भाषा

ENहिગુ
ग्रंथ पाठ

अथर्वप्रायश्चित्तानि · अध्याय 6

6.1

इति यज्ञप्रायश्चित्ते पञ्चमो ऽध्यायः समाप्तः ।
(अव्प्र्_6.1:132।5) अथातः सौमिकानि व्याख्यास्यामः ।
(अव्प्र्_6.1:132।5-7) हविर्धाने चेत् प्रपतेयातां पुरा बहिष्पवमानाद् अध्वर्युर् दक्षिणम् उद्गृह्णीयात् ।
(अव्प्र्_6.1:132।7) प्रतिप्रस्थातोपस्तभ्नुयात् ।
(अव्प्र्_6.1:132।7-8) प्रतिप्रस्थातोत्तरम् उद्गृह्णीयात् ।
(अव्प्र्_6.1:132।8-11) अध्वर्युर् उपस्तभ्नुयाद् यथाप्रकृति स्तम्भानोपमानौ (!) <सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि [.र्व् 5.42.18 एत्च्.]> ।
(अव्प्र्_6.1:132।11-12) <शिरो यज्ञस्य प्रतिधीयताम् अमृतं देवतामयं> ।
(अव्प्र्_6.1:132।12) वैष्णव्याः ।
(अव्प्र्_6.1:132।12-16) (क्रियतां शिर आश्विन्याः प्रतिह्रीयतां अमृतां) <द्युभिर् अक्तुभिः परिपातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौर् [.र्व् 1.112.25]> इत्य् आग्नीध्रीये जुहुयात् ।
(अव्प्र्_6.1:132।16-18) औदुम्बरीं चेद् अपहरेयुर् यम् एव कां चित् प्रछिद्यावदध्याद् अध्वर्युर् उद्गाता यजमानः ।
(अव्प्र्_6.1:132।18-19) <ऊर्ग् अस्य् ऊर्जं मयि धेहि । श्रियां तिष्ठ प्रतिष्ठिता । दिवं स्तब्ध्वान्तरिक्षं च पृथिव्यां च दृढा भव [अअप्;स्स् 14.33.2]>_इति ।
(अव्प्र्_6.1:133।1) <धर्त्रि धरित्रि जनित्रि यमित्रि [अअप्;स्स् 14.33.2]>_इति ब्रह्मा ।
(अव्प्र्_6.1:133।1-2) अन्तःसदसो बहिष्पवमानेन स्तूयुर् ।
(अव्प्र्_6.1:133।2-5) दीक्षितस्य गार्हपत्यो ऽन्ते गार्हपत्यो ऽनुगच्छेद् <अग्निं नरो दीधितिभिर् अरण्योर् हस्तच्युती जनयन्त प्रशस्तं । दूरेदृशं गृहपतिम् अथर्युम् [.र्व् 7.1.1, अअप्;स्स् 14.16.1]> इति मथित्वावदध्यात् ।
(अव्प्र्_6.1:133।5-6) आश्व् अनुप्रणीतश् चेद् अनुगछेद् एतयैव मथित्वावदध्यात् ।
(अव्प्र्_6.1:133।6-7) अग्नयश् चेन् मिथः संसृज्येरन्न् <अग्निनाग्निः संसृज्यते [.र्व् 1.12.6; च्f. कौश्स् 108.1-2]>_इत्य् एते जपेत् ।
(अव्प्र्_6.1:133।7-9) शालामुखीयश् चेद् अनुगच्छेद् गार्हपत्यात् प्रणीय <भद्रं कर्णेभिर् [सेए बेलोw]> इति चतस्रो जपेत् ।
(अव्प्र्_6.1:133।9-11) <भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः । स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यद् आयुः [.र्व् 1.89.8, अअप्;स्स् 14.16.1]> ।
(अव्प्र्_6.1:133।11-13) <स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस् तार्क्ष्यो ऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु [.र्व् 1.89.6, अअप्;स्स् 14.16.1]> ।
(अव्प्र्_6.1:133।13-16) <पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह [.र्व् 1.89.7, अअप्;स्स् 14.16.1]> ।
(अव्प्र्_6.1:133।16-18) <शतम् इन् नु शरदो अन्ति देवा यत्र नश् चक्रा जरसं तनूनां । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [.र्व् 1.89.9, अअप्;स्स् 14.16.1]> । इति ।
(अव्प्र्_6.1:133।18-19) <प्रेद्धो अग्ने [सेए बेलोw]> इति चतसृभिर् जुहुयात् ।
(अव्प्र्_6.1:133।19-20) <प्रेद्धो अग्ने दीदिहि पुरो नो जस्रया सूर्म्या यविष्ठ । त्वां शश्वन्त उप यन्ति वाजाः [.र्व् 7.1.3]> ।
(अव्प्र्_6.1:133।20-23) <सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त र्षयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आपृणस्व घृतेन स्वाहा [त्स् 1.5.3.2 एत्च्.]> ।
(अव्प्र्_6.1:133।23-25) <यन् मे मनसश् छिद्रं यद् वाचो यच् च मे हृदः । अयं देवो बृहस्पतिः सं तत् सिञ्चतु राधसा [अअप्;स्स् 14.16.1]> ।
(अव्प्र्_6.1:133।25) <ममाग्ने वर्चः [प्स् 5.4.1, ;स्स् 5.3.1]>_इति ।
(अव्प्र्_6.1:133-134।25-1) एकाग्निध्रीयश् चेद् अनुगच्छेद् गार्हपत्यात् प्रणीय <ममाग्ने वर्चः [सेए अबोवे]> इति षड्भिर् जुहुयात् ।
(अव्प्र्_6.1:134।1-2) औत्तरवेदिकश् चेद् अनुगच्छेच् छालामुखीयात् प्रणीय_<इमो अग्ने [सेए बेलोw]>_इति त्रयोदशभिर् जुहुयात् ।
(अव्प्र्_6.1:134।2-4) <इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिम् अछा प्रति न ईं सुरभीणि व्यन्तु [.र्व् 7.18.1]> ।
(अव्प्र्_6.1:134।4-5) <सप्त ते अग्ने समिधः [सेए अबोवे]> । <यन् मे मनसश् छिद्रं [सेए अबोवे]> । <ममाग्ने वर्च [सेए अबोवे]> इति जुहुयात् ।
(अव्प्र्_6.1:134।5-7) पशुश्रपणश् चेद् अनुगच्छेद् औत्तरवेदिकात् प्रणीय <त्वं नो अग्ने [सेए अबोवे]> <स त्वं न [सेए अबोवे]> इति सर्वप्रायश्चित्तं हुत्वा ।
(अव्प्र्_6.1:134।7-8) यद्य् उख्यो ऽनुगच्छेत् पुनः पुनः प्रज्वाल्य

6.2

(अव्प्र्_6.2:134।8-10) <कायमानो वना त्वं यन् मातॄर् अजगन्न् अपः । न तत् ते अग्ने प्रमृषे निवर्तनं यद् दूरे सण्न् इहाभवः [.र्व् 3.9.2]> ।
(अव्प्र्_6.2:134-135।10-2) <यास् ते अग्न आर्द्रा योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास् ते अग्ने तन्व ऊर्जो नाम ताभिष् ट्वम् उभयीभिः संविदानः शतं चिन्वानस् तन्वा निषीदत [च्f. क्स् 39.3:121.4]> ।
(अव्प्र्_6.2:135।2-4) <साकं हि शुचिना शुचिः प्रशस्ता क्रतुनाजनि । विद्वा"न् अस्य व्रता ध्रुवा वया इवानु रोहते [.र्व् 2.5.4]>_इत्य् आधाय समिधं कृष्णां दद्यात् ।
(अव्प्र्_6.2:135।4-5) वासोयुगं धेनुं वा ।
(अव्प्र्_6.2:135।5-8) यद्य् उखा वा भिद्येत तैर् एव कपालैः संचित्यान्यां कृत्वा <स्यूता देवेभिर् अमृतेनागाः [प्स् 19.44.1, अअप्;स्स् 16.26.6]> <उखां स्वसारम् अधि वेदिम् अस्थात् सत्यं पूर्वैर् ऋषिभिश् चाकुपानो अग्निः प्रविद्वान् इह तत् करोतु [अअप्;स्स् 16.26.6]> ।
(अव्प्र्_6.2:135।8) <स्तवादेजरुधरनमद्रिर् [?]> इत्य् अनुमन्त्रयेत् ।
(अव्प्र्_6.2:135।9-11) वसतीवरीश् चेत् स्कन्देयुः <पृथिवी विभूवरी सिनीवाल्य् उरुंधेत्य् आवृत्ते । नमस् ते भुवो विश्व[ं] तद् [च्f. क्स् 35.3:51.16।अअप्;स्स् 14.17.3. सेए अप्परतुस् नोते 964, अन्द् च्f. रेअदिन्ग् ओf द् wइथ् क्स्।अअप्;स्स्. ओन् थिस् बसिस्, अ fइर्स्त् स्तेप् तोwअर्द्स् इम्प्रोविन्ग् थे एदितिओन् हस् बेएन् तकेन्]> गृहीत्वा <मान्दा वाशा [सेए बेलोw]> इति चतसृभिर् आग्नीध्रीये जुहुयात् ।
(अव्प्र्_6.2:135।11-13) <मान्दा वाशाः शुन्ध्यूर् अजिराः । उन्दतीः सुफेनाः ज्योतिष्मतीस् तमस्वतीर् । मित्रभृतः क्षत्रभृतः स्वराष्ट्रा इह मावत [त्स् 2.4.7.2] ।
(अव्प्र्_6.2:135।13-14) <वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामि [त्स् 2.4.7.2]> ।
(अव्प्र्_6.2:135-136।14-1) <देवा वसवा अग्ने इन्द्र सूर्य । देवा उद्नो दत्तोदधिं भिन्त्त दिवस् पर्जन्याद् अन्तरिक्षात् समुद्रात् ततो नो वृष्ट्यावत [च्f. त्स् 2.4.8.1]> ।
(अव्प्र्_6.2:136।1-4) <देवा युजो मित्रावरुणार्यमा युक्तं देवाः सपीतयो अपां नपात् तनूनपान् नराशंस उद्नो दत्तो ऽदधिं भिन्त्त दिवस् पर्जन्याद् अन्तरिक्षात् समुद्रात् ततो नो वृष्ट्यावत [च्f. त्स् 2.4.8.1]>_इति ।
(अव्प्र्_6.2:136।4-5) प्रवृत्ताश् चेत् स्युः <सं मा सिञ्चन्तु [प्स् 6.18-19, ;स्स् 7.33.1]>_इति संसिञ्चेत् । [एम्., एद्. समा-]
(अव्प्र्_6.2:136।5-6) निवृत्ताश् चेत् स्युर् <अपाम् ऊर्मी [;स्स् 20.28.4?]>_इति गृहीत्वा षड्भिर् आहवनीये जुहुयात् ।
% नोते मन्त्र नोत् इन् प्स्
(अव्प्र्_6.2:136।6-8) <इन्द्रियावान् मदिन्तमस् तं वो माव क्रमिषम् । अछिन्नं तन्तुं पृथिव्या अनु गेषम् [त्स् 1.2.3.3]> इति हुत्वा

6.3

(अव्प्र्_6.3:136।8-10) अभिवृष्टे सोमे <द्यौश् च त्वा पृथिवी च शृणीताम् अन्तरिक्षं च [च्f. क्स् 35.11:58.9]> । <इन्दुर् इन्दुम् अवागाद् इन्दोर् इन्द्रो ऽपात् [त्ब् 3.7.10.6, अअप्;स्स् 14.29.2, च्f. क्स् 35.11:58.14]> ।
(अव्प्र्_6.3:136।10-13) <यज्ञश् च त्वा वायुश् च शृणीताम् [च्f. क्स् 35.11:58.12]> <अहश् च त्वा रात्रीश् च शृणीतां [क्स् 35.11:58.9]> <दर्शश् च त्वा पौर्णमासश् च शृणीतां [च्f. क्स् 35.11:58.13]> <यज्ञश् च त्वा दक्षिणा च शृणीतां [च्f. क्स् 35.11:58.12]> <दक्षश् च त्वा मानसश् च शृणीताम् [च्f. प्स् 20.37.5अ]> <अर्कश् च त्वाश्वमेधश् च शृणीताम् [क्स् 35.11:58.14]> ।
(अव्प्र्_6.3:136।13-16) <.... श् च त्वा .... इन्दुर् इन्दुम् उपागात् सायामे सो म भूत् सर्व तस्य त इन्दव् । इन्द्रपीतस्योपहूतस्योपहूतो भक्षयामि [;साङ्ख्;स्स् 13.12.10, त्ब् 3.7.10.6, अअप्;स्स् 14.29.2]>_इत्य् अभिमृष्टस्य भक्षयेत् ।
(अव्प्र्_6.3:136।16-18) ससोमं चेच् चमसं सदसि स्तोत्रेणाभ्युपाकुर्यात्_<हिरण्यगर्भस् [सेए अबोवे, नोते इन् चोम्बिनतिओन् wइथ् नेxत् मन्त्र अल्सो तअ 1.13.3]> <तद् इत् पदम् [त्ब् 3.7.10.6]> इति द्वाभ्यां जुहुयात् ।
(अव्प्र्_6.3:136।19-20) <तद् इत् पदं न विचिकेत विद्वान् यन् मृतः पुनर् अप्य् एति जीवान् [त्ब् 3.7.10.6]> ।
(अव्प्र्_6.3:136।20-21) प्रवृत्ता च स्थली स्यात् <त्रिवृद् यद् भुवनस्य रथवृज् जीवो गर्भो न मृतस्य जीवात् स्वाहा [त्ब् 3.7.10.6]>_इति ।
(अव्प्र्_6.3:136-137।21-1) अन्यश् चेद् आग्रायणाद् गृह्णीयाद् आग्रायणश् चेद् उपदस्येद् आग्रयणाद् गृह्णीयाद् ग्रहेभ्यो वाहृत्य शुक्रध्रुवौ वर्जम् ।
(अव्प्र्_6.3:137।1) <आत्मा यज्ञस्य [.र्व् 9.6.8]>_इति चतसृभिर् जुहुयात् । [एद्. आ त्वा यज्ञस्य]
(अव्प्र्_6.3:137।1-3) <आत्मा यज्ञस्य रंह्या[त्] सुष्वाणः पवते सुतः । प्रत्नानि पाति काव्यः [.र्व् 9.6.8, क्स् 35.6:54.14]> । [एद्. आ त्वा यज्ञस्य]
(अव्प्र्_6.3:137।3-4) <गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत । प्रत्नानि पाति काव्यः [.र्व् 9.2.10, क्स् 35.6:54.16]> ।
(अव्प्र्_6.3:137।4) <देवानां देवः [प्स् 15.9.5-6? म्स् 4.14.12:236.3, त्ब् 2.4.8.3? कौश्स् 74.12?]> इति द्वे ।
% इf थे इदेन्तिfइचतिओन् wइथ् प्स् 15.9.5-6 इस् चोर्रेच्त् (अन्द् थे इति द्वे तेन्द्स् तो चोर्रोबोरते थिस्, बेचौसे थोसे त्wओ मन्त्रस् स्तन्द् अत् थे एन्द् ओf प्स् 15.9), थेन् देव नेएद्स् तो बे एमेन्देद् तो देवा, अन्द् wए हवे हेरे अ प्स् मन्त्र wइथोउत् सकलपाठ.
(अव्प्र्_6.3:137।4-8) ध्रुवश् चेद् उपदस्येत् प्रवृत्ता चेत् स्थाली स्याद् <वसवस् त्वादीस् तर्पयन्तु रुद्रास् त्वा तर्पयन्तु । आदित्यास् त्वा तर्पयन्तु [?]>_इत्य् उत्सृज्य <ध्रुवा द्यौर् [प्स् 19.6.9, ;स्स् 6.88.1]> इत्य् अभिमन्त्र्य <ध्रुवं ध्रुवेण [प्स् 19.6.4, ;स्स् 7.94.1]>_इति गृहीत्वा_<आयुर्दा असि ध्रुवः>_इति चतसृभिर् आग्नीध्रीये जुहुयात् ।
(अव्प्र्_6.3:137।8-11) <आयुर्दा असि ध्रुव आयुर् मे दाः स्वाहा । वर्चोदा असि ध्रुवो वर्चो मे दाः स्वाहा । तेजोदा असि ध्रुवस् तेजो मे दाः स्वाहा । सहोदा असि ध्रुवः सहो मे दाः स्वाहा> ।
(अव्प्र्_6.3:137।11-13) ग्राव्णि शीर्णे द्योतानस्य मारुतस्य ब्रह्मसामेन स्तुवीरन्न् इत्य् एके भक्षणीयम् उपरवेष्व् अपिनयेत्

6.4

(अव्प्र्_6.4:137।13-14) अपिदग्धे सोमे कृतांत्वाद् उपक्रमेरण्यं वचनात् ।
(अव्प्र्_6.4:137।14-15) जप्त्वा पुरा द्वादश्या पुनर् दीक्षावांताद्विति ।
(अव्प्र्_6.4:137।15-16) तत्र ता दद्याद् याः कस्यै त्वा दास्य भवति ।
(अव्प्र्_6.4:137।16-17) तथैवैनाम् ऋत्विजो याजयेयुर् ।
(अव्प्र्_6.4:137।17-18) यद्य् अक्रीतसोमम् अपहरेयुर् अन्यः क्रीतव्यः ।
(अव्प्र्_6.4:137।18-19) यदि क्रीतो नष्टः स्यात् सा नित्याभिषिच्यः ।
(अव्प्र्_6.4:137।19) राजाहार इति किंचिद् देयं ।
(अव्प्र्_6.4:137-138।19-1) तेनास्य स परिक्रीतो भवति ।
(अव्प्र्_6.4:138।1-2) यदि सोमं न विन्देयुः पूतीकान् अभिषुणुयुर् ।
(अव्प्र्_6.4:138।2-3) यदि न पूतीकान् अर्जुनान्य् अथ या एव काश् चौषधीर् आहृत्याभिषुणुयुः ।
(अव्प्र्_6.4:138।3-4) पञ्चदक्सिणं क्रतुं संस्थापयेयुर् एकदक्षिणं वा ।
(अव्प्र्_6.4:138।4-5) येन यज्ञेन कामयेत तेन यजेत ।
(अव्प्र्_6.4:138।5) [अ]त्र यत् कामयेत तत्र तद् दद्यात् ।
(अव्प्र्_6.4:138।5-7) प्रातःसवनाच् चेत् कलशो विदीर्येत वैष्णवीषु शिपिविष्टवतीषु तृचा स्तूयुर् ।
(अव्प्र्_6.4:138।7-10) (माध्यंदिनश् चेत् पवमाने समाध्यंदिनात् पवमाना) यदि माध्यंदिनार्भवस्य पवमानस्य पुरस्ताद् वषट्कारनिधनं साम कुर्यात् ।
(अव्प्र्_6.4:138।10) यदि तृतीयसवन एतद् एव

6.5

(अव्प्र्_6.5:138।10-12) <भूमिर् भूमिम् अगान् माता मातरम् अप्य् अगात् । ऋध्यास्म पुत्रैः पशुभिर् यो नो द्वेष्टि स भिद्यताम् [कौश्स् 136.2]> इति ।
(अव्प्र्_6.5:138।12-14) यन् मार्त्तिकं भिद्येत तदापो गमयेत् तथैव दारुमयं <य ऋते चिद् अभिश्रिषः [प्स् 18.11.7, ;स्स् 14.2.47]>_इत्य् एतयालभ्याभिमन्त्रयते ।
(अव्प्र्_6.5:139।1-2) सर्वत्र शीर्णे भिन्ने नष्टे ऽन्यं कृत्वा <पुनर् मैत्व् इन्द्रियम् [प्स् 3.13.6, ;स्स् 7.67.1]> इत्य् आददीत ।
(अव्प्र्_6.5:139।2-4) बहिष्पवमानं चेत् सर्पतां प्रस्तोता विछिद्येत ब्रह्मणे वरं दत्त्वा ततस् तम् एव पुनर् व्र्णीयात् ।
(अव्प्र्_6.5:139।4-5) यद् उद्गाता विछिद्येत सर्ववेदसदक्षिणेन यज्ञेन यजेत ।
(अव्प्र्_6.5:139।5-6) एवं सर्वेषां विछिन्नानां सर्पताम् एकैकस्मिन् कुर्यात् ।
(अव्प्र्_6.5:139।6-7) <द्यौश् च म इन्द्रश् च मे [त्स् 4.7.6.2]> । <तन्तुं तन्वन् [.र्व् 10.53.6, त्स् 3.4.2.2]> । <मा प्र गाम पथो वयम् [प्स् 17.25.2 । ;स्स् 13.1.59, .र्व् 10.57.1]> इति ।
(अव्प्र्_6.5:139।7-9) शस्त्राच् चेच् छस्त्रम् अनुशंसन् व्यापद्येत <मा प्रगाम पथो वयम् [सेए अबोवे]> इति पञ्चभिर् जुहुयात् ।
(अव्प्र्_6.5:139।9-11) राथंतरं चेत् स्तूयमानं व्यापद्येत <सम्यग् दिग्भ्यः [वोन् नेगेलेइन् नो दोउब्त् चोर्रेच्त्ल्य् रेfएर्स् तो प्स् 15.1.1: सम्यन् दिग्भ्यः]> इति द्वाभ्यां जुहुयात् ।
(अव्प्र्_6.5:139।11-12) यवादीनाम् अवपन्नानां व्यावृत्तानाम् उत्तरासां यथालिङ्गं द्वाभ्यां जुहुयात् ।
(अव्प्र्_6.5:139।12-14) नाराशंसा(द्) उन्नेताद् उपदस्येरन्न् <अयं नो अग्निर् अध्यक्षः [प्स् 20.61.5-6, सकल अत् कौश्स् 89.13]> इति द्वाभ्यां ।
(अव्प्र्_6.5:139।14) पान्नेजन्याश् चेद् उपदस्येत् <सं मा सिञ्चन्तु [सेए अबोवे]>_इति संसिञ्चेत्

6.6

(अव्प्र्_6.6:139।15-18) अथ चेद् धुताहुतौ सोमौ पीतापीतौ वा संसृज्येयातां <यज्ञस्य हि स्थ ऋत्विजा [.र्व् 8.38.1]> <गवीन्द्राग्नी कल्पता युवं हुताहुतस्य चास्या यस्येन्द्राग्नीवीतं पिबत घृतम् इमां घृतम् [?]> इति द्वाभ्यां जुहुयात् ।
(अव्प्र्_6.6:139।18-20) प्रातःसवनाच् चेत् कलशो विदीर्येत वैष्णवतीषु शिपिविष्टवतीषु गौरीवितेन स्तूयुः ।
(अव्प्र्_6.6:139-140।20-1) समानजनपदौ चेत् सोमौ संसवौ स्यातां पूर्वो ऽग्निं परिगृह्णीयात् पूर्वो देवताः परिगृह्णीयात् ।
(अव्प्र्_6.6:140।1-2) नातिरात्र्या प्रातरनुवाकम् उपाकुर्यात् ।
(अव्प्र्_6.6:140।2-4) <अभिष्टाव्याथ संवेशायोपवेशाय गायत्र्यै छन्दसे ऽभिभूत्यै स्वाहा [अअप्;स्स् 14.26.2]>_इति पुरस्तात् प्रातरनुवाकस्य जुहुयात् ।
(अव्प्र्_6.6:140।4-5) <त्रिष्टुभः>_इति माध्यंदिने विद्विषाणयोः संसवाव् इति विज्ञायते ।
(अव्प्र्_6.6:140।5-7) सवनीयानन्तरम् अग्नये यविष्ठायाष्टाकपालम् इत्य् आहवनीये महद् अभ्यादध्यात् ।
(अव्प्र्_6.6:140।7-8) संभाराणां चतुर्भिश् चतुर्भिः प्रतिदिशं जुहुयात् ।
(अव्प्र्_6.6:140।8-9) उत्तमम् आग्नीध्रीये सोमभाग[ं] ब्राह्मणेषु शंसे[त्] ।
(अव्प्र्_6.6:140।9-10) वज्राणां श्येनविषमस्य च फट्कारप्रभृत्य् अनुजानीयात् ।
(अव्प्र्_6.6:140।10-12) सर्वेषु चाभिचारिकेषु संदीक्षितानां च व्यावर्त्तेताग्नेरन् ब्राह्मणः प्रोच्य <जीवा नाम स्था ता इमं जीवेत्(व्)अ [म्स् 4.8.7:115.5]> ।
(अव्प्र्_6.6:140।12) <उपजीवा नाम स्था ता इमं जीवेत [?]> ।
(अव्प्र्_6.6:140।13) <जीविका नाम स्था ता इमं जीवेत संजीवेत [म्स् 4.8.7:115.5]> ।
(अव्प्र्_6.6:140।13-14) <जीवला नाम स्था ता इमं जिवेत संजीवेत [?]> ।
(अव्प्र्_6.6:140।14-15) <संजीविका नाम स्था ता इमं जीवे(स्)त्(व्)अ [अअप्;स्स् 14.20.8]> । इत्य् अपः परिब्रूयात् ।
(अव्प्र्_6.6:140।15-16) तासाम् उदगर्वाक् कुर्यात् ।
(अव्प्र्_6.6:140-141।16-1) <उपांश्वन्तर्यामौ च चेत् ते प्राणापानौ पाताम् । उपांशुसवनस् ते व्यानं पातु । श्रोत्रं चाश्विनौ पातां । दक्षक्रतू ते मित्रावरुणौ पातां । स्तन इत्य् ऋतुपात्रे । आत्मानं त आग्रयणः पातु । अङ्गानि च त उक्थ्यः पातु । आयुष् टे ध्रुवः पातु । वीर्यं ते लक्ष्मीः पात्व् [अअप्;स्स् 14.21.4]> इति जुहुयात् ।
(अव्प्र्_6.6:141।1-3) <पुष्टिना पुष्टिं प्राणेन प्राणं तेजसा तेजश् चक्षुषा चक्षुः श्रोत्रेण श्रोत्रम् आयुषायुः पुनर् देहि [?]>_इति सकृद् एतानि जुहुयाद् ब्रह्माणि सूक्तानि

6.7

(अव्प्र्_6.7:141।3-4) ब्रह्मा ब्राह्मणाच्छंसी वैन्द्रवायवाद् ग्रहं गृह्णीयात् ।
(अव्प्र्_6.7:141।4-7) स चेन् म्रियेताग्निभ्य एव त्रीन् अङ्गारान् उद्धृत्य दक्षिणं पाणिं श्रोणिं प्रति दग्ध्वास्थीन्य् उपनिदध्युस् ।
(अव्प्र्_6.7:141।7-8) तस्य पुत्रं भ्रातरं वोपदीक्षां समाप्नुयुः ।
(अव्प्र्_6.7:141।8-12) स चेन् म्रियेताग्निभ्य एव त्रीन् अङ्गारान् उद्धृत्य दक्षिणं पाणिं श्रोणिं प्रतितप्यैव दग्ध्वा होतुः प्रमुखा ऋत्विजः प्राचीनावीतं कृत्वा दक्षिणान् ऊरून् आघ्नानाः सर्पराज्ञीनम् (ऊर्त्त्या) कीर्त्तयन्तः स्तोत्रे स्तोत्रे ऽस्थिपुटम् उपनिदध्युः ।
(अव्प्र्_6.7:141।13) संवत्सरे ऽस्थिपुटं निदध्युः ।
(अव्प्र्_6.7:141।13-14) संवत्सरे ऽस्थीनि याजयेत् ।
(अव्प्र्_6.7:141।14-15) समाप्ते संवत्सरे दीक्षितानां चेद् उपदीक्षेत सोमं विभज्य विश्वजितातिरात्रेण ।
(अव्प्र्_6.7:141-142।15-2) यद्य् आश्विनी[षु] शस्यमानास्व् आदित्यं पुरस्तान् न पश्येयुर् अश्वं श्वेतं रुक्मप्रतिहितं पुरस्ताद् अवस्थाप्य सौर्यं श्वेतं (ग्)अजम् उपालंभ्यम् आलभेत तस्य तान्य् एव तन्त्राणि यानि सवनीयस्युः पुरस्तात् संधि चमसासवानाम् अनुप्रदानं स्यात् ।
(अव्प्र्_6.7:142।2-4) अश्वमेधे चेद् अश्वो नागच्छेद् आग्नेयो ऽष्टाकपाल इति मृगाखरे षड्ढविष्काम् इष्टिं निर्वपेद् दशहविषम् इत्य् एके ।
(अव्प्र्_6.7:142।4-6) वडवां चेद् अश्वो ऽभीयाद् अग्नये ऽंहोमुचे ऽष्टाकपालं सौर्यं पयो वायव्याव् आज्यभागौ

6.8

(अव्प्र्_6.8:142।6) सोमरूपेषूक्त आचार्यकल्पो ।
(अव्प्र्_6.8:142।6-7) ब्राह्मणं तु भवति ।
(अव्प्र्_6.8:142।7-9) त्रयस्त्रिंशद् वै यज्ञस्य तन्वः । इत्य् एकान्नत्रिंशो पाकनग्निम् अश्वणाम् इत्य् अर्थलोपान् निवृत्तिस् ।
(अव्प्र्_6.8:142।9-17) त्रीणि वा चतुर्गृहीतान्य् अनुवाकस्येत्य् आचार्या एते नित्यकल्पायार्त्विज्येतरूपयसां तन्वाम् आर्त्तिम् आर्छतां चोत्तरां वा संधिं संधाय जुहुयाद् इति तैत्तिरीयब्राह्मणम् इष्ट्वा तद्दैवत्यामेधिकीयतामर्त्तिर् विद्याज् जामिं पुरुषविधिं मायया वा यज्ञसंबन्धिनीं वाङ्मनश्चिन्तायां प्राग् विहरणाद् आर्ताय प्रजापतिर् मनसि सारस्वतो वाचि विसृष्टायां विधानं दीक्षायां ब्रह्मव्रते स्वाहेत्य् एतेन न्यायेन वाजसनेयीब्राह्मणमोघेन मन्त्राः क्;ल्प्ताः ।
(अव्प्र्_6.8:142।17-18) प्रजापतये स्वाहा धात्रे स्वाहा पूष्णे स्वाहेत्य् ।
(अव्प्र्_6.8:142।18-20) अपराह्णिकश् चेत् प्रवर्ग्यो ऽभ्यस्तम् इयात्_<शुक्रो ऽसि [प्स् 1.57.5।18.56.4।19.44.21, ;स्स् 2.11.5।17.1.20]> <दिवो ऽछत [?]> इति जुहुयाद् व्याहृतिभिश् च ।
(अव्प्र्_6.8:142।20-22) श्वःसुत्यां चेद् अहुतायां तदहर्ताव् अपागछेद् <इन्द्राय हरिवते [अअप्;स्स् 13.17.2, मान्;स्स् 2.5.4.4]> इति ब्रूयाद् इहान्वीचमतिभिर् इति तिस्र्भिः ।
(अव्प्र्_6.8:142।22-23) प्रातरनुवाकं चेद् दुरितम् उपाकुर्यात् <प्र वां दंसांस्य् अश्विनाव् अवोचम् [सेए बेलोw]> इति पञ्चभिर् जुहुयात्

मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc