भाषा

ENहिગુ
ग्रंथ पाठ

अथर्वप्रायश्चित्तानि · अध्याय 5

5.1

इति यज्नप्रायश्चित्ते चतुर्थो ऽध्यायः समाप्तः ॥
(अव्प्र्_5.1:121।1-2) अग्निहोत्रं चेद् अनभ्युद्धृतं सूर्यो ऽभिनिम्लोचेद् ब्राह्मणो बहुविद् उद्धरेत् ।
(अव्प्र्_5.1:121।2-3) यो ब्राह्मणो बहुवित् स्यात् समुद्धरेत् ।
(अव्प्र्_5.1:121।3-4) सर्वेणैवैनं तद् ब्राह्मण उद्धरेद् येनान्तर्हित[ं] हिरण्यम् अग्रतो हरेत् ।
(अव्प्र्_5.1:121।4-5) वारुणं यवमयं चरुं निर्वपेद् <इत एव प्रथमम्> इति ।
(अव्प्र्_5.1:121-122।5-4) <इत एव प्रथमं जाज्ञे अग्निर् आभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन् [कौश्स् 133.6, त्ब् 1.4.4.8]>_इति पश्चाद् गार्हपत्यलक्षणस्यारणी निधाय मथित्वा ।
(अव्प्र्_5.1:121।1-2) <इषे राय्यै रमस्व [त्ब् 1.4.4.8]>_इत्य् आदध्यात् ।
(अव्प्र्_5.1:122।4-6) <इषे राय्यै रमस्व सहसे द्युम्न ऊर्जे ऽपत्याय । संराड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् [च्f. त्ब् 1.4.4.8]> इति । [एद्. रय्यै]
(अव्प्र्_5.1:122।6-7) यः कश् चाग्नीनाम् अनुगछेन् निर्मन्थ्यश् चेद् दक्षिणाग्निम् ।
(अव्प्र्_5.1:123।1-2) अहुते चेत् सायं पूर्वो ऽनुगछेद् अग्निहोत्रम् अधिश्रित्योन्नीयाग्निना पूर्वेणोद्धृत्याग्निहोत्रेणानुद्रवेत् ।
(अव्प्र्_5.1:123।3) अदत्तपूर्वधनं दद्यात् ।
(अव्प्र्_5.1:123।3) श्वस् तपस्वतीं निर्वपेत् ।
(अव्प्र्_5.1:123।4-6) <आयाहि तपसा जनिष्व् अग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्व् आग्ने पावक दीद्यत् । हव्या देवेषु नो दधत् [अअप्;स्स् 9.3.3]>_इति हवींषि दद्यात् ।
(अव्प्र्_5.1:123।6-7) सायम् अहुतम् अतीतरस्मिन्न् एतद् एव प्रायश्चित्तम् अन्यत्रापि ष्णुत्या चेत् ।
(अव्प्र्_5.1:123।8-9) अहुते चेत् प्रातः पूर्वो ऽनुगच्छेद् अवदाहेषुम् अश्नीयात् ।
(अव्प्र्_5.1:123।9-10) तेष्व् अलभ्यमानेषु भस्मनारणिं संस्पृश्य मथित्वावदध्यात् ।
(अव्प्र्_5.1:123।10) अग्नये ज्योतिष्मत इष्टिं निर्वपेत् ।
(अव्प्र्_5.1:123-124।10-2) अहुते चेत् प्रातर् अपरो वानुगच्छेद् अनुगमयित्वा पूर्वं मथित्वापरम् उद्धृत्य जुहुयात् ।
(अव्प्र्_5.1:124।2-3) त्वरमाणः पूर्वम् अग्निम् अन्ववसाय ततः पश्चात् प्राञ्चम् उद्धृत्य जुहुयात्

5.2

(अव्प्र्_5.2:124-125।4-1) उपरुद्धे चेन् मथ्यमानो न जायेत यत्र दीप्यमानं परापश्येत् तत आहृत्याग्निहोत्रं जुहुयात् ।
(अव्प्र्_5.2:125।1-2) यदि तं न विन्देद् ब्राह्मणस्य दक्षिणे पाणौ जुहुयात् ।
(अव्प्र्_5.2:125।2-3) ततो ब्राह्मणं न परिचक्षीत ।
(अव्प्र्_5.2:125।3-4) यदि तं न विन्देद् अजाया दक्षिणे कर्णे जुहुयात् ।
(अव्प्र्_5.2:125।4) ततो ऽजां नाश्नीयात् ।
(अव्प्र्_5.2:125।4-5) यदि तां न विन्देद् दर्भस्तम्बेषु जुहुयात् ।
(अव्प्र्_5.2:125।5) ततो दर्भेषु नासीत ।
(अव्प्र्_5.2:125।5-6) यदि तान् न विन्देद् अप्सु जुहुयात् ।
(अव्प्र्_5.2:125।6) ततो ऽद्भिः पादौ न प्रक्षालयीत ।
(अव्प्र्_5.2:125।6-7) यदि तान् न विन्देद् धिरण्ये जुहुयात् ।
(अव्प्र्_5.2:125।7) ततो हिरण्यं न बिभृयात् ।
(अव्प्र्_5.2:125।8) आपदि मथित्वा विहृत्याग्निहोत्रं जुहुयात् ।
(अव्प्र्_5.2:125।8-10) अग्निहोत्रे चेद् अनभ्युद्धृते हविषि वा निरुप्ते शकुनिः श्येनः श्वा वान्तरेण व्यवेयाद् <इदं विष्णुर् [;स्स् 7.26.4]> इति ।
(अव्प्र्_5.2:125।10-11) <इदं विष्णुर् विचक्रमे त्रेधा निदधे पदं । समूढम् अस्य पांसुरे [;स्स् 7.26.4]> ।
% नोते ;स्स् मन्त्र इन् प्रतीक+सकलपाठ
(अव्प्र्_5.2:125।11-12) <प्र तद् विष्णुर् [प्स् 20.7.10, ;स्स् 7.26.2]> इति भस्मना पदम् उपवपेत् ।
(अव्प्र्_5.2:125।12-16) अनो रथास्य पुरुषो [वा] व्यवेयाद् <यद् अग्ने पूर्वं निहितं पदं हि ते सूर्यस्य रश्मीन् अन्वाततान । तत्र रयिष्ठाम् अनुसंभरैतां सं नः सृज सुमत्या वाजवत्या [मान्;स्स् 3.4.10]>_इत्य् आदध्यात्

5.3

(अव्प्र्_5.3:125-126।16-2) अन्वाहिताग्निश् चेत् प्रयायात् <तुभ्यं ता अङ्गिरसस्तम विश्वाः सुक्षितयः पृथग् अग्ने कामाय येमिरे [.र्व् 8.43.18, मान्;स्स् 1.6.3.1]> इति हुत्वा प्रयायात् ।
(अव्प्र्_5.3:126।2-4) अन्वाहितश् चेद् अनुगछेद् <अन्व् अग्निर् [;स्स् 7.82.4।18.1.27]> इत्य् अन्यं प्रणीयाग्न्यन्वाधानव्रतोपायनाभ्यां मनसोपस्थाय भूर् इति व्याहरेत् ।
% नोते अन्व् अग्निर् नोत् इन् प्स्
(अव्प्र्_5.3:126।4-5) पाथिकृती स्यात् पथो ऽन्तिकाद् दर्भान् आहरेत् ।
(अव्प्र्_5.3:126।5) अनड्वान् दक्षिणा ।
(अव्प्र्_5.3:126-127।5-1) सर्वत्र पाथिकृत्याम् अनड्वान् ।
(अव्प्र्_5.3:127।1-3) अग्नीनां चेत् कश् चिद् उपवक्ष्(अय्)एत् स शम्[या]या[ः] प्राग् वासं पाथिकृती स्यात् ।
(अव्प्र्_5.3:127।3-5) शम्[या]याः परा(क्) परास्(य्)आच् चेद् <इदं त एकम् [प्स् 18.69.5, ;स्स् 18.3.7]> इति तान्त् संभरेत् <पर ऊ त एकम् [इबिद्.]> इति द्वितीयं द्वितियेन ।
% पर ऊ: दोएस् ;स्स् रेअल्ल्य् हवे पुर ऊ (ए-तेxत्)?
(अव्प्र्_5.3:127।5) तृतीयं <तृतीयेन ज्योतिषा [इबिद्.]>_इति ।
(अव्प्र्_5.3:127।5-6) तस्माद् अवख्यायास् तत्र निर्वपेत् ।
(अव्प्र्_5.3:127।6-7) अधि चेद् अनुप्रायाय मथित्वा तत्रैकान् वसेत् कालातिपाते च दर्शपूर्णमासयोः ।
(अव्प्र्_5.3:128।1-2) विध्यर्धसमाप्ते चेद् अपराधं विद्यात् (समाप्ते चेत् स्)त्रीन् हविष्यात् ।
(अव्प्र्_5.3:128।2-3) अग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_5.3:128।3-4) यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा तण्डुलान् विभजेत् ।
(अव्प्र्_5.3:128।4-5) ये मध्यमास् तन् अग्नये दात्रे ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_5.3:128।5-6) ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधनि चरुं ।
(अव्प्र्_5.3:128।6-7) ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय ।
(अव्प्र्_5.3:128।7-8) श्रिते प्राग् उक्ते तण्डुलाभावाद् अर्धं वा विद्यात्

5.4

(अव्प्र्_5.4:128।8-9) अग्नये वीतये ऽष्टाकपालम् पुरोडाशं निर्वपेद् यस्याग्नयो मिथः संसृज्येरन् ।
(अव्प्र्_5.4:128।9-11) अग्नये विविचये ऽष्ताकपालं पुरोडाशं निर्वपेद् यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन् ।
(अव्प्र्_5.4:128।11-13) अग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयः शावेनाग्निना संसृज्येरन् ।
(अव्प्र्_5.4:128।13-14) अग्नये ऽन्नादाया ऽन्नपतये ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो दावेनाग्निना संसृज्येरन् ।
(अव्प्र्_5.4:128।14-16) अग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो दिव्येनाग्निना संसृज्येरन् ।
(अव्प्र्_5.4:128।16-17) अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याग्नयो ऽभिप्लवेरन् ।
(अव्प्र्_5.4:128-129।17-2) अग्नये ऽग्निमते ऽस्टाकपालं पुरोडाशं निर्वपेद् य आहवनीयम् अनुगतम् अभ्युद्धरेत् ।
(अव्प्र्_5.4:129।2-4) अग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेद् यस्याहिताग्नेर् अग्निगृहान् अग्निर् दहेद् अनग्निर् गृहान् वा ।
(अव्प्र्_5.4:129।4-6) अग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं नि[र्]वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात् ततः प्रवसेत् ।
(अव्प्र्_5.4:129-130।6-2) अग्नये व्रतभृते ऽष्टाकपालं पुरोडाशं निर्वपेद् पर्वणि यो व्रतवेलायाम् अव्रत्यं चरेद् अग्नये तन्तुमते ऽष्टाकपालं पुरोडाषं निर्वपेद् यस्य संततम् अग्निहोत्रं जुहुयुः

5.5

(अव्प्र्_5.5:130।2-3) अथ संनिपतितेषु प्रायश्चित्तेषु वैविचीं प्रथमां कुर्यात् ।
(अव्प्र्_5.5:130।3-4) ततो ऽग्नये शुचये ।
(अव्प्र्_5.5:130।4-5) व्रातपतीम् अन्ततः क्षामवतीं परिवर्त्तयेद् यस्याग्निष्व् अन्यं याजयेद् यो वा यजेत् ।
(अव्प्र्_5.5:130।5-7) मारुतं त्रयोदशकपालं पुरोडाशं निर्वपेद् यस्य यमौ पुत्रौ जायेयातां गावो वा ।
(अव्प्र्_5.5:130।7-8) यमसूर् दक्षिणा धेनुर् भार्या वा ।
(अव्प्र्_5.5:130।8-9) पृषदाज्यं चेत् स्कन्नं <स्कन्ना द्यौर् [अअप्;स्स् 9.17.1]> इत्य् अभिमन्त्र्य ।
(अव्प्र्_5.5:130-131।9-5) <स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वम् इदं जगत् स्कन्नादो विश्वे देवाः प्रा स्कन्ना[त्] प्रायतां हविर् [अअप्;स्स् 9.17.1]> इत्य् अभिमन्त्र्य_<इह गावः प्रजायध्वम् [प्स् 19.21.10, ;स्स् 20.127.12]> इत्य् अन्यस्य पृषदाज्यस्य जुहुयात् पशुगवा चेत् स्रुवैर् हुत्वास्रावं यात्य् अवदानम् अकर्मेत्य् अन्यस्यां दृढतरायां श्रपयेयुर् ।
(अव्प्र्_5.5:131।5-6) [यद्य्] अवदानं न विन्देत् तदाज्यस्यावद्येत् ।
(अव्प्र्_5.5:131।6-8) उपाकृतश् चेत् पशुः प्रपतेद् वायव्यां यवागूं निरुप्यान्यं तद्रूपं तद्वर्णम् इति समानं

5.6

(अव्प्र्_5.6:131।8-11) अथ यस्याहर्गणे [ऽ]विसमाप्ते यूपो विरोहेत् प्रवृह्य यूपविरूढान्य् अवलोप्य <तपो ह्य् अग्ने अन्तराम् अमित्रां तप शंसम् अररुषः परस्य तपो वसो चिकितानो अचित्तान् वि ते तिष्ठन्ताम् अजरा अयासः [.र्व् 3.18.2, अअप्;स्स् 14.29.3]> ।
(अव्प्र्_5.6:131।11-14) <यो नः सनुत्यो अभिदासद् अग्ने यो अन्तरो मित्रमहो वनुष्यात् । तम् अजरेभिर् वृषभिस् तव स्वैस् तपा तपिष्ठ तपसा तपस्वान् [.र्व् 6.5.4]> ।
(अव्प्र्_5.6:131।14-16) <यस्मात् कृणोति केतुम् आ नक्तं चिद् दूर आ सते । पावको यद् वनस्पतीन् यस्मान् मिनोत्य् अजरो (नभिहित) [.र्व् 5.7.4, अअप्;स्स् 14.29.3]> इति द्वे ।
(अव्प्र्_5.6:131।16-18) पञ्चभिर् अपरं पर्युक्ष्य <सुपर्णा वाचम् [प्स् 19.31.16, ;स्स् 6.49.3]> इति विरूढानि हुत्वा पुनःसमायात् तस्मिंस् त्वाष्ट्रम् अजं पिङ्गलं पशुं बहुरूपम् आलभेत ।
(अव्प्र्_5.6:131।18-19) अग्निना तपो ऽन्वभवत् ।
(अव्प्र्_5.6:131।19) वाचा ब्रह्म ।
(अव्प्र्_5.6:131।19) मणिना रूपाणि ।
(अव्प्र्_5.6:131।19) इन्द्रेण देवान् ।
(अव्प्र्_5.6:131।20) वातेन प्राणान् ।
(अव्प्र्_5.6:131।20) सूर्येण द्यां ।
(अव्प्र्_5.6:131।20) चन्द्रमसा नक्षत्राणि ।
(अव्प्र्_5.6:131।21) यमेन पितॄन् ।
(अव्प्र्_5.6:131।21) राज्ञा मनुष्यान् ।
(अव्प्र्_5.6:131।21) उपलेन नादेयान् ।
(अव्प्र्_5.6:131।21-22) अजगरेण सर्पान् ।
(अव्प्र्_5.6:131।22) व्याघ्रेणारण्यान् पशून् ।
(अव्प्र्_5.6:131।22) श्येनेन पतत्रिणः ।
(अव्प्र्_5.6:131।23) वृष्णाश्वान् ।
(अव्प्र्_5.6:131।23) ऋषभेण गाः ।
(अव्प्र्_5.6:131।23) बस्तेनाजाः ।
(अव्प्र्_5.6:131।23) वृष्णिनावीः ।
(अव्प्र्_5.6:131-132।23-1) व्रीहिणान्नानि ।
(अव्प्र्_5.6:132।1) यवेनौषधीः ।
(अव्प्र्_5.6:132।1) न्यग्रोधेन वनस्पतीन् ।
(अव्प्र्_5.6:132।1-2) उदुम्बरेनोर्जं ।
(अव्प्र्_5.6:132।2) गायत्र्या छन्दांसि ।
(अव्प्र्_5.6:132।2) त्रिवृता स्तोमान् ।
(अव्प्र्_5.6:132।2-4) ब्राह्मणेन वाचम् इति ब्रह्मा पूर्णाहुतिं जुहुयात्

मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc