भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेदपरिशिष्टस् · भाग 120

(परिशिष्ट_1. नक्षत्रकल्पः)
(अव्परिस्_0,0.0) श्रीगणेशाय नमः ॥ ओं नमो ऽथर्वात्मने वामदेवाय शिवाय ॥ श्रीसरस्वत्यै नमः ॥
(अव्परिस्_1,1.1) अथ नक्षत्रकल्पं व्याख्यास्यामः ॥
(अव्परिस्_1,1.2) कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघा(ः) फाल्गुनी फल्गुन्यौ हस्त(श्) चित्रा स्वाति(र्) विशाखे अनुराधा ज्येष्ठा मूल(म्) पूर्वाषाढा उत्तराषाडाभिजिच् छ्रवणः श्रविष्ठा शतभिषः पूर्वप्रोष्ठपदोत्तरप्रोष्ठपदौ रेवत्य् अश्वयुजौ भरण्यः ॥
(अव्परिस्_1,2.1) षट् कृत्तिका एका रोहिणी तिस्रो मृगशिर एकार्द्रा द्वे पुनर्वसू एकः पुष्यः षड् आश्लेषाः षण् मघाः चतस्रः फल्गुन्यः पञ्च हस्त एका चित्रा एका स्वातिर् द्वे विशाखे चतस्रो ऽनुराधा एका ज्येष्ठा सप्त मूलम् अष्टाव् अषाढा एको ऽभिजित् तिस्रः श्रवणः पञ्च श्रविष्ठा एका शतभिषा चतस्रः प्रोष्ठपदौ एका रेवती द्वे अश्वयुजौ तिस्रो भरण्यः ॥
(अव्परिस्_1,2.2) इति संख्यापरिमितं ब्रह्म ॥
(अव्परिस्_1,3.1) आग्निवेश्यः कृत्तिका रोहिण्य् आनुरोहिणी श्वेतायिनं मृगशिर आर्द्रा बार्हद्गवी वात्स्यायनौ पुनर्वसू भारद्वाजः पुष्यो जातूकर्ण्यो ऽश्लेषा वैयाघ्रपद्यो मघा(ः) पाराशर्यौ पूर्वे फाल्गुण्याव् औपशिव्या उत्तरे माण्डव्यायनो हस्तश् चित्रा गौतमी कौण्डिन्यायनः स्वातिः कापिले विशाखे मैत्रेय्य् अनुराधा कौशिकी ज्येष्ठा कौत्सं मूलं हारितयज्ञी पूर्वाषाढा काश्यप्य् उत्तरा शौनको ऽभिजिद् आत्रेयः श्रवणो गार्ग्यः श्रविष्ठा दाक्षायणी शतभिषग् वात्स्यायन्यौ पूर्वे प्रोष्ठपदे आगस्त्याव् उत्तरे शाङ्खायनी रेवती कात्यायन्(य्)आव् अश्वयुजौ मातृभ्यो भरण्यः वसिष्ठः कश्यप आदित्यश् चन्द्रमा ब्रह्माणो नक्षत्रेषु ॥
(अव्परिस्_1,4.1) कृत्तिका अग्निदेवत्या रोहिण्यां तु प्रजापतिः । सौम्यं मृगशिरं विद्यान् मरुतश् चात्र दैवतम् ॥
(अव्परिस्_1,4.2) रुद्रस्यार्द्रादितेः पुनर्वसू पुष्ये विद्याद् बृहस्पतिम् । अश्लेषा[[ः]] सर्पदैवत्या मघासु पितरः स्मृताः ॥
(अव्परिस्_1,4.3) भगस् [तु] पूर्वयोः फल्गुन्योर् अर्यमोत्तरयोर् अपि । हस्ते च सविता दैवं चित्रा तु त्वष्टृदैवता ॥
(अव्परिस्_1,4.4) स्वातौ तु दैवतं वायुर् इन्द्राग्नी तु विशाखयोः । अनुराधासु मित्रो वै ज्येष्ठायाम् इन्द्रमहादेवौ ॥
(अव्परिस्_1,4.5) अहिर् बुध्न्यश् च मूलस्य निरृतिश् चात्र दैवतम् । आपः पूर्वास्व् अषाढासु विश्वे देवास् तथोत्तरे ॥
(अव्परिस्_1,4.6) अभिजिद् ब्रह्मदेवत्यः श्रवणे विष्णुर् उच्यते । श्रविष्ठा वसुदेवत्या शतभिषग् वरुणेन्द्रयोः ॥
(अव्परिस्_1,4.7) अज एकपाद् दिशश् च आदित्यश् च तथोत्तरे । रेवती पूषदैवत्या अश्विन्याम् अश्विनौ स्मृतौ ॥
(अव्परिस्_1,4.8) भरण्यो यमदेवत्या देवताः संप्रकीर्तिताः ॥
(अव्परिस्_1,5.1) कृत्तिका मघा मूलं [[च तथा]] पूर्वाणि द्वन्द्विनाम् । एतानि पुरस्ताद्भागान्य् अहःपूर्वाणि जानीयात् ॥
(अव्परिस्_1,5.2) आर्द्रां शतभिषजं स्वातिम् आश्लेषा भरणीर् अपि । नक्तंभागानि ब्रुवते ज्येष्ठया सह ब्रह्माणम् ॥
(अव्परिस्_1,5.3) पुनर्वसू विशाखे च उत्तराणि च द्वन्द्विनाम् । रात्रीम् उभयतः पक्षौ भजन्ते या च रोहिणी ॥
(अव्परिस्_1,5.4) मृगशिरः पुष्यो हस्तश् चित्रा तु सहानुराधैः । श्रवणश् च श्रविष्ठाश् च रेवत्य् अश्वयुजौ नव ॥
(अव्परिस्_1,5.5) एतान्य् उपरिष्टाद्भागानि रात्रीपूर्वाणि जानीयात् । मुहूर्तो ऽभिजिद् उच्यते ॥
(अव्परिस्_1,5.6) पुरस्ताद्भागान्य् अनागतेनोपरिष्टाद्भागान्य् अतिक्रान्तेन उभयतोभागानि वर्तमाने[[न]] नक्तंभागानि समं चन्द्रेण वा ॥
(अव्परिस्_1,5.7) [[षड् अ]]नागतयोगीनि स्थितयोगीनि द्वादश । नवातिक्रान्तयोगीनि तथा योगः प्रदृश्यते ॥
(अव्परिस्_1,6.1) बहूनि जातानि ग्रहो हिनस्ति कृत्तिकासु तिष्ठन्न् उत दीर्घम् आयुः । अजावयो मूषिकाश् च व्यथन्ते विशो ब्रह्मणः सह म्लेच्छवांश् च ॥
(अव्परिस्_1,6.2) कलिङ्गानां व्यथते ननु राजा हिरण्यकारांश् च निहन्ति कृत्स्नम् । अयस्कारा लोहकारा आहिताग्निश् च कृत्स्नं नियन्ति सहाग्नितप्तैः ॥
(अव्परिस्_1,6.3) अयो लोहं रजतं जातरूपं हिरण्यमिश्रं [यच्] च पतन्ति सारम् । काशाः कुशा यच् च सुवर्णवर्णं यच् चाग्निवर्णं फलमूलपुष्पम् ॥
(अव्परिस्_1,6.4) [ये तत्र जाताः] सरांसि शुष्यन्त्य् अपयन्ति नद्यः प्रजा व्यथन्ते पशवो मृगाश् च ॥ प्रजापतेर् हृदये पीड्यमाने सर्वं जगद् व्यथते सप्रदेशम् ॥
(अव्परिस्_1,6.5) महाभौमो राजा मरिष्यतीति विद्याद् एकारिणां छवकाम् इन्वकासु । नक्षत्रभागे नियन्ति योजधानाः तथा हि नूनं त्रिणवेन सृष्टम् ॥
(अव्परिस्_1,6.6) तथा स निन्ये निधानदर्शनाय तत्र तेषां सहाक्षेमं तस्य विद्यात् । परित्य ये पूर्वपदान् बलेन उत्तिष्ठन्ति वीर्यवन्तो मृगानाम् ॥
(अव्परिस्_1,6.7) भगेन देव्य् उपयन्ति दिव्यम् आर्द्राभागे सहिनो भवन्ति । तत्र दैवान् मानुष्यांश् च पुनर्वस्वोर् नक्षत्र भागे निनियोज धानाः ॥
(अव्परिस्_1,6.8) तथा हि नूनं पुष्यो भाग एकधा ब्राह्मणानां तथा विदुर् नक्षत्रवेदितारः तथा हि नूनम् ॥
(अव्परिस्_1,6.9) शतद्रयः कैशिका दक्षिणार्धा आन्ध्राश् च योगहासया प्रवृद्धाः ॥ अश्लेषाभागे सहिनो भवन्ति तत्र ॥
(अव्परिस्_1,6.10) वेणून् पितॄंस् त्रिरुजाहुर् देवताम् । मघाभागे अष्टमे देवसृष्टम् । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(अव्परिस्_1,7.1) राज्ञां राकायाम् अथ मद्रकैकया मनोमापायनसहपरिसुन्नियोजसहान्तौ । तुन्यम् अथ सप्तमात्रं पूर्वभागे नवके फल्गुनीषु ॥
(अव्परिस्_1,7.2) मत्स्या मागधाश् चेदयश् च शाल्वा मत्स्या उभे फल्गुनीषु । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(अव्परिस्_1,7.3) पूर्वाचार्या इच्छमानाश् च सर्वे यकृत् क्लोम सह भागेन हस्ते । संयुज्यन्ते देवप्रसादनेन तत्र ॥
(अव्परिस्_1,7.4) ये पूर्वार्धे निजीहते चरन्तः शान्ता मृगा [जन्तु]पशवो अपगामिनस् ते । पशवो भवताश् च सर्वे चित्राया भागे सहिनो भवन्ति ॥ तत्रा-
(अव्परिस्_1,7.5) -च्युतकेशं वाहनं जयार्थं कुमार्यो अनड्वान् सहते अत्र ये । विज्ञायते देवसृष्टं पुराणं स्वातिं भजन्ते तृणवश् च सर्वे ॥
(अव्परिस्_1,7.6) वृक्षा वृक्षमूलम् इक्ष्वाकवश् च विशाखायां योजिताः सांपदेन । तस्मिन् गृहीते भयम् एव तेषां दैवोपसृष्टे तु बलेन कार्यम् ॥ ये तत्र जाताः ॥
(अव्परिस्_1,7.7) ये पश्चार्धे निजीहते चरन्त आसवो मृगा उत्तरार्धाश् चान्ध्राः । अनूराधासु मगधवङ्गमत्स्याः सर्वे समग्राः सहिनो भवन्ति तत्र ॥
(अव्परिस्_1,7.8) पञ्चैकधा जनपदा भवन्ति सयुजःकासौबलदादौष्यधाः । बाह्लीका ज्येष्ठा उपयन्ति भक्त्या तत्र ॥

(अव्परिस्_1,7.9) इक्ष्वाकूणां निर्मथ्या मूलम् आहुः । तथा विदुर् नक्षत्रवेदितारस् तथा हि नूनम्
(अव्परिस्_1,7.10) काम्बोजाः कालमृषाश् च क्रन्दा उच्छुष्माणः श्वानश् चावधूममर्कटाश् च पूर्वाषाढा उपयन्ति भक्त्या तत्र ॥
(अव्परिस्_1,8.1) विश्वे देवाः सह पञ्चालज्येष्ठा आपश् च याः पान्तु भूतं भविष्यत् । उत्तराषाढा उपयन्ति भक्त्या तत्र ॥
(अव्परिस्_1,8.2) नार्कविन्दा नार्व्विदाला नसृङ्गावौ नैषधा जन्तवो मतङ्गाः । अभिजितं हार्थविज्ञाय भेजिरे तत्र ॥
(अव्परिस्_1,8.3) पाञ्चालाः श्रवणम् उपैति भक्त्या सुन्वन्तश् चोभे विद्वान् भूता निनियोज देवः ॥ पूर्वकर्ता भूतभविष्यकालस् तथा नि नूनम्
(अव्परिस्_1,8.4) कुरून् श्रविष्ठास् तथा शिवास् तथाहुर् नक्षत्रभागे निनियोज धानाः ॥ तथा हि नूनम्
(अव्परिस्_1,8.5) अङ्गादयो जनपदा गुहाशया अप्सु च ये क्षिपन्ति शतभिषजि भेषजस्य भेजिरे तत्र ॥
(अव्परिस्_1,8.6) खड्गा हस्तिनो गवया वराहा अहीनरा कुन्तयश् चापि सर्वे । पूर्वौ प्रोष्ठपदा उपयन्ति भक्त्या तत्र ॥
(अव्परिस्_1,8.7) उशीनरा उत्तरयोः प्रोष्ठपदयोर् नक्षत्रभागे निनियोज धानाः । तथा हि नूनम्
(अव्परिस्_1,8.8) आवृताः शूद्राः सह कारवश् च दक्षिणपूर्वे यूकभिः सह रेवतीं हार्थविज्ञाय भेजिरे तत्र ॥
(अव्परिस्_1,8.9) अच्युतकेशं वाहनं च पदार्थम् उचावचजनपदा महान्तः । अश्वयुजौ हार्थविज्ञाय भेजिरे तत्र ॥
(अव्परिस्_1,8.10) उभये कीकटाः कौशलाश् च रहश् च[वो] ये च प्रसुप्ताश् चरन्ति भरणीः सहार्थविज्ञाय भेजिरे तत्र तेषां सहाक्षयम् अस्य विद्यात् ॥
(अव्परिस्_1,9.1) करिष्यमाणः संग्रामं प्रतिराजेन क्षत्रियः । ब्राह्मणं पूर्वम् अन्विच्छेद् विद्वांसं शास्त्रवित्तमम् ॥
(अव्परिस्_1,9.2) उत्पातान् यस् तु यान् विद्याद् दिव्यान्तरिक्षपार्थिवान् । तं वै लिप्सितुम् अर्हति राजा राष्ट्रे जिजीविषुः ॥
(अव्परिस्_1,9.3) ग्रहाणां यः स्थितिं विद्यान् नक्षत्राणां च सांपदम् । अनभ्यक्तम् उपासीत नक्षत्रसमतां च यत् ॥
(अव्परिस्_1,9.4) आयुधीयान् बिभ्रद् राजा कृत्तिकासु न रिष्यति । तद् धि तेजस्वि नक्षत्रं बहुलं दिवि रोचते ॥
(अव्परिस्_1,9.5) अथो हि कृत्तिका इति नक्षत्रं भानुमत्तमम् । आग्नेयम् अग्निनक्षत्रं राजा ह्य् अस्मिन् प्रवर्धते ॥
(अव्परिस्_1,9.6) रोहिण्या[ं] सार्धम् आसीत रज्जुपल्यानि कारयेत् । मृगशिरस्य् अश्वान् बिभृयात् सास्य सेना न रिष्यति ॥
(अव्परिस्_1,9.7) सौम्यं सोमस्य नक्षत्रं राजा ह्य् अस्मिन् प्रवर्धते । आर्द्रायां मृगयां यायाद् अमित्रेभ्यश् च हावयेत् ॥
(अव्परिस्_1,9.8) पुनर्वस्वाभियुञ्जीत पुष्येनैतां प्रयोजयेत् । इषीकां छेदयन् राजा अश्लेषासु न रिष्यति ॥
(अव्परिस्_1,9.9) मघाभिः सार्धम् आसीत न यायाद् उच्छ्रयं चन । फल्गु द्वाराणि कारयेत् परिचारांश् च वाहयेत् ॥
(अव्परिस्_1,9.10) तोरणानि च संहन्युः फलकानि च तक्षयेत् । ..... उत्तराभ्यां च हावयेत् ॥
(अव्परिस्_1,10.1) हस्तेन चित्राम् आकाङ्क्षेन् नक्षत्रस्य परिग्रहम् । अनेकदर्शी स्याच् चित्रायां पुरा स्वातेर् अभिप्लवात् ॥
(अव्परिस्_1,10.2) स्वातौ शिशून् नियोजयेज् जवार्थान् रथवाहिनः । अथास्मिन् [कन्याम्] उपवासयेत् क्षिप्रं सा लभते पतिम् ॥
(अव्परिस्_1,10.3) प्रदतीन् कारयन् राजा विशाखायां न रिष्यति । लेपयेत् प्रदती राजा अनूराधासु क्षत्रियः ॥
(अव्परिस्_1,10.4) ज्येष्ठायां हस्तिनं पश्येद् अभिषेकांश् च कारयेत् । ..... राजपुत्रांश् च योधयेत् ॥
(अव्परिस्_1,10.5) मूलेन परिखां खानयेत् पुरं चितेन योजयेत् । नैरृतं राजनक्षत्रं वध्यान् अनेन घातयेत् ॥
(अव्परिस्_1,10.6) त्रिरात्रं सार्धं दीक्षयित्वा आषाढासु व्रतं चरेत् । अभिजित्य् अभियुञ्जीत श्रवणेन चिकीर्षतु ॥
(अव्परिस्_1,10.7) श्रविष्थाभिः सृजेद् रसान् ॥
(अव्परिस्_1,10.8) शतभिषजि भिषक्कर्म भैषज्यं चात्र कारयेत् । प्राचीनप्रोष्ठपदयोर् यायाद् ...
(अव्परिस्_1,10.9) उत्तराभ्याम् अभियुञ्जीत गृहेषु रेवत्यां वसेत् । वि सेनां कारयेद् राजा अश्विन्यां भरणीषु च ॥
(अव्परिस्_1,11.1) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि । तुर्मिशं सुमतिम् इच्छमानो अहानि गीर्भिः सपर्यामि नाकम् ॥
(अव्परिस्_1,11.2) सुहवम् अग्ने कृत्तिका रोहिणी चस्तु भद्रं मृगशिरः शम् आर्द्रा । पुनर्वसू सूनृता चारु पुष्यो भानुर् आश्लेषा अयनं मघा मे ॥
(अव्परिस्_1,11.3) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश् चित्रा शिवा स्वाति सुखो मे अस्तु । राधे विशाखे सुहवा अनुराधा ज्येष्ठा सुनक्षत्रम् अरिष्टमूलम् ॥
(अव्परिस्_1,11.4) अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देह्य् उत्तरा आ वहन्तु । अभिजिन् मे रासतां पुण्यम् एव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥
(अव्परिस्_1,11.5) आ मे महच् छतभिसग् वरीय आमे द्वया प्रोष्ठपदा सुशर्म । आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥
(अव्परिस्_1,12.1) कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसू पुष्याश्लेषा मघाः पूर्वे फल्गुन्यौ तन् नवमम् अग्निर् दशमम् अहोरात्रे एदादशद्वादशे ॥
(अव्परिस्_1,12.2) एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धत इति वेद
(अव्परिस्_1,12.3) अथ यं कामयत्य् एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धीरन्न् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात्
(अव्परिस्_1,12.4) प्राञ्चम् इध्मम् उपसमाधाय [[परिसमुह्य पर्युक्ष्य]] परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाच् चित्राणि साकं दिवि रोचनानि स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥

(अव्परिस्_1,12.5) एवं चेद् अस्मै करोत्य् एतान्य् एवास्मै नक्षत्राणि श्रियं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यं समिन्धते ॥
(अव्परिस्_1,13.1) उत्तरे फल्गुन्यौ हस्त[[श्]] चित्रा स्वाति[[र्]] विशाखे अनूराधा ज्येष्ठा मूलं पूर्वाषाढा तन् नवमम् आदित्यो दशमं [नामरूप] पूर्वपक्षापरपक्षाव् एकादशद्वादशे
(अव्परिस्_1,13.2) एतान्य् एवास्मै = 1,12.2.
(अव्परिस्_1,13.3) अथ यम् = 1,12.3.
(अव्परिस्_1,13.4) प्राञ्चम् इध्मम् = 1,12.4.
(अव्परिस्_1,13.5) एवम् = 1,12.5.
(अव्परिस्_1,14.1) उत्तराषाढाभिजिच् छ्रवणः श्रविष्ठा शतभिषक् प्रोष्ठपदौ रेवत्य् अश्वयुजौ भरण्यस् तद् दशमम् ... पौर्णमास्यमावास्ये द्वादशत्रयोदशे
(अव्परिस्_1,14.2) एतान्य् एवास्मै = 1,12.2.
(अव्परिस्_1,14.3) अथ यम् = 1,12.3.
(अव्परिस्_1,14.4) प्राञ्चम् इध्मम् = 1,12.4.
(अव्परिस्_1,14.5) एवम् = 1,12.5.
(अव्परिस्_1,15.1) ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इतिहासपुराणं वाकोवाक्य[[म्]] इदावत्सरः परिवत्सरः संवत्सरो दशमं शीतोष्णे एकादशद्वादशे
(अव्परिस्_1,15.2) एतान्य् एवास्मै = 1,12.2.
(अव्परिस्_1,15.3) अथ यम् = 1,12.3.
(अव्परिस्_1,15.4) प्राञ्चम् इध्मम् = 1,12.4.
(अव्परिस्_1,15.5) एवम् = 1,12.5.
(अव्परिस्_1,16.1) प्राणो अपानो व्यानः समान उदानश् चक्षुः श्रोत्रं वाङ् मनस् तन् नवमम् ... दशमं नामरूपे एकादशद्वादशे
(अव्परिस्_1,16.2) एतान्य् एवास्मै = 1,12.2.
(अव्परिस्_1,16.3) अथ यम् = 1,12.3.
(अव्परिस्_1,16.4) प्राञ्चम् इध्मम् = 1,12.4.
(अव्परिस्_1,16.5) एवम् = 1,12.5.
(अव्परिस्_1,17.1) अजन्य् अजनिर् यशो अजनिर् वर्चो अजनिस् तेजो अजनिः सहो अजनिर् महो अजनिर् ब्रह्मा अजनिर् ब्राह्मणवर्चसम् अजनिः सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिर् भवतीति वेद
(अव्परिस्_1,17.2) अथ यं कामयेत सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिः स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
(अव्परिस्_1,17.3) प्राञ्चम् इध्मम् = 1,12.4.
(अव्परिस्_1,17.4) एवं चेद् अस्मै करोति सर्वेषां लोकानां सर्वेषां देवानां सर्वेषां वेदानां सर्वेषां भूतानां सर्वासां स्रवन्तीनां जनिताधिपतिर् अजनिर् भवति ॥
(अव्परिस्_1,18.1) विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वाह्ने अधि[[तिष्ठति वि]]तिष्ठत्य् अस्य पुण्या कीर्तिर् ऐनं पुण्या कीर्तिर् गच्छत्य् उपैनं पुण्या कीर्तिस् तिष्ठति नास्मात् पुण्या कीर्तिर् अपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद
(अव्परिस्_1,18.2) अथ यं कामयेत वितिष्ठेद् अस्य पुण्या कीर्तिर् [[ऐनं पुण्या कीर्तिर्]] गच्छेद् उपैनं पुण्या कीर्तिस् तिष्ठेन् नास्मात् पुण्या कीर्तिर् अपक्रामेत् कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
(अव्परिस्_1,18.3) प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
(अव्परिस्_1,18.4) एवं चेद् अस्मै करो[[ति वितिष्ठ]]त्य् अस्य पुण्या कीर्तिर् [[ऐनं पुण्या कीर्तिर्]] गच्छत्य् उपैनं पुण्या कीर्तिस् तिष्ठति नास्मात् पुण्या कीर्तिर् अपक्रामति कीर्तिमान् प्रजया पशुभिः श्रिया गृहैर् भवति ॥
(अव्परिस्_1,19.1) वर्चो वै नामैतन् नक्षत्रं यन् मध्याह्नैनं वर्चो गच्छत्य् उपैनं वर्चस् तिष्ठति नास्माद् वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद
(अव्परिस्_1,19.2) अथ यं कामयेतैनं वर्चो गच्छेद् उपैनं वर्चो तिष्ठेन् नास्माद् वर्चो अपक्रामेद् वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
(अव्परिस्_1,19.3) प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् वर्चो असि वर्चो मयि धेहि स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
(अव्परिस्_1,19.4) एवं चेद् अस्मै करोत्य् ऐनं वर्चो गच्छत्य् उपैनं वर्चस् तिष्ठति नास्माद् वर्चो अपक्रामति वर्चस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवति ॥
(अव्परिस्_1,20.1) तेजो वै नामैतन् नक्षत्रं यद् अपराह्णैनं तेजो गच्छत्य् उपैनं तेजस् तिष्ठति नास्मात् तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवतीति वेद
(अव्परिस्_1,20.2) अथ यं कामयेतैनं तेजो गच्छेद् उपैनं तेजस् तिष्ठेन् नास्मात् तेजो अपक्रामेत् तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन स्याद् इति तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
(अव्परिस्_1,20.3) प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् तेजो असि तेजो मयि धेहि स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
(अव्परिस्_1,20.4) एवं चेद् अस्मै करोत्य् ऐनं तेजो गच्छत्य् उपैनं तेजस् तिष्ठति नास्मात् तेजो अपक्रामति तेजस्वी प्रजया पशुभिः श्रिया गृहैर् धनेन भवति ॥
(अव्परिस्_1,21.1) विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वाह्ने ॥
(अव्परिस्_1,21.2) वर्चो वै नामैतन् नक्षत्रं यन् मध्याह्ने ॥
(अव्परिस्_1,21.3) तेजो वै नामैतन् नक्षत्रं यद् अपराह्णे ॥

(अव्परिस्_1,21.4) अकाले त्व् एवाप्रयुक्तानि भवन्ति ॥
(अव्परिस्_1,22.1) विष्ठितश्रवा वै नामैतन् नक्षत्रं यत् पूर्वरात्रे ॥
(अव्परिस्_1,22.2) वर्चो वै नामैतन् नक्षत्रं यद् मध्यरात्रे ॥
(अव्परिस्_1,22.3) तेजो वै नामैतन् नक्षत्रं यद् अपररात्रे ॥
(अव्परिस्_1,22.4) स्वेस्वे काले [[प्रयुक्तानि]] भवन्ति ॥
(अव्परिस्_1,22.5) [[यो वै रात्रियान्व् एवाप्रयुक्तानि भवन्ति]] ॥
(अव्परिस्_1,23.1) यो वै अह्नः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
(अव्परिस्_1,23.2) सूर्यो वाह्नः पुण्याहं तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
(अव्परिस्_1,23.3) प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् विषासहिं सहमानं स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
(अव्परिस्_1,23.4) एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
(अव्परिस्_1,24.1) यो वै रात्र्याः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
(अव्परिस्_1,24.2) चन्द्रो वै रात्र्याः पुण्याहं तस्माद् एतस्मिन् नक्षत्र एवंविद्वान् कुर्यात् ॥
(अव्परिस्_1,24.3) प्राञ्चम् इध्मम् उपसमाधाय परिस्तीर्य बर्ही रसान् बर्हिष्य् आधायान्वालभ्याथ जुहुयाद् यद् राजानं स्वाहेत्य् अग्नौ हुत्वा रसेषु संपातान् आनीय संस्थाप्य होमांस् तत एनं प्राशयति रसान् ॥
(अव्परिस्_1,24.4) एवं चेद् अस्मै करोति पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
(अव्परिस्_1,25.1) यो वा अहोरत्रयोः पुण्याहं वेद पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
(अव्परिस्_1,25.2) ब्राह्मणो वा अहोरात्रयोः पुण्याहम्
(अव्परिस्_1,25.3) तं पृच्छेत् केनाजितेति
(अव्परिस्_1,25.4) स चेद् ब्रूयात् कर्तव्यम् इति तथा कुर्यात्
(अव्परिस्_1,25.5) पुण्याही भवति पुण्याहम् अस्मै भवति पुण्याह एव कुरुते ॥
(अव्परिस्_1,26.1) यानि नक्षत्राणि दिव्य् अन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु । प्रकल्पयंश् चन्द्रमा यान्य् एति सर्वाणि ममैतानि शिवानि सन्तु ॥
(अव्परिस्_1,26.2) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे । योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये योगं च नमो ऽहोरात्राभ्याम् अस्तु ॥
(अव्परिस्_1,26.3) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहवम् अग्ने स्वस्त्य् अमर्त्यं गत्वा पुनर् आयाभिनन्दन् ॥
(अव्परिस्_1,26.4) अनुहवं परिहवं परिवादं परिक्षवम् । सर्वैर् मे रिक्तकुम्भान् परा तान्त् सवितः सुव ॥
(अव्परिस्_1,26.5) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् । शिवा ते पात नासिकां पुण्यगश् चाभिमेहताम् ॥
(अव्परिस्_1,26.6) इमा या ब्रह्मणस्पते विषूचीर् वात ईरते । सध्रीचीर् इन्द्र ताः कृत्वा मह्यं शिवतमास् कृधि ॥
(अव्परिस्_1,26.7) स्वस्ति नो अस्त्व् अभयं नो अस्तु नमो ऽहोरात्राभ्याम् अस्तु ॥
(अव्परिस्_1,27.1) दध्योदनं भुक्त्वा कृत्तिकाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति ॥
(अव्परिस्_1,27.2) आर्षभेन मांसेन रोहिण्यां मृगमांसैर् मृगशिरसि रुधिरम् आर्द्रायां गृहपतिभक्तं पुनर्वस्वोः घृतपायसं पुष्ये सर्पिर् मांसैर् अश्लेषासु
(अव्परिस्_1,27.3) एतानि खलु प्राग्द्वाराणि नक्षत्राणि भवन्ति ॥
(अव्परिस्_1,27.4) स यत्रैव प्राचीं दिशम् अभ्युत्थितः शस्त्रहस्तेन वा कण्ठहस्तेन वा वध्यघातेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति ॥
(अव्परिस्_1,28.1) तैलेन कृशरं भुक्त्वा मघाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छत्य्
(अव्परिस्_1,28.2) आविकैर् मांसैर् भुक्त्वा पूर्वयोः फल्गुन्योर् अभ्युदियाद् रसैर् उत्तरयोः प्रैयङ्गवं हस्ते चित्रं भक्तं भुक्त्वा चित्रयाभ्युदियात् यानि ज्येष्ठानि तेषां भुक्त्वा स्वाताव् अभ्युदियाद् अपूपान् विशाखयोर्
(अव्परिस्_1,28.3) एतानि खलु दक्षिणद्वाराणि नक्षत्राणि भवन्ति
(अव्परिस्_1,28.4) स यत्रैव दक्षिणां दिशम् अभ्युत्थितः शयनहस्तेन वास्तरणहस्तेन वासन्दीहस्तेन वा नीवीहस्तेन वा जानुहस्तेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति
(अव्परिस्_1,29.1) खलकुलैर् भुक्त्वानुराधाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति
(अव्परिस्_1,29.2) ज्येष्ठं भक्तं भुक्त्वा ज्येष्ठयाभ्युदियान् मूलैर् भुक्त्वा मूलेनाभ्युदियाद् [[.... भुक्त्वा पूर्वाभिर् अषाढाभिर् अभ्युदियाद्]] रसैर् उत्तराभिर् नवनीतेन पायसं भुक्त्वाभिजित्य् अभ्युदियाद् [[.... भुक्त्वा श्रवणेनाभ्युदियाद्]]
(अव्परिस्_1,29.3) एतानि खलु पश्चिमद्वाराणि नक्षत्राणि भवन्ति
(अव्परिस्_1,29.4) स यत्रैव प्रतीचीं दिशम् अभ्युत्थितः पाशहस्तेन वा जालहस्तेन वा मत्स्यबन्धेन वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति
(अव्परिस्_1,30.1) विदलसूपेन भुक्त्वा श्रविष्ठाभिर् अभ्युदियात् सिद्धार्थो हैव पुनर् आगच्छति
(अव्परिस्_1,30.2) शाकं शतभिषजि गोधा गव्यैर् मांसैर् भुक्त्वा पूर्वयोः प्रोष्ठपदयोर् अभ्युदियाद् रसैर् उत्तरयोर् गृहिणीभक्तं भुक्त्वा रेवत्याभ्युदियाद् अक्षतमाषैर् भुक्त्वाश्विन्योर् अभ्युदियात् तिलतण्डुलान् भक्षयित्वा भरणीभिर् अभ्युदियाद्

(अव्परिस्_1,30.3) एतानि खलूदग्द्वाराणि नक्षत्राणि भवन्ति
(अव्परिस्_1,30.4) स यत्रैवोदीचीं दिशम् अभ्युत्थितः पानहस्तेन वा किण्वहस्तेन वाक्षीवेण वा समेयान् निवर्तेतार्वाक् खल्व् एतत् क्रोशाद् ऊर्ध्वं क्रोशाद् अव्याघातुकम् अर्थस्य भवति
(अव्परिस्_1,31.1) अथ राज्ञो ऽभिप्रयाणस्यानयन्ति प्रदक्षिणमुखं श्वेतम् अजं ब्राह्मणं शुक्लवाससम् ॥
(अव्परिस्_1,31.2) सुप्रतिष्ठितम् अविभ्रान्तं वृषभं शृङ्गिनं हरिम् । स चेन् नदति संसृष्टस् ताम् आहुः सिद्धिम् उत्तमाम् ॥
(अव्परिस्_1,31.3) गजं ध्वजं रथं छत्त्रं वर्म योधान् अलंकृतान् । भूषणानि च सर्वाणि प्रशस्तान्य् आयुधानि च ॥
(अव्परिस्_1,31.4) वादित्राणि च सर्वाणि पताका विविधास् तथा । शुक्लाः सुमनसो लाजा अक्षता गौरसर्षपाः ॥
(अव्परिस्_1,31.5) फलानि पूर्णपात्राणि धूपगन्धान् जलं तिलाः । अर्चयित्वा देवताः सर्वा ब्राह्मणान् प्रतिपूज्य च ॥
(अव्परिस्_1,31.6) पुरोहितं पुरस्कृत्य सुहृदो मन्त्रिणस् तथा । एवं प्रयातो लभते विजयं नात्र संशयः ॥
(अव्परिस्_1,31.7) कल्याणनामधेयं च गजम् अव्यङ्गदर्शनम् । कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् ॥
(अव्परिस्_1,31.8) यदि चेद् अधिगो जाल्मि सूर्याचन्द्रमसोर् गृहे । अश्विना रासभेन्द्रेण यानं कुर्यात् प्रदक्षिणम् ॥
(अव्परिस्_1,32.1) प्रादक्षिण्यम् अग्नेर् गवां ब्राह्मणानां राज्ञो रथस्य [नरवाहनस्य शकटस्य] चतुर्युक्तस्य षड्युक्ताष्टयुक्तस्य च
(अव्परिस्_1,32.2) ह्रदस्य दक्षिणावर्तस्य कुमारस्याभ्युत्थितस्य च । मनुष्यपूर्णपिटकस्य पृथिव्या उत्थितस्य च ॥ प्रबद्धस्यैकपशोः
(अव्परिस्_1,32.3) उलूची कालशकुनिः क्षिप्रश्येनो ऽथ वर्तिका । एते द्विजाः प्रादक्षिण्याश् चाषश् चात्र प्रदृश्यते ॥
(अव्परिस्_1,32.4) क्रौञ्चनकुलप्रियवृक्षचैत्यानां नित्यं वयसाम् ॥
(अव्परिस्_1,32.5) तिर्यग् न्यग् वाधिपतितं विपरीतं हीनाङ्गाङ्गातिरिक्तं विकृतनग्नमुण्डबण्डश् चित्रश्यामश्यावदन्तकुनखिजटिल[[ः]] काषायाविकयोश् [चर्मा]ब्राह्मणयोर्
(अव्परिस्_1,32.6) एतेषां किं चिद् दृष्ट्वा न गच्छेद्
(अव्परिस्_1,32.7) यदि गच्छेद् अर्थिनो यन्ति चेद् अर्थं गच्छान् इद् ददुषो रातिम् । ववृज्युस् तृष्यतः कामम् इत्य् एतां जपेत् ॥
(अव्परिस्_1,32.8) नि षज्यतो दस्यूंश् छादयन्न् इन्द्रेति वा
(अव्परिस्_1,32.9) स्तुहि श्रुतम् इति वा
(अव्परिस्_1,32.10) देवीं वाचम् अजनयन्त देवास् तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषम् ऊर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु इति गर्दभमुखेन प्रतिनदति प्रतिलोमप्रतिकृत्यास्य
(अव्परिस्_1,32.11) सर्वाश् च पापिका वाचो नेष्टा<ः> । कुचेलदर्शनं च । अनर्था हिंसार्थम् । तद्दर्शनाय । पापं वा जिहीर्षतां सिद्धिः ॥
(अव्परिस्_1,33.1) अथ रोगपरिमाणान्य्
(अव्परिस्_1,33.2) उत्तरास्व् अषाढासूत्तरयोः प्रोष्ठपदयोर् मासम् ।
(अव्परिस्_1,33.3) रोहिण्यां विंशतिरात्रम् ।
(अव्परिस्_1,33.4) पुनर्वसोर् ऊनविंशतिरात्रं पूर्वाणि द्वन्द्विनाम् ।
(अव्परिस्_1,33.5) मृगशिरसि षोडशरात्रम् अभिजिति श्रवणे च
(अव्परिस्_1,33.6) आर्द्रायां पञ्चदशरात्रम् अनूराधाश्रविष्ठाभरणीषु च ।
(अव्परिस्_1,33.7) पुष्ये द्वादशरात्रं हस्ते स्वातौ च ।
(अव्परिस्_1,33.8) शतभिषजि नवरात्रं मासे वाकालं कुरुते ।
(अव्परिस्_1,33.9) ज्येष्ठायां मूले चाष्टरात्रम् ।
(अव्परिस्_1,33.10) रेवत्यां सप्तरात्रम् ।
(अव्परिस्_1,33.11) कृत्तिकाश्लेषा मघा उत्तरे फाल्गुन्यौ चित्रा विशाखे अश्वयुजौ च सप्तस्व् एतेषु दशरात्रम् ॥
(अव्परिस्_1,34.1) अथ बलयः
(अव्परिस्_1,34.2) शुक्ल उपशुरसृपेशुक्लोसप्तमून्मोदनः । अष्टमः पललोदनो धानाः सक्तवो ऽथ शष्कुली ॥
(अव्परिस्_1,34.3) चित्रश् च कृकवाकुश् च शुक्लः कम्बूकपिण्डकः । सर्वबीजानि मूलानि उदपात्रं च पायसौ ॥
(अव्परिस्_1,34.4) पशु घृतं कशीका च आर्द्रमांसानि पायसौ । पथ्यायां माषसक्तवः पायसो ऽथ तिलोदनः ॥
(अव्परिस्_1,34.5) सर्वत्र गन्धपुष्पाणि लाजानुलेपिकास् तथा । अनुद्वारं च नक्षत्रं दैवतं चात्र योजयेत् ॥
(अव्परिस्_1,34.6) दीपाश् च मण्डले दीप्ताः शुचिश् चापि बलिं हरेत् । यो ऽस्मिन् यस् त्वा मातुर् इति विपरिहरेत् ॥
(अव्परिस्_1,35.1) सश्वेतसक्तु कंसश् च प्राचीनार्थस्य मङ्गलम् । स्रवं च मांसपेशी च दक्षिणार्थस्य मङ्गलम् ॥
(अव्परिस्_1,35.2) कुमारी दधिकंसश् च प्रत्यगर्थस्य मङ्गलम् । अनड्वान् ब्रह्मचारी च उदगर्थस्य मङ्गलम् ॥

(अव्परिस्_1,35.3) कुमारीं दधिपात्रेण गृहीतेन स्वलंकृताम् । प्रदक्षिणां तु तां कुर्याद् ध्रुवं स्यात् सिद्धिर् इष्यते ॥
(अव्परिस्_1,36.1) सेनां चेद् अभ्युत्थितां मन्द्रः प्रतिगर्जेद् राजा वामात्यो वा मरिष्यतीति विद्यात् तत्र वारुणीं जपेत् । उद् उत्तमं वरुण पाशम् इति ॥
(अव्परिस्_1,36.2) सेनां चेद् अद्भ्युत्थितां धूमो ऽनुगच्छेद् विजेष्यतीति विद्यात् । त्वेषस् ते धूम इत्य् अनुमन्त्रयेत् ॥
(अव्परिस्_1,36.3) सेनां चेद् अभ्युत्थितां वातो ऽनुवायाद् विजेष्यतीति विद्याद् वात आ वत्व् इत्य् अनुमन्त्रयेत् ॥
(अव्परिस्_1,36.4) सेनां चेद् अभ्युत्थितां मृगो व्यभिमृशेद् अर्थं तस्या विनश्यतीति विद्यात् । मृगो न भीमः कुचरो गिरिष्ठा इत्य् अनुमन्त्रयेत् ॥
(अव्परिस्_1,36.5) सेनां चेद् अभ्युत्थितां पक्षिणो व्यतिपतेयुर् मांसोदनं च तत्र दद्यात् । अलिक्लवा जाष्कमदा गृध्रा इत्य् अनुमन्त्रयेत् ॥
(अव्परिस्_1,36.6) सेनां चेद् अभ्युत्थितां कपिञ्जलः प्रतिवदेद् भद्रं वदेति तिस्रः कापिञ्जलानि स्तवनानि वदन्ति ॥
(अव्परिस्_1,36.7) यो अभ्य् उ बभ्रुणायसि स्वपन्तम् अत्सि पुरुषं शयानम् अगस्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्य् अस्मान् वरुणो दधद् ॥ इत्य् अभ्यवकाशे संविशति । अभ्यवकाशे संविशति ॥
(अव्परिस्_1,37.1) अग्निर् देवो यज्वनः कृष्णवर्त्मा वैश्वानरो जातवेदा रसाग्रभुक् । स नक्षत्राणां प्रथमेन पावकः कृत्तिकाभिर् ज्वलनो नो ऽनुशाम्यताम् ॥
(अव्परिस्_1,37.2) प्रजापतिर् यः ससृजे प्रजा इमा देवान्त् स सृष्ट्वा विनियोज्[[य्]]अ कर्मसु । स सर्वभुक् सर्वयोगेषु रोहिणी शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
(अव्परिस्_1,37.3) विद्याविदो ये अभिशोचमानवा अर्चन्ति शक्रं सह देवतागणैः । स नो योगे मृगशिरः शिवाः क्रियाः श्रेष्ठराजः कृणुतां कर्मसिद्धये ॥
(अव्परिस्_1,37.4) देवं भवं पशुपतिं हरं कृशं महादेवं शर्वम् उग्रं शिखण्डिनम् । सहस्राक्षम् अशनिं यं गृणन्ति स नो रुद्रः परिपातु न आर्द्रया ॥
(अव्परिस्_1,37.5) ....या विप्रैः कविभिर् नमस्यते दाक्षायणी देवपुरादिभिर् नृभिर् । सा नः स्तुता प्रथमजा पुनर्वसुः शिवाः क्रियाः कृणुतां कर्मसिद्धये ॥
(अव्परिस्_1,38.1) यस्य देवा ब्रह्मचर्येण कर्मणा महासुरं तिग्मतयाभिचक्रिरे । तं सुबुधं देवगुरुं बृहस्पतिम् अर्चामि पुस्येण सहाभिपातु मा ॥
(अव्परिस्_1,38.2) या न[[ः]] स्तुतः परिहिणोमि मेधया तप्यमानम् ऋषिभिः कामशोचिभिः । जरत्कारसूनोर् ऋषिभिर् मनीषिभिस् ता अश्लेषा अभिरक्षन्तु नोरगैः ॥
(अव्परिस्_1,38.3) ये देवत्वं पुण्यकृतो ऽभिचक्रिरे ये चापरे ये च परे महर्षयः । अर्चामि सूनुर् यमराजगान् पितॄंश् छिवाः क्रियाः कृणुतां च नो मघा ॥
(अव्परिस्_1,38.4) यो योजयन् कर्मणा चर्षणीधृतो भूमिं चेति भग[[ः प्रजाः]] प्रसादयन् । तद्देवत्ये शिवतमाम् अलंकृते फल्गुन्योर् ईडे भजनं च पूर्वयोः ॥
(अव्परिस्_1,38.5) स्तुतं पूर्वैर् अर्यमणं मनीषिभिः स्तौमि देवं जगति वाचम् एरयन् । तद्देवत्ये शिवतमाम् अलंकृते फल्गुन्यौ न उत्तरे देवतातये ॥
(अव्परिस्_1,39.1) श्[य्]आवैर् युक्तः शितिपाद् धिरण्ययो यस्य रथः पथिभिर् वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग् घिरण्यपाणिः सविता [नो] ऽभिरक्षतु ॥
(अव्परिस्_1,39.2) त्वष्ट्रे नमः क्षितिसृजे मनीषिणे भूतगोप्त्रे परमकर्मकारिणे । सा न[[ः]] स्तुता कृणुतां कर्मसिद्धये चित्रां देवी सह योगेन रूपभृत् ॥
(अव्परिस्_1,39.3) यः प्राणिनां जीवयन् खानि सेवते शिवो भूत्वा मातरिश्वा रसाग्रभुक् । ध्वजो ऽन्तरिक्षस्य स सर्वभूतभृद् वायुर् देवः स्वातिना नो ऽभिरक्षतु ॥
(अव्परिस्_1,39.4) याव् ईडिताव् आत्मविद्भिर् मणीषिभिः सहितौ [यौ] त्रीणि सवनानि सामगौ । इन्द्राग्नी वरदौ नमस्कृतौ विशाखयोः कुर्वताम् आयुषे श्रीः ॥
(अव्परिस्_1,39.5) विश्वे देवा यम् ऋषिम् आहुर् मित्रं भरद्वाजम् ऋषितः प्रसामवित् । तं जगत्या गाथया स्तौम्य् उग्रैः स माम् अनूराधाभिर् [भृतकण्वो] ऽभिरक्षतु ॥
(अव्परिस्_1,40.1) शतक्रतुर् यो निजघान शम्बरं वृत्रं च हत्वा सरितः प्रसर्जत[ः] । स नः स्तुतः प्रीतमनाः पुरंदरो मरुत्सखा ज्येष्ठया नो ऽभिरक्षतु ॥
(अव्परिस्_1,40.2) या धारयत्य् ओजसातिदेवपदं माता पृथिवी च सा सर्वभूतभृत् । सा न[[ः]] स्तुता कृणुतां कर्मसिद्धये मूलं देवी निरृतिः सर्वकर्मसु ॥
(अव्परिस्_1,40.3) पर्जन्यसृष्टास् तिसृणीभिर् आवृतं यास् तर्पयन्त्य् अभितः प्रवृद्धये । ता[[ः]] स्तौम्य् आपो वारुणीः ... पूर्वा आषाढा स्वधयास्तु योजने ॥
(अव्परिस्_1,40.4) यास् त्रिंशतं त्रींश् च मदन्ति देवा देवनाम्नो निर्मिता[[ं]]श् च भूयसः । ता नो ऽषाढा उत्तरा वसो विश्वे [[शिवाः]] क्रियाः कृणुतां सुरमताः ॥
(अव्परिस्_1,40.5) यः सर्वज्ञः सर्वकृत् सर्वभूतभृद् यस्माद् अन्यन् न परं किं चनास्ति । अनिर्मितः सत्यजितः पुरुष्टुतः स नो ब्रह्माभिजिता नो ऽभिरक्षतु ॥
(अव्परिस्_1,41.1) स्थानाच्युते स्थानम् इन्द्राय पातवे देवेभ्यश् च य ईरयंस् [त्रिर्] विचक्रमे । तं स्विद् धि स्वर्गं नाकपृष्ठं विश्वं विष्णुर् देवः श्रवणेनाभिरक्षतु ॥
(अव्परिस्_1,41.2) अष्टौ शतानि श्वेतकेतूनां यानि त्वं च स त्वं निजघान भूयसः । अनादेशेनोभय[त]श् च वीडिताः श्रविष्ठाभिर् नो ऽभिरक्षन्तु वाजिनः ॥
(अव्परिस्_1,41.3) वाजा देवी देवमृणानिकाकुभाव् उभाव् आजस्य नतकर्मणा शिवा । तव व्राजं स्तौमसि देवभोजनौ प्रत्यग्भिषक् शतभिषक् शिवौ नः ॥
(अव्परिस्_1,41.4) शुनासीरौ नः प्रमुमूतु जिह्मसौ तौतौ पितृभ्यो ददतु[[ः]] स्तनौ शुभौ । तौ पूर्वजौ कृणुताम् एकपाद् अजः प्रतिष्ठानौ सर्वकामाभयाय च ॥
(अव्परिस्_1,40.5) सर्वार्थाय कृणोमि कर्मसिद्धये गविष्टुतायानेककारिणे नमः । सो ऽहिर् बुध्न्यः कृणुताम् उत्तरौ शिवौ प्रतिष्ठानौ सर्वकामाभयाय च ॥
(अव्परिस्_1,41.6) यं महाहेमम् ऋषितः प्रसामविद् भरद्वाजश् चन्द्रमसौ दिवाकरम् । सजुष्टानाम् अश्वयुजौ भयाय च स नः पूषा कृणुतां रेवतीं शिवाम् ॥
(अव्परिस्_1,41.7) जीर्णं सन्तं यौ युवानं हि चक्रतुर् ऋषिं धिया च्यवनं सोमपौ कृतौ । तौ नश् चित्तिभिर् भिषजाम् अस्य सत्करौ .... प्रजाम् अश्विन्याम् अश्विनौ शिवौ ॥
(अव्परिस्_1,41.8) यस्य श्यामशबलौ रक्षतः स्वधा दुष्कृत् सुकृद् विविधा चर्षणीधृतौ । तौ सवित्र्या च सवितुर् धर्मचारिभिर् यमो राजा भरणीभिर् नो ऽभिरक्षतु ॥
(अव्परिस्_1,42.1) अथ नक्षत्रस्नानानां विधिं वक्ष्यामि सांपदम् । ग्रहदैवतपूजां च येषु यत्र यथाविधि ॥
(अव्परिस्_1,42.2) नक्षत्रयोगकालज्ञः कृत्वा तन्त्रं यथाविधि । यजेद् ग्रहान् हविष्येण यथोक्तेन च देवताः ॥
(अव्परिस्_1,42.3) प्रशस्तलक्षणं कुम्भं ससंभारजलं बुधः । संपाताभिहितं कृत्वा मन्त्रैर् विधिम् अनुस्मरन् ॥
(अव्परिस्_1,42.4) सावित्र्या शान्तिसूक्तैश् च महाव्याहृतिभिस् तथा । अपां स्तोत्रैः पवित्रैश् च नक्षत्रस्तुतिभिस् तथा ॥

(अव्परिस्_1,42.5) नक्षत्रदैवतान् मन्त्रान् प्रतिनक्षत्रम् आवपेत् । काम्यांश् चैवावपेन् मन्त्रान् कर्मलिङ्गविधानवित् ॥
(अव्परिस्_1,42.6) संपात्याथाभिमन्त्र्य वा नक्षत्रस्नानकोविदः । स्नापयेद् अर्थिनं वाग्भिः पुण्याभिर् अभिमन्त्रितम् ॥
(अव्परिस्_1,42.7) एष एव विधिर् दृष्टः सदस्येभ्यश् च दक्षिणा । पूर्वम् आप्याययेद् देहं पश्चाद् दद्यात् तु दक्षिणाम् ॥
(अव्परिस्_1,42.8) अनेन विधिना स्नात्वा दद्याच् चैवात्र दक्षिणाम् । प्राप्नोत्य् अनुनयं पुंसः स वेदफलम् अश्नुते ॥ [प्राप्नोत्य्: प्राप्णोत्य् एद्. (मिस्प्रिन्त्)]
(अव्परिस्_1,42.9) आत्मानं निर्मलीकृत्य देवान् इष्ट्वा ग्रहांस् तथा । विद्वद्भ्यो दक्षिणा देया द्विजान् अन्नेन तर्पयेत् ॥
(अव्परिस्_1,43.1) कृत्तिकाभिः शिरीषस्य अश्वत्थस्य वटस्य च । स्नापयेत् पत्त्रभङ्गेन य इच्छेद् राजपूजितम् ॥
(अव्परिस्_1,43.2) रोहिण्यां स्नापयेद् वैश्यं सर्वबीजैर् अलंकृतम् । अक्षतान् अन्तरं कृत्वा तथा सौभाग्यम् अर्हति ॥
(अव्परिस्_1,43.3) यदा मृगशिरो युज्येत् तदा स्नानं विधीयते । मुक्तामणिसुवर्णेन धनार्थी तेन स्नापयेत् ॥
(अव्परिस्_1,43.4) श्रीवेष्टकसर्जरसतगरोशीरपत्त्रकैः । आर्द्रायां वणिजः स्नाताः सुलाभांस् तु लभन्ति ते ॥
(अव्परिस्_1,43.5) पुनर्वसुभ्यां गोमार्गाद् आहरेद् अग्रमृत्तिकाम् । गोपीठे स्नापयेद् गो ऽर्थी क्षिप्रं गोमान् भविष्यति ॥
(अव्परिस्_1,43.6) रक्तशालिसहस्रेण तावद्भिर् गौरसर्षपैः । सहस्रवीर्यानन्त्या च मदयन्तीप्रियङ्गुभिः । त्रीन् पुष्यान् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
(अव्परिस्_1,43.7) अश्लेषास्व् आहारयेद् उभयतः कूलमृत्तिकाः । [अश्व्]आरोहं स्नापयेत् तेन क्षिप्रवाही भविष्यति ॥
(अव्परिस्_1,43.8) मघाभिस् तु तिलैः स्नायाद् उत्पलैः कमलैस् तथा । तस्मिंस् तु मासे सा कन्या क्षिप्रं च लभते पतिम् ॥
(अव्परिस्_1,43.9) अथ पूर्वयोः फल्गुन्योः शतपुष्पा प्रियङ्गवः । मध्व् एव च तृतीयं स्यात् सौभाग्यं भोगवर्धनम् ॥
(अव्परिस्_1,43.10) अथोत्तरयोः फल्गुन्योर् अक्षता गौरसर्षपाः । एतत् स्नानं प्रयुञ्जीत प्रजास्थापनम् उत्तमम् ॥
(अव्परिस्_1,44.1) हस्तेन सर्वकारूणां चौराणां चापि नित्यशः । नदीगिरितटाकेषु मृत्तिकास्नानम् उत्तमम् ॥
(अव्परिस्_1,44.2) चित्रायां चित्रमाल्यैस् तु सर्वगन्धैर् अलंकृतम् । योषार्थी स्नापयेत् तेन क्षिप्रं स लभते प्रियाम् ॥
(अव्परिस्_1,44.3) स्वातिना तु गन्धैः स्नायाद् उत्पलैः कुमुदैस् तथा । तस्मिंस् तु मासे सा कन्या क्षिप्रं निर्व्यूह्यते ततः ॥
(अव्परिस्_1,44.4) खड्गस्य च विषाणेन गजस्य ऋषभस्य वा । विशाखाभ्याम् अभिषिक्तो [राजा] पृथिवीम् अभिशासयेत् ॥
(अव्परिस्_1,44.5) अनूराधास्व् आहारयेद् वल्मीकशतमृत्तिकाः । कर्षणं स्नापयेत् तेन धनधान्येन वर्धते ॥
(अव्परिस्_1,44.6) ज्येष्ठायां ज्यैष्ठ्यकामं तु अभिषिञ्चेत् पुरोहितम् । रसैश् च मिश्रधान्यैश् चाभिषिक्तः प्राशयेद् रसान् ॥
(अव्परिस्_1,44.7) मूलेन सर्वतोभद्रम् उपविष्टा वरवर्णिनी । शमीपत्त्रसहस्रेण स्नानात् पुत्रं प्रसूयते ॥
(अव्परिस्_1,44.8) अथ पूर्वास्व् अषाढासु या स्नायाद् अहते पटे । जातरूपेण कल्याणी भोगं भुङ्क्ते पतिप्रिया ॥
(अव्परिस्_1,44.9) अथोत्तरास्व् अषाढासु यः स्नायाच् चेद् उपोषितः । महाह्रद उशीरेण दासीदासेन वर्धते ॥
(अव्परिस्_1,44.10) वचयोत्पलकुष्ठैश् च ब्राह्मी सिद्धार्थकैस् तथा । अभिजिद् ब्राह्मणः स्नातः पार्थिवं लभते यशः ॥
(अव्परिस्_1,45.1) श्रवणेन स्रवन्तीनां यः स्नायात् संगमेषु च । स संगच्छति स्वर्णेन हिरण्येन धनेन वा ॥
(अव्परिस्_1,45.2) श्रविष्ठाभिर् धनकामं [तु] स्नापयेद् यत्र चन्दनैः । एतत् स्नानं प्रयुञ्जानो धनधान्येन वर्धते ॥
(अव्परिस्_1,45.3) शतभिषग् भिषक्कामो ऽभिषिञ्चेच् छान्तिकर्मसु । सो ऽभिषिक्तो हतपाप्मा सर्वरोगैः प्रमुच्यते ॥
(अव्परिस्_1,45.4) [अथ] पूर्वयोः प्रोष्ठपदयो रोचनयाञ्जनेन च । स्नाता गजविषाणेन राजानं जनयेत् सुतम् ॥
(अव्परिस्_1,45.5) अथोत्तर[योः] प्रोष्ठपदयोः प्रसन्नापद्मकं मधु । गन्धर्वं स्नापयेत् तेन राजवाही भविष्यति ॥
(अव्परिस्_1,45.6) खड्गस्य च विषाणेन जलेन मधुसर्पिषा । रेवत्यां क्षत्रियः स्नातो [राजा] पृथिवीम् अभिशासते ॥
(अव्परिस्_1,45.7) अश्विन्यां स्वस्तिकं माल्यं मदयन्तीप्रियङ्गुभिः । रूपाजीवायास् तत् स्नानं सौभाग्यं भोगवर्धनम् ॥
(अव्परिस्_1,45.8) भरणीभिर् भद्रमुस्तैस् त्व् एलासिद्धर्थकैस् तथा । स्नाता पतिकुलं गच्छेद् असपत्नम् अकण्टकम् ॥
(अव्परिस्_1,46.1) सर्वज्ञः सर्वग शंस नारद प्रज्ञानम् अन्यस्माद् अनूनप्रज्ञात् स्वर्गस्य लोकस्य देहाद्यैर्यात् पथिभिर् उपपन्नो मनुष्यः ॥
(अव्परिस्_1,46.2) उपोषितः शुचिशीलः पुण्यगन्धो यदा भवेत् । प्राग् अस्तंगमनभोजनाद् यद् एनं नित्यम् अतन्द्रितः ॥
(अव्परिस्_1,46.3) समयाचारपूर्वाभिः कर्मसिद्धिः प्रशस्यते । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
(अव्परिस्_1,47.1) कृत्तिकाभिः पायसं सर्पिषा सह भोजयेत् । [तं] कामदुघं स्वर्गकामः परेत्य प्रतिपद्यते ॥
(अव्परिस्_1,48.1) रोहिण्याम् अक्षतैर् माषैः सर्पिर्मिश्रं सहौदनम् । दुग्धान्नपान[[ं]] मंहेत सो ऽक्षतो यमसादने ॥
(अव्परिस्_1,48.2) मृगशिरसि मंहेत अजां धेनुं पयस्विनीम् । सास्मै सर्वान् कामान् दुग्ध्[व्]आ एति पूर्वा पयस्विनी ॥
(अव्परिस्_1,48.3) आर्द्रायां कृसरं दद्यात् तैलमिश्रम् उपोषितः । पुनर्वसुभ्यां मंहेत मध्वपूपांस् त्व् अनुत्तमान् ॥

(अव्परिस्_1,48.4) रुक्मं पुष्येण मंहेत सो ऽक्षतो यमसादने । अश्लेषा रजतं दद्यात् सौरभेयेण प्रेषितः ॥
(अव्परिस्_1,48.5) सर्पान् निर्हन्ति प्रेतस्य परिपन्थि सुखाद् भयात् । मघाभिस् तु तिलान् दद्यान् मधुमिश्रान् स्मरन् पितॄन् ॥
(अव्परिस्_1,48.6) कामैस् तत्रोपतिष्ठन्ति अमी ये सोमयाजिनः । [फाणितेनेष्टका मिश्रा दद्यात् पूर्वयोः फल्गुन्योर् मधुनोत्तरयोः ॥]
(अव्परिस्_1,48.7) पूर्वोत्तरयोः फल्गुन्योर् दुहते मधुफाणिते ॥
(अव्परिस्_1,49.1) बृहद्धस्तिरथं युक्तं हस्तेन तु ददन् नरः । सवितुः स्थानम् आप्नोति दिव्यां कामजवां सभाम् ॥
(अव्परिस्_1,49.2) चित्रायां वृषलीं दद्यात् सर्वपुष्पैर् अलंकृताम् । गन्धैः शुश्रूषमाणस् तु ध्रुवे स्थाने [सुगन्धिः] प्रपद्यते ॥
(अव्परिस्_1,49.3) स्वाताव् एकधनं दद्याद् यद्यद् अस्य प्रियं गृहे । असज्जमानो गच्छेत अशरीरो यथा मनः ॥
(अव्परिस्_1,49.4) धेनुं तु रूपसंपन्नाम् अनड्वाहौ तु वा वहौ । विशाखाभ्यां मधुमन्थं प्रापयेत् स्थानम् उत्तमम् ॥
(अव्परिस्_1,49.5) अनूराधासु प्रावरणम् अन्नं तु शुचि ज्येष्ठायां च । दद्याच् चान्नं ब्राह्मणेभ्यो भक्षैर् उच्चावचैः सह ॥
(अव्परिस्_1,49.6) सुरा[[ं]] मूलेन मंहेताब्राह्मणीभ्य उपोषितः । मातुस् तेनानृणो भवति संकराच् च विमुच्यते ॥
(अव्परिस्_1,49.7) उदमन्थम् अषाढासु पूर्वासु मधुनोत्तरम् ॥
(अव्परिस्_1,49.8) अभिजिद् दुहितरं दद्यान् मधुपर्कपुरोगमाम् । उत्तमे ब्रह्मणः स्थाने सर्वकामैः प्रमोदते ॥
(अव्परिस्_1,50.1) कम्बलं श्रवणे दद्याद् वस्त्रान्तरम् उपोषितः । श्रविष्ठाभिर् वस्त्रयुगं गन्धान् शतभिषग् भवेत् ॥
(अव्परिस्_1,50.2) अजं संपच्योदनं दद्यात् पूर्वयोः प्रोष्ठपदयोर् औरभ्रेण सहोत्तरयोः ॥
(अव्परिस्_1,50.3) धेनुं च रूपसंपन्नां गौर् गृष्टिः पूर्णदोहनीम् । रेवत्यां त्रिवत्सां दद्याच् छुभकांस्योपदोहिनीम् ॥
(अव्परिस्_1,50.4) वस्त्रेणानड्वाहौ [सं]बद्ध्वा दद्याद् अश्वयुजो<र्> नरः । दश वर्षसहस्राणि लोम्निलोम्नि महीयते ॥
(अव्परिस्_1,50.5) अष्टौ वर्षसहस्राणि अजधेन्वा पयो ऽश्नुते । दश वर्षसहस्राणि गोधेन्वा पयो ऽश्नुते ॥
(अव्परिस्_1,50.6) अनड्वाहं तु यो दद्यात् सुहृदं साधुवाहिनम् । वीरं प्रजानां भर्तारं प्राप्नोति दशधेनुदम् ॥
(अव्परिस्_1,50.7) [यदा वत्सस्य पादौ द्वौ शिरस् चापि प्रदृश्यते । तदा गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥]
(अव्परिस्_1,50.8) भरणीभिः कृष्णतिलां दद्यात् [तिल]धेनुं पयस्विनीम् । तया दुर्गाणि तरति क्षुरधारांश् च पर्वतान् ॥
(अव्परिस्_1,50.9) नक्षत्राणां यथा सोमो ज्योतिषाम् इव भास्करः । भाति दिव्यं दिवं ज्योतिः पावकः शुचिर् उत्तमः ॥
(अव्परिस्_1,50.10) एवम् उक्तां नक्षत्रदक्षिणां यो ददातीह जीवलोके । [[अ]]पहत्य तमः सर्वं ब्रह्मलोके महीयते । यथा यष्टुस् तथाध्येतुर् एषा ब्राह्मी प्रतिश्रुतिर् एषा ब्राह्मी प्रतिश्रुतिर् इति ॥
(परिशिष्ट_1ब्. [कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः])
(अव्परिस्_1ब्,1.1) ओं यद् राजानं शकधूमं नक्षत्राण्य् अकृण्वत । भद्राहम् अस्मै प्रायच्छन् ततो राष्ट्रम् अजायत ॥
(अव्परिस्_1ब्,1.2) भद्राहम् अस्तु नः सायं भद्राहं प्रातर् अस्तु नः । भद्राहम् अस्मभ्यं त्वं शकधूम सदा कृणु ॥
(अव्परिस्_1ब्,1.3) यो नो भद्राहम् अकरः सायं प्रातर् अथो दिवा । तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥
(अव्परिस्_1ब्,1.4) यद् आहुः शकधूम[[ं]] महानक्षत्राणां प्रथमजं ज्योतिर् अग्रे । तन् नः शतीम् अभिकृणोतु रयिं च नः सर्ववीरं नियच्छात् ॥
(अव्परिस्_1ब्,1.5) यो ऽस्मिन् यक्ष्म[[ः]] पुरुषे प्रविष्ट इषितं दैव्यं सहः । अग्निष् टं घृतबोधनो ऽपस्कन्द नो विदूरम् अस्मत् सो ऽन्येन समृच्छात् ॥ तस्मै प्रसुवामसि ॥
(अव्परिस्_1ब्,1.6) यस् त्वा मातुर् उत वा पितुः परिजायमानम् अभिसंबभूव । न त्वद् यम् अधिनासयाम सो ऽन्यस्मै सयातैः प्रविष्टः ॥
(अव्परिस्_1ब्,1.7) अलिक्लवा गृध्राः कङ्काः सुपर्णाः श्वापदाः पतत्रिणो वयांसि शकुनयो ऽमुष्यामुस्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥
कृत्तिकारोहिणीमध्ये पैप्पलादा मन्त्राः ॥
(परिशिष्ट_2. राष्ट्रसंवर्गः)
(अव्परिस्_2,1.1) ओम् । ब्रह्मणे ब्रह्मवेदाय रुद्राय परमेष्ठिने । नमस्कृत्य प्रवक्ष्यामि शेषम् आथर्वणं विधिम् ॥
(अव्परिस्_2,1.2) दैवं प्रभवते श्रेष्ठं हेतुमात्रं तु पौरुषम् । दैवेन तु सुगुप्तेन शक्तो जेतुं वसुंधराम् ॥
(अव्परिस्_2,1.3) दैवात् पुरुषकाराच् च दैवम् एव विशिष्यते । तस्माद् दैवं विशेषेण पूजयेत् तु महीपतिः ॥
(अव्परिस्_2,1.4) दैवकर्मविदौ तस्मात् सांवत्सरपुरोहितौ । गृह्णीयात् सततं राजा दानसंमानरञ्जनैः ॥
(अव्परिस्_2,1.5) अपिता तु यथा बालस् तथासांवत्सरो नृपः । अमातृको यथा बालस् तथाथर्वविवर्जितः ॥ अरिमध्ये यथैकाकी तथा वैद्यविवर्जितः ॥
(अव्परिस्_2,1.6) धर्मेण पृथिवीं कृत्स्नां विजयिष्यन् महीपतिः । विद्यालक्षणसंपन्नं भार्गवं वरयेद् गुरुम् ॥
(अव्परिस्_2,1.7) चतुर्विधस्य कर्मणो वेदतत्त्वेन निश्चयम् । प्रजापतिर् अथैको हि न वेदत्रयम् ईक्षते ॥
(अव्परिस्_2,2.1) अथर्वभिन्नं यच् छान्तं तच् छान्तं नेतरैस् त्रिभिः । विज्ञानं त्रिषु लोकेषु जायते ब्रह्मवेदतः ॥

(अव्परिस्_2,2.2) अथर्वा सृजते घोरम् अद्भुतं शमयेत् तथा । अथर्वा रक्षते यज्ञं यज्ञस्य पतिर् अङ्गिराः ॥
(अव्परिस्_2,2.3) दिव्यान्तरिक्षभौमानाम् उत्पातानाम् अनेकधा । शमयिता ब्रह्मवेदज्ञस् तस्माद् रक्षिता भृगुः ॥
(अव्परिस्_2,2.4) ब्रह्मा शमयेन् नाध्वर्युर् न छन्दोगो न बह्वृचः । रक्षांसि रक्षति ब्रह्मा ब्रह्मा तस्माद् अथर्ववित् ॥
(अव्परिस्_2,2.5) सेनाया रक्षणे तस्मात् स्वराष्ट्रपरिवृद्धये । शान्त्यर्थं च महीपालो वृणुयाद् भार्गवं गुरुम् ॥
(अव्परिस्_2,3.1) गुरवे पार्थिवो दद्यात् कोतिं वरणदक्षिणाम् । अर्धमर्धं महीभागं तृतीयं तु त्रिभागतः ॥
(अव्परिस्_2,3.2) एवं भूमिप्रमाणेन कोटिभागं विनिर्दिशेत् । येन वा परितुष्येत गुरुस् तत् पार्थिवश् चरेत् ॥
(अव्परिस्_2,3.3) घ्नन्ति दैवोपसर्गाश् च न च देवो ऽभिवर्षति । वीरास् तत्र न सूयन्ते यद् राष्ट्रम् अपुरोहितम् ॥
(अव्परिस्_2,3.4) न हविः प्रतिगृह्णन्ति देवताः पितरो द्विजाः । तस्य भूमिपतेर् यस्य गृहे नाथर्वविद् गुरुः ॥
(अव्परिस्_2,3.5) समाहिताङ्गप्रत्यङ्गं विद्याचारगुणान्वितम् । पैप्पलादं गुरुं कुर्याच् छ्रीराष्ट्रारोग्यवर्धनम् ॥
(अव्परिस्_2,4.1) तथा शौनकिनं वापि वेदमन्त्रविपश्चितम् । राष्ट्रस्य वृद्धिकर्तारं धनधान्यादिभिः सदा ॥
(अव्परिस्_2,4.2) आथर्वणाद् ऋते नान्यो नियोज्यो ऽथर्वविद् गुरुः । नृपेण जयकामेन निर्मितो ऽग्निर् इवाध्वरे ॥
(अव्परिस्_2,4.3) बह्वृचो हन्ति वै राष्ट्रम् अध्वर्युर् नाशयेत् सुतान् । छन्दोगो धननाशाय तस्माद् आथर्वणो गुरुः ॥
(अव्परिस्_2,4.4) अज्ञानाद् वा प्रमादाद् वा यस्य स्याद् बह्वृचो गुरुः । देशराष्ट्रपुरामात्यनाशस् तस्य न संशयः ॥
(अव्परिस्_2,4.5) यदि वाध्वर्यवं राजा नियुनक्ति पुरोहितम् । शस्त्रेण वध्यते क्षिप्रं परिक्षीणार्थवाहनः ॥
(अव्परिस्_2,5.1) यथैव पङ्गुर् अध्वानम् अपक्षी चाण्डजो नभः । एवं छन्दोगगुरुणा राजा वृद्धिं न गच्छति ॥
(अव्परिस्_2,5.2) पुरोधा जलदो यस्य मौदो वा स्यात् कदा चन । अब्दाद् दशभ्यो मासेभ्यो राष्ट्रभ्रंशं स गच्छति ॥
(अव्परिस्_2,5.3) पलालकम् इदं सर्वम् ऋग्यजुःसामसंस्थितम् । सारं सारपरं धान्यम् अथर्वाङ्गिरसो विदुः ॥
(अव्परिस्_2,5.4) त्रयो लोकास् त्रयो देवास् त्रयो वेदास् त्रयो ऽग्नयः । अर्धमात्रे लयं यान्ति वेदश् चाथर्वणः स्मृतः ॥
(अव्परिस्_2,5.5) न तिथिर् न च नक्षत्रं न ग्रहो न च चन्द्रमाः । अथर्वमन्त्रसंप्राप्त्या सर्वसिद्धिर् भविष्यति ॥
(अव्परिस्_2,6.1) गुरुणा पैप्पलादेन वेदमन्त्रविपश्चिता । वर्धते धनधान्येन राष्ट्रम् एवं न संशयः ॥
(अव्परिस्_2,6.2) स्तब्धं नृशंसं प्रमत्तं श्रद्धाहीनम् अशास्त्रगम् । भूमिकामो न याचेत दातारम् अपि पार्थिवम् ॥
(अव्परिस्_2,6.3) सहस्राणां शतं जप्त्वा गायत्र्यायाज्ययाजकः । पूयते भ्रूणहाप्य् एवं चाण्डालान्नाद एव च ॥
(अव्परिस्_2,6.4) सर्वद्रव्यपरित्यागाच् छुद्धिर् अन्यैर् उदाहृता । अन्यैश् चतुर्णां वेदानाम् अधीत्याद्योत्तमा ऋचः ॥
(अव्परिस्_2,6.5) यजनाद् अभिचाराद् वा क्व चिद् वा मन्त्रकर्मणि । पूतान् एव द्विजान् प्राहुर् अग्निकाञ्चनवर्चस इति ॥
इति राष्ट्रसंवर्गः समाप्तः ॥
(परिशिष्ट_3. राजप्रथमाभिषेकः)
(अव्परिस्_3,1.1) ओम् अथ राजप्रथमाभिषेके प्रकृतिद्रव्याणि परीक्षेत ॥
(अव्परिस्_3,1.2) तद् यथा ॥
(अव्परिस्_3,1.3) रथसिंहासनासिछत्त्रचामरध्वजगजवाजिवस्त्रालंकारसांवत्सरचिकित्सकपुरोहितादीन्य्
(अव्परिस्_3,1.4) उपयुक्तानि नोपयोजयेत् ॥
(अव्परिस्_3,1.5) श्मशानानलदेवतानि निहितानि द्रव्याणीत्य्
(अव्परिस्_3,1.6) आचार्यपुरोहितवज्रमुखत इत्य् आह दुर्मतिः स भारद्वाजो
(अव्परिस्_3,1.7) न ह्य् अग्नेर् इवोपयुक्तस्योपयोगो विद्यत इति पराशरो
(अव्परिस्_3,1.8) ब्रह्मा ब्रह्माण्डाग्निर् इवाप्रमेयो
(अव्परिस्_3,1.9) नान्यकुलोपयुक्तो
(अव्परिस्_3,1.10) यस्यान्यकुलोपयुक्तः पुरोधाः शान्तिकपौष्टिकप्रायश्चित्तीयाभिचारिकनैमित्तिकोर्ध्वदेहिकान्य् अथर्वविहितानि कर्माणि कुर्यात् स तस्य प्रत्यङ्गिरो भूत्वा हस्त्यश्वरथपदातिकं प्रकृतिमुखेभ्यो ...
(अव्परिस्_3,1.11) वरिष्यन् न पुनः कुर्याद् अन्यं राजा पुरोहितम् । निर्माल्यम् इव तं राजा नान्यो भूयः समाचरेत् ॥
(अव्परिस्_3,1.12) स्वजस्रं ह्य् अग्नौ हेतुर् भगवतो व्याधितपतितोन्मत्ताभिशस्तप्रहीणप्रध्वस्तसंप्रसारणम् ऋत्विक् ॥
(अव्परिस्_3,1.13) तस्मात् कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचाचारयुक्तम् अलोलुपं व्रतनियमचारित्रवृत्तलक्षनगुणसंपन्नं संधिविग्रहचिन्तकं माहेन्द्रजालप्रभृतिकर्मादिष्व् अभिविदकं जितस्थानासनं हिमातपवर्षसहं ह्रीधृतिकम् आर्जवं शमदमदयादानशक्तिसंपन्नं बृहस्पत्युशनसोः स्थानाकृतिप्रमाणं वर्णाश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणीयाद् भूपतिर् इति ॥
(अव्परिस्_3,1.14) मधुपर्काद्येन विधिना यथार्थं संपाद्य दक्षिणां दद्यात्

(अव्परिस्_3,1.15) कोटिमध्यात् तृतीयं भागम्
(अव्परिस्_3,1.16) यथाभूमिप्रमाणेन वा
(अव्परिस्_3,1.17) हस्त्यश्वं नरयानं दिव्यम् आभरणम् आतपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं च गुरवे दद्याद्
(अव्परिस्_3,1.18) येन वा परितुष्येत ॥
(अव्परिस्_3,1.19) अभिषेकः संहिताविधौ व्याख्यातः ॥
(अव्परिस्_3,2.1) हस्त्यश्वं गुरवे दद्यान् नरयानं तथैव च । दिव्यम् आभरणं चैव आतपत्रादिम् एव च ॥
(अव्परिस्_3,2.2) उच्छिष्टार्थं न गृह्णीयान् मङ्गलार्थं महीपतिः । मन्त्रौषध्यो न सिध्यन्ति राजा तत्र विनश्यति ॥
(अव्परिस्_3,2.3) नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्व चित् कुर्यात् पुरोहितम् ॥
(अव्परिस्_3,2.4) हीनाधिकाङ्गं पतितं विवर्णं स्तेनं जडं क्लीबम् अशक्तियुक्तम् । भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् ॥
(अव्परिस्_3,2.5) हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेने त्व् अशक्ते च समस्तदोषाः क्लीबे विवर्णे नृपतिर् विनश्येत् ॥
(अव्परिस्_3,3.1) भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिम् आहुः । विवर्णनेत्रे पतिते तु पुत्रान् अध्वर्युणा च निहन्ति पौत्रान् ॥
(अव्परिस्_3,3.2) कृष्णे कोशक्षयं विद्याद् रक्ते वाहनसंक्षयः । पिङ्गलः पार्थिवं हन्याद् राष्ट्रं हन्यात् तु केकरः ॥
(अव्परिस्_3,3.3) बह्वृचं हि नियुञ्ज्याद् यः पौरोहित्ये तु पार्थिवः । स तारपङ्के हस्तीव सह तेनैव मज्जति ॥
(अव्परिस्_3,3.4) अध्वर्युं हि नियुञ्ज्याद् यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुर् इवाश्मानम् आदत्ते स्ववधाय सः ॥
(अव्परिस्_3,3.5) वधबन्धपरिक्लेशं कोशवाहनसंक्षयः । करोत्य् एतान्वये ऽवस्थास् तपोयुक्तो ऽपि सामगः ॥
(अव्परिस्_3,3.6) अन्वयाकृतिसंपन्नं तस्माद् भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात् पुरोहितम् ॥
(अव्परिस्_3,3.7) मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु । य उत्पातास् त्रिविधा घोररूपास् तान् सर्वान् शमयेद् ब्रह्मवेदवित् ॥
(अव्परिस्_3,3.8) तस्माद् गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान् नरेन्द्रः प्रियदर्शनं च ॥ प्रियदर्शनं चेति ॥
इति राजप्रथमाभिषेकः समाप्तः ॥
(परिशिष्ट_4. पुरोहितकर्माणि)
(अव्परिस्_4,1.1) ओम् अथ पुरोहितकर्माणि ॥ राज्ञः प्रातर् उत्थितस्य कृतस्वस्त्ययनस्य
(अव्परिस्_4,1.2) अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः सोष्णीषः सविता प्रसवानाम् इति व्याख्यातम् ॥
(अव्परिस्_4,1.3) इमम् इन्द्र वर्धयेत्य् उक्तम् ॥
(अव्परिस्_4,1.4) परि धत्तेति द्वाभ्यां राज्ञो वस्त्रम् अभिमन्त्र्य प्रयच्छेत् ॥
(अव्परिस्_4,1.5) यद् आबध्नन्न् इत्य् अलंकारान् ॥
(अव्परिस्_4,1.6) सिंहे व्याघ्र इति सिंहासनम् ॥
(अव्परिस्_4,1.7) यस् ते गन्ध इति गन्धान् ॥
(अव्परिस्_4,1.8) एहि जीवं त्रायमाणम् इत्य् अक्षिणी अङ्क्ते ॥
(अव्परिस्_4,1.9) वातरंहा इत्य् अश्वम् ॥
(अव्परिस्_4,1.10) हस्तिवर्चसम् इति हस्तिनम् ॥
(अव्परिस्_4,1.11) यत् ते माता यत् ते पितेति नरयानम् ॥
(अव्परिस्_4,1.12) खड्गं चाभिमन्त्रयामीति खड्गम् ॥
(अव्परिस्_4,1.13) खड्गं चाभिमन्त्रयामि यः शत्रून् मर्दयिष्यति । मर्दिताः शत्रवो ऽनेन वशम् आयान्तु ते सदेति ॥
(अव्परिस्_4,1.14) पर्यङ्कम् आसनं खड्गं ध्वजं छत्त्रं सचामरम् । रथम् अश्वगजं श्रेष्ठं धनुर् वर्म शरेषुधिम् ॥
(अव्परिस्_4,1.15) आञ्जनं गन्धमाल्यानि वस्त्राण्य् आभरणानि च । सर्वान् शान्त्युदकेनैतान् अभ्युक्ष्येच् चाभिमन्त्रयेत् ॥
(अव्परिस्_4,1.16) दूर्वादीन् मूर्ध्नि निक्षिप्य स्वस्त्ययनैर् अभिमन्त्रयेत् । अभयं द्यावापृथिवीत्य् अभिमन्त्रितो ब्राह्मणान् प्रणिपत्य प्राक् ॥
(अव्परिस्_4,1.17) युष्मत्प्रसादाच् छान्तिम् अधिगच्छामीति ॥
(अव्परिस्_4,1.18) तथास्त्व् इत्य् उक्तो निर्गच्छेद् इति ॥
(अव्परिस्_4,1.19) एवंकृत्यस्वस्त्ययनो यद् एवावलोकयति त सिध्यति ॥
(अव्परिस्_4,1.20) तद् अपि श्लोकाः ॥

(अव्परिस्_4,1.21) असुरैः पीड्यमानस् तु पुरा शक्रो जगत्प्रभुः । कारयाम् आस विधिवत् पुरोधस्त्वे बृहस्पतिम् ॥
(अव्परिस्_4,1.22) स वृतो भयभीतेन शमनार्थं बुभूषता । मङ्गलानि ससर्जाष्टाव् अभयार्थं शतक्रतोः ॥
(अव्परिस्_4,1.23) प्रोक्तानि मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः । भूमिः सिद्धार्थकाः सर्पिः शमी व्रीहियवौ तथा ॥
(अव्परिस्_4,1.24) एतानि सततं पुण्यानि संपश्यन्न् अर्चयन्न् अपि । न प्राप्नोत्य् आपदं राजा श्रियं प्राप्नोत्य् अनुत्तमाम् ॥
(अव्परिस्_4,2.1) अथ राजकर्माणि
(अव्परिस्_4,2.2) विश्वावसौ मुहूर्ते स्नातो अभिषेकमन्त्रैर् अभिमन्त्रितः ॥
(अव्परिस्_4,2.3) अनुलेपनैर् अनुलिप्तः ॥
(अव्परिस्_4,2.4) पूर्वोक्तेन विधिना वस्त्रालंकारादिभिः
(अव्परिस्_4,2.5) सुवर्णनिष्कं कृष्णलं वा वामहस्तेन संगृह्य ॥
(अव्परिस्_4,2.6) यद् दुःकृतं यच् छबलं सर्वं पाप्मानं दहत्व् इत्य्
(अव्परिस्_4,2.7) अनेन मन्त्रेण सुवर्णं शरीरे निघृष्य दक्षिणेन हस्तेन विप्राय दद्याद्
(अव्परिस्_4,2.8) धेनुं चारोगाम्
(अव्परिस्_4,2.9) अपरिमितगुणान् तिलान् सौवर्णमये ताम्रमये वा पात्रे स्थापयित्वा यद् अज्ञानाद् इत्य् अभिमन्त्र्य विप्राय दद्यात् ॥
(अव्परिस्_4,2.10) यद् अज्ञानात् तथा ज्ञानाद् यन् मया शबलं कृतम् । तत् सर्वं तिलदानेन दह्यताम् इति हि प्रभो ॥
(अव्परिस्_4,2.11) भूमिश् च सस्यसंपन्ना ब्राह्मणे वेदपारगे । यथाशक्ति प्रदेया हि बृहस्पतिवचो यथा ॥
(अव्परिस्_4,2.12) स भुक्त्वा विविधान् भोगान् सप्तसागरमेखलाम् । पृथिवीं प्राप्य मोदेत चन्द्रवत् पृथिवीपतिः ॥
(अव्परिस्_4,2.13) अन्नं तु विविधं नित्यं प्रदद्यात् द्विजातये । तूर्यघोषेण संयुक्तः कृतस्वस्त्ययनस् तथा ॥
(अव्परिस्_4,2.14) गृहदेवांस् तु संपूज्य कार्यश् चाप्य् उत्सवो गृहे । छत्त्रादीनि च यानानि पूजयेद् विधिवत् स्वयम् ॥
(अव्परिस्_4,2.15) [पुष्पैश् च विविधैः शुभ्रैः फलैश् चाप्य् अर्चयेद् बुधः] तस्मात् सर्वाणि सततं दानानि तु महीपतिः । दत्त्वा श्रद्धान्वितो विप्रैर् वृतो भुञ्जीत वाग्यतः ॥
(अव्परिस्_4,3.1) अथ पिष्टमयीं रात्रिं चतुर्भिर् दीपकैः सह । अर्चितां गन्धमाल्येन स्थापयेत् तस्य चाग्रतः ॥
(अव्परिस्_4,3.2) नमस् कृत्वा ततो रात्रिम् अर्चयित्वा यथाविधि । धूपेन चान्नपानेन स्तोत्रेण च समर्चयेत् ॥
(अव्परिस्_4,3.3) पाहि मां सततं देवि सराष्ट्रं ससुहृज्जनम् । उषसे नः प्रयच्छस्व शान्तिं च कृणु मे सदा । ये त्वां प्रपद्यन्ते देवि न तेषां विद्यते भयम् ॥
(अव्परिस्_4.3.4) रात्रिं प्रपद्ये जननीं सर्वभूतनिवेशनीम् । भद्रां भगवतीं कृष्णां विश्वस्य जगतो निशाम् ॥
(अव्परिस्_4,3.5) संवेशनीं संयमनीं ग्रहनक्षत्रमालिनीम् । प्रपन्नो ऽहं शिवां रात्रिं भद्रे पारम् अशीमहि ॥
(अव्परिस्_4,3.6) यां सदा सर्वभूतानि स्थावराणि चराणि च । सायं प्रातर् नमस्यन्ति सा मां रात्र्य् अभिरक्षत्व् इति ॥
(अव्परिस्_4,4.1) आ रात्रि पार्थिवम् इषिरा योषा त्रायमान इत्य् रात्र्याणि ॥
(अव्परिस्_4,4.2) ममोभा मह्यम् आप इति सूक्ताभ्याम् अन्वालभ्य जपेत् ॥
(अव्परिस्_4,4.3) यो न[[ः]] स्व इति पञ्चभिः सर्षपाञ् जुहुयात् ॥
(अव्परिस्_4,4.4) यो ऽस्मिन् यस् त्वा मातुर् इति दीपेन नृपस्योपरि त्रिष् परिहृत्य प्रैषकृते प्रयच्छेत् ॥
(अव्परिस्_4,4.5) अभयम् इत्य् ऋचा चतस्रः शर्कराः प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(अव्परिस्_4,4.6) एह्य् अश्मानम् आ तिष्ठेति पञ्चमीम् अधिष्ठापयेत् ॥
(अव्परिस्_4,4.7) न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठदूपं दद्यात् ॥
(अव्परिस्_4,4.8) यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥
(अव्परिस्_4,4.9) दूष्या दूषिर् असीति प्रतिसरम् आबध्य
(अव्परिस्_4,4.10) अग्निर् मा पातु वसुभिः पुरस्ताद् इति शर्करान् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(अव्परिस्_4,4.11) बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्यात् ॥
(अव्परिस्_4,4.12) नैशम् अभयं कर्म मौसलीपुत्रः पैठीनसिः ॥
(अव्परिस्_4,5.1) अथातो रात्रिसूक्तानां विधिम् अनुक्रमिष्यामः ॥
(अव्परिस्_4,5.2) शुचिः शुक्लवासाः पुरोहितः ॥
(अव्परिस्_4,5.3) पार्थिवस्य पश्चिमां संध्याम् उपास्य दर्भैः पवित्रपाणी राजानम् अभिगम्य

(अव्परिस्_4,5.4) पिष्टमयीं रात्रिं कृत्वा ॥
(अव्परिस्_4,5.5) अन्नपानधूपदीपैर् अर्चयित्वा माल्यैश् च ॥
(अव्परिस्_4,5.6) प्रज्वलितैश् चतुर्भिर् दीपकैर् अर्चयित्वा ॥
(अव्परिस्_4,5.7) आ रात्रि पार्थिवम् इषिरा योषेति सूक्तद्वयेन रात्रिम् उपस्थाय ॥
(अव्परिस्_4,5.8) त्रायमाणे विश्वजिते अह्ने च त्वेति राजानं प्रदक्षिणं त्रिः कृत्वा
(अव्परिस्_4,5.9) राजवेश्मनि द्वारे विसर्जयित्वा ॥
(अव्परिस्_4,5.10) न तं यक्ष्मा ऐतु देव इति गुग्गुलुकुष्ठधूपं दद्याद्
(अव्परिस्_4,5.11) यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
(अव्परिस्_4,5.12) त्र्यायुषम् इति राज्ञे रक्षां कृत्वा ॥
(अव्परिस्_4,5.13) असपत्नम् इति शर्कराम् अभिमन्त्र्याङ्गुष्ठात् प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(अव्परिस्_4,5.14) शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥
(अव्परिस्_4,5.15) भूतिना रक्षां कृत्वा निष्क्रम्य
(अव्परिस्_4,5.16) एवमेवम् अहरहः कुर्यात् ॥
(अव्परिस्_4,6.1) यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः । निवसत्य् अपि तद् राष्ट्रं वर्धते निरुपद्रवम् ॥
(अव्परिस्_4,6.2) यस्य राज्ञो जनपदे स नास्ति विविधैर् भयैः । पीड्यते तस्य तद् राष्ट्रं पङ्के गौर् इव मज्जति ॥
(अव्परिस्_4,6.3) तस्माद् राजा विशेषेण अथर्वाणं जितेन्द्रियम् । दानसंमानसत्कारैर् नित्यं समभिपूजयेत् ॥
(अव्परिस्_4,6.4) नित्यं च कारयेच् छान्तिं ग्रहऋक्षाणि पूजयेत् । भूमिदोहान् प्रकुर्वीत देवतायतनेषु च ॥
(अव्परिस्_4,6.5) चतुस्पथेषु गोष्ठेषु तीर्थेष्व् अप्सु च कारयेत् । गोतर्पणं च विधिवत् सर्वदोषविनाशनम् ॥
(अव्परिस्_4,6.6) य एवं कारयेद् राजा सर्वकालं जितेन्द्रियः । अनन्तं सुखम् आपनोति कृत्स्नां भुङ्क्ते वसुंधराम् ॥
इति पुरोहितकर्माणि समाप्तानि ॥
(परिशिष्ट_5. पुष्याभिषेकः)
(अव्परिस्_5,1.1) ओम् अथ पुष्याभिषेकस्य विधिं वक्ष्यामि सांपदम् । धर्मार्थकामसंयुक्तं राजा कुर्यात् पुरोहितम् ॥
(अव्परिस्_5,1.2) सौवर्णराजतैस् ताम्रैः कलशैः पार्थिवैर् अपि । सहस्रेण शतेनाथ तोयग्रहणम् इष्यते ॥
(अव्परिस्_5,1.3) चतुर्णां सागराणां तु नदीनां च शतस्य तु । अभिषेकाय राज्ञस् तु तोयम् आहृत्य यत्नतः ॥
(अव्परिस्_5,1.4) एकद्वित्रिचतुर्णां वा सागरस्य तु पञ्चमम् । ओषधीस् तेषु सर्वेषु कलशेषूपकल्पयेत् ॥
(अव्परिस्_5,1.5) सहा च दहदेवी च बला चातिबला तथा । मदयन्ती वचा श्वेता व्याघ्रदन्ती सुमङ्गला ॥
(अव्परिस्_5,2.1) शतावरी जयन्ती च शतपुष्पा सचन्दना । प्रियङ्गू रोचनो अशीरम् अमृता च ससारिका ॥
(अव्परिस्_5,2.2) अश्वत्थप्लक्षबिल्वानां न्यग्रोधपनसस्य च । शिरीषाम्रकपित्थानां पल्लवैः समलंकृतान् ॥
(अव्परिस्_5,2.3) हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् । आच्छादितान् सितैर् वस्त्रैर् अभिमन्त्र्य पुरोहितः ॥
(अव्परिस्_5,2.4) सावित्र्य् उभयतः कुर्याच् छं नो देवी तथैव च । हिरण्यवर्णाः सूक्तं च अनुवाकाद्यम् एव च ॥
(अव्परिस्_5,2.5) धरणी पादपीठं स्याद् दूर्वामूलाङ्कुरान् शुभान् । तस्योपरि न्यसेत् पीठं हैमं रौप्यम् अथापि वा ॥
(अव्परिस्_5,3.1) अनडुद्व्याघ्रसिंहानां मृगस्य च यथाक्रमम् । चत्वारि चर्माण्य् एतानि पूर्वाद् आरभ्य विन्यसेत् ॥
(अव्परिस्_5,3.2) चातुर्होत्रविधानेन जुहुयाच् च पुरोहितः । चतुर्दिक्षु स्थितैर् विप्रैर् वेदवेदाङ्गपारगैः ॥
(अव्परिस्_5,3.3) बिल्वाहारः फलाहारः पयसा वापि वर्तयेत् । सप्तरात्रं घृताशी व ततो होमं प्रयोजयेत् ॥
(अव्परिस्_5,3.4) गव्येन पयसा कुर्यात् सौवर्णेन स्रुवेण तु । वेदानाम् आदिभिर् मन्त्रैर् महाव्याहृतिपूर्वकैः ॥
(अव्परिस्_5,3.5) शर्मवर्मा गणश् चैव तथा स्याद् अपराजितः । आयुष्यश् चाभयश् चैव तथा स्वस्त्ययनो गणः ॥
(अव्परिस्_5,4.1) एतान् पञ्च गणान् हुत्वा वाचयेत द्विजोत्तमान् । हिरण्येनाक्षतार्घेण फलैश् च मधुसर्पिषा ॥
(अव्परिस्_5,4.2) पुण्याहं वाचयित्वास्य आरम्भं कारयेद् बुधः । तिष्यनक्षत्रसंयुक्ते महूर्ते करणे शुभे ॥
(अव्परिस्_5,4.3) उच्चैर्घोष इति तूर्याण्य् अभिमन्त्र्य पुरोहितः । सर्वतूर्यनिनादेन अभिषिक्तो ह्य् अलंकृतः ॥
(अव्परिस्_5,4.4) सिंहासनं समारुह्य पीठिकां वा यथाक्रमम् । चामरछत्त्रसंयुक्तं प्रतिहारविभूषितम् ॥

(अव्परिस्_5,4.5) मत्तद्विपचतुष्कं च चतुर्दिक्षु प्रकल्पयेत् । उपविष्टस् ततो राजा प्रजानां कारयेद् धितम् । अकरा ब्राह्मणा गावः स्त्रीबालजडरोगिणः ॥
(अव्परिस्_5,5.1) ततस् तु दर्शनं देयं ब्राह्मणानां नृपेण तु । श्रेणीप्रकृतिमुख्यानां स्त्रीजनं च नमस्करेत् ॥
(अव्परिस्_5,5.2) आशिषस् ते हि दास्यन्ति तुष्टा जनपदा भुवि । एवं प्रजानुरज्येत पृथिवी च वशा भवेत् ॥
(अव्परिस्_5,5.3) पुरोहितं मन्त्रिणं च सेनाध्यक्षं तथैव च । अश्वाध्यक्षं गजाध्यक्षं कोष्ठागारपतिं तथा ॥
(अव्परिस्_5,5.4) भाण्डागारपतिं वैद्यं दैवज्ञं च यथाक्रमम् । यथार्हेण च योगेन सर्वान् संपूजयेन् नृपः ॥
(अव्परिस्_5,5.5) राज्यं पुरोहिते न्यस्य शेषाणां च यथाक्रमम् । स्थानान्तराणि चान्यानि दत्त्वा सुखम् अवाप्नुयात् ॥
(अव्परिस्_5,5.6) दूर्वासिद्धार्थकान् सर्पिः शमीर् व्रीहियवौ तथा शुक्लानि चैव पुष्पाणि मूर्ध्नि दद्यात् पुरोहितः ॥
(अव्परिस्_5,5.7) अथर्वविहितो ह्य् एष विधिः पुष्याभिषेचने । राजा स्नातो महीं भुङ्क्ते शक्रलोकं स गच्छति ॥
इति पुष्याभिषेकः ॥
(परिशिष्ट_6. पिष्टरात्र्याः कल्पः)
(अव्परिस्_6,1.1) ओम् अथातः पिष्टरात्र्याः कल्पं व्याख्यास्यामः ॥
(अव्परिस्_6,1.2) अहतवासाः पुरस्तात् तल्पस्य गोमयेन स्थण्डिलम् उपलिप्य
(अव्परिस्_6,1.3) अहतवस्त्रेण सिंहासनम् अवछाद्य ॥
(अव्परिस्_6,1.4) यां देवाः प्रति नन्दन्तीति रात्रिम् आवाहयेत् ॥
(अव्परिस्_6,1.5) संवत्सरस्य प्रतिमाम् इति पिष्टमयीं प्रतिकृतिं कृत्वोदन्मुखीम् उपवेशयेत् ॥
(अव्परिस्_6,1.6) छत्त्रं हिरण्मयं दद्याद् आसनं च हिरण्मयम् । दद्याच् छुभ्राणि वासांसि शुभ्रं चैवानुलेपनम् ॥
(अव्परिस्_6,1.7) शुभ्रम् अन्नम् अतथा दद्यात् प्रभूतांश् चैव मोदकान् । धूपं च विविधं नित्यं प्रदीपांश् च प्रकल्पयेत् ॥
(अव्परिस्_6,1.8) आ मा पुष्टे च पोषे चेत्य् एताभिर् उपस्थाय ॥
(अव्परिस्_6,1.9) रक्षोघ्नैर् मन्त्रैः सर्षपान् अभिमन्त्र्य
(अव्परिस्_6,1.10) आवतस् त इति जपन् समन्तात् तल्पस्यावकीर्य
(अव्परिस्_6,1.11) अयं प्रतिसर इति प्रतिसरम् आबध्य शर्करान् प्रतिदिशं क्षिपेत् ॥
(अव्परिस्_6,1.12) धूपशेषं राज्ञे दद्याद् ॥
(अव्परिस्_6,1.13) अभयप्रदं कर्म ॥
(अव्परिस्_6,1.14) पश्चात् सर्वेषु कोनेषु द्विमुखीम् एकमुखीं वा । सर्वतो विजयां रक्षाम् एकां वा तेषु चतुर्मुखीम् ॥
(अव्परिस्_6,1.15) एकमुखीं वा सर्वत्राप्रतिरथजप इत्य् एके
(अव्परिस्_6,1.16) सर्वत्र शर्कराक्षेपश् चेति ॥
(अव्परिस्_6,2.1) गृहीत्वा पिष्टरात्रिं तु वेश्मद्वारे विसर्जयेत्
(अव्परिस्_6.2.2) वनस्पतिर् असो मध्य इति गुग्गुलुकुष्ठधूपं दद्याद्
(अव्परिस्_6,2.3) यस् ते गन्ध इति भूतिम् अभिमन्त्र्य
(अव्परिस्_6,2.4) त्र्यायुषम् इति राज्ञे रक्षां कृत्वा
(अव्परिस्_6,2.5) असपत्नम् इति शर्करान् अभिमन्त्र्याङ्गुष्ठाद् [अभि]प्रदक्षिणं प्रतिदिशं क्षिपेत् ॥
(अव्परिस्_6,2.6) शान्ता द्यौर् इति जपित्वा राजानं वासगृहं नयेत् ॥
(अव्परिस्_6,2.7) भूतिना रक्षां कृत्वा निष्क्रम्य
(अव्परिस्_6,2.8) एवमेवम् अहर् अहः कुर्याद् इति ॥ पिष्टरात्र्याः कल्पः समाप्तः ॥
(परिशिष्ट_7. आरात्रिकम्)
(अव्परिस्_7,1.1) ओं न सुष्वाप पुरा शक्रो दानवानां पुरोधसा । प्रयुक्तैर् औषधैर् योगैर् मन्त्राणां जपहोमतः ॥
(अव्परिस्_7,1.2) प्रणिपत्य बृहस्पतिम् अथर्वाणं पुरंदरः । दानवैः परिभूतो ऽहं त्राहि माम् इत्य् उवाच ह ॥
(अव्परिस्_7,1.3) ततो ऽसाव् एवम् उक्तस् तु प्रभूतबलवर्धनम् । आरोग्यदं भूतिकरं क्षुद्रोपद्रवनाशनम् ॥
(अव्परिस्_7,1.4) आरात्रिकं हि कर्तव्यं तस्य त्रातुम् इदं तदा । कृत्वा पिष्टमयं दीपं सुवर्तिस्नेहसंयुतम् ॥
(अव्परिस्_7,1.5) अति निहः प्रान्यान् इति द्वाभ्याम् एनं प्रदीपयेत् । पात्रे सपुष्पे संस्थाप्य सर्षपांश् च सहाक्षतैः ॥

(अव्परिस्_7,1.6) प्रियङ्गुं शतपुष्पां च दूर्वां चैव शतावरीम् । सपापहारिणीं भूतिं तत्रैव च बलिं न्यसेत् ॥
(अव्परिस्_7,1.7) अप्सरोभिः परिवृतो गुरुर् गत्वा पुरंदरम् । प्राप्तसत्त्वं सुमनसम् आसने प्रान्मुखं स्थितम् ॥
(अव्परिस्_7,1.8) प्रेतो यन्त्व् एकशतं च दीपं समभिमन्त्रयेत् । त्रिः परिभ्रामयेद् राज्ञो मन्त्रेणाथ सुमङ्गलम् ॥
(अव्परिस्_7,1.9) शाम्यन्त्य् अस्य ततो रोगा ग्रहा विघ्नविनायकाः । स्वस्त्य् अस्तु न्र्पराष्ट्राय स्वस्ति गोब्राह्मणाय च ॥
(अव्परिस्_7,1.10) ततस् तु शङ्खध्वनिना दीपं गृहीत्वा सतोयधारां प्रयतो ऽपि निर्हरेत् । पुरोहितो ज्योतिषिको ऽपि वा स्वयं हितैषिनी धात्र्य् अथर्वो (पकारिता ॥
(अव्परिस्_7,1.11) आचाम्याथ ह राजानम् आचम्यादौ पुरोहितः । ब्राह्मणाय यथाशक्ति रुक्मं प्रातः प्रदापयेत् ॥
(अव्परिस्_7,1.12) मूलकर्मादिकं तस्य पञ्चगुह्यककारितम् । भयं राज्ञो न भवति तेजो वीर्यं च वर्धते ॥
(अव्परिस्_7,1.13) एवं विधानम् अखिलं विहितं यथावद् एतत् समस्तशुभदं गदितं न्र्पाणाम् । नैवापदः समुपयान्ति नृपं कदा चिद् आरात्रिकं प्रतिनिशं क्रियते तु यस्य ॥ इत्य् आरात्रिकं समाप्तम् ॥
(परिशिष्ट_8. घृतावेक्षणम्)
(अव्परिस्_8,1.1) ओम् अथ घ्र्तावेक्षणं वक्ष्यामः ॥
(अव्परिस्_8,1.2) प्रातःप्रातः शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वा प्रबोधितो राजा शयनगृहाद् उत्थायापराजितां दिशम् अभिनिष्क्रम्योपाध्यायं प्रतीक्षेत ॥
(अव्परिस्_8,1.3) अथ पुरोहितः स्नातानुलिप्तः शुचिः शुक्लवासाः क्र्तमङ्गलविरचितोष्णीषी शान्तिगृहं प्रविश्य देवानां नमस्कारं कृत्वा स्वस्तिवाचनम् अनुज्ञाप्य विनीतवद् उपविशेत् ॥
(अव्परिस्_8,1.4) यमस्य लोकाद् यथा कलां यो न जीवो ऽसीति स्वस्त्ययनं कृत्वोल्लिख्याभ्युक्ष्य परिस्तीर्य शन्तातीयेन तिलान् घृताक्तान् जुहुयात् ॥
(अव्परिस्_8,1.5) तान् हुत्वा सौवर्णराजतम् औदुम्बरं वा पात्रं घृतपूर्णं सहिरण्यं घृतस्य जूतिः सहस्रशृङ्गो यमस्य लोकाद् उरु विष्णो वि क्रमस्वेत्य् अभिमन्त्र्याज्यं तेज इति तदालभते ॥
(अव्परिस्_8,1.6) आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं परम् । आज्येन देवास् त्र्प्यन्ति आज्ये लोकाः प्रतिष्ठिताः ॥
(अव्परिस्_8,1.7) भौमान्तरिक्षदिव्यं वा यत् ते कल्मषम् आगतम् । सर्वं तद् आज्यसंस्पर्शात् प्रणाशम् उपगच्छत्व् इति ॥
(अव्परिस्_8,1.8) तस्मिन् घृतपात्रस्थं हि सर्वम् आत्मानं च पश्येत् ॥
(अव्परिस्_8,1.9) दध्ना शिरो हृदयम् अन्वालभ्य जपेत् ॥
(अव्परिस्_8,1.10) उच्चा पतन्तम् इति द्वाभ्याम्
(अव्परिस्_8,1.11) सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य शेषं कारयेद् इत्य्
(अव्परिस्_8,1.12) अत्र श्लोकाः ॥
(अव्परिस्_8,2.1) अयं घृतावेक्षणस्य प्रोक्तो विधिर् अथर्वणा । उपास्यो नित्यकालं तु राज्ञा विजयकाङ्क्षिणा ॥
(अव्परिस्_8,2.2) एतत् समाहरेत् सर्वं प्रयतस् तु समाहितः । राजा विजयते राष्ट्रं नश्यन्ते तस्य शत्रवः ॥
(अव्परिस्_8,2.3) द्विजोत्तमाय कपिलां राजा दद्यात् तु गां शुभाम् । आशीर्वादं ततस् तेन श्रुत्वा तन्मुखनिःसृतम् ॥
(अव्परिस्_8,2.4) गुरुणा वाचितो यस्माद् दीर्घम् आयुर् अवाप्नुयात् । पुत्रान् पौत्रांश् च मैत्रांश् च लभते नात्रसंशयः ॥
(अव्परिस्_8,2.5) आयुष्यम् अथ वर्चस्यं सौभाग्यं शत्रुतापनम् । दुःस्वप्ननाशनं पुण्यं घृतास्यावेक्षणं स्मृतम् इति ॥ इति घृतावेक्षणं समाप्तम् ॥ श्रीसाम्ब । यमस्य लोकाद् अध्य् आबभूविथ इति ऋचः 6, यथा कलां यथा शफम् इति ऋचः 6, घृतस्य जूतिर् इति ऋचः 4 घृतावेक्षणमध्ये पैप्पलादा मन्त्राः ॥
(परिशिष्ट_9. तिलधेनुविधिः)
(अव्परिस्_9,1.1) ओम् अथ तिलधेनुं प्रवक्ष्यामि सर्वपापप्रणाशनीम् । तिलाः श्वेतास् तिलाः कृष्णास् तिला गोमूत्रवर्णकाः ॥
(अव्परिस्_9,1.2) तिलानां तु विचित्राणां धेनुं वत्सं च कारयेत् । द्रोणस्य वत्सकं कुर्याच् चतुर्द्रोणा तु गौः स्मृता ॥
(अव्परिस्_9,1.3) सुवासायां शुचौ भूमौ धूपपुष्पैर् अलंक्र्ता । कृष्णाजिने तु कर्तव्या बहूनां वापि कारयेत् ॥
(अव्परिस्_9,1.4) कर्णौ रत्नमयौ कुर्याच् चक्षुषी दीपकौ तथा । घ्राणे तु सर्वग्न्धांस् तु जिह्वायां शारदं घृतम् ॥
(अव्परिस्_9,1.5) दन्तेषु मौक्तिकं दद्याल् ललाटे ताम्रभाजनम् । ऊधसि तु मधूशीरम् अपाने च घृतं मधु ॥
(अव्परिस्_9,2.1) हृदये चन्दनं दद्याज् जङ्घयोर् इक्षुकाण्डकम् । सुवर्णशृङ्गी रौप्यखुरी रौप्यलाङ्गूलदक्षिणा ॥
(अव्परिस्_9,2.2) वस्त्रछन्ना तु दातव्या कांस्यपात्रं तु दोहनी ।
(अव्परिस्_9,2.3) प्रजापतिश् चेत्य् अभिमन्त्र्य विप्राय दद्यात्
(अव्परिस्_9,2.4) तत्र श्लोकाः ॥
(अव्परिस्_9,2.5) धेनुं वत्सं च यो दद्याद् विनाथर्वाभिमन्त्रिताम् । विनानेन विधानेन देवत्वं नोपजायते ॥
(अव्परिस्_9,2.6) विश्वरूपाः स्थिताः सर्वा धेनवः परिकीर्तिताः । धेनुत्वं न स प्रयाति विना सूक्ताभिमन्त्रिताम् । निष्फलं नश्यते सर्वं विनाभिमन्त्रितं सताम् ॥
(अव्परिस्_9,2.7) बालत्वे यच् च कौमारे यत् पापं यौवने कृतम् । वयःपरिणतौ यच् च यच् च जन्मान्तरेषु च ॥
(अव्परिस्_9,2.8) यन् निशायां तथा प्रातर् यन् मध्याह्नापराह्णयोः । संध्ययोर् यत् कृतं पापं कर्मणा मनसा गिरा ॥

(अव्परिस्_9,3.1) प्रसूयमानां यो धेनुं दद्याद् ब्राह्मणपुंगवे । कृष्णाजिनं गुडधेनुं घृतधेनुं तथैव च ॥
(अव्परिस्_9,3.2) सुवर्णरत्नधेनुं च जलधेनुं तथा पराम् । क्षीरधेनुं मधुधेनुं शर्करालवणं तथा ॥
(अव्परिस्_9,3.3) रसादिधेनूः सर्वान्या अनेन विधिना स्मृताः । यत् तु बाल्ये कृतं पापं यौवने चैव यत् कृतम् ॥
(अव्परिस्_9,3.4) मानकूटं तुलाकूटं कन्यानृतगवानृतम् । उदके ष्ठीवितं चैव मुसलं चापि लङ्घितम् ॥
(अव्परिस्_9,3.5) वृषलीगमनं चैव गुरुदारानिषेवणम् । सुरापानस्य यत् पापं तिलधेनुः प्रशाम्यति ॥
(अव्परिस्_9,4.1) या स यमपुरे घोरे नदी वैतरणी स्मृता । यत्र लोहमुखाः काकाः श्वानश् चैव भयावहाः ॥
(अव्परिस्_9,4.2) वालुकान्ताः स्थलाश् चैव पच्यन्ते यत्र दुष्कृतः । असिपत्त्रवनं यत्र शालूकाः शाल्मली तथा ॥
(अव्परिस्_9,4.3) तान् सुखेन व्यतिक्रम्य धर्मराजाश्रमं व्रजेत् । स्वागतं ते महाभाग स्वस्ति ते ऽस्तु महामते ॥
(अव्परिस्_9,4.4) विमानम् एतद् योग्यं ते मणिरत्नविभूषितम् । अत्रारुह्य नरश्रेष्ठ गच्छ त्वं परमां गतिम् ॥
(अव्परिस्_9,4.5) मा च चारभटे दद्यान् मा च दद्यात् पुरोहिते । मा च काणे विरूपे च कुष्ठिव्यङ्गे तथैव च ॥
(अव्परिस्_9,4.6) वेदान्तगाय दातव्या वेदान्तगसुताय वा । एकैकस्मै च दातव्या माघमासे तु पूर्णिमाम् ॥
(अव्परिस्_9,4.7) य इमां पठते नित्यं यश् चेमां शृणुयाद् अपि । देवलोकम् अतिक्रम्य सूर्यलोकं स गच्छति ॥ सूर्यलोकं स गच्छतीति ॥ इति तिलधेनुविधिः समाप्तः ॥
(परिशिष्ट_10. भूमिदानम्)
(अव्परिस्_10,1.1) ओम् अथ रोहिण्यां सकलायाम् उपोषितो ब्रह्मा सर्वबीजरसरत्नगन्धावकीर्णं तीर्थोदकपूर्णकलशम् आदायातिसृष्टो अपाम् इत्य् अभिषेकमन्त्रैर् यथोक्तैर् दातारम् अभिषिञ्चति ॥
(अव्परिस्_10,1.2) व्रतेन त्वं व्रतपत इति व्रतम् उपैति
(अव्परिस्_10,1.3) याचितारदाताराव् अयाचिताशिनाव् अधह्शायिनौ भवतो
(अव्परिस्_10,1.4) व्रतोपचारम्
(अव्परिस्_10,1.5) यथाशक्त्यैकरात्रं पञ्चरात्रं द्वादशरात्रं वा व्रतं चरित्वा
(अव्परिस्_10,1.6) श्वो भूते तन्त्रम् आज्यभागान्तं कृत्वान्वारभ्याथ जुहुयात् ॥
(अव्परिस्_10,1.7) कामसूक्तं कालसूक्तं पुरुषसूक्तं महाव्याहृतिभिः संख्यापूर्विकाभिः सर्व ऋत्विजो जुह्वत्य्
(अव्परिस्_10,1.8) अथ सुवर्णमयीं भूमिं भूमेः प्रतिकृतिं गोचर्ममात्रां कृत्वा
(अव्परिस्_10,1.9) मण्डपवेद्यां समानीय वेद्युत्तरतो यस्यां वेदिम् इत्य् उपस्थाप्य
(अव्परिस्_10,1.10) गिरयस् ते पर्वता इति पर्वतान् अवस्थाप्य
(अव्परिस्_10,1.11) हिरण्यरजतमणिमुक्ताप्रवालादिभिर् उपशोभयेद् यद् अदः संप्रयतीर् इति
(अव्परिस्_10,1.12) सा मन्दसानेति नदीः कल्पयित्वा रसैश् च परिपूरयेद्
(अव्परिस्_10,1.13) अपाम् अग्रम् असि समुद्रं वो ऽभ्यवसृजामीति समुद्रान्
(अव्परिस्_10,1.14) वनस्पतिः सह देवैर् न आगन्न् इति बृहस्पतिनेति वनस्पतीन् अन्यांश् च
(अव्परिस्_10,1.15) यज्ञे त्वा मनसा संकल्पयेन् मनसा संकल्पयतीथ भवतीह भवतीह भवति
(अव्परिस्_10,1.16) निधिं बिभ्रती बहुधेति नमस्कारयित्वा
(अव्परिस्_10,1.17) सत्यं बृहद् इत्य् अनुवाको ये देवा दिव्य् एकादश स्थेति पुण्याहं वाचयेत्
(अव्परिस्_10,1.18) संस्थापयेन्
(अव्परिस्_10,1.19) नव दिवो देवजनेनेत्य् अभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्
(अव्परिस्_10,1.20) दातुर् एसास्मै रोहिणी कामं निकामं वा दुग्ध इति
(अव्परिस्_10,1.21) यथा रोहन्ति बीजानि फालकृष्टे महीतले एवं कामाः प्ररोहन्ते प्रेत्येह मनसः सदा
(अव्परिस्_10,1.22) सर्वेषाम् एव दानानां यत् फलं समुदाहृतम् । तत्तत् प्राप्नोति विप्रेभ्यो दत्त्वा भूमिं यथाविधि ॥ दत्त्वा भूमिं यथाविधीति ॥ इति भूमिदानं समाप्तम् ॥
(परिशिष्ट_11. तुलापुरुषविधिः)
(अव्परिस्_11,1.1) ओम् अथातस् तुलापुरुषविधिं व्याख्यास्यामस्
(अव्परिस्_11,1.2) तद् उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा
(अव्परिस्_11,1.3) ऋत्विग्यजमानौ कॢप्तकेशश्मश्रू रोमनखानि वापयित्वा
(अव्परिस्_11,1.4) संभारान् उपकल्प्य प्राक्तन्त्रम् आज्यभागान्तं कृत्वा

(अव्परिस्_11,1.5) महाव्याहृतिसावित्रीशान्तिं ब्रह्म जज्ञानम् इति हुत्वा
(अव्परिस्_11,1.6) अग्ने गोभिर् अग्ने ऽभ्यावर्तिन्न् अग्नेः प्रजातम् इति संपातान् उदपात्रानीयाभिषेककलशेषु निनयेद्
(अव्परिस्_11,1.7) अथास्येन्द्रो ग्रावभ्याम् इत्य् अभिषेचयेद्
(अव्परिस्_11,1.8) इदम् आपो यथेन्द्रो बाहुभ्याम् इत्य् अभिषेचयित्वा
(अव्परिस्_11,1.9) यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा वासो गन्धस्रजश् चाबध्नीयात्
(अव्परिस्_11,1.10) तुलां हिरण्यं च पवित्रैर् अभ्युक्ष्य पुरुषसंमितो ऽर्थ इति सप्तभिस् तदारोहयेद्
(अव्परिस्_11,1.11) अच्युता द्यौर् इति चतसृभिर् अवरोहयेत्
(अव्परिस्_11,1.12) सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य ब्राह्मणेभ्यो निवेदयित्वात्मालंकारान् कर्त्रे दद्यात्
(अव्परिस्_11,1.13) सहस्रदक्षिणं ग्रामवरम्
(अव्परिस्_11,1.14) द्विजान् अन्नेन तर्पयेत्
(अव्परिस्_11,1.15) अथ चेन् निःस्वपक्षेण यथा संपद्यते धनम् । धातुभिः सह तौल्यम् अतु वासोभिश् च रसैस् तथा । व्रीह्यादिसप्तधान्यैर् वा यथासंपद्यते गृहे ॥
(अव्परिस्_11,2.1) सखड्गः सशिरस्त्राणः सर्वाभरणभूषितः । तपनीयम् अगरे कृत्वा पश्चात् तोल्यो नराधिपः ॥
(अव्परिस्_11,2.2) इन्द्रेणेदं पुरा दत्तम् अधिराज्याप्तये वरम् । सर्वपापप्रणाशाय सर्वपुण्यविवृद्धये ॥
(अव्परिस्_11,2.3) महादानातिदानानाम् इदं दानम् अनुत्तमम् । अक्षय्यफलदं श्रेष्ठं दातॄणां श्रेयवर्धनम् ॥
(अव्परिस्_11,2.4) यत् पापं स्वे कुले जातैस् त्रिः सप्त पुरुषैः कृतम् । तत् सर्वं नश्यते क्षिप्रम् अग्नौ तूलं यथा तथा ॥
(अव्परिस्_11,2.5) अनामयं स्थानम् अवाप्य दैवैर् अलङ्घनीयं सुकृतैर् हिरण्मयैः । सुवर्णतेजाः प्रविमुक्तपापो दिवीन्द्रवद् राजति सूर्यलोके ॥ दिवीन्द्रवद् राजति सूर्यलेकेति ॥ इति तुलापुरुषविधिः समाप्तः ॥
(परिशिष्ट_12. आदित्यमण्डकः)
(अव्परिस्_12,1.1) ओम् अथ यः कामयेत सर्वेषां नृणाम् उत्तमः स्याम् इति स भास्करायापूपं दद्यात्
(अव्परिस्_12,1.2) तस्य कल्पो
(अव्परिस्_12,1.3) यवगोधूमानाम् अन्यतमचूर्णेन मण्डलाकृतिं संश्रप्य
(अव्परिस्_12,1.4) पात्रे कृत्वापिहितम्
(अव्परिस्_12,1.5) सगुडाज्यसुवर्णशकलं च्वोपरिष्टान् निधायार्चयेद् रक्तकुसुमैर्
(अव्परिस्_12,1.6) विषासहिम् इत्य् अभिमन्त्र्य ब्राह्मणाय निवेदयेत्
(अव्परिस्_12,1.7) तत्र श्लोकाः
(अव्परिस्_12,1.8) अनेन विधिना यस् तु पूपं दद्याद् द्विजातये । प्रयच्छेत् सततं प्राज्ञस् तस्य पुण्यफलं शृणु ॥
(अव्परिस्_12,1.9) आरोग्यवान् वर्चस्वी च प्रजावान् पशुमांस् तथा । धनवान् अन्नवान् श्रीमांस् तथा सर्वजनप्रियः ॥
(अव्परिस्_12,1.10) अपमृत्युशतं साग्रं नाशयत्य् अविचारतः । प्रदत्तं सूर्यलोकं च प्रापयेत् परमं पदम् ॥ प्रापयेत् परमं पदम् इति ॥ इत्य् आदित्यमण्डकः समाप्तः ॥
(परिशिष्ट_13. हिरण्यगर्भविधिः)
(अव्परिस्_13,1.1) ओम् अथ हिरण्यगर्भविधिम् अनुक्रमिष्यामः सर्वपापापनोदनम्
(अव्परिस्_13,1.2) उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्रद्धाप्रेरितौ ग्रहणकाले वा
(अव्परिस्_13,1.3) ऋत्विग्यजमानौ क्ल्प्तकेशश्मश्रुरोमनखौ स्याताम्
(अव्परिस्_13,1.4) अथ ऋत्विक् प्रग् अस्तंगमनाद् अश्वत्थाद् अरणी आधायाग्ने जायस्वेति द्वाभ्यां मथ्यमानम् अनुमन्त्रयते
(अव्परिस्_13,1.5) तृतीयया जातं चतुर्थ्योपसमादधाति
(अव्परिस्_13,1.6) शुचौ देशे परिधाप्य यथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कारयित्वा
(अव्परिस्_13,1.7) अग्नेः प्रजातं परि यद् धिरण्यं यद् आबध्नन्न् इति हिरण्यस्रजम् आग्रथ्य रक्षन्तु त्वेति रक्षां कृत्वा
(अव्परिस्_13,1.8) दर्भान् आस्तीर्याधह्शायिनौ स्याताम्
(अव्परिस्_13,1.9) श्वो भूते ऽभिजिन्मुहूर्ते हिरण्मयं मण्डलाकृति नाभिमात्रं पात्रम् आधाय सापिधानम्
(अव्परिस्_13,1.10) स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश् च
(अव्परिस्_13,1.11) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ चाथ जुहोति
(अव्परिस्_13,2.1) हिरण्यगर्भाय स्वाहा ॥ अग्नये स्वाहा ॥ ब्रह्मणे स्वाहा ॥ प्रजापतये स्वाहेति हुत्वा

(अव्परिस्_13,2.2) तैर् एव नमस्कारं कारयित्वा
(अव्परिस्_13,2.3) तैर् एवोपस्थाय स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश् चेति
(अव्परिस्_13,2.4) हिरण्मये राजानं हिरण्यवतीभिः स्नापयित्वा
(अव्परिस्_13,2.5) हिरण्यकलशैस् तस्मिन् पञ्चगव्यम् अप आसिच्य
(अव्परिस्_13,2.6) हिरण्यगर्भसूक्तेनांहोमुचेन शन्तातीयेन पञ्चभिश् च नामभिः संपातान् आनीय
(अव्परिस्_13,2.7) तथैव सदस्यान् असदस्यान् ऋत्विजो ऽनुज्ञापयेद्
(अव्परिस्_13,2.8) राजा हिरण्यगर्भत्वम् अभीप्सत्य् अस्मिन् भवन्तो ऽनुमन्यन्ताम् इति
(अव्परिस्_13,2.9) तैर् अनुष्ठितः
(अव्परिस्_13,3.1) उद् एहि वाजिन्न् इति द्वाभ्यां प्रवेशयेत्
(अव्परिस्_13,3.2) त्रयस्त्रिंशद् देवता इत्य् अभिसंधाय तम् अनुशास्ति
(अव्परिस्_13,3.3) वाचं नियम्य प्रतिसंहृत्य चेन्द्रियाणि विषयेभ्यो मनसा भगवन्तं हिरण्मयं हिरण्यगर्भं परमेष्ठिनं पौरुषं ध्यायस्वेति
(अव्परिस्_13,3.4) तथेति तत् प्रतिपद्यते
(अव्परिस्_13,3.5) स सप्तदशमात्रान्तरम् अस्ति
(अव्परिस्_13,3.6) सप्तदशो वै प्रजापतिः
(अव्परिस्_13,3.7) प्रजापतेर् आवृत इति विज्ञापयेत्
(अव्परिस्_13,3.8) तथैव सदस्यान् असदस्यान् अनुज्ञाप्योत्थापयेद्
(अव्परिस्_13,3.9) उत्थितं हिरण्मयेन चक्रेणाभिन्युब्जयेत्
(अव्परिस्_13,3.10) मा ते प्राण इत्य् उद्धरेद्
(अव्परिस्_13,3.11) उद्धृतं हिरण्यनाम्नो प्रविमुच्य यस् त्वा मृत्युर् इत्य् अपास्येत्
(अव्परिस्_13,3.12) संपश्यमाना इत्य् अवेक्षितो ब्राह्मणान् प्रणिपत्य नमस्कार्य नमो हिरण्यगर्भायेत्य्
(अव्परिस्_13,3.13) अथ ह वै हिरण्यगर्भस्येति प्रियतमाय तत उक्तम्
(अव्परिस्_13,3.14) ब्राह्मणा ब्रूयुर् उत्तिष्ठ हिरण्यगर्भानुगृहीतो (सीत्य्
(अव्परिस्_13,3.15) अप्रतिरथेन हुत्वा संस्थापयेद्
(अव्परिस्_13,3.16) अप्सु ते राजन् वरुणेति वरुणम् अभिष्टूय स्नात्वा पवित्रैः प्रत्येत्यादित्यम् उपतिष्ठन्ते
(अव्परिस्_13,4.1) हिरण्यं तव यद् गर्भो हिरण्यस्यापि गर्भजः । हिरण्यगर्भस् तस्मात् त्वं पाहि मां महतो महान् इति
(अव्परिस्_13,4.2) सूर्यस्यावृतम् इति प्रदक्षिणम् आवृत्य
(अव्परिस्_13,4.3) गृहान् ऐमीति गृहान् प्रतिपद्य
(अव्परिस्_13,4.4) त्वम् अग्ने प्रमतिर् इत्य् अग्निम् उपस्थाप्याथोत्सृजेद्
(अव्परिस्_13,4.5) अथ द्विजेभ्यो दक्षिणां दश सहस्राण् दद्यात्
(अव्परिस्_13,4.6) ग्रामवरं च
(अव्परिस्_13,4.7) स्रुक्स्रुवाज्यस्थाल्युदपात्रालंकारांश् चेत्य् अन्यत् सर्वं सदस्येभ्यो
(अव्परिस्_13,4.8) यावद् वा तुष्येरंश् तावद् वा देयम् ॥ राजा दद्याद्
(अव्परिस्_13,4.9) यथाकामं ब्राह्मणान् अन्नेन परिचरेत्
(अव्परिस्_13,4.10) तत्र श्लोकाः
(अव्परिस्_13,5.1) वेदानां पारगा यस्य चतुर्णां ब्रह्मवित्तमाः । तुष्टा यस्याशिषो ब्रूयुस् तस्य यज्ञफलं भवेत् ॥
(अव्परिस्_13,5.2) ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजति । इन्द्रो ऽप्य् एषां प्रसादेन देवान् अतिविराजति ॥
(अव्परिस्_13,5.3) हिरण्यदानस्य फलम् अमृतत्वम् इति श्रुतिः । श्रूयते ह्य् अस्य दाता यः सो ऽमृतत्वं समश्नुते ॥
(अव्परिस्_13,5.4) राजेक्षुवाकुप्रभ्र्तयः पुरा राजर्षयो ऽमलाः । दत्त्वा हिरण्यं विप्रेभ्यो ज्योतिर् भूत्वा दिवि स्थिताः ॥
(अव्परिस्_13,5.5) य एवं संस्कृतो राजा विधिना ब्रह्मवादिना । प्रजानाम् इह साम्राज्यं ज्यैष्ठ्यं श्रैष्ठ्यं च गच्छति ॥
(अव्परिस्_13,5.6) अमुष्मिन् ब्रह्मणा सार्धम् आनन्दम् अनुभूय वै । ज्योतिर्मयं सत्यलोकं नचैवावर्तते पुनः ॥

(परिशिष्ट_14. हस्तिरथदानविधिः)
(अव्परिस्_14,1.1) ओम् अथ हस्तिरथदानानाम् अनुक्रमं वक्ष्ये
(अव्परिस्_14,1.2) जातरूपमयं क्र्त्वा एकचक्रं सुशोभनम् । हस्तिभिः सप्तभिर् युक्तम् अर्चयित्वा यथाविधि ॥
(अव्परिस्_14,1.3) अथ वा चतुर्भिर् युक्तं हैमं राजतम् एव वा । अस्पृष्टं दारुजं वापि सर्वसंभारपूरितम् ॥
(अव्परिस्_14,1.4) हस्तियुग्मेन संयुक्तं सौरभेययुतेन वा । भुङ्क्ते सप्तैव जन्मानि सप्तद्वीपां वसुंधराम् ॥
(अव्परिस्_14,1.5) हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये वा ऋक्षे शुचिः शुचौ देशे तन्त्रम् इत्य् उक्तम् ॥
(अव्परिस्_14,1.6) प्राञ्चम् इध्मम् उपसमाधायान्वारभ्याथ जुहुयात् ॥
(अव्परिस्_14,1.7) सवित्रे स्वाहा ॥ पतंगाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहा इति हुत्वा.
(अव्परिस्_14,1.8) कनकाश् च तिला गावो दासी गृहमहीरथाः । कन्या हस्ती च विद्या च महादानि वै दश ॥
(अव्परिस्_14,1.9) तस्मात् सर्वेषु दानेषु अनुक्तविधिकेषु च । अग्निं ब्रूम इति सूक्तम् आज्यतन्त्रेण होमयेत् ॥
(अव्परिस्_14,1.10) अश्वदाता व्रजेत् स्वर्गम् अश्वारूढश् च मानवः । पूज्यते देवगन्धर्वैर् अप्सरोकिंनरैस् तथा ॥
(अव्परिस्_14,1.11) हस्तिवर्चसं प्रथताम् इति कलशे संपातान् आनीय युगं योक्त्रं रथम् इति सर्वं संप्रोक्ष्य ॥
(अव्परिस्_14,1.12) अश्रान्तस्य त्वा मनसा युनज्मीति योजयेत् ॥
(अव्परिस्_14,1.13) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलम् उद्वहो भवो उदुह्य प्रति धावतात् ॥
(अव्परिस्_14,1.14) युक्तायार्थं दद्यात् ॥
(अव्परिस्_14,1.15) श्यावैर् युक्तः शितिपद्भिर् हिरण्ययो यस्य रथः पथिभिर् वर्तते सुखैः । स नो हस्तेन सविता हिरण्यभुग् घिरण्यपाणिः सविता नो ऽभिरक्षतु ॥
(अव्परिस्_14,1.16) बृहद्धस्तिरथं युक्तं हस्तेन तु ददन् नरः । सवितुः स्थानम् आप्नोति दिव्यां कामजवां सभाम् ॥
(परिशिष्ट_15. अश्वरथदानविधिः)
(अव्परिस्_15,1.1) ओम् अथाश्वरथदानविधिः.
(अव्परिस्_15,1.2) गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चम् इध्मम् उपसमाधायान्वारभ्याथ जुहुयात् ॥
(अव्परिस्_15,1.3) वतरंहा भव वाजिन् युज्यमान इत्य् एतेनाश्वेषु संपातान् आनीयाश्रान्तस्य त्वेति समानम्
(अव्परिस्_15,1.4) त्वम् इन्द्रस् त्वं महेन्द्र इति सवित्रे अर्घं दत्त्वा
(अव्परिस्_15,1.5) पुनन्तु मेत्य् आत्मानम् आलभ्य जपेद्
(अव्परिस्_15,1.6) रक्षन्तु त्वाग्नय इति यजमानम् अभिमन्त्र्य समृद्धिहोमान्ते
(अव्परिस्_15,1.7) वरां धेनुं कर्त्रे दद्याद् अश्वरथं ग्रामवरं चेति
(अव्परिस्_15,1.8) य एवं विधिना दद्याद् विदुषे अश्वरथं सुधीः । ज्यैष्ठ्यं श्रैष्ठ्यं च साम्राज्यं प्रजानाम् इह गच्छति ॥
(अव्परिस्_15,1.9) सप्तानां लोकानाम् अन्ते ज्योतिर्लोकम् अनामयम् । गत्वा स परमानन्दं भुङ्क्ते यावद् विभावसुः ॥
(परिशिष्ट_16. गोसहस्रविधिः)
(अव्परिस्_16,1.1) ओम् अथातो गोसहस्रविधिः ॥
(अव्परिस्_16,1.2) गोष्ठ उदकान्ते शुचौ वा देशे प्राञ्चम् इध्मम् उपसमाधायान्वालभ्याथ जुहुयात् ॥
(अव्परिस्_16,1.3) आ गाव इति सूक्तेनाज्यं जुहुयात् ॥
(अव्परिस्_16,1.4) महाव्रीहीणाम् ऐन्द्रं चरुं सौम्यं च सहस्रतम्याः पयसि श्रपयित्वा गाव एव सुरभव इत्य् एतेन जुहुयात् ॥
(अव्परिस्_16,1.5) पञ्चानां नदीनां तीर्थोदकम् ॥
(अव्परिस्_16,1.6) पश्चाद् अग्नेस् तीर्थोदकेन पूर्णं कलशम् अवस्थाप्य हिरण्यवर्णा इत्य् अभिमन्त्र्य सं वो गोष्ठेनेति दश गाः स्नापयेत् ॥
(अव्परिस्_16,1.7) त्वरमाननयाः समभ्युक्ष्य सहस्रतम्याः सानोदनेकेमम् इन्द्र वर्धय क्षत्रियं म इति राजानम् अभिषिच्य ॥
(अव्परिस्_16,1.8) इमा आप इति षड्भिर् योथोक्तम् अञ्जनाभ्यञ्जनानुलेपनं कृत्वा ॥
(अव्परिस्_16,1.9) सहस्रतमीं प्रथमाम् अलंकृत्य ॥
(अव्परिस्_16,1.10) आ गावो माम् उपतिष्ठन्ताम् इत्य् उपतिष्ठेत् ॥
(अव्परिस्_16,1.11) प्रजावतीः सूयवसाद् इति च सर्वाः पाययेत् ॥
(अव्परिस्_16,1.12) प्रियम् अशनं दत्त्वाद्धि तृणम् अघ्न्य इति सहस्रतमीम् आलभ्य जपेत् ॥

(अव्परिस्_16,1.13) मया गावो गोपतिना सचध्वम् इति मन्त्रानेत्नार्घं दत्त्वा ॥
(अव्परिस्_16,1.14) सहस्रतम्याः पुछम् औपसंगृह्य भूमिष् ट्वा प्रतिगृह्णात्व् इति जपन् ॥
(अव्परिस्_16,1.15) सहस्रतम्याः पृष्ठतो व्रजन् ॥
(अव्परिस्_16,1.16) सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्तिवाच्य ब्राह्मणेभ्यो निवेद्य दश गा दक्षिणां कर्त्रे दद्यात् सहस्रतमीं वस्त्रयुग्मम् अच ॥
(अव्परिस्_16,1.17) तद् अपि श्लोकाः ॥
(अव्परिस्_16,2.1) सप्ताजन्मानुगं पापं पुरुषैः सप्तभिः क्र्तम् । तत्क्षणाद् विधिनानेन नाशयेद् गोप्रदो नरः ॥
(अव्परिस्_16,2.2) सर्वेषाम् एव दानानां फलं यत् परिकीर्तितम् । तद् अवाप्नोति विरेभ्यो गोसहस्रप्रदो नरः ॥
(अव्परिस्_16,2.3) अश्वमेधं वृषोत्सर्गं गोसहस्रं च यः सुतः । दद्यान् मदीय इत्य् आहुः पितरस् तर्पयन्ति हि ॥
(अव्परिस्_16,2.4) तस्माद् अनेन विधिना गोसहस्रं ददेन् नरः । सर्वपापविशुद्धात्मा याति तत् परमं पदम् इति ॥
(परिशिष्ट_17. राजकर्मसांवत्सरीयम्)
(अव्परिस्_17,1.1) ओम् अथ प्रतिसंवत्सरं राजकर्माणि क्रमेण वक्ष्यामः ॥
(अव्परिस्_17,1.2) अथाश्वयुजे मासे शुक्लपक्षस्य तृतीये ऽहनि ॥
(अव्परिस्_17,1.3) हरिद्रायवानाम् ॥
(अव्परिस्_17,1.4) रक्षन्तु त्वाग्नय इति चतसृभी रक्षाम् अश्वानां बद्ध्वा हस्त्यश्वानां नीराजनं कुर्यात् ॥
(अव्परिस्_17,1.5) अश्वो ऽसि क्षिप्रजन्मासि ....प्रदद्यात् स विशुद्धात्मा सप्तद्वीपां वसुंधराम् ॥
(अव्परिस्_17,1.6) हस्तेन युक्ते चन्द्रमसि पौर्णमास्याम् अमावास्यायां वा पुण्ये नक्षत्रे शुचौ देशे ॥ तन्त्रम् इत्य् उक्तम् ॥
(अव्परिस्_17,1.7) प्राञ्चम् इध्मम् उपसमाधायान्वारभाथजुहुयात् ॥
(अव्परिस्_17,1.8) सवित्रे स्वाहा ॥ पतंगाय स्वाहा ॥ पावकाय स्वाहा ॥ सहस्ररश्मये स्वाहा ॥ मार्तण्डाय स्वाहा ॥ विष्णवे स्वाहा ॥ प्रजापतये स्वाहा ॥ परमेष्ठिने स्वाहेति हुत्वा कनकानां बद्ध्वा हस्त्यश्वानां पूर्ववन् नीराजनं कुर्यात् ॥
(अव्परिस्_17,2.1) अथ नवम्याम् अपराह्णे वाहनानि स्नापयित्वा अहतवासा ब्रह्मा द्वादशमितां वेदिं कृत्वा ॥ तन्त्रम् इत्य् उक्तम् ॥
(अव्परिस्_17,2.2) शान्तिकृत्यादूषणेन वाहनं त्रिः प्रोक्ष्य परीयान् ॥
(अव्परिस्_17,2.3) निःसालाम् इति सूक्तं जपन् प्रत्येत्याभिषिञ्चयेद् एनम् ॥
(अव्परिस्_17,2.4) अश्वम् अलंकृतं शबलकण्ठं कृत्वोपस्थाप्य दध्याद् ॥
(अव्परिस्_17,2.5) एवम् एव मैश्रधान्यान्य् उदपात्राण्य् अन्तरासु दिक्षु ॥
(अव्परिस्_17,2.6) तत्रैव देवता यजेत् ॥ अग्निं वायुं वरुणम् अश्विनाव् इति ॥
(अव्परिस्_17,2.7) पयसि स्थालीपाकं श्रपयित्वा ॥
(अव्परिस्_17,2.8) समास् त्वाग्ने त्वं नो अग्ने मा नो विदन्न् अभयैर् अपराजितैर् आयुष्यैः स्वस्त्ययनैर् अप्रतिरथेनेति च हुत्वा संस्थाप्य ॥
(अव्परिस्_17,2.9) अग्नेर् अदो ऽसीत्य् अहतवासोभिः प्रछाद्य रसैः कुम्भान् औदुम्बरान् पूरयित्वा प्रतिदिशम् अवस्थाप्य ममाग्ने वर्चो अभयं द्यावापृथिवी उद् उत्तमं वरुणाश्विना ब्रह्मणा यातम् इति जुहुयात् ॥
(अव्परिस्_17,2.10) पौर्णमासी प्रथमेति च जुहुयाद् दुन्दुभिम् आहन्याद् इत्य् उक्तम् ॥
(अव्परिस्_17,2.11) उप श्वासय पृथिवीम् इति तत्रैवानुमन्त्रणं च ॥
(अव्परिस्_17,2.12) सर्वाणि च वादित्राणि वाहनानि च ॥
(अव्परिस्_17,2.13) जनस्यान् प्रहर्षय पञ्चमीं प्रतिष्ठापयेत् ॥
(अव्परिस्_17,2.14) न तं यक्ष्मा ऐतु देव इति गुग्गुलक्ष्ठदूपं दद्यात् ॥
(अव्परिस्_17,2.15) यस् ते गन्धस् त्र्यायुषम् इति भूतिं प्रयच्छेत् ॥
(अव्परिस्_17,2.16) दूष्या दूषिर् असीति प्रतिसरम् आबध्य ये पुरस्ताद् इति प्रतिदिशं क्षिपेत् ॥
(अव्परिस्_17,2.17) बहिर् निःसृत्योत्तरेण गत्वा बाह्येनोपनिष्क्रम्य सुहृदे कुर्याच् छ्रद्दधते कुर्याद् वाहनानाम् अभयं कर्म ॥
(परिशिष्ट_18. राजकर्मसांवत्सरीयम्)
(अव्परिस्_18,1.1) अथाश्वयुजे मासे पौर्णमास्याम् अपराह्णे हस्तिनीराजनं कुर्यात् ॥
(अव्परिस्_18,1.2) प्रागुदक्प्रवणे देशे यत्र वा मनो रमते ॥
(अव्परिस्_18,1.3) गिरयस् ते पर्वता इत्य् एतया हस्तशतम् अर्धं वा मण्डलं परिगृह्य याभिर् यज्ञम् इति संप्रोक्षेत् ॥
(अव्परिस्_18,1.4) तत्र श्लोकाः ॥

(अव्परिस्_18,1.5) दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् । शान्तव्र्क्षमयं कुर्यात् तोरणं पुष्टिवर्धनम ॥
(अव्परिस्_18,1.6) शुक्लैः शुक्लाम्बरध्वजैर् माल्यैश् च परिभूषितम् । कारयेत बिले शुभ्रे रसैश् च परिपूरिते ॥
(अव्परिस्_18,1.7) रसैस् त्वाम् अभिषिञ्चामि भूमे मह्यं शिवा भव । असपत्ना सपत्नघ्नी मम यज्ञविवर्धनी ॥
(अव्परिस्_18,1.8) इमौ स्तम्भौ घृतान्वक्ताव् उभौ मा यशसावतात् । यो मा कश् चभिदासति तम् इमौ स्तम्भौ निर्दहताम् इति ॥
(अव्परिस्_18,1.9) उच् छ्रयस्व इमा या ब्रह्मणस्पत इत्य् एताभ्यां सुवर्णमाला पताकैः स्तम्भौ संयोज्य ॥
(अव्परिस्_18,1.10) तस्याधस्ताच् चतुर्हस्तां वेदिं कृत्वा दर्भपवित्रपाणिर् बलिं पुष्पाणि च दत्त्वा ॥
(अव्परिस्_18,1.11) मधुलाजामश्रैः स्वस्तिकसंयावकदधिकृसरापूपकापायसघृतविविधपानभक्षफलैर् अग्निं परिस्तीर्य ॥
(अव्परिस्_18,1.12) आपो अस्मान् मातरः सूदयन्त्व् इति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा ॥
(अव्परिस्_18,1.13) प्रतिदिशम् अवस्थाप्य दध्याद् रौद्राग्नेयं वायव्यं वारुणा मन्त्राः ॥
(अव्परिस्_18,1.14) रक्षोघ्नं क्र्त्यादूशणं यशस्यवर्चस्यानि च हुत्वौषधीः समादाय द्विहस्तं मण्डलम् इत्य् उक्तम् ॥
(अव्परिस्_18,1.15) तत्र श्लोकाः ॥
(अव्परिस्_18,1.16) बृहत्कण्टारीकण्टका लाघुकण्टारिका स्मृताः । सुवर्णपुष्पी श्वेतगिरि कर्णिका ह्य् उदिसत्रा ॥
(अव्परिस्_18,1.17) सिंही व्याघ्री च हरिणी ह्य् अमृता चापराजिता । पृश्निपर्णी च दूर्वा च पद्मम् उत्पलमालिनी ॥
(अव्परिस्_18,2.1) ताम् अनुमन्त्रयते ॥
(अव्परिस्_18,2.2) वैणवं कटकम् अवस्थाप्यादध्यात् ॥
(अव्परिस्_18,2.3) द्वैपवैयाघ्रानडुच्चर्म परिस्तीर्य ॥
(अव्परिस्_18,2.4) ततो या स्याद् अधिदेवता तस्यै बलिं दत्त्वा पिण्डानि च दद्यात् ॥
(अव्परिस्_18,2.5) हस्तिनम् आचामयेत् ॥
(अव्परिस्_18,3.1) यस्यां दिशि स रिपुर् भवति तां दिशं गत्वा हस्तिनम् आनयेद् धिरण्येन रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणया कुष्ठेन नलदेन रोचनेनाञ्जनेन मनह्शिलया पद्मकुमुदोत्पलैर् ॥
(अव्परिस्_18,3.2) ममाग्ने वर्च इति सूक्तं दक्षिनोत्तरमखं प्रतिजपेत् ॥
(अव्परिस्_18,3.3) शेषेण गात्राण्य् अभ्यञ्जयेत् ॥
(अव्परिस्_18,3.4) तत्र स्लोकाः ॥
(अव्परिस्_18,3.5) हस्तिनां रक्षणे दण्डः कर्तव्यो वैणवो नवः । षोडशारत्निमात्रस् तु चारुपर्वमनओरमः ॥
(अव्परिस्_18,3.6) तेन वारणान् वारयेत् ॥
(अव्परिस्_18,3.7) दन्ताग्रेषु तृणानि कृत्वा यथा हव्यं वहसि ग्रसति ॥
(अव्परिस्_18,3.8) सुजातं जातवेदसम् इत्य् अग्निं प्रज्वालयेत् ॥
(अव्परिस्_18,3.9) सुजातं जातवेदसम् इति वाचयेद् यथा हव्यम् इति नीराजयित्वा ॥
(अव्परिस्_18,3.10) निधिं बिभ्रतीति शालां प्रवेशयेद् ॥
(अव्परिस्_18,3.11) अनपेक्षमानाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश् च भवन्ति ॥
(अव्परिस्_18,3.12) गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च ॥
(परिशिष्ट_18ब्. राजकर्मसांवत्सरीयम्)
(अव्परिस्_18ब्,1.1) अथ वर्षशतं प्रवर्धमानो राजानम् अभिवर्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् ॥ तन्त्रम् इत्य् उक्तम् ॥
(अव्परिस्_18ब्,1.2) पुनन्तु मा वायोः पूतो वैश्वानरो रश्मिभिर् इति पवित्रैः पुण्याहादीनि च मङ्गलैर् यजमानं च संप्रोक्ष्य यद् आबध्नन्न् इति पुष्पाद्यलंकारं वर्जयित्वा माहेन्द्रं चरुं श्रपयेत् ॥
(अव्परिस्_18ब्,1.3) लोकपालेभ्यश् च द्वितीयं चरुं श्रपयेत् ॥
(अव्परिस्_18ब्,1.4) महाम् इन्द्रो य ओजसेति सूक्तेन तृतीयायां ह्य् अग्नौ हुत्वा इन्द्राय स्वाहेत्यादि लोकपालांश् चेष्ट्वा राजानम् अन्वालभ्य आदिवज् जुहुयाद् अर्वाञ्चम् इन्द्रम् इन्द्रः सुत्रामा इमम् इन्द्र वर्धय क्षत्रियं मे शतं जीवतः सरद इति ॥
(अव्परिस्_18ब्,1.5) रक्षन्तु त्वाग्नय इति चतसृभी रक्षां कृत्वा रोचनयालंकुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा ॥
(अव्परिस्_18ब्,1.6) मनायै तन्तुम् इति सूक्तेन रक्षासूत्रे संपातं च कृत्वा ॥
(अव्परिस्_18ब्,1.7) धाता ते ग्रन्थिम् इति बध्नाति ॥
(अव्परिस्_18ब्,1.8) उत्तरतन्त्रं हिरण्यं दक्षिणा ॥
(अव्परिस्_18ब्,2.1) महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रम् ॥

मूल पाठ: Atharvavedapariśiṣṭas · Edition: George Melville Bolling and Julius von Negelein: "The Pariśiṣṭas of the Atharvaveda", Vol. 1, parts 1 and 2 (all published), Leipzig : Harrassowitz 1909-1910. · Data entry Yuri Ishii · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc