायां सावित्र्यापि हुतं हुतम् । एषभेदो मयाख्यातः शुभस्य त्व् अशुभस्य च ॥
(अव्परिस्_26,5.10) यथोक्तम् एतद् यः कुर्यात् स सर्वफलम् आप्नुयाद् इति ॥
(परिशिष्ट_27. स्रुवलक्षणम्)
(अव्परिस्_27,1.1) ओं सौवर्णराजतैस् ताम्रैः कांस्यैर् द्रौमैस् तथायसैः । स्रुवैः सर्वगुणोपेतैः कर्म कुर्याद् यथाक्रमम् ॥
(अव्परिस्_27,1.2) सौवर्णै राजतैर् यज्ञे ताम्रैः शान्तिकपौष्टिके । कांस्येन रुधिरं मांसं नान्यज् जुहुवीत किं चन ॥
(अव्परिस्_27,1.3) सर्वे यज्ञे प्रयोक्तव्या वर्जयित्वायसं स्रुवम् । आयसं खादिरं चैव अभिचारे प्रयोजयेत् ॥
(अव्परिस्_27,1.4) अधुन्वंश् चैव जुहुयात् स्रुवेणास्फुटिताहुतिम् । धुन्वन् हि हन्ति पुत्रान् तु राक्षसा स्फुटिताहुतिः ॥
(अव्परिस्_27,1.5) नान्यत् किं चिद् अभिध्यायेद् उद्धृत्यान्यत आहुतिम् । तद् दैवतम् अभिध्यायेद् आहुतिर् यस्य हूयते ॥
(अव्परिस्_27,2.1) स्रुवे पूर्णे जपेन् मन्त्रम् उत्तानं शान्तिके करम् । शान्तिके पौष्टिके चैव वर्जयेत् तु कनीनिकाम् ॥
(अव्परिस्_27,2.2) नातिदीर्घो नातिह्रस्वो नातिस्थूलः कृशस् तथा । अष्टाविंशत्यङ्गुलः स्यात् कनिष्ठाग्रप्रमाणतः ॥
(अव्परिस्_27,2.3) दीर्घो हिनस्ति राजानं ह्रस्व र्त्विजं विनाशयेत् । स्थूलः सस्योपघाताय कृशः क्षयकरः स्मृतः ॥
(अव्परिस्_27,2.4) गोपुच्छाग्राकृतिर् दण्डो मण्डलाग्र[म्] शिरो विदुः । अङ्गुष्ठाग्रप्रमाणेन निम्नं शिरसि खानयेत् ॥
(अव्परिस्_27,2.5) एतल् लक्षणम् उद्दिष्टं स्रुवस्य फलभेदतः । गोपथेन यथाशास्त्रम् उद्धृतं श्रुतिचोदनात् । स्रुवेण कुरुते कर्म हस्तेनापि तथा शृणु ॥
(परिशिष्ट_28. हस्तलक्षणम्)
(अव्परिस्_28,1.1) ओं यदा जुहोति हस्तेन दक्षिणेनेतरेण वा । तदा वक्ष्ये विधिं तस्य श्रेयसी स्याद् यथाहुतिः ॥
(अव्परिस्_28,1.2) यथा नश्यति चैवास्य कर्म गुह्यम् अजानतः । तथाहं संप्रवक्ष्यामि गोपथः पाठम् इच्छताम् ॥
(अव्परिस्_28,1.3) कुशबल्बजमौञ्जां वा कृत्वा वेष्टिम् अनामिकाम् । होमकर्म ततः कुर्यात् स्पृष्ट्वा वामेन दक्षिणम् ॥
(अव्परिस्_28,1.4) न रिक्तपाणिर् जुहुयान् नानिपातितजानुकः । अनिपातितजानोश् च हरन्त्य् आहुती राक्षसाः ॥
(अव्परिस्_28,1.5) उद्धृत्य समिधो ऽन्नं वा पञ्चभिर् जुहुयाद् बुधः । शनैश् च निर्वपेद् अन्नं मध्ये ऽग्नौ सुसमाहितः ॥
(अव्परिस्_28,2.1) गृहकर्मणि यज्ञे वा तथा पञ्चभिर् एव तु । शान्तिके पौष्टिके वैव वर्जयेत् तु कनीनिकाम् ॥
(अव्परिस्_28,2.2) तिसृभिर् जुहुयाद् अन्नं न तिलान् नैव तण्डुलान् । यदाभिचारिकं किं चित् तस्मिन् काले प्रयोजयेत् ॥
(अव्परिस्_28,2.3) वामेनाभिचारन् नित्यं त्रिभिर् अङ्गुलिभिः समैः । निर्दिष्टं तिसृभिः शूलं तेन शत्रुं निपातयेत् ॥
(अव्परिस्_28,2.4) अपसव्येन हस्तेन सव्यं यदि जुहोति तत् । सव्येन चापसव्यं तु [सव्यं यदि जुहोति तत्] ॥
(अव्परिस्_28,2.5) अभिचारस् तु तत् प्रोक्तः....षर्वशान्तिं गमिष्यति ॥
(परिशिष्ट_29. ज्वालालक्षणम्)
(अव्परिस्_29,1.1) ओं बृहस्पतिं सुखासीनम् आत्मविद्यापरायणम् । प्रणिपत्य महर्त्विजं नारदः परिपृच्छति ॥
(अव्परिस्_29,1.2) कथयस्व महाप्राज्ञ सर्वशास्त्रविशारद । अशुभं यच् छुभं वापि लक्षणं पावकस्य तु ॥
(अव्परिस्_29,1.3) स पृष्टस् तेन तत् सर्वम् आचचक्षे महामतिः ॥
(अव्परिस्_29,1.4) हूयमानोयदा वह्निर् ऋजुज्वालः प्रदृश्यते । स्निग्धश् च किंशुकाभश् च सिद्धिस् तत्र विनिर्दिशेत् ॥
(अव्परिस्_29,1.5) यत्र बालार्कवर्णाभः कर्मण्य् अग्निः प्रदृश्यते । शान्तिं लभेते तत्राशु यजमानपुरोहितौ ॥
(अव्परिस्_29,1.6) अशोककुसुमाभो ऽपि काञ्चनाभस् तथैव च । शान्तिं करोत्य् आकालेन हूयमानो हुताशनः ॥
(अव्परिस्_29,2.1) अधूमो ज्वलते क्षिप्रं कृत्वावर्तं प्रदक्षिणम् । तदा शान्तिं विजानीयाद् विपरीते तथा भयम् ॥
(अव्परिस्_29,2.2) श्वसते गर्जते चैव विस्फुलिङ्गाः समन्ततः । प्रायश्चित्तिं तदाकुर्याद् यद् उक्तं कौशिकेन तु ॥
(अव्परिस्_29,2.3) अथाप्य् आलिङ्गते भूमिं भ्रमते च समन्ततः । अशुभं कथयेत् तत्र होत्रे ऽसौ पावकः स्वयम् ॥
(अव्परिस्_29,2.4) कपिलः पिङ्गलस् ताम्रो रक्तः काञ्चनसप्रभः । शुभकृत् पावको ज्ञेयो विपरीतो भयावहः ॥
(अव्परिस्_29,2.5) यदाग्नौ लक्षणं किं चिद् अशुभं तु प्रदृश्यते । होता क्लेशम् अवाप्नोति शान्तिं तत्र प्रयोजयेत् ॥
(परिशिष्ट_30. लघुलक्षहोमः)
(अव्परिस्_30,1.1) ओं शौनकं तु सुखासीनं गौतमः परिपृच्छति । लक्षहोमस्य यत् पुण्यम् आहुतीनां च देवताः ॥
(अव्परिस्_30,1.2) तस्मै यथावद् आचष्टे शौनको ज्ञानलोचनः । शृणुष्वावहितो भूत्वा लक्षहोमं यथाविधि ॥
(अव्परिस्_30,1.3) अग्न्यागारस्य या भूमिस् तां प्रवक्ष्याम्य् अशेषतः । शुद्धाक्षारा समा स्निग्धा या च पूर्वोत्तरप्लवा ॥
(अव्परिस्_30,1.4) अभस्मास्थ्यङ्गारतूषा प्रशस्ता परिकीर्तिता । प्रमाणं बाहुमात्रं तु जङ्घामात्रं द्विरत्निकम् ॥
(अव्परिस्_30,1.5) चतुरश्रं चतुष्कोणं तुल्यं सूत्रेण धारयेत् । ब्राह्मणा वेदसंपन्ना ब्रह्मकर्मसमाधयः ॥
(अव्परिस्_30,1.6) उपोष्य चैकरात्रं च गायत्र्या अयुतं जपेत् । उपोष्य चैव गायत्र्या जपेयुर् अयुतं बुधाः ॥
(अव्परिस्_30,2.1) ते शुक्लवाससः स्नाताः स्रग्भिर् गन्धैर् अलंकृताः । निराहारास् तथा दान्ताः संतुष्टाः सजितेन्द्रियाः ॥
(अव्परिस्_30,2.2) कौशम् आसनम् आसीनाः प्रयुञ्ज्युर् होमम् उत्तमम् । उल्लिख्य चाद्भिर् अभ्युक्ष्य संस्कृत्य विधिपूर्वकम् ॥
(अव्परिस्_30,2.3) अग्ने प्रैह्य् अग्निना रयिम् इत्य् उपस्थाप्य पावकम् । कुर्याद् उपसमाधाय समास् त्वाग्ने समाहितः ॥
(अव्परिस्_30,3.1) लक्षहोम@@कुते पूर्णे धेनुं दद्यात् पयस्विनीम् । अनड्वान् काञ्चनं वस्त्रं तुष्येयुर् येन वा द्विजाः ॥
(अव्परिस्_30,3.2) यवैस् तु विपुलान् भोगान् धान्यैर् आयुष्यम् एव च । तिलैर् हुत्वा तु तेजस्वी आयुः कीर्तिं च वर्धते ॥
(अव्परिस्_30,3.3) आदित्यलोको ऽर्कमयी पालाशी सोम आप्यते । आश्वत्थी विष्णुलोकस्य ब्राह्म औदुम्बरी तथा ॥
(अव्परिस्_30,3.4) अनेनैव विधानेन हूयते ऽत्र हुताशनः । हुत्वैतांश् चतुरो लक्षान् ब्रह्मलोकं स गच्छति ॥
(अव्परिस्_30,3.5) यावज् जीवति कर्तासौ तावत् पुत्रान् धनं श्रियम् । पूर्णे काले विमानेन नीयते परमं पदम् ॥
(परिशिष्ट_30ब्. बृहल्लक्षहोमः)
(अव्परिस्_30ब्,1.1) ओम् अथ काङ्कायनो भगवन्तम् अथर्वाणं पप्रच्छ ॥ भगवन् केन विधानेन कोटिहोमं लक्षहोमम् अयुतहोमं वा प्रारम्भमाणः कथम् ऋत्विजो वृणीते कथं च कुर्युस् तस्मै स होवाच ॥
(अव्परिस्_30ब्,1.2) ब्राह्मणो वा राजा वा वैश्यो वा ग्रामो वा जनपदो वा श्रीकामः शान्तिकामः कोटिहोमं लक्षहोमम् अयुतहोमं वाहं करिष्यामीति तस्या समाप्तेर् भवद्भिर् अमांसाशिभिर् ब्रह्मचारिभिर् हविष्यभुग्भिर् भवितव्यम्
(अव्परिस्_30ब्,1.3) तैस् तथेति उक्तः कुण्डम् एकहस्तं द्विहस्तं चतुर्हस्तम् अष्टहस्तं वा [समस्तहस्तं वा दीर्घं वा] दशहस्तं खानयेत् तथा च बादरिः ॥
(अव्परिस्_30ब्,1.4) लक्षहोमे तु कर्तव्यम् अष्टहस्तं न संशयः । द्विहस्तं वा प्रकुर्वीत चतुर्हस्तम् अथापि वा ॥
(अव्परिस्_30ब्,1.5) कुण्डं वा दशहस्तं तु द्विविस्तारं तथोत्तरम् । न चेत् पुरस्ताद् धीनं स्यात् सुखं यज्ञः समाप्यते ॥
(अव्परिस्_30ब्,1.6) अथ दक्षिणतो हीनं यजमानभयंकरम् । पश्चिमेन विहीनं स्याद् यज्ञस्यासिद्धिदं ध्रुवम् ॥
(अव्परिस्_30ब्,1.7) उत्तरेण विनिर्दिष्टं राज्ञो राज्यहरं भृशम् । मध्ये विहीनं यद् कुण्डं प्रजाक्षयकरं विदुः ॥
(अव्परिस्_30ब्,1.8) स्रक्तिहीनं तु यत् कुण्डं तद् अप्य् अशुभदं भवेत् । द्वादशाङ्गुलमानेन मेखलाक्षेत्रम् उच्यते ॥
(अव्परिस्_30ब्,1.9) मेखलात्रयम् उद्धिष्टम् उभयं चतुरङ्गुलम् । चतुरङ्गुलमानेन पूर्वापूर्वसमुच्छ्रिता ॥
(अव्परिस्_30ब्,1.10) प्रथमा सात्त्विकी प्रोक्ता द्वितीया राजसी स्मृता । तृतीया तामसी ज्ञेया मेखला वृषभध्वजः ॥
(अव्परिस्_30ब्,1.11) चतुर्दशाङ्गुलां तत्र योनिं कुर्वीत साधकः । अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस् तु षडङ्गुलः ॥
(अव्परिस्_30ब्,1.12) गजोष्ठसदृशाकार प्राजापत्या च सा चिदुः । एवं कृत्वा विधानेन कुण्डं लक्षणलक्षितम् ॥
(अव्परिस्_30ब्,1.13) सर्वलक्षणसंपूर्णं सर्वतस् तु समाहितः । कुण्डं सिद्धिकरं ज्ञेयम् आयुःकीर्तिविवर्धनम् ॥
(अव्परिस्_30ब्,1.14) तस्माद् यत्नेन कुण्डं खात्वाद्भिर् अभ्युक्ष्य पुरस्ताद् अग्नेर् आदित्यादीन् ग्रहान् प्रतिष्ठाप्योत्तरतः कृत्तिकादीनि नक्षत्राणि स्वासु दिक्षु लोकपालान् सर्वासु कुण्डस्रक्तिष्व् अग्न्यादिदेवान् रतिष्ठाप्य
(अव्परिस्_30ब्,1.15) तेषां प्रतिमन्त्रम् आवाहनादिकं कृत्वा विलीनपूतम् आज्यं गृहीत्वा स्रुवं स्रुचं च संमृज्य प्रतप्येध्मम् उपसमाधायान्वारब्धाय वास्तोष्पत्यादिभिश् चतुर्भिर् गणैः शान्त्युदकं कृत्वा ततः कर्तारम् आचामयति च संप्रोक्षति च ॥
(अव्परिस्_30ब्,1.16) अथ समिधो घृताक्तास् तिलान् वा स्वाहाकारवतीः संख्यावत्यो गायत्र्या महाव्याहृतिभिर् वा सर्व ऋत्विजो जुह्वति ॥
(अव्परिस्_30ब्,1.17) श्रीपर्णमिश्राः श्रीकामस्य शमीपर्णमिश्राः शान्तिकामस्य करीरसक्तुमिश्रा वृष्टिकामय्स बदरादिफलमिश्राः पशुकामस्य ॥
(अव्परिस्_30ब्,2.1) अहरहः कर्मणो ऽपवर्गाद् अथ पूर्णायां कोट्यां लक्षे वायुते वान्वारब्धे यजमाने निशि महाभिषेकं कृत्वा वसोर् धारं जुह्वति ॥
(अव्परिस्_30ब्,2.2) औदुम्बरीं स्रुचं शुरःप्रमाणां ब्राह्मणस्य ललातप्रमाणां क्षत्रियस्य स्कन्धप्रमाणां वैष्यस्याप्रमाणां जनपदस्य
(अव्परिस्_30ब्,2.3) तेषाम् अन्ते सरणार्थं निम्नं खानयित्वोष्णोदकेन प्रक्षाल्याज्यम् आनीय वसोर् धारां वैश्वानरं प्राप्नोति ॥
(अव्परिस्_30ब्,2.4) तद् यद् आज्यधानीं च वैश्वानरं प्राप्नोति अथोच्चारयति ॥
(अव्परिस्_30ब्,2.5) ओजश् च मे क्षत्रं च मे ये अग्नयो अमो देववधेभ्यो भवाशर्वौ मृडतं प्राणाय नम इति हुत्वा अर्घं प्रदाय वस्त्रं लोध्रं माल्यं फलादीनि भाजने कृत्वा नमस् ते अस्तु पश्यत इति स्वाहाकारेणाग्नौ प्रक्षिप्य यम्यं कामं कामयते सो ऽस्मै कामः समृध्यते ॥
(अव्परिस्_30ब्,2.6) समृद्धिहोमादि समानं स्वस्त्ययनानि जपेत् पुण्याहं वाचयेद् गोभूतिलसुवर्णं वासश् च र्त्विग्भ्यः संप्रदाय प्रणिपत्य विसर्जयेत् ॥
(अव्परिस्_30ब्,2.7) तस्मिन्न् अहनि व्यतीते यदि स्त्री माल्यहस्ता श्वेतचन्दनानिलिप्ता श्वेतपुष्पाण्य् आदाय प्रयच्छेद् गौरसर्षपान् पाण्याधारे वा गृहीत्वा प्रासादम् आरोहयेत् कुञ्जरं वा प्रमत्तम् अश्वं श्वेतं वा पर्वतं गोवृषं वा यानं युक्तं वाजिभिर् यद्य् आरोहेत् स्वप्नकाले समस्तसिद्धिं विद्यान् मनसो याम् अभीष्टाम् ॥
(अव्परिस्_30ब्,2.8) तस्मात् तां रात्रीं प्रयतः स्वपेत् ॥ स्वप्नं दृष्ट्वा र्त्विग्भ्यो निवेदयेत् ॥ परो ऽपेहि यो न जीबो ऽसि विद्म ते स्वप्न यथा कलां यथा शफम् इति राजमुखम् अभिमन्त्र्य यथागतं गच्छेयुस् तद् अपि श्लोकाः ॥
(अव्परिस्_30ब्,2.9) दिव्यान्तरिक्षभौमेषु अद्भुतेषु न संशयः । कोटिहोमं विदुः प्राज्ञा लक्षं वायुतम् एव वा ॥
(अव्परिस्_30ब्,2.10) अविज्ञातं च यत् पापं सहसा चैव यत् कृतम् । तत् सर्वं लक्षहोमस्य करणाद् धि विनश्यति ॥
(अव्परिस्_30ब्,2.11) तस्मात् सर्वेषु कार्येषु शान्तिकेषु विशेषतः । यः कुर्यात् प्रयतो नित्यं न सो ऽनर्थान् समश्नुते ॥
(परिशिष्ट_31. कोटिहोमः)
(अव्परिस्_31,1.1) ओं देवाश् च ऋषयश् चैव पीड्यमाना महासूरैः । मृत्युना व्याधिभिश् चैव ब्रह्माणम् इदम् अब्रुवन् ॥
(अव्परिस्_31,1.2) कर्मणा केन देवेश मृत्युर् व्याधिश् च जीयते । ऐश्वर्यं प्राप्यते वापि स्थानं च परमं प्रभो ॥
(अव्परिस्_31,1.3) एवम् उक्तो महातेजा ब्रह्मा लोकपितामहः । प्रत्युवाचेश्वरः सर्वान् विप्रान् देवगणैः सह ॥
(अव्परिस्_31,1.4) शृणुध्वं प्रयताः सर्वे प्राप्यते येन कर्मणा । ऐश्वर्यम् आयुर् आरोग्यं पुत्रा विजय एव च ॥
(अव्परिस्_31,1.5) सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । ये जपन्ति सदा तेभ्यो न भयं विद्यते क्व चित् ॥
(अव्परिस्_31,2.1) तया होमश् च कर्तव्यः सततं सिद्धिम् इच्छता । यवैस् तिलैः समिद्भिश् च व्रीहिभिः सर्षपैस् तथा ॥
(अव्परिस्_31,2.2) अथ चेन् महतीं सिद्धिं प्रार्थयेध्वं सुरोत्तमाः । पुरोधसा कारयध्वं कोटिहोमं महाफलम् ॥
(अव्परिस्_31,2.3) यादृशं कृतवान् पूर्वम् अथर्वा त्र्यम्बकस्य तु । तादृशेन विधानेन कोटिहोमः प्रयुज्यते ॥
(अव्परिस्_31,2.4) महत्त्वं प्रार्थयमानः शर्वो ऽथर्वाणम् अब्रवीत् । कुरुष्व मम तत् कर्म महत्त्वं येन लभ्यते ॥
(अव्परिस्_31,2.5) ऐश्वर्यम् आयुर् आरोग्यं स्थानं च परमं प्रभो । पुत्रा लक्ष्मीर् यशो मेधा बलं पौरुष्यम् एव च ॥
(अव्परिस्_31,3.1) एवम् उक्तो महातेजा अथर्वा मन्त्रदर्शवित् । गायत्रीं तपसा युक्ताम् ऋचः पदम् इतीति ह ॥
(अव्परिस्_31,3.2) [ऋचः पदं मात्रयेति मन्त्रे विज्ञायते हि सा ।] गायत्री वै त्रिपाद् ब्रह्म विश्वरूपा च संस्थिता ॥
(अव्परिस्_31,3.3) प्राणदा सर्वभूतानां धारणी यापि नित्यशः । इति निश्चित्य मनसा कोटिहोमं प्रयोजयत् ॥
(अव्परिस्_31,3.4) समिद्भिः शान्तवृक्षस्य गायत्र्या सुसमाहितः । ततो महत्त्वम् अगमद् ऐशर्यं परमं तथा ॥
(अव्परिस्_31,3.5) महादेव इति चास्य नाम लोकेषु विश्रुतम् । उपद्रवाश् च ये के चिद् उपघातास् तथैव च । सर्वे ऽस्य प्रशमं याताः स्कन्दं पुत्रं च लब्धवान् ॥
(अव्परिस्_31,4.1) ततः प्रीतस् तु भगवाञ् शंकरः पर्यपृच्छत । अथर्वाणं महाप्राज्ञं कोटिहोमस्य को विधिः ॥
(अव्परिस्_31,4.2) चतुर्विंशाक्षरं ब्रह्म त्रिपादं लोकधारणम् । सावित्रं तेन होमो ऽयं कृतो मे कोटिसंमितः ॥
(अव्परिस्_31,4.3) विधिं चास्य प्रवक्ष्यामि सर्वलोकहिताय वै । यत्प्रयोगाद् भवेच् छान्तिर् वृद्धिश् च परमा नृणाम् ॥
(अव्परिस्_31,4.4) उपद्रवेषु भूतानाम् आपत्सु विविधासु च । कोटिहोमः प्रयोक्तव्यः केतूनां दर्शने तथा ॥
(अव्परिस्_31,4.5) उपसर्गभये चैव परचक्रभये तथा । अनावृष्टिभये चैव कोटिहोमं प्रयोजयेत् ॥
(अव्परिस्_31,5.1) आरम्भं तस्य कुर्वीत शुक्ले चापि तिथौ शुभे । मुहूर्ते विजये चैव तिथिछिद्राणि वर्जयेत् ॥
(अव्परिस्_31,5.2) रोहिण्यां वैष्णवे त्वाष्ट्रे पौष्णे मैत्रोत्तरेषु च । अभिजित्पुष्यसौम्येषु कुर्यात् पुण्येषु वा बुधः ॥
(अव्परिस्_31,5.3) अथ चेत् त्वरते कर्तुं कोटिहोमं महाफलम् । पुण्याहं वाचयित्वास्य आरम्भं कारयेद् बुधः ॥
(अव्परिस्_31,5.4) अष्टहस्तं तु निर्दिष्टं कोटिहोमस्य खातकम् । तस्यैवार्धप्रमाणेन लक्षहोमे विधीयते ॥
(अव्परिस्_31,5.5) त्रिरात्रोपोषितो ब्रह्मा कृत्वा शान्तिं चतुर्गणीम् । प्रोक्षयेत् कर्मसिद्ध्यर्थं वास्तु शान्त्युदकेन तु ॥
(अव्परिस्_31,5.6) महाशान्तिविधानेन निर्मथ्याग्निं समाहितः । तावत् कुर्याद् बुधः सर्वं यावन् नो नैरृतं कृतम् ॥
(अव्परिस्_31,6.1) ततः प्रभाते बहुश उद्धृत्याग्निं समाहितः । निर्मथ्य हावयेत् तत्र समिधो ब्राह्मणान् बहून् ॥
(अव्परिस्_31,6.2) शतं सहस्रं कोटिं वा विंशतिर् दश वा द्विजाः । जुहुयुः शान्तवृक्षस्य समिधो घृतसंयुताः ॥
(अव्परिस्_31,6.3) स्वयं वापि यजेद् ब्रह्मा सवितारं दिनेदिने । पाकयज्ञविधानेन मन्त्रश् चात्र विषासहिम् ॥
(अव्परिस्_31,6.4) शान्तिकामो यवैः कुर्यात् तिलैः पापापनुत्तये । समिद्भिः सर्वकामस् तु बिल्वैः प्राप्नोति काञ्चनम् ॥
(अव्परिस्_31,6.5) लभते श्रियम् अग्र्यां तु पद्मैस् तेजो घृतेन तु । दध्ना तु लभते पुत्रान् पयसा ब्रह्मवर्चसम् ॥
(अव्परिस्_31,7.1) हविष्यभोजिनो दान्ताः शुक्लाम्बरधरास् तथा । हावका नियताः सर्वे भवेयुर् ब्रह्मचारिणः ॥
(अव्परिस्_31,7.2) आरण्यम् उपयुञ्जानः पयसा वापि वर्तयेत् । फलाहारो ऽपि वा ब्रह्मा कोटिहोमं समाचरेत् ॥
(अव्परिस्_31,7.3) प्रत्येकं चैव होतॄणां दातव्या दक्षिणा ततः । निष्को अश्वो गौर् वासश् च हिरण्यं वापि शक्तितः ॥
(अव्परिस्_31,7.4) यश् चैवापि भवेद् ब्रह्मा प्रयोक्ता सर्वकर्मणाम् । सर्वस्वं तस्य देयं स्याद् धिरण्यं वापि तत्समम् ॥
(अव्परिस्_31,7.5) कोटिहोमे समाप्ते तु यजेद् ग्रहगणान् बुधः । कारयेद् अमृतां चैव घृतकम्बलम् एव च ॥
(अव्परिस्_31,8.1) कार्यामृता मृत्युभये घृतकम्बलसंयुता । परचक्रागमे त्व् ऐन्द्री घृतकम्बल[म्] एव च ॥
(अव्परिस्_31,8.2) रौद्री सर्वाद्भुतोत्पत्तौ घृतकम्बलसंयुता । [सलिला सलिलक्षये घृतकम्बल एव च ॥]
(अव्परिस्_31,8.3) घृतकम्बलपृष्ठा च सलिला सलिलक्षये । येनयेन तु कामेन कोटिहोमं प्रयोजयेत् ॥
(अव्परिस्_31,8.4) आम्नातं तत्र यत् कर्म तद् अन्ते कारयेद् बुधः । एष एव विधिर् दृष्टो अभिचारे विधीयते ॥
(अव्परिस्_31,8.5) प्रतिलोमयात्र होमः सावित्र्या तिलसर्षपैः । आरम्भं तस्य घोरेषु नक्षत्रेषु दिनेषु च ॥
(अव्परिस्_31,8.6) कारयेत् कृष्णपक्षस्य तिथिछिद्रेषु सर्वदा । मघाश्लेषा तथा मूलं रेवत्य् आर्द्रा च सर्वदा ॥
(अव्परिस्_31,9.1) दर्भार्थे तु शरान् कुर्याद् घृतार्थे तैलम् उच्यते । स्वाहाकारे तु फट्कारो वेण्याद्याः स्युश् चतुर्दश ॥
(अव्परिस्_31,9.2) चाण्डालाग्नौ चिताग्नौ वा सूतिकाग्नाव् अथापि वा । हावयेद् घोरवृक्षाणां समिधस् तैलसंयुताः ॥
(अव्परिस्_31,9.3) रक्तोष्णीषी रक्तवासाः कृष्णाम्बरधरो ऽपि वा । जुहुयाद् वामहस्तेन समिधो दक्षिणामुखः ॥
(अव्परिस्_31,9.4) खादिराग्नौ मधूच्छिष्टे कृत्वा प्रतिकृतिं रिपोः । तापयेत् प्रतिलोमां तु सावित्रीं मनसा जपेत् ॥
(अव्परिस्_31,9.5) कण्ठे शूलार्पितां कृत्वा तापयेत् तु दिनेदिने । यावच् छत्रुर् वशं याति विलीनायां विनश्यति ॥
(अव्परिस्_31,10.1) एवंप्रोक्तविधानेन कोटिहोमस्य शंकरः । प्रीतिमान् उच्यते येन तच् छुभं भौतिकं ददौ ॥
(अव्परिस्_31,10.2) अथर्वा भौतिकं लब्ध्वा शिष्येभ्यस् तत् पुनर् ददौ । शुभं मोक्षकरं पुण्यं प्रियं पशुपतेर् व्रतम् ॥
(अव्परिस्_31,10.3) एतज् ज्ञात्वा तु यः सम्यक् कोटिहोमं प्रयोजयेत् । सर्वान् कामान् अवाप्नोति ब्रह्मलोकं स गच्छति ॥
(अव्परिस्_31,10.4) यस् त्व् इमं श्रावयेद् विद्वान् पठते चैव सर्वदा । कोटिहोमफलं लब्ध्वा रुद्रलोके महीयते ॥
(अव्परिस्_31,10.5) गोपथात् पाणिनेयाय मध्ये नॄणां प्रमोदिनाम् । हितार्थम् उद्धृतो ग्रन्थः कोटिहोमस् तु विश्रुतः ॥
(परिशिष्ट_32. गणमाला)
(अव्परिस्_32,1) ओं भूस् तत् सवितुः शं नो देवीः शान्ता द्यौः शं न इन्द्राग्नी शं नो वातो वातु उषा अप स्वसुस् तम इति शान्तिगणः ॥
(अव्परिस्_32,2) कृत्याप्रतिहरणो दूष्या दूषिर् असि ईशानां त्वा समं ज्योतिर् उतो अस्य् अबन्धुकृद् ये पुरस्तात् सुपर्णस् त्वा यां ते चक्रुः प्रतीचीनफलो यद् दुष्कृतम् अयं प्रतिसरो यां कल्पयन्तीति कृत्याप्रतिहरणानि ॥ इति कृत्यागणः ॥
(अव्परिस्_32,3) चातनः स्तुवानम् इदं हविर् ये ऽमावास्याम् उप प्रागान् निःसालाम् अरायक्षयणं शं नो देवी पृश्निपर्ण्य् आ पश्यति तान्त् सत्यौजास् त्वया पूर्वं पुरस्ताद् युक्तो अन्तर्दावे जुहुत प्राग्नये रक्षोहणम् इत्य् अनुवाकश् चातनानि ॥ इति चातनगणः ॥
(अव्परिस्_32,4) मातृनामा दिव्यो गन्धर्व आ पश्यतीमं मे अग्ने यौ ते मातेति मातृनामानि ॥ इति मातृगणः ॥
(अव्परिस्_32,5) वास्तोष्पतीय आशानाम् आशापालेभ्य इहैव ध्रुवाम् ऋधङ्मन्त्रो योनिम् उत पुत्रः पितरम् इन्द्रस्य गृहो ऽसीति चतस्रो दिवे स्वाहाशमवर्म मे पृथिव्यै श्रोत्रायेति धन्वानीति द्वे ऊर्जं बिभ्रद् इति षट्सत्यं बृहद् इत्य् अनुवाको वास्तोष्पतीयानि ॥ इति वास्तुगणः ॥
(अव्परिस्_32,6) पाप्महा वि देवा जरसावृतम् अप नः शोशुचद् अघम् अव मा पाप्मन्न् इति पाप्महा ॥ इति पाप्महा गणः ॥
(अव्परिस्_32,7) तक्मनाशनो जरायुजः प्रथमो यद् अग्निर् उद् अगातां दशवृक्ष मुञ्च क्षेत्रियात् त्वा हरिणस्य रघुष्यदो मुञ्चामि त्वा भवाशर्वौ मन्वे वां यो गिरिषु दिवे स्वाहाग्निस् तक्मानम् अग्नेर् इवास्याव मा पाप्मन्त् सृजाव ज्याम् इव वरणो वारयाता इमं यवं विद्रधस्य बलासस्य नमो रूरायेति द्वे शीर्षक्तिं शीर्षामयम् इति तक्मनाशनानि ॥ इति तक्मनाशनगणः ॥
(अव्परिस्_32,8) दुःस्वप्ननाशनानि दौष्वप्न्यं दौर्जीवित्यं परो ऽपैहि यो न जीवो ऽसि पर्य् आवर्ते दुष्वप्न्याद् यत् स्वप्ने अन्नम् अश्नमि यो न स्तायद् दिप्सति यो नः सुप्तां जाग्रतो यन् मे मन्सो दुष्वप्न्यं काम स्वप्नं सुप्त्वा विद्म ते स्वप्नेति त्रयः पर्याया दुःस्वप्ननाशनानि ॥ इति दुःस्वप्ननाशनगणः ॥
(अव्परिस्_32,9) आयुष्यो यथा द्यौः प्राणापानाव् ओजो ऽसि तुभ्यम् एवाक्षीभ्यां ते मुञ्चामि त्वोत देवा आवतस् त उप प्रियम् अन्तकाय मृत्यव आ रभस्व प्राणाय नमो विषासहिम् इत्य् आयुष्याणि ॥ इति आयुष्यगणः ॥
(अव्परिस्_32,10) वर्चस्यो ये त्रिषप्ता अस्मिन् वसु प्रातर् अग्निं हस्तिवर्चसं सिंहे व्याघ्रे यशो हविर् यशसं मेन्द्रो गिराव् अरगराटेषु यथा सोमः प्रातःसवने यच् च वर्चो अक्षेषु येन महानघ्न्या जघनम् इति वर्चस्यानि ॥ इति वर्चस्यगणः ॥
(अव्परिस्_32,11) स्वस्त्ययनो अमूः पारे पातं न इन्द्रापूषणा त्वष्टा मे दैव्यं येन सोम नमो देववधेभ्यो ऽभयं मित्रावरुणाव् उप प्रागात् सहस्राक्षो ऽनमित्रं नो अधराद् यमोमृत्युर् बृहस्पतिर् नः परि पातु त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते वर्म मे द्यावापृथिवी ऐन्द्राग्नं वर्म गिरयस् ते यत् ते मध्यं यास् ते प्राचीर् मा नः पश्चाद् इति स्वस्त्ययनानि ॥ इति स्वस्त्ययनगणः ॥
(अव्परिस्_32,12) अभयः स्वस्तिदा विशां ब्राह्मणेन पर्युक्तासि न ता अर्वा रेणुककाटो अभयं मित्रावरुणाव् अभयं द्यावापृथिवी अस्मै ग्रामाय हतं तर्दं पूषेमा आशा इन्द्रः सुत्रामा मैतं पन्थां स्वस्तिदा विशां पतिर् नम ते घोषिणीभ्य आ ते राष्ट्रम् इदम् उच् छ्रेयो यत इन्द्र भयामह इत्य् अभयानि ॥ इत्य् अभयगणः ॥
(अव्परिस्_32,13) अपराजितो विद्मा शरस्य मा नो चिदन्न् अदारसृत् स्वस्तिदा संशितं मे त्वया मन्यो यस् ते मन्यो एता देवसेना अवमन्युर् निर्हस्तः परि वर्त्मान्य् अभिभूर् इन्द्रो जायत्य् अभि त्वेन्द्रेत्य् अपराजितानि ॥ इत्य् अपराजितगणः ॥
(अव्परिस्_32,14) शर्मवर्मा यः सपत्न इतश् च यद् अमुतश् चापेन्द्र द्विषतो यूयं नः प्रवत इमम् अग्न आयुषे तिस्रो देवीर् उरुव्यचा नो इन्द्रस्य शर्मासीति उत्तमां वर्जयित्वा येन देवा असुराणाम् अनडुद्भ्यस् त्वम् इति द्वे तनूष् टे वाजिन् वाजस्य नु प्रसवे देवानां पत्नीर् अधि ब्रूहि रक्षोहणं वाजिनं ये स्राक्त्यं वर्म मे द्यावापृठिवी ऐन्द्राग्नं वर्म बहुलं वर्म मह्यम् अयं मित्रः पृथिव्योद् अक्रामद् अस्पत्नं पुरस्ताद् इति शर्मवर्मा ॥ इति शर्मवर्मा गणः ॥
(अव्परिस्_32,15) देवपुरा ये पुरस्ताद् ब्रह्म जज्ञानं सहस्रधार एवाग्निर् मा पातु अग्निं ते वसुवन्तं मित्रः पृथिव्योद् अक्रामद् अप न्य् अधुः पौरुषेयं वधं जितम् अस्माकम् इति देवपुरीयः ॥ इति देवपुरीयगणः ॥
(अव्परिस्_32,16) रुद्रो ये ऽस्यां प्राची दिग् इतिरुद्रगणः ॥ इति रुद्रगणः ॥
(अव्परिस्_32,17) रौद्रो रुद्र जलाषभेषज ये ऽस्यां प्राची दिग् उद् इतस् त्रयो अक्रमन् भवाशर्वौ मन्वे वां ब्रह्म जज्ञानम् अनाप्ता ये सहस्रधार एव ग्रीष्मो हेमन्तो अनडुद्भ्यस् त्वं मह्यम् आपो वैश्वानरो यमो मृत्युर् यां ते रुद्र यो अग्नौ रुद्रो भवाशर्वौ मृडतं भवाशर्वाव् इदं ब्रूमो यस् ते सर्पो वृश्चिकस् तस्मै प्राच्या दिशो अन्तर्देशाद् इति रौद्रगणः ॥ इति रौद्रगणः ॥
(अव्परिस्_32,18) चित्रागणो मा नो विदन्न् अदारसृत् स्वस्तिदा विशाम् अमूहोआरे अघद्विष्टा अग्ने यत् ते तप इति पञ्च सूक्तानि रुद्र जलाषभेषज ये ऽस्यां प्राची दिग् वि देवा उत देवा अग्नेर् मन्व इतिप्रभृतीनि मृगारसूक्तान्य् उत्तमं वर्जयित्वाप नः शोशुचद् अघं पृथिव्याम् अग्नये ममाग्ने व्रह्म जज्ञानम् अनाप्ता ये सहस्रधारे सविता प्रसवानां नव प्राणान् पातं नस् त्वष्टा मे येन सोम नमो देववधेभ्यो ऽभयं मित्रावरुणाव् उप प्रागात् सहस्राक्षः सिंहे व्याघ्रे ऽभयं द्यावापृथिवी ग्रीष्मो हेमन्तो ऽनडुद्भ्यस् त्वं मह्यम् आपो वैश्वानरो यमो मृत्युर् अभि त्वेन्द्र विश्वजित् त्रायमाणायै इमं मे अग्ने विषाणा पाशान् शकधूमं सोमारुद्रेति द्वे बृहस्पतिर् नस् त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते अन्तकाय मृत्यवा आ रभस्वायं प्रतिसरो ऽयं मे वरणो भवाशर्वौ मृडतं प्राणाय नमो ऽग्निं ब्रूम इत्य् अर्थसूक्तं सत्यं बृहद् इति द्वे प्रथमे गिरयस् ते यत् ते मध्यं यास् ते प्राचीर् मा नः पश्चाद् ग्रीष्मस् ते भूमे वर्षाण्य् उपस्थास् ते भूमे मातः सहस्रशृङ्गो वृषभो जातवेदा मा प्र गाम पथो यो यज्ञस्य तस्मै प्राच्या दिशो अन्तर्देशाद् इति पर्यायश् चित्रागणः ॥ इति चित्रागणः ॥
(अव्परिस्_32,19) पत्नीवन्तो अदितिर् द्यौः सिनीवालि कुहूं देवीम् इति त्रीणि सूक्तानि पत्नीवन्तः ॥ इति पत्नीवन्तगणः ॥
(अव्परिस्_32,19ब्) स्वस्ति मात्र इन्द्र जुषस्वाया विष्ठा शिवे ते स्तां पादाभ्यां ते सं ते शिर्ष्णो वत्सो विराज इत्य् एका उच्चा पतन्तम् इति द्वे भूयान् इन्द्रो विषासहिं सहमानम् इत्य् आदित्यगणः ॥
(अव्परिस्_32,20) शं नो देवी शं न इन्द्राग्नी शं नो वातो वातु शान्ता द्यौः पिप्पलादिशान्तिगणः ॥ इति पिप्पला[दि]शान्तिगणः ॥
(अव्परिस्_32,21) गने यद् इति पञ्च सूक्तानि पञ्चापत्यानि भवन्ति पाञ्चजन्यानि भवन्ति पाञ्चापत्यो गणः ॥ इति पञ्चापत्यगणः ॥
(अव्परिस्_32,22) अम्बयो यन्ति शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् अस्य वामस्य यो रोहित उद् अस्य क्र्तवो मूर्धाहम् इति द्वे सूक्ते विषासहिम् इति सलिलगणः ॥ इति सलिलगणः ॥
(अव्परिस्_32,23) ये त्रिषप्ता इति विश्वकर्मा गणः ॥
(अव्परिस्_32,24) अघद्विष्टा देवजाता शं नो देवी वरणो वारया[तै] पिप्पली विद्रधस्य या बभ्रव इति गणकर्मा गणो भैसज्यश् च भवति ॥ इति भैषज्यगणः ॥
(अव्परिस्_32,25) अयं ते योनिर् आ नो भर धीती वा य इत्य् अर्थसूक्तम् उत्थापनो गणः ॥ इत्य् उत्थापनगणः ॥
(अव्परिस्_32,26) अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा निःसालां ये अग्नयो ब्रह्म जज्ञानम् इत्य् एकैत देवा मृगारसूक्तान्य् उत्तमं वर्जयित्वाप नः शोशुचद् अघं पुनन्तु मा सस्रुषीर् हिमवतः प्र स्रवन्ति वायोग् पूतः पवित्रेण शं च नो मयश् च नो ऽनडुद्भ्यस् त्वं मह्यम् आपो वैश्वानरो रश्मिभिर् यमो मृत्युर् विश्वजित् संज्ञानं नो यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियं शिवा नः शं नो वातो वातु अग्निं ब्रूमो वनस्पतीन् इति शान्तिगणः ॥ इति सर्वैः सूक्तैः कौशिकोक्तबृहच्छान्तिगणः ॥
(अव्परिस्_32,27) अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा उत देवा यद्य् अन्तरिक्षे पुनर् नैत्व् इन्द्रियं शिवा नः शं नो वातो वात्व् अग्निं ब्रूमो वनस्पतीन् इति शान्तातीयो लघुशान्तिगणः ॥
(अव्परिस्_32,28) ये त्रिषप्ता ममाग्ने वर्चः प्रातर् अग्निं गिराव् अरगराटेषु दिवस् पृथिव्या हस्तिवर्चसं सिंहे व्याघ्रे यशो हविर् यस् ते गन्ध इति तिसृभिर् वर्चस्यगणः ॥
(अव्परिस्_32,29) या असुरा मनुष्या मा नो विदन् नमो देववधेभ्य इत्य् अभयगणः ॥
(अव्परिस्_32,30) भूतो भूतेष्व् इति राजानम् अभिषेकगणः ॥
(अव्परिस्_32,31) [य] आशानाम् आशापालेभ्यो अग्नेर् मन्व इति सप्त सूक्तानि या ओषधयः सोमराज्ञीर् वैश्वानरो न आ गमच् छुम्भनी द्यावापृथिवी यद् अर्वाची[न]म् अग्निं ब्रूमो वनस्पतीन् इति मुञ्चन्तु ना भवाशार्वा या देवीर् यन् मातली रथक्रीतम् इत्य् एताश् चतस्रो वर्जयित्वा अंहोलिङ्गगणः ॥
(परिशिष्ट_33. घृतकम्बलम्)
(अव्परिस्_33,1.1) ओं ब्रह्मणे ब्रह्मवेदाय नमस्कृत्वा स्वयंभुवे । घृतकम्बलं प्रवक्ष्यामि ब्रह्मणो निगदो यथा ॥
(अव्परिस्_33,1.2) बृहस्पतिर् महेन्द्राय चकार घृतकम्बलम् ॥
(अव्परिस्_33,1.13) अथेन्द्रो ह वा असुरैः पराजितश् चिन्ताम् आपेदे
(अव्परिस्_33,1.4) तं सविताब्रवीत् प्रायश्चित्तं कुरुष्वाप्रतिरुद्धो भविष्यसीति
(अव्परिस्_33,1.5) तम् इन्द्रो ऽब्रवीत् ॥ भगवन् त्वम् एवाप्रतिरुद्धः प्रायश्चित्तं कुर्व् इति ॥
(अव्परिस्_33,1.6) स प्रायश्चित्तम् अकरोत्
(अव्परिस्_33,1.7) पुण्ये नक्षत्रे बार्हस्पत्ये मुहूर्ते ऽभिजित्य् औदुम्बरं कुम्भं द्रोणेन साढकेन पूरयित्वा तस्मिन्न् एव वासप्रभृतयः ओषधयो दर्भप्रभृतयश् च बिल्वगौरसर्षपाश् चेत्य् एतान् संभारान् संभृत्य घृतकुम्भं बर्हिष्य् आधायैतैर् गणैर् आज्यं जुहुयात् ॥
(अव्परिस्_33,1.8) प्र पतेत इत्य् एकेनाङ्गादङ्गाच् छमलम् अवलिख्य सपत्नं भ्रातृव्यं हृदये इमर्मणि वासिनाविध्य गोमयेन काषायेण वाच्छाद्य शान्तेर् अप्रतिघातकं कर्म ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रम् अकरोत्
(अव्परिस्_33,1.9) तस्य ह वा एतस्य घृतकम्बलस्य सावित्रीगणशरीरस्य शन्तातीयः शिरः त्रिषप्तीयो मुखं रुद्ररौद्रौ चक्षुषी घृतलिङ्ग आस्यं नैरृतो जिह्वा दन्तोष्ठाव् अभयापराजितौ कृत्यादूषणचातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू मातृनामवाष्टोष्पत्यौ पादौ....पायुश् च भैषज्यं न्यायः प्राणापानाव् इति मीमांसत इत्य्
(अव्परिस्_33,1.10) एष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः पुत्रो ऽपराजितगणेनेष्ट्वेन्द्रो ऽसुरान् अजयन् मृत्युम् अलक्ष्मीम् अरातिं दुःस्वप्नदुर्भूतान्य् अजयद्
(अव्परिस्_33,1.11) यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्वकामान् आप्नोति सर्वव्याधिरहितो भवति ब्रह्मलोकम् अवाप्नोतीति ब्राह्मणम् ॥
(अव्परिस्_33,2.1) यदा सर्वम् इदं व्याप्तम् असुरैर् नावशेषितम् । स्थातुं देवाः पराभूतास् ते ऽथर्वाणम् उपागताः ॥
(अव्परिस्_33,2.2) कर्माद्य् एकं कुरुष्व त्वं यद् भृग्वङ्गिरसोर् मतम् । असुराणां वधार्थायेत्य् उक्तः कर्ताथ सो ऽभवत् ॥
(अव्परिस्_33,2.3) परचक्रोपसृष्टस्य राज्ञो विजयम् इच्छतः । प्रतिरुद्धस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥
(अव्परिस्_33,2.4) प्रादुर्भावाद्भुतानां च ग्रहाणां विग्रहे तथा । शङ्कमानो ऽभिचाराद् वा कारयेद् घृतकम्बलम् ॥
(अव्परिस्_33,2.5) घृतमात्रा तु विज्ञेया मागधप्रस्थसंमिता । शतानि पञ्च द्रोणानां पलैकशतम् एव वा ॥
(अव्परिस्_33,3.1) [सर्वपापप्रणाशाय सर्वकामार्थसिद्धये । सर्वरोगक्षयार्थाय प्रयोज्यो घृतकम्बलः] ॥
(अव्परिस्_33,3.2) घृतप्रमाणं वक्ष्यामि माषकं पञ्चकृष्णलम् । माषकाणि चतुह्षष्टिः पलम् एकं विधीयते ॥
(अव्परिस्_33,3.3) द्वात्रिंशत्पलकं प्रस्थं मागधैः परिकीर्तितम् । आढकं तु चतुःप्रस्थं चतुर्भिर् द्रोणम् आढकैः ॥
(अव्परिस्_33,3.4) द्रोणप्रमाणं विज्ञेयं ब्रह्मणा निर्मितं पुरा । द्वादशाभ्यधिकैर् नित्यं पलानां पञ्चभिः शतैः ॥
(अव्परिस्_33,3.5) [घृतमात्रा तु विज्ञेया मागधप्रस्थसंमिता । शतानि पञ्च द्रोणानां पलानां वा शतोत्तरे] ॥
(अव्परिस्_33,3.6) घृतद्रोणशतेनोक्त एको द्रोणवरस् तथा । यथाशक्ति प्रयुञ्जीत घृतं कृत्वाथ भागशः ॥
(अव्परिस्_33,3.7) चतुर्भागो ऽभिषेकाय चतुर्भागस् तु हूयते । भागो देयः सदस्येभ्यः कर्ता भागेन युज्यते ॥
(अव्परिस्_33,4.1) पुष्ये प्रयोगं कुर्वीत प्राजापत्ये ऽथ मारुते । वैष्णवे पूषदैवत्ये उत्तरेष्व् अथ वा त्रिषु ॥
(अव्परिस्_33,4.2) तप्तकृछ्रावसाने वा सर्वकृछ्रस्य चान्ततः । यस्मिन् वा स्नातका ब्रूयुस् तत्र कुर्याद् विचक्षणः ॥
(अव्परिस्_33,4.3) पाकयज्ञविधानेन कृत्वोपक्रमणं बुधः । निशाकाले बहिर्ग्रामे कुर्याद् अग्निनिवेशनम् ॥
(अव्परिस्_33,4.4) यजेत निरृतिं तत्र कृष्णवासाश् चतुष्पथे । यथोक्तं नैरृतैर् मन्त्रैर् हविर्भिश् च यथाक्रमम् ॥
(अव्परिस्_33,4.5) तृतीयेन तु सूक्तेन निवेद्य बलिम् अन्ततः । यथाव्यावर्तने चैव यद् उक्तं तत् समाचरेत् ॥
(अव्परिस्_33,5.1) ततः स्नातः शुक्लवासाः प्राश्य शान्त्युदकं शुचिः । पर्युक्ष्योपसमाधाय घृतसंस्कार इष्यते ॥
(अव्परिस्_33,5.2) पूर्वं महाव्याहृतिभिः सावित्र्या तदनन्तरम् । शान्तिश् च ब्रह्म जज्ञानं ब्रह्म भ्राजद् इतीति च ॥
(अव्परिस्_33,5.3) अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्ने जातवेदः सह रय्या पुनर् ऊर्जेति ॥
(अव्परिस्_33,5.4) अग्निम् ईले पुरोहितम् अग्न आ याहि वीतये । बृहस्पतिर् न इत्य् एका बृहस्पते युवं तथा ॥
(अव्परिस्_33,5.5) एतैर् आज्यं च जुहुयात् संपातान् आनयेद् घृते । कृत्यादूषणमन्त्रैश् च कुर्याच् छान्त्युदके विधिम् ॥
(अव्परिस्_33,5.6) संपातान् आनयेत् तत्र चातनैर् मातृनामभिः । वास्तोष्पत्यैर् वाष्टोष्पताव् आनयेत् समदूषणम् ॥
(अव्परिस्_33,5.7) निधाय हविर् आसाद्य घृतकुम्भं सुसंस्कृतम् । घृतभागौ तु याव् अन्यौ पूर्वेणाग्नेर् निधापयेत् ॥
(अव्परिस्_33,5.8) दर्भादीन् तु वासादींश् च संभारान् गौरसर्षपान् । बिल्वं च कुम्भे निधायापरेणाग्नेर् निधापयेत् ॥
(अव्परिस्_33,6.1) सावित्रः शन्तातीयश् च कृत्यादूषण एव च । अभयापराजितायुष्या वर्चस्यश् च ततः परः ॥
(अव्परिस्_33,6.2) संसक्तीयः सुषुप्तीयः स्वस्त्ययनः शर्मवर्म च । चातनो मातृनामानि भैषज्यं न्याय एव च ॥
(अव्परिस्_33,6.3) घृतलिङ्गौ तथा रौद्रौ संपातान् आनयेद् घृते । गणान्तेषु यथाशक्ति ब्राह्मणान् स्वस्तिवाचयेत् ॥
(अव्परिस्_33,6.4) यो ऽस्मिन्न् अक्षीभ्यां ते सहस्राक्षं ब्रह्म जज्ञानम् । ब्रह्म भ्राजद् उद् अगाद् इदम् आपस् तथापश् च ॥
(अव्परिस्_33,6.5) अभिषिञ्चेत् सर्वमन्त्रैर् आयुष्यैर् अभयैस् तथा । मृण्मयश् चात्र भवति द्वेष्यस्य च पराकृतिः ॥
(अव्परिस्_33,6.6) अभिषिञ्चेत् सर्वमन्त्रैर् आयुष्यैर् अभयैस् तथा । मृण्मयश् चात्र भवति द्वेष्यस्य च पराकृतिः ॥
(अव्परिस्_33,6.7) तस्योपरिष्टाद् अभिषिच्य कुर्यान् मात्रातलेखनीम् । अङ्गादङ्गाद् अथान्येन प्र पतेति चतसृभिः ॥
(अव्परिस्_33,6.8) भ्रातृव्यहम् इति वैश्वानरोयन्त्य् अवसानेन । द्यावादिना पर्यायेण समलंकृटम् उल्लिखेत् ॥
(अव्परिस्_33,6.9) द्विषन्तं मे परावद् वि द्विषन्तं निर् दहन्तु मे । भ्रातृव्यतान् इति द्वाभ्यां पर्यायाश् च त्रयः पराः ॥
(अव्परिस्_33,6.10) अन्वालभ्य तु कर्तारम् उपविष्ट उदङ्मुखः । स्वप्नतक्माष्टनयनैः सौभाग्यैर् वर्मभिस् तथा ॥
(अव्परिस्_33,6.11) रुद्ररौद्रपरैर् मन्त्रैर् आज्यहोमो विधीयते । स्राक्त्यं वा यदि वाश्वत्थम् औदुम्बरम् अथापि वा ॥
(अव्परिस्_33,6.12) शङ्खं च मणिम् आबध्य प्रतिसरैर् अभिमन्त्रयेत् । अन्वारभ्याभिषेकं तु रौद्राभ्यां जुहुयात् ततः ॥
(अव्परिस्_33,7.1) यत् ते वास [इति] परिधानं यथोक्तं परिधापयेत् । रोचना गुग्गुलु घृतम् अभ्यञ्जनम् अथाञ्जनम् ॥
(अव्परिस्_33,7.2) तत एतैर् अलंकृत्य ईक्षयेतादर्षे मुखम् । दश गा दक्षिणां दद्याद् वृषभं घृतम् एव च ॥
(अव्परिस्_33,7.3) ब्राह्मणान् स्वस्तिवाच्याथ प्राङ्मुखः संविशेत् ततः । रक्षोहणम् [इत्य्] अनुवाकं जपेत् कर्ताथ ऋत्विजः ॥
(अव्परिस्_33,7.4) शर्मवर्मैतद् उक्तं स्नातस्य रक्षोभ्यो ऽभयंकरम् इति ॥
(अव्परिस्_33,7.5) न राक्षसा न गन्धर्वा न पिशाचा न चासुराः । क्रूराः पुरुषमर्मज्ञा न हिंसन्ति घृतार्चितम् ॥
(अव्परिस्_33,7.6) सिद्धाभिषेको नैशश् च घृतकम्बलम् एव च । लक्षः पुष्याभिषेकश् च प्रधानावभृतस् तथा ॥
(अव्परिस्_33,7.7) महाशान्तित्रयस्त्रिंशत् तत्र षट् प्रस्तरैः सह । नियतान्येवदृछाया कर्तव्या भूतिम् इच्छता ॥
(परिशिष्ट_34. अनुलोमकल्पः)
(अव्परिस्_34,1.0) ओं नमो ऽथर्ववेदाय ॥
(अव्परिस्_34,1.1) अक्षरानि विलोमानि न स्वरं प्रतिलोमयेत् । प्रत्यारम्भनिघातेषु स्थानान्य् अन्यानि निर्दिशेत् ॥
(अव्परिस्_34,1.2) यकारस् तु तकारान्तो अन्त्यस्वरितसंज्ञितः । स तूदात्तः स एवादौ दकारः शिष्यते गुरुः ॥
(अव्परिस्_34,1.3) दकारात् स्वर्यते नीचम् उपोदात्ते प्र योजयेत् । अन्यानि तु यथापूर्वम् उदात्तप्रचितानि तु ॥
(अव्परिस्_34,1.4) प्रथमो ऽष्टाक्षरो ऽर्धर्चो द्वितीयः षोडशाक्षरः । आदाव् अन्ते च विज्ञेया व्याहृतिश् चाप्य् अथर्वणाम् ॥
(अव्परिस्_34,1.5) रक्तवर्णा विलोमा च यमेन परिकीर्तिता । सर्वशत्रुविनाशाय सर्वकर्मार्थसिद्धये ॥
(अव्परिस्_34,1.6) मृत्युश् च देवता चास्या निछन्नं छन्द उच्यते । स्वाहाकारे तु फट्कारः कोटिहोमे विधिः स्मृतः ॥
(अव्परिस्_34,1.7) अनुलोमां विलोमां वा गायत्रीं यः पठेत् सदा । सर्वार्थास् तस्य सिध्यन्ति न चानर्थान् समश्नुते ॥
(अव्परिस्_34,1.8) त् या द चो प्र नः यो यो धि ॥ हि म धी स्य व दे र्गो भ यम् णी रे र्व तु वि त्स त त् ॥
(परिशिष्ट_35. आसुरीकल्पः)
(अव्परिस्_35,1.1) ओं कटुके कटुकपत्त्रे सुभगे आसुरि रक्ते रक्तवाससे । अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके ॥
(अव्परिस्_35,1.2) अमुकं हनहन दहदह पचपच मथमथ । तावद् दह तावत् पच यावन् मे वशम् आनयसि स्वाहा ॥
(अव्परिस्_35,1.3) शय्यावस्थितायास् तावज् जपेद् यावत् स्वपिति ॥ प्रस्थिताया गतिं दह स्वाहा ॥ उपविष्टाया भगं दह स्वाहा ॥ सुप्ताया मनो दह स्वाहा प्रबुद्धाया गृदयं दह स्वाहेति ॥
(अव्परिस्_35,1.4) अथात आसुरीकल्पम् उपदेशाद् अथर्वणः । नास्यास् तिथिर् न नक्षत्रं नोपवासो विधीयते ॥
(अव्परिस्_35,1.5) घृतादिद्रव्यसर्वेषु आसुरी शतजापिता । पत्त्राद्यवयवश् चास्या जिकैषा चानुयायिनी ॥
(अव्परिस्_35,1.6) हन्तुकामो हि शत्रूंश् च वशीकुर्वंश् च भूपतीन् । आसुरीश्लक्ष्णपिष्टाज्यं जुहुयाद् आकृतिं बुधः ॥
(अव्परिस्_35,1.7) अर्केन्धनाग्निं प्रज्वाल्य छित्त्वास्त्रेणाकृतिं तु ताम् । पादाग्रतो ऽष्टसहस्रं जुहुयाद् यस्य वश्य् असौ ॥
(अव्परिस्_35,1.8) घृताक्तया स्त्री वशिनी पालाशाग्नौ द्विजोत्तमाः । गुडाक्तया क्षत्रियास् तु वैश्यास् तु दधिमिश्रया ॥
(अव्परिस्_35,1.9) शूद्रास् तु लवणमिश्रै राजिकां पिष्टयेद् बुधः । आ सप्ताहात् सर्व एते आसुरीहोमतो वशाः ॥
(अव्परिस्_35,1.10) कटुतैलेन त्रिसंध्यं कुलोच्छेदं करोति हि । शुनां तु लोमभिः सार्धम् अपस्मारी त्रिभिर् दिनैः ॥
(अव्परिस्_35,1.11) निवृत्तिः क्षीरमध्वाज्यैर् लवणेन तु सज्वरी । अर्कैधःसमिदग्नौ तु कार्यो विस्फोटसंभवः ॥
(अव्परिस्_35,1.12) तेषाम् उपशमं विद्यात् सुराश्वर्या घृतेन च । अर्कक्षीराक्तयाऋकाग्नाव् अक्षिणी स्फोटयेद् द्विषः ॥
(अव्परिस्_35,1.13) गतासुमांसं तस्यैव निर्माल्यं चितिभस्म च । एषां चूर्णेन संस्पृष्टो हास्यशीलो ऽभिजायते ॥
(अव्परिस्_35,1.14) अजाक्षीराक्तया होमात् तस्य मोक्षो विधीयते । तगरं कुष्ठमांसी च तस्याः पत्त्राणि चैव हि ॥
(अव्परिस्_35,1.15) एतैः श्लक्ष्णैस् तु संस्पृष्टः पृष्ठतः परिधावति । तस्याः फलानि मूलानि सुरभीहस्तिमेदसा ॥
(अव्परिस्_35,1.16) सूक्ष्मात् तद्द्रव्यसंस्पर्शाद् अनुधावत्य् अचेतसः । अछिद्रपत्त्राण्य् असित उशीरः सर्षपास् तथा ॥
(अव्परिस्_35,1.17) एतच्शूर्णात् पूर्वफलं घृते चैवापराजयः ॥
(अव्परिस्_35,2.1) कुसुमानि मनह्शिलाप्रियङ्गुतगराणि च । गजेन्द्रमदसंयुक्तं किं कुर्वाणस् त्व् अकृद् वरम् ॥
(अव्परिस्_35,2.2) याश् च स्त्रियो ऽभिगच्छन्ति ता वशाः पदालेपतः । सपुष्पां तां समादाय अञ्जनं नागकेशरम् ॥
(अव्परिस्_35,2.3) अनेनाक्ताभ्याम् अक्षिभ्यां यम्यं पश्येत् स किंकरः । अञ्जनं तगरं कुष्ठं देवीजं काष्ठम् एव च ॥
(अव्परिस्_35,2.4) माण्सी च सर्वभूतानां सौभाग्यस्य तु कारणम् । तत्समिधां लक्षहोमान् निधानं पश्यते महत् ॥
(अव्परिस्_35,2.5) सर्पिर्दधिमध्वक्तपत्त्राणां वृद्धपुत्री सहस्रतः । राज्यं तु लभते वश्यं तत्पत्त्रत्रिसहस्रतः ॥
(अव्परिस्_35,2.6) स्वर्णसहस्रस्याप्तिस् तु तत्पुष्पाणां तु लक्षतः । सहस्रजापाच् च तद्वद् उदके क्षीरभक्षिणः ॥
(अव्परिस्_35,2.7) वारिपूर्णे ऽथ कलशे लोकेशीपल्लवान् क्षिपेत् । स्नानाद् अलक्ष्म्या मुच्येत सौवर्णकलशे ऽपि तु ॥
(अव्परिस्_35,2.8) विनायकेभ्यः स्नानतो दौर्भाग्याच् चैव दुर्भगात् । पृष्ठतश् चानुधावन्ति संस्पृष्ट उदकेन तु ॥
(अव्परिस्_35,2.9) उशीरं तगरं कुष्ठं मुस्ता तत्पत्त्रसर्षपाः । चूर्णेनाभिहतस् तूर्णम् ईश्वरो ऽपि वशो भवेत् ॥
(अव्परिस्_35,2.10) तुलसीभूमहादेवीचूर्णस्पृष्टस् तथा वशी । राजाभयं सुरेश्वरीमार्जनाद् भारणात् तथा ॥
(अव्परिस्_35,2.11) न स्यात् तस्याद्भुतं किं चिन् न क्षुद्रोपद्रवस् तथा । नानैश्वर्यं नाप्रजत्वं यस्य देव्य् आसुरी गृहे ॥
(परिशिष्ट_36. उच्छुष्मकल्पः)
(अव्परिस्_36,1.1) ओं नम उच्छुष्मेभ्यः
(अव्परिस्_36,1.2) ....शिखां देवीं प्रपद्ये शंकरायणीं । सर्वार्थसाधनीं विभ्वीं सर्वेशीं ब्रह्मचारिणीम् ॥
(अव्परिस्_36,1.3) ते इष्टकाकारकरालम् अतिचतुर्मुखम् ॥ चतुर्विधैस् तु रूपं ध्यानम् ॥
(अव्परिस्_36,1.4) शिवे जटिले ब्रह्मचारिणि स्तम्भनि जम्भनि मोहनि हुं फट् नमः स्वाहा ॥
(अव्परिस्_36,1.5) आत्मरक्षा ॥
(अव्परिस्_36,1.6) प्राच्यां दिशीन्द्रो राजा देवानाम् आधिपत्यं कुरुते । तं देवं भगवन्तं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति । वज्रेण प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषम् अशुभं प्रशमयों नमः स्वाहा ॥
(अव्परिस्_36,1.7) दक्षिणस्यां दिशि यमो राजा प्रेतानाम् आधिपत्यम् इति । दण्डेन प्रहरणेनेति ॥
(अव्परिस्_36,1.8) प्रतीच्यां दिशि वरुणो राजापाम् आधिपत्यम् इति । पाशेन प्रहरणेनेति ॥
(अव्परिस्_36,1.9) उदीच्यां दिशि कुबेरो राजा यक्षाणाम् आधिपत्यम् इति । गदया प्रहरेणेति ॥
(अव्परिस्_36,1.10) ध्रुवायां दिशि वासुकी राजा नागानाम् आधिपत्यम् इति । दंष्ट्रया प्रहरणेनेति ॥
(अव्परिस्_36,1.11) ऊर्ध्वायां दिशि सोमो राजा नक्षत्राणाम् आधिपत्यं कुरुते । तं देवं भगवं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति ॥ तेजसा प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषम् अशुभं प्रशमयों नमः स्वाहा ॥
(अव्परिस्_36,1.12) अथोच्छुष्महृदयम् ॥ द्युरुद्युरु दरदर विदारयविदारय मिलिमिलि नमः स्वाहा ॥
(अव्परिस्_36,1.13) उच्छुष्मशिखा ॥ शिवे जटिल इति प्रथमः ॥
(अव्परिस्_36,1.14) कुरुकुरु मुरुमुरु महा मुञ्च महा मुञ्च विदुविदु नमः स्वाहा ॥ इति कवचम् ॥
(अव्परिस्_36,1.15) ओं नमो महापिङ्गलाय सिंहनादनादिने नमः स्वाहा ॥ इत्य् अस्त्रमन्त्रः ॥
(अव्परिस्_36,2.1) एषाम् उच्छुष्मरुद्राणाम् अतः कल्पो निगद्यते । अथर्ववेदोद्भवानां तिथ्यृक्षाद्ययोगतः ॥
(अव्परिस्_36,2.2) ग्रामे वाथाप्य् अरण्ये वा प्रचरेत यथाविधि । सद्यःसिद्धिकरा ह्य् एते उच्छुष्माः परिकीर्तिताः ॥
(अव्परिस्_36,2.3) आत्मरक्षां दिशां बन्धं शिखाबन्धं च सर्वदा । एतैर् एव यथायोगम् आदौ कुर्याद् विचक्षणः ॥
(अव्परिस्_36,2.4) खदिरस्योदुम्बरस्य तथा बिल्वपलाशयोः । दधिसर्पिर्मधुयुजां शान्तानां वापि बिल्वतः ॥
(अव्परिस्_36,2.5) समित्सहस्रत्रितयं हुत्वा शान्तिर् गवां भवेत् । तीक्ष्णासृग्विषयुक्तानां फट्कारश् च विनाशने ॥
(अव्परिस्_36,2.6) प्रयोगाद् अप्य् असिद्धिश् चेत् तत्कर्मेदं समारभेत् । उच्छुष्मरूपी भक्षयंस् तीक्ष्णः सक्तूदकानि तु ॥
(अव्परिस्_36,3.1) अभीष्टां वा स्त्रियं गत्वा ध्यात्वा वा रेत उत्सृजेत् । मूत्रां पुरीषं चोत्सृज्य गोकङ्कालाधिरोहणम् ॥
(अव्परिस्_36,3.2) कृत्वा मन्त्रं निशि जपेद् यावद् गोशृङ्गतश् चरेत् । ज्वालाभङ्गं ततस् तस्य कर्मसिद्धिं समादिशेत् ॥
(अव्परिस्_36,3.3) [दधिमधुघृताक्तानाम् इति शेषः] ॥
(अव्परिस्_36,4.1) सप्तक्षीराञ्जलिग्रासः स्रुवो ह्य् अस्मिन् प्रशस्यते । क्षीरं तेनाथ जुहुयाद् धनकामस्य नित्यशः ॥
(अव्परिस्_36,4.2) घृतेन तेजस्कामस्य आयुःकामस्य दूर्वया । कुकुसं तुम्बरं वापि विद्याद् उच्चाटकर्मणि ॥
(अव्परिस्_36,5.1) ब्राह्मणं तु वशीकर्तुं शालिपिष्टमयीं तनुम् । कृत्वा चतुष्पथं गत्वा गृहीत्वा शस्त्रम् उत्तमम् ॥
(अव्परिस्_36,5.2) अष्टोत्तरसहस्रेण कृत्वा तदभिमन्त्रणम् । अष्टाङ्गं तेन तां छित्वा मन्त्रतो वशम् आनयेत् ॥
(अव्परिस्_36,5.3) अष्टोत्तरसहस्रं वा प्रकृते जुहुयाद् बुधः । ब्राह्मणीं तु वशीकर्तुं कुर्यान् माषमयीं तनुम् ॥
(अव्परिस्_36,6.1) सर्पिर्दधिमध्वक्तानां लाजानाम् आहुतीः शुभाः । कन्याकामो ऽष्टसहस्रं हुत्वा कन्याम् अवाप्नुयात् ॥
(अव्परिस्_36,6.2) अपि वा पिष्टमय्याः प्राग् जुहुयात् संध्ययाहुतीः । दर्भेषीकां वाभिमन्त्र्य तद्गृहे निश्चलां न्यसेत् ॥
(अव्परिस्_36,6.3) तावद् उद्वेजयेत् सा तु वज्रभूता हि तद्गृहम् । कन्यायाः साधनीयायास् [तु] यावल् लाभस् ततो भवेत् ॥
(अव्परिस्_36,7.1) प्रधानम् अन्यं वा किं चिद् वशीकर्तुं नरोत्तमम् । समिधः खदिरादीनाम् औदुम्बर्यश् च होमयेत् ॥
(अव्परिस्_36,7.2) श्मशानखट्वाङ्गमयीं होमयेन् मन्त्रसाधने । पलाण्डुलशुनप्रस्थं हुत्वा मस्तं न संशयः ॥
(अव्परिस्_36,7.3) शिरीषाङ्गमयीं राज्ञो बलिस् त्रिमधुरेण तु । ब्राह्मणे पायसमयीं क्षत्रियस्य विषाणिकाम् ॥
(अव्परिस्_36,7.4) वैश्यस्य साधने होम्याश् चूर्णैः सुरभिसंस्कृताः । चतुष्पथे तु शूद्रस्य पद्मिन्युत्करणेन तु ॥
(अव्परिस्_36,8.1) लिखित्वा नाम संगृह्य कराग्राङ्गुलिपीडिताम् । शिरःपीडा ज्वरः शूलं विमतिः स्वस्त्यसंगतिः ॥
(अव्परिस्_36,8.2) बल्याद्या वा प्रयोक्तव्या ब्राह्मणादिचतुष्टये । एवं सत्य् अभिचारश् च चतुर्णाम् अपि दर्शितः ॥
(अव्परिस्_36,8.3) लिङ्गं वा राजसर्षपैः समालिख्याथ धूपयेत् । गौरैर् अर्घं तथा दद्यान् म्रियते साप्य् असंशयम् ॥
(अव्परिस्_36,8.4) अभक्षभक्षो ह्य् अस्वास्थ्यं सर्वरोगप्रकोपनम् । निःसंज्ञता पिण्डपातो जपावृत्त्या भवन्ति हि ॥
(अव्परिस्_36,8.5) एकादशं न जप्तव्यं कुलोत्सादस् ततो भवेत् ॥
(अव्परिस्_36,9.1) ओं नमो महापिङ्गलाय त्रिवृते त्रिवृते नमः स्वाहा ॥
(अव्परिस्_36,9.2) नमः सरान्तितेवतेवसु त्रिवृते त्रिवृते त्रिपर्वणे त्रिशीर्षाय नमः स्वाहा ॥
(अव्परिस्_36,9.3) नमः कटविकटकण्टेमाटे पाटले विकले असौर्यासौ असौर्यासौ पृथिवीष्टका इष्टकाजिनात्यून्यो सौगलुंतिगलुंतेकटमसि कटप्रवृते प्रद्विष रुद्र रौद्रेणावेशयावेशय हनहन दहदह पचपच मथमथ विध्वंसयविध्वंसय विश्वेश्वर योगेश्वर महेश्वर नमस् ते ऽस्तु मा मा हिंसीः हुं फट् नमः स्वाहा ॥
(अव्परिस्_36,9.4) कालाय करालाय नमः स्वाहा ॥
(अव्परिस्_36,9.5) कृतान्ताय नमः स्वाहा ॥
(अव्परिस्_36,9.6) अमोघाय नमः स्वाहा ॥
(अव्परिस्_36,9.7) अघोराय नमः स्वाहा ॥
(अव्परिस्_36,9.8) अनिवर्ताय नमः स्वाहा ॥
(अव्परिस्_36,9.9) भगाय नमः स्वाहा ॥
(अव्परिस्_36,9.10) भगप्रमथनाय नमः स्वाहा ॥
(अव्परिस्_36,9.11) वृषभाय नमः स्वाहा ॥
(अव्परिस्_36,9.12) इन्द्रनेत्राय नमः स्वाहा ॥
(अव्परिस्_36,9.13) सुवर्णचूडाय नमः स्वाहा ॥
(अव्परिस्_36,9.14) हाहाहीही नमः स्वाहा ॥
(अव्परिस्_36,9.15) नमस् तीक्ष्णाय तीक्ष्णदंष्ट्राय भीषणाय सहस्रपादायानन्तशीर्षाय वामनाय नमः स्वाहा ॥
(अव्परिस्_36,9.16) महावक्त्राय पिङ्गलनेत्राय नमः स्वाहा ॥
(अव्परिस्_36,9.17) खनखनाय नमः स्वाहा ॥
(अव्परिस्_36,9.18) घनघनाय नमः स्वाहा ॥
(अव्परिस्_36,9.19) घुसुघुसाय नमः स्वाहा ॥
(अव्परिस्_36,9.20) अलेपाय नमः स्वाहा ॥
(अव्परिस्_36,9.21) पशवे नमः स्वाहा ॥
(अव्परिस्_36,9.22) महापशुपतये नमः स्वाहा ॥
(अव्परिस्_36,9.23) उच्छुष्माय नमः स्वाहा ॥
(अव्परिस्_36,9.24) उच्छुष्मरुद्राय नमः स्वाहा ॥
(अव्परिस्_36,10.1) एषां क्रमेण कृत्यानि वक्ष्यमाणानि योजयेत् । अष्टसहस्राभिजप्तम् अन्यद् द्रव्यं तु होमतः ॥
(अव्परिस्_36,10.2) शत्रोर् नाम्ना लवणस्य सहस्रम् अष्टकाधिकम् । हुत्वा धनायुषोर् हानिर् ज्वरेण स च शुष्यति ॥
(अव्परिस्_36,10.3) क्षिप्रं शान्तिर् भवेत् तस्य क्षीरहोमात् तु तावतः ॥
(अव्परिस्_36,11.1) कणैः पुत्तलिकां कृत्वा गोशृङ्गेणार्घधूपबे । अष्टसहस्राभिजप्तं मदनस्य तु कण्टकम् ॥ तेनाष्टादशवेधात् तु मूलक्षीरान् निवर्तनम् ॥
(अव्परिस्_36,12.1) दध्ना च मधुसर्पिर्भ्यां त्त्रिवर्णैः सर्षपैर् हुतैः ॥ गौरैर् अष्टसहस्रेण जप्तैर् आवेशयेद् रिपून् ॥
(अव्परिस्_36,13.1) दध्याद्यभ्यक्तलाजानां होमाद् अष्टसहस्रतः ॥ नाशयेत् सततज्वरं द्वितीयादिं च दूरतः ॥
(अव्परिस्_36,14.1) परिजप्य दर्भेषीकां कुम्भकारादिवेश्मसु । न्यस्त्वा पाकं सुरापाकं कैवर्तादि विनाशयेत् ॥
(अव्परिस्_36,15.1) अक्षतैस् तण्डुलैः कृत्वा प्रतिदेहं सुशोभनम् । संस्थाप्य धान्यराशौ तं चन्दनादुरु दाहयेत् । बलिं त्रिमधुरं दत्त्वा स्यात् स राशिश् चतुर्गुणः ॥
(अव्परिस्_36,16.1) खादिरं कीलकं तीक्ष्णं तैलाक्तं द्वादशाङ्गुलम् । परिजप्तं ग्राममध्ये निखनेत् सद्य उद्वसेत् ॥
(अव्परिस्_36,16.2) महापातकदोषेण ग्रामी निर्धनतां व्रजेत् । क्षीरेण कीलकस्नानात् कुर्यात् तुष्टस् तु शान्तिकम् ॥
(अव्परिस्_36,16.3) क्षीरस्याष्टसहस्रं च जुहुयात् तदनन्तरम् ॥
(अव्परिस्_36,17.1) कलापमन्त्रां गुटिकां तन्नाम्ना गव्यमांसतः । महापातकसंबन्धाज् जायते ऽस्य धनक्षयः ॥
(अव्परिस्_36,18.1) त्रिवर्णसर्षपैर् होमात् सह त्रिमधुरेण तु । संपद्यते सुतस् तस्य मेधावी श्रुतधारकः । तद्धोमात् के चिद् इच्छन्ति उन्मत्तत्वं न संशयः ॥
(अव्परिस्_36,19.1) तिला दूर्वा त्रिमधुरं होमतो व्याधिनिग्रहम् । तण्डुलप्रक्षेपश् च ॥
(अव्परिस्_36,20.1) त्र्यक्तोदुम्बरसमिधो दोग्ध्री धेन्व् अष्टकप्रदाः । एकाहं भैक्षभुग् भूत्वा मासाष्टकयुतस्य वा ॥
(अव्परिस्_36,21.1) प्रादेशान्तं बिल्ववृक्षं मूलशाखासमन्वितम् । कृष्णाष्टम्यां चतुर्दश्यां सायं हुत्वा तु रुक्मभाक् ॥
(अव्परिस्_36,22.1) समिधां वैतसीनां तु अग्नाव् अर्केन्धनाद् धुते । अहोरात्रिकहोमात् स्यात् पर्जन्यो बहुवर्षदः । लक्षत्रयं भैक्षाहारो जप्त्वा कर्मैतद् आरभेत् ॥
(अव्परिस्_36,23.1) दुग्धाक्तान् सर्षपान् हुत्वा तस्माद् भस्म मुखे क्षिपेत् । सर्वेषु व्यवहारेषु स भवत्य् अपराजितः ॥
(अव्परिस्_36,24.1) शस्त्रं जप्तम् उपादाय रणे ग्रस्तो न जीयते । खनखनायेति मन्त्रः पूर्वसेवार्थ उच्यते ॥
(अव्परिस्_36,24.2) उत्तरस्या विशेषाद् वा चेदानीम् अत उत्तरम् । खादिरत्र्यक्तसमिधां पूर्वसेवा सहस्रतः । अतसीसमिधाम् एवं मेधावी विदुषां प्रभुः ॥
(अव्परिस्_36,25.1) गोचर्ममात्रं स्थण्डिलं गोमयेनोपलेपयेत् । तत्राग्निं त्रिकपालेषु ज्वालयित्वा प्रणम्य च ॥
(अव्परिस्_36,25.2) शिरसा वानरेणाथ मुखवाद्यं तु कारयेत् । यत्र तच् छ्रूयते तत्र आगच्छन्ति वरस्त्रियः ॥
(अव्परिस्_36,25.3) दम्ष्ट्राघण्टानिनादास् तु ज्वालामुखभयानकाः । यत् त्वं कामयसे पुत्र तत् सर्वं दद्महे वयम् ॥
(अव्परिस्_36,25.4) इति ब्रुवत्यः सर्वास् ता यत्र होमः कृतो भवेत् । तद्भस्मना तु संस्पृष्टाश् छागल्यः सुप्रभावतः ॥
(अव्परिस्_36,26.1) लक्षजापोत्तरं गत्वा नदीम् उदधिगामिनीम् । वालुकास्थण्डिले लिङ्गं तन्मयं तज्जसद्मनि ॥
(अव्परिस्_36,26.2) पद्माष्टशतम् आहृत्य पूजयित्वा विधानतः । उदके नाभिमात्रे च सुप्रभातं पुनर् जपेत् ॥
(अव्परिस्_36,26.3) ततो माण्डलिको राजा दीनाराणां गवां शतम् । प्रणम्य श्रद्धया तस्मै दद्याद् उद्धर माम् इति ॥
(अव्परिस्_36,27.1) लक्षजपाद् अबाध्यस् तु पशूनां दम्ष्ट्रिशृङ्गिणाम् । इतरेषां पशूनां तु लक्षत्रितयवर्धनम् ॥
(अव्परिस्_36,28.1) संजप्तशिवनिर्माल्यदानाद् उन्मत्ततां व्रजेत् ॥ शमाय चन्दनं दद्यात् त्रिष्व् एतं मन्त्रसंस्कृतम् ॥
(अव्परिस्_36,29.1) समाधिनानुमन्त्रितं गोशृङ्गम् अरिमन्दिरे । निखातं सद्य एवैनं मन्दिरं परिदीपयेत् ॥
(अव्परिस्_36,30.1) तीक्ष्णतैलं कटु प्रोक्तं दर्वी ग्रामस्रुवस् तथा । त्रिमधुरं त्व् अत्र विज्ञेयं मधुसर्पिस्तिलात्मकम् ॥
(अव्परिस्_36,30.2) संमुखं मानसं ध्यायञ् शुभं कर्म प्रयोजयेत् । विमुखं भञ्जनादौ तु नरः कर्मणि सिद्धिभाक् ॥
(अव्परिस्_36,30.3) अष्टोत्तरस् त्रिसाहस्रो होमो हास्य प्रकीर्तितः । कीलकास्त्रादि यच् चान्यत् तत् सहस्राभिमन्त्रितम् ॥
(अव्परिस्_36.चोल्) इत्य् उच्छुष्मकल्पः समाप्तः ॥ इति परिशिष्टानां पूर्वार्धं समाप्तम् इति ॥
(परिशिष्ट_37. समुच्चयप्रायश्चित्तानि) [रेसेम्ब्लेस् इन् fओर्म् थे 13थ् अध्याय ओf थे कौशिकसूत्र]
(अव्परिस्_37,1.1) ओं भृग्वङ्गिरोरूपधारिणे शिवाय नमः ॥ अथ यत्रैतद् अपहन्यमाने मुसलं पतति तद् घोरं भवति तद् अप्य् एतद् ऋचोक्तम् ॥
(अव्परिस्_37,1.2) उलूल्हलान् मुसलं पतितं हिनस्ति पत्नींकुले ज्येष्ठम् । कृषीः प्रजाः पशवः संविशेअन्ते यथेन्द्रसृष्टं प्रपतेत वज्रम् इति ॥
(अव्परिस्_37,1.3) तद् वज्रं शान्त्युदकेन संप्रोक्ष्य अरातीयोर् इत्य् उल्लिख्य यत् त्वा शिक्व इति प्रक्षाल्य बर्हिष्य् आधाय जुहोति ॥
(अव्परिस्_37,1.4) वज्रः पतितस् तु वरं हिनस्ति तं त्वा वयम् अपहन्म घोरम् । स नः शिवो ऽस्तु द्विषतां वधाय सपत्नान् मे द्विषतो हन्तु सर्वान् ॥
(अव्परिस्_37,1.5) यद्वत् प्रजाः पपनयद् धस्ताद् यदि वोलूखलात् । सपत्नान् मे परिपाहि मां त्व् एवं परिपाहि नः ॥
(अव्परिस्_37,1.6) यद्य् अन्तरिक्षे यदि वासि सोच्चैर् वज्रः सृष्टो यदि वा पार्थिवैर् उत । मन्त्राः प्रयुक्ता वितता महान्तो ऽघोरो वज्रो मुसलप्रपातः ॥
(अव्परिस्_37,1.7) वज्रो ऽसि सपत्नहेति तिस्रः ॥
(अव्परिस्_37,1.8) वज्रो ऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वाम् अद्य वनस्पते वृक्षाणाम् उद् अयुष्महि ॥
(अव्परिस्_37,1.9) स न इन्द्रपुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥
(अव्परिस्_37,1.10) प्राण प्राणं त्रायस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति ॥
(अव्परिस्_37,1.11) त्यम् ऊ षु त्रातारम् इन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैर् इन्द्र मर्माणि ते वर्मणा छादयामीति उलूखलमुसले संपातान् आनीय संस्थाप्य होमान् उलूखलम् अन्नेनैव पूरयित्वा प्रतिप्रवर्तयेद् उलूखलमुसलं वसनं च गां च कर्त्रे दद्यात् सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,2.1) अथ यत् काको ऽभिमृशति तन् मृत्युम् आशङ्क्यं भवति ॥ तद् अप्य् एतद् ऋचोक्तम् ॥....अन्तकाय मृत्यव आ रभस्व प्राणाय नम इति स्वाहेति अग्नौ हुत्वा सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,3.1) अथात आज्यस्थाली च्यवते प्रचलति वा का तत्र प्रायश्चित्तिः ॥ संनतिमहाव्याहृतिसावित्रीकूष्माण्ड्यः स सर्वाभिर् जुहुयात् सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,4.1) अथ पवित्रम् <चेत्> प्रणश्येत कर्ममध्यात् प्रमादतः । अन्यच् छित्त्वा मन्त्रयेत कर्मशेषम् उपक्रमेत् । आत्मेन्द्रियसमायुक्तं तेन मन्त्रेण कारयेत् ॥
(अव्परिस्_37,4.2) वायोः पूतः पवित्रेण यन् मे छिद्रं पुनर् मैत्व् इन्द्रियं मा न आपो मेधां मा नो मेधां मा नः पिपरिद् अश्विनेति संनतिभिर् आज्यं जुहुयाद् व्याहृतिभिश् च गां च कर्त्रे दद्यात् सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,5.1) अथ यस्यासमाप्ते कर्मणि बर्हिर् आदीप्येत ततस् तन् निर्वाप्य जुहुयात् ॥
(अव्परिस्_37,5.2) यद् अग्निर् बर्हिर् अदहद् वेद्या वासो अपां ततः । त्वम् एव नो जातवेदो दुरितात् पाहि तस्मात् ॥
(अव्परिस्_37,5.3) निर्दग्धा नो अमित्रास् तु यथेदं बर्हिस् तथा । अमित्राणां श्रियं भूतिं ताम् एषां परि निर् जहि ॥
(अव्परिस्_37,5.4) यत्कामास् ते जुहुमस् तन् नो अस्तु विशाम्पते । ये देवा यज्ञम् आयान्ति ते नो रक्षन्तु सर्वतः ॥
(अव्परिस्_37,5.5) अवदग्धं दुःस्वप्न्यम् अवदग्धा अरातयः । सर्वाश् च यातुधान्यः ॥
(अव्परिस्_37,5.6) मा त्वा दभन् यातुधाना मा ब्रध्नः शम्युम् इच्छत । दर्भो राजा समुद्रियः परि नः पातु विश्वतः ॥
(अव्परिस्_37,5.7) अतो ऽन्यद् बर्हिर् उपकल्प्योदकेन संप्रोक्ष्य पुनः स्तृणाति ॥
(अव्परिस्_37,5.8) इदं बर्हिर् अमृतेनेह सिक्तं हिरण्मयं हरितं ते स्तृणामि । तद् वै पुराणम् अभिनवं स्तृणीष्व वासः प्रशस्तं प्रति मे गृहाणेत्य् अन्येन च बर्हिषाभिप्रछादये ॥
(अव्परिस्_37,6.1) आहुत्यां तु गृहीतायां हुतोच्छिष्टं प्रमादतः । तम् आहुतिं प्रतिष्ठाप्य शं नो देवीर् इत्य् आचम्य ब्रह्मापरम् इत्य् अर्धर्चेनेमां हुत्वा ब्रह्मज्येष्ठेति हुत्वा सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,7.1) केशकीटावपन्ना चेच् छंभुवाय स्वाहेति भस्मनि हुत्वा हविर् उत्पूयान्यां जुहुयात् सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,8.1) अथ चेच् चलितदन्तं पतितदन्तं वोपनयेत् तत्र प्रायश्चित्तम् आह गृहे वा बर्हिः [वा] पिता वाचार्यो वा द्वादशरात्रं दीक्षेयातां कर्ता त्रिरात्रं गौरसर्षपसर्पिःपयोभिः स्नातः प्रयतः शुचिः शुक्लवासाः पौर्णमासं तन्त्रम् आज्यभागान्ते सावित्रीम् अनुयोजयेत् तेन शान्त्युदकेनैनम् आचामयति संप्रोक्षति च ॥
(अव्परिस्_37,8.2) सावित्री शान्तिर् ब्रह्म जज्ञानं ये त्रिषप्ता अग्निं ब्रूम आयुष्यवर्चस्यस्वस्त्ययनाभयापराजितशर्मवर्मभिर् जुहुयात् तं संपात्य यः श्रमात् तपसो यो वेतसं यो भूतम् ऊर्ध्वा अस्येदावत्सराय यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियम् इत्य् आप्लावयति सा तत्र प्रायश्चित्तिः ॥
(अव्परिस्_37,9.1) नश्येच् चेन् मदुघमणिः शाम्येद् वाग्निर् विवाहजः । अत्यद्भुतं द्वयम् इदं दम्पत्योस् तु विनाशनम् ॥
(अव्परिस्_37,9.2) पूतुदारुमणिस् तत्र बन्ध्यो मन्त्राश् च मादुघाः । पूतुदारु न विन्द्याच् चेद् यवं तत्र नियोजयेत् ॥
(अव्परिस्_37,9.3) आयुष्मन्तौ सुप्रजसौ सुवीरौ धाता पूषा द्रविणे नौ दधातु । विमुञ्चतां शमलं किल्बिषं नौ दीर्घम् आयुश् च सविता कृणोत्व् इति शान्त्युदकेनाङ्गुलिं संप्रोक्ष्य बध्नीयात्
(अव्परिस्_37,9.4) समिधो ऽभ्यादध्याद् उपतिष्टेत संनतिभिर् व्याहृतिभिर् जुहुयाद् गां च कर्त्रे दद्यात् सा अत्र प्रायश्चित्त्ः ॥
(अव्परिस्_37,10.1) ओम् अथ यस्य तन्त्रे ऽप्रणीतो ऽहुतो ऽग्निर् उपशाम्यति ॥ पुनस् त्वादित्या इत्य् अग्निं प्राणीय संनतिभिर् व्याहृतिभिः समास् त्वाग्ने ऽभ्य् अर्चतेति च सूक्ताभ्यां जुहुयात् परिसंख्याहोमांश् च ॥
(अव्परिस्_37,11.1) अथ यत्रैतद् विवाहग्निर् उपशाम्यति अग्निप्रणयनमन्त्रैः प्राजापत्यं प्रणीय प्राक्तन्त्रं प्रणीय यद् देवा यद् विद्वांसो ऽपमित्यम् अप्रतीतं यद् धस्ताभ्यं यद् अदीव्यन्न् इत्य् एतैः सूक्तैर् आज्यं जुहुयात् समिधो ऽभ्यादध्याद् उपतिष्ठेत वासः कर्त्रे दद्यात् ॥
(अव्परिस्_37,12.1) अथ यत्रैतत् कालातीतासु क्रियास्व् अतीत उत्तरायणे आज्यभागान्ते यन् मे स्कन्नं यद् अस्मृतीत्य् अनुमन्त्रयेत् तस्मै प्राच्या दिशो अन्तर्देशाद् इति पर्यायान् एकविंशतिं जुहुयात् संस्कारातीते च कर्मणि ॥
(अव्परिस्_37,13.1) अथ यत्रैतत् प्राणीतो ऽग्निर् उपशाम्यति ॥ यद्य् अन्तरिक्षे पुनर् मैत्व् इन्द्रियं पुनस् त्वादित्या इत्य् अग्निं प्रणीय प्रज्वाल्य ममाग्ने वर्च इति समिधम् आधाय शेषं कर्म समापयेत् ॥
(अव्परिस्_37,14.1) अथ यस्योपयामो ऽवपतेद् धस्तात् स यन् मे उपयाम इत्य् आददीत,
(अव्परिस्_37,14.2) यन् मे उपयामो ऽपतद् धस्ताद् य आयुषा परिष्कृतः । तम् अहं पुनर् आददे ॥
(अव्परिस्_37,14.3) पुनर् इन्द्रः पुनर् भगः पुनर् मे ब्रह्मणस्पतिः । ब्रह्म जीवितु दाद् इत्य् [आददीत]
(अव्परिस्_37,14.4) यन् मे छिद्रं यद् अस्मृतीति जुहुयात् ॥
(अव्परिस्_37,15.1) यन् मे स्रुवो ऽपतद् धस्ताद् इत्य् उपयामेन व्याख्यातम् ॥
मूल पाठ: Atharvavedapariśiṣṭas · Edition: George Melville Bolling and Julius von Negelein: "The Pariśiṣṭas of the Atharvaveda", Vol. 1, parts 1 and 2 (all published), Leipzig : Harrassowitz 1909-1910. · Data entry Yuri Ishii · GRETIL (Göttingen) · CC BY-NC-SA 4.0