अथर्वप्रायश्चित्तानि · अध्याय 7
(अव्प्र्_6.9:142-143।23-1) <प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः । उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् [.र्व् 1.116.25]>
(अव्प्र्_6.9:143।1-3) <मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वां । बर्हिष्मती रात्रिर् विश्रिता गीर् इषा यातं नासत्यो ऽप वाजैः [.र्व् 1.117.1]>
(अव्प्र्_6.9:143।3-5) <यो वाम् अश्विना मनसो जवीयान् रथः स्वश्वो विश आजिगाति । येन गछथः सुकृतो दुरोणं तेन नरा वर्तिर् अस्मभ्यं यातं [.र्व् 1.117.2]>
(अव्प्र्_6.9:143।5-7) <ऋषिं नराव् अंहसः पाञ्चजन्यम् ऋबीषाद् अत्रिं मुंचथो गणेन । मिनन्ता दस्योर् अशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता [.र्व् 1.117.3]>
(अव्प्र्_6.9:143।7-10) <अश्वं न गूढम् अश्विना दुरेवैर् ऋषिं नरा वृषणा रेभम् अप्सु । सं तं रिणीथो विप्रुतं दंसोभिर् न वां जूर्यन्ति पूर्व्या कृतानि [.र्व् 1.117.4]>
इति ।
(अव्प्र्_6.9:143।10-11) प्रातःसवनं चेन् माध्यंदिनं सवनम् अभ्यस्तमियाद् <अग्निर् मा पातु वसुभिः पुरस्तात् [प्स् 7.16.1, ;स्स् 19.17.1]>_इति जुहुयात् ।
(अव्प्र्_6.9:143।12) अग्नये स्वाहा वसुभ्यः स्वाहा गायत्र्यै स्वाहा ।
(अव्प्र्_6.9:143।12-14) माध्यंदिनं चेत् तृतीयसवनम् अभ्यस्तमियात् <सोमो मा रुद्रैर् दक्षिणाया दिशः पातु [प्स् 7.16.3, ;स्स् 19.17.3]>_इति जुहुयात् ।
(अव्प्र्_6.9:143।14-15) सोमाय स्वाहा रुद्रेभ्यः स्वाहा त्रिष्टुभे स्वाहा ।
(अव्प्र्_6.9:143।15-17) तृतीयसवनं चेद् अभ्यस्तमियाद् <वरुणो मादित्यैः सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु [प्स् 7.16.4-5, ;स्स् 19.17.4-5]>_इति जुहुयात् ।
(अव्प्र्_6.9:143।17-18) वरुणाय स्वाहादित्येभ्यः स्वाहा जगत्यै स्वाहा ।
(अव्प्र्_6.9:143।18-20) <आ भरतं शिक्षतं वज्रबाहू अस्मान् इन्द्राग्नी अवतं शचीभिः । इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् [.र्व् 1.109.7]> । इन्द्राग्निभ्यां स्वाहा । इन्द्राविष्णुभ्यां स्वाहा ।
(अव्प्र्_6.9:143।21-22) रात्रिपर्यायाश् चेद् अभिविछिद्येरन्न् इन्द्राय स्वाहा । इन्द्राण्यै स्वाहा । छन्दोभ्यः स्वाहा ।
(अव्प्र्_6.9:143।22-24) ऋत्विजां चेद् दुरितम् उपाकुर्याद् अग्नये रथन्तराय स्वाहा । उषसे स्वाहा । पङ्क्तये स्वाहा । अश्विभ्यां स्वाहा । <मा नः पिपरिद् अश्विना [च्f. अव्परिश् 37.4.2]>_इति ।
(अव्प्र्_6.9:143।24-27) सर्वत्रानाज्ञातेष्व् अग्नये स्वाहा । यज्ञाय स्वाहा । ब्रह्मणे स्वाहा । विष्णवे स्वाहा । प्रजापतये स्वाहा । अनुमतये स्वाहा । अग्नये स्विष्टकृते स्वाहेति ।
(अव्प्र्_6.9:143।27-28) <त्रातारम् इन्द्रं [सेए अबोवे]> । <ययोर् ओजसा [सेए अबोवे]>_इति च ।
(अव्प्र्_6.9:143।28) एता विष्णुवरुणदेवत्याः ।
(अव्प्र्_6.9:143।28) उक्तानि प्रायश्चित्तानि ।
(अव्प्र्_6.9:143।28-30) अथैकाग्नौ यत्र पुरोडाशा उक्ता स्थालीपाकांस् तत्र कुर्यात् ।
(अव्प्र्_6.9:143।30) पुरोडाशेषु जपैर् एव कुर्यात् ।
(अव्प्र्_6.9:143-144।30-2) सर्वत्र छेदनभेदनावदारणदहनेषूखासु सोमकलशमहावीरयज्ञभाण्डेषु सर्वत्र शीर्णे भिन्ने नष्टे ऽन्यं कृत्वा <पुनर् मैत्व् इन्द्रियम् [सेए अबोवे]> इत्य् आददीत ।
(अव्प्र्_6.9:144।2-4) सर्वत्र <मा नो विदन् [सेए अबोवे]>_इत्य् अभयैर् अपराजितैर् जुहुयात् । अभयैर् अपराजितैर् जुहुयात्
मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0