भाषा

ENहिગુ
ग्रंथ पाठ

अथर्वप्रायश्चित्तानि · अध्याय 4

4.1

(इत्य् अथर्ववेदे वैतानसूत्रे प्रायश्चित्तप्रसंगे एकादशो ऽध्यायः इति यज्ञप्रायश्चित्ते तृतीयो ऽध्यायः समाप्तः) [एद्. त्रितीयो]
(अव्प्र्_4.1:101।20-21) (सान्नाय्यं यद् उद्बो)धयेयुश् चेद् वत्सा वायव्या(या) यवाग्वा सा[न्नाय्]यं यजेत ।
(अव्प्र्_4.1:101-102।21-1) अप्य् एकस्या[ं] धीतायाम् अधीता दोहयेत् ।
(अव्प्र्_4.1:102।1-2) अधीताभिः संस्थाप्य धीतानाम् वत्सान् अपाकृत्य श्वः सांनाय्येन यजेत ।
(अव्प्र्_4.1:102-103।2-2) सायं दोहं चेद् अपहरेयुः प्रातर्दोहं द्वैधं कृत्वान्यतरत् सायंदोहस्थाने कृत्वोभाभ्यां यजेत ।
(अव्प्र्_4.1:103।2-5) प्रातर्दोहं चेद् अपहरेयुः सायंदोहं द्वैधं कृत्वान्यतरत् प्रातर्दोहस्थाने कृत्वोभाभ्यां यजेत ।
(अव्प्र्_4.1:103।5-7) उभौ चेद् दुष्येयाताम् ऐन्द्रं पञ्चशरावम् ओदनं निरुप्याग्नेयेन प्रचर्यैन्द्रेणानुप्रचरेद् उत्तराम् उपोष्य(तो) व्(आद्)ओभाभ्यां यजेत ।
(अव्प्र्_4.1:103-104।7-1) सर्वाणि चेद् धवींष्य् अपहरेयुर् दुष्येयुर् वाज्येन च देवता यजेत ।
(अव्प्र्_4.1:104।1-2) अथान्याम् अदोषाम् इष्टिं तन्वीता(म् । अ)पो दुष्टम् अभ्यवहरेयुर् ।
(अव्प्र्_4.1:104।2) ब्राह्मणैर् अभक्ष्[य्]अ[ं] दुष्टं हविर् ।
(अव्प्र्_4.1:104।3-5) भूतं चेद् आज्यं स्कन्देद् भूपतये स्वाहेति त्रिभिर् प्रादेशैर् दिशो मिमाय तद् यजमानो देवाञ् जनम् अगन्न् इत्य् अनुषङ्गः ।
(अव्प्र्_4.1:104।5-6) यज्ञस्य त्वा प्रमयेति चतसृभिः परिगृह्णीयात् ।
(अव्प्र्_4.1:104।6-7) यज्ञस्य त्वा प्रमयोन्मयाभिमया प्रतिमया (परिददेम) स्वाहेति ।
(अव्प्र्_4.1:104-105।7-1) अनुत्पूतं चेद् आज्यं स्कन्देद् वित्तं प्राणं दद्यात् ।
(अव्प्र्_4.1:105।1-4) तथोत्पूतम् उत्पूयमानं चेद् घृतं दद्याद् अथोत्पूतम् उत्पूयमानं चेद् घृतं प्राणं दद्याद् देवतान्तरे चेद् घृतम् ।
(अव्प्र्_4.1:105।4) आहुतिलोपव्यत्यासे ।
(अव्प्र्_4.1:105।4-5) त्वं नो अग्ने । स त्वं न । इति सर्वप्रायश्चित्तं जुहुयात् ।
(अव्प्र्_4.1:105।6-8) <त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् [.र्व् 4.1.4]> ॥
(अव्प्र्_4.1:105।8-10) <स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषषो व्युष्टौ । अव यक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि स्वाहा [.र्व् 4.1.5]>_इति ।
(अव्प्र्_4.1:105-106।10-2) देवतावदाने याज्यानुवाक्याव्यत्यासे ऽनाम्नातप्रायश्चित्तानां वा यद्य् ऋक्तो ऽभ्य् आबाधः स्याद् भूर् जनद् इति गार्हपत्ये जुहुयात् । [एद्. -व्यत्यास]
(अव्प्र्_4.1:106।2) यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुहुयात् ।
(अव्प्र्_4.1:106।3) यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात् ।
(अव्प्र्_4.1:106।3-7) यद्य् अनाज्ञाता ब्रह्मत ओम् भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयाद् आज्यभागान्ते स्वे देवताम् आवाहयिष्यन् यस्यै(व) हविर् निरुप्तं स्यात् ततोन्तया यजेताज्यस्यैतानि निरुप्य ।
(अव्प्र्_4.1:106।7-9) यदि भागिनीं नावाहयेद् यत्र स्मरेत् तत्रैनाम् उपोत्थायावाह्यावापस्थाने यजेत ।
(अव्प्र्_4.1:106।9) बर्हिषि स्कन्ने नाद्रियेत ।
(अव्प्र्_4.1:106-107।9-1) दक्षिणेन चेद् यजेतार्द्धर्चात् प्रतिष्ठां दद्यात् ।
(अव्प्र्_4.1:107।1-2) पुरोडाशे दु[ः]श्रिते सर्पिष्य् अन्नं चतुःशरावम् ओदनं ब्राह्मणेभ्यो दद्यात् ।
(अव्प्र्_4.1:107।3) ततस् तम् एव पुनर् निर्वपेत् ।
(अव्प्र्_4.1:107।4-5) पुरोडाशे विक्षामे यतो ऽस्याक्षामः स्यात् ततो यजेत । [एद्. पुरोदाषे]
(अव्प्र्_4.1:107।5) द्वेष्याय तं दद्याद् दक्षिणां च ।
(अव्प्र्_4.1:107-108।5-1) पुरोडाशे सर्वक्षामे निर्वपणप्रभृत्याम् उदाहृत्य ।
(अव्प्र्_4.1:108।1-2) कपाले नष्ट एकहायनं दद्यात् ।
(अव्प्र्_4.1:108-109।2-2) <धाता दधातु पितुः पितानष्टो घर्मो विश्वायुर् यतो जातस् ततो ऽप्य् अवां स्वाहा [च्f. मान्;स्स् 3.1.24-25]>_इति जुहुयात् ।
(अव्प्र्_4.1:109।2-3) कपाले भिन्ने <गायत्र्या त्वा शताक्षरया संदधामि [म्स् 1.4.13:62.19]>_इति संधाय <धाता दधातु [सेए अबोवे]>_इत्य् एव जुहुयात् ।
(अव्प्र्_4.1:109।4-5) आग्नेय[म्] एककपालं निर्वपेद् आश्विनं द्विकपालं वैष्णवं त्रिकपालं सौम्यं चतुःकपालं ।
(अव्प्र्_4.1:109।5-8) नष्टे भिन्ने च भार्गवो होता कीटावपन्नं सान्नाय्यं मध्यमेन पर्णेन <मही द्यौः [.र्व् 1.22.13]>_इत्य् अन्तःपरिधिदेशे निनयेत् ।
(अव्प्र्_4.1:109-110।8-1) <मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षतां । पिप्र्तां नो भरीमभिः स्वाहा [.र्व् 1.22.13]>_इति ।
(अव्प्र्_4.1:110-111।1-5) प्राक् प्रयाजेभ्यो ऽङ्गारं बर्हिस्य् अधिष्कन्देन् <नमस् ते अस्त्व् आयते नमो अस्तु परायते । नमो यत्र निषीदसि [त्ब् 3.7.2.7]>_इत्य् अभिमन्त्र्य_<आहं यज्ञं दधे निरृतेर् उपस्थात् तं देवेषु परिददामि विद्वान् । सुप्रजास् त्वं शतं हि मामदन्त इह नो देवा महि शर्म यछत>_इत्य् आदाय <सहस्रशृङ्गः [प्स् 18.16.2, ;स्स् 4.5.1]>_इत्य् अनुप्रहृत्य ।
(अव्प्र्_4.1:111।5) <मा नो महान्तं [प्स् 16.106.9, ;स्स् 11.2.29]> ।
(अव्प्र्_4.1:111।5) <त्वं नो अग्ने [सेए अबोवे]> ।
(अव्प्र्_4.1:111।5-7) <सोमानं स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः [.र्व् 1.18.1]> ।
(अव्प्र्_4.1:111।7) <स त्वं नो ऽग्ने [सेए अबोवे]> ।
(अव्प्र्_4.1:111।7-8) <वृषभं चर्षणीनां विश्वरूपम् अदाभ्यं बृहस्पतिं वरेण्यं [.र्व् 3.62.6]> ।
(अव्प्र्_4.1:111।8-9) <उद् उत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत अवाधमानि बाधत [च्f. .र्व् 1.25.21]> ।
(अव्प्र्_4.1:111।9-10) <उद् उत्तमं वरुण [प्स् 18.82.6, ;स्स् 7.83.3।18.4.69]>_इत्य् एताभिर् जुहुयात्

4.3

(अव्प्र्_4.2:111।10-12) सर्वाणि चेद् आहुतिवेलायां पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेत ।
(अव्प्र्_4.2:111-112।12-1) समाप्यामो ऽहम् अस्मि सा त्वम् इति तस्या दक्षिणं हस्तम् अन्वालभ्योपाह्वयीत ।
(अव्प्र्_4.2:112।1-3) आहुतिश् चेद् बहिष्परिधि स्कन्देद् आग्नीध्रं ब्रूयुः संक्रहिष्यां त्वा जुहुधीति ।
(अव्प्र्_4.2:112।3-4) तस्मै पूर्णपात्रं दद्यात् ।
(अव्प्र्_4.2:112।4-6) पुरोडाशश् चेद् अधिश्रित उद्विजेद् उत्पतेद् वा तम् उद्वास्य बर्हिष्य् आसादयेत् किम् उत्पतसि किम् उत्प्रोष्ठाः शान्तः शान्तेर् इहागहि ।
(अव्प्र्_4.2:112-113।6-1) अघोरो यज्ञियो भूत्वासीद सदनं स्वम् आसीद सदनं स्वम् ॥
(अव्प्र्_4.2:113।1-3) मा हिंसीर् देव प्रेषित आज्येन तेजसाज्यस्व मा नः किंचन रीरिषो । योगक्षेमस्य शान्त्या अस्मिन् आसीद बर्हिर् इति ।
(अव्प्र्_4.2:113।3-4) तप्तं चेत् कर्म (गुणो) त्व् अन्तरियात् सर्वप्रायश्चित्तं हुत्वा मोद्विजेत् ।
(अव्प्र्_4.2:113।4-6) (नाङ्गाहुतिम् अन्तर्हितां दद्यान् । न त-प-वर्ग-निमित्ताभावात् प्रधानलोपे ऽन्तराये वा निर्वपेद् व्यापद्येत) ।
(अव्प्र्_4.2:113।6-7) शेष्(आद् अवद्येष्)अश् चेद् व्यापद्येताज्येन स्विष्टकृदिडे समाप्नुयात् ।
(अव्प्र्_4.2:113।8-9) समाप्ते चेद् दुष्टो न कृताम् अन्तरां वा विद्यात् पुनरिष्टिर् अभ्यावर्तेत ।
(अव्प्र्_4.2:113।9) यज्ञो यज्ञस्य प्रायश्चित्तिर् भवतीति ॥ 2 [॥]
(अव्प्र्_4.3:113।10-11) अग्न्याधेये समित्स्व् आहितासु नाग्निं गृहाद् उद्धरेयुर् नान्यत आहरेयुर् ।
(अव्प्र्_4.3:113।11) न प्रयायान् नानुगछेत् ।
(अव्प्र्_4.3:113।11-13) यदि प्रयायाद् अनुगछेद् वा संवत्सरं संवत्सराभिप्रायो वा यदि त्वरेद् ब्रह्मौदनं पक्त्वा पुनः समिधम् अभ्यादध्यात् ।
(अव्प्र्_4.3:113।13-15) अग्निहोत्रं चेद् अनभ्युद्धृतं शरशरास्याद् अमुं समूहेति ब्रूयात् ।
(अव्प्र्_4.3:113।15-16) विष्यन्नम् <अग्ने त्वं नः [.र्व् 5.24.1, कौश्स् 68.31]>_इति जुहुयात् ।
(अव्प्र्_4.3:113।16-19) मध्यमेन पर्णेन <मही द्यौर् [सेए अबोवे]> इति तन् (मध्यमे पलाशावाणपर्णेन <मही द्यौर्> इति तन् ममध्यमे पलाशावाणपर्णेन <मही द्यौर्> इत्य्) अन्तःपरिधिदेशे निनयेत् ।
(अव्प्र्_4.3:113-114।19-1) [द्]उह्यमाना चेद् अवभि[न्]द्याद् अन्यस्यां स्थाल्यां दोहयित्वाधिश्रयेत् ।
(अव्प्र्_4.3:114।1-4) अधिश्रियमाणं चे[त्] स्कन्देद् अधिश्रितम् उन्नीयमानम् उन्नीतं पुनर् एव सन्नम् अहुतं स्कन्देत् पुनर् आनीयान्यां दोहयित्वाधिश्रित्योन्नीय जुहुयात् ।
(अव्प्र्_4.3:114।4-6) प्राचीनं चेद् ध्रियमाणं स्कन्देत् प्रजापतेर् विश्वभृतः स्कन्नाहुतम् असि स्वाहेति । [एद्. प्रजपतेर्]
(अव्प्र्_4.3:114-115।6-3) दोहनप्रभृत्या होम स्कन्देत् <समुद्रं त्वा प्रहिणोमि [प्स् 20.27.7, च्f. ;स्स् 10.5.23]>_इत्य् अपो निनीय_<उद् उत्तमम्> इत्य् अभिमन्त्र्य_<उद् उत्तमं मुमुग्धि नः [सेए अबोवे]>_<उद् उत्तमम् वरुण [सेए अबोवे]>_इति वारुण्य्(एन्)आज्याहुतीर् जुहुयात् ।
% नोते समुद्रं त्वा = पैप्पलाद fओर्म् ओf थे मन्त्र; ;स्स् हस् समुद्रं वः.
(अव्प्र्_4.3:115-116।3-1) (छावलीं देव) सायं [यस्य] स्कन्नो होमः स्यात् प्रातर् नाश्नीयात् ।
(अव्प्र्_4.3:116।2) प्रात[र् य]स्य स्कन्नो होमः [स्यात्] सायं नाश्नीयान् ।
(अव्प्र्_4.3:116।3-4) (मन्त्रस्कन्नं) चेद् अभिवर्षेन् <मित्रो जनान् यातयति [.र्व् 3.59.1]>_इति समिधम् आधायान्या(ं) दुग्ध्वा पुनर् जुहुयात् ।
(अव्प्र्_4.3:116।4-7) <मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीम् उत द्यां । मित्रः कृष्टीर् अनिमिषाभिचष्टे मित्राय हव्यं घृतवज् जुहोत स्वाहा [सेए अबोवे]>_इति मन्त्रसंस्कृतं ।
(अव्प्र्_4.3:116।7-9) कीटावपन्नं <हिरण्यगर्भः [प्स् 4.1.1, ;स्स् 4.2.7]>_इति वल्मीकवपायाम् अवनीयान्यां दुग्ध्वा पुनर् जुहुयात्

4.4

(अव्प्र्_4.4:116-117।9-3) अग्निहोत्रं चेद् अनभ्युद्धृतं सूर्यो ऽभ्युदियाद् <इहैव क्षेम्य एधि मा प्रहासीर् माम् अमुम् आमुष्यायणम् [अअप्;स्स् 9.7.6]> इति शमयित्वा प्रणीय प्रवृत्तातिपत्तौ मैत्रं चरुं निर्वपेत् सौर्यम् एककपालं ।
(अव्प्र्_4.4:117।4) वरो दक्षिणा ।
(अव्प्र्_4.4:117।4-5) अग्नीन् उपसमाधाय यजमानः पत्नी वाभुञ्जानौ वाग्यताव् अरणीपाणी सर्वाह्णम् उपासीयाताम् ।
(अव्प्र्_4.4:117।6) द्वयोर् गवोः सायम् अग्निहोत्रं जुहुयात् ।
(अव्प्र्_4.4:117-118।6-1) अग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_4.4:118।1-5) यदि ह्य् अयं दिवा प्रजासु हि मन्येत <सजूर् जातवेदो दिवा पृथिव्या हविषो वीहि स्वाहा [च्f. म्स् 1.8.6:123.1]>_इति सजूरुहो वा स्यात् <सजूर् अग्नये दिवा पृथिव्या हविषो वीहि स्वाहा [च्f. क्स् 6.8:57.20।कौश्स् 74.15]>_इति द्वादशरात्रम् अग्निहोत्रं जुहुयात् ।
(अव्प्र्_4.4:118-119।5-1) यदि न विरमयेद् <अग्नये सुशीर्यतमो जुषस्व स्वाहा [?]>_इत्य् अपरं द्वादशरात्रं निशायाः सायमाहुतेर् अतिपत्तिर् प्रातराशे प्रातराहुतेर् आसाद्याग्निहोत्रम् आ तमितोर् आसीत ।
(अव्प्र्_4.4:119।1-2) संस्थाप्यौं भूर् भुवः स्वर् जनद् [द्]ओषा वस्तोः स्वाहेति जुहुयात् ।
(अव्प्र्_4.4:119।2-3) अथ प्रातर् अहरह रात्रिंरात्रिम् इत्य् उपस्थाने स्यात् ।
(अव्प्र्_4.4:119।3-4) अग्नये ऽभ्युज्जुषस्व स्वाहा_इति स्रुवेण गार्हपत्ये जुहुयात् ।
(अव्प्र्_4.4:119।4-6) यस्यान्नं नाद्यात् तस्मै ब्राह्मणाय दद्यात् अधस्तात् समिधम् आहरेत् ।
(अव्प्र्_4.4:119।6) स्मृताग्निहोत्री तिरश्चो दर्भान् दक्षिणाग्रान् कुर्यात् ।
(अव्प्र्_4.4:119-120।7-2) यस्योभाव् अनुगतौ सूर्यो ऽभिनिम्लोचेद् अभ्युदियाद् वारणिं गता वा नश्येयुर् असमारूढा वा प्रकृत्यैव पुनर् आदधीत

मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc