भाषा

ENहिગુ
ग्रंथ पाठ

अथर्वप्रायश्चित्तानि · अध्याय 3

3.1

इति यज्ञप्रायाश्चित्ते द्वितीयो ऽध्यायह् समाप्तः ॥ [एद्. पुरस्तद्]
(अव्प्र्_3.1:94।12) अथातो सोमरूपाणि व्याख्यास्यामः ।
(अव्प्र्_3.1:94।12) प्रजापतिर् मनसि ।
(अव्प्र्_3.1:94।13) सारस्वतो वाचि विसृष्टायां ।
(अव्प्र्_3.1:94।13) विधानं दीक्षायां ।
(अव्प्र्_3.1:94।13-15) ब्रह्मव्रते सविता संधीयमाने ऽन्धो ऽछेतो दिव्यः सुपर्णः परिख्यातो ।
(अव्प्र्_3.1:94।15) अदितिः प्रायणीये ।
(अव्प्र्_3.1:94।15-16) पशुष्ठा न्युप्तो ।
(अव्प्र्_3.1:94।16) यज्ञो हूयमानो ।
(अव्प्र्_3.1:94।16) भद्रो विचीयमानः ।
(अव्प्र्_3.1:94।17) छंदांसि मीयमानो ।
(अव्प्र्_3.1:94।17) भगः पण्यमानो ।
(अव्प्र्_3.1:94।17-18) असुरः क्रीतो ।
(अव्प्र्_3.1:94।18) वरुणो ऽपसंनद्धः ।
(अव्प्र्_3.1:94।18) पूषा सोमक्रयणे ।
(अव्प्र्_3.1:94।18-19) शिपिविष्टो ऽराव् आसाद्यमानो ।
(अव्प्र्_3.1:94।19) बृहस्पतिर् उत्थितो ।
(अव्प्र्_3.1:94।19-20) वायुर् अभिह्रियमाणो ।
(अव्प्र्_3.1:94।20) अधिपतिः प्रोह्यमाणो ।
(अव्प्र्_3.1:94।20-21) अग्नीषोमीयः पशव् ।
(अव्प्र्_3.1:94।21) अतिथि (रुद्रो । वरुणः) सदातिथ्ये ।
(अव्प्र्_3.1:94।21-22) वरुणः संराड् ।
(अव्प्र्_3.1:94।22) आसन्द्याम् आसाद्यमान ।
(अव्प्र्_3.1:94-95।22-1) ऐन्द्राग्नो ऽग्नौ मथ्यमान ।
(अव्प्र्_3.1:95।1) ऐन्द्राग्नो ऽग्नौ प्रणीयमाने ।
(अव्प्र्_3.1:95।1-2) साम तानूनप्त्रे ।
(अव्प्र्_3.1:95।2) तपो ऽवान्तरदीक्षायां ।
(अव्प्र्_3.1:95।2) पृथिव्य् उपसद्य् ।
(अव्प्र्_3.1:95।2-3) अन्तरिक्षम् उपसदि ।
(अव्प्र्_3.1:95।3) द्यौर् उपसदि ।
(अव्प्र्_3.1:95।3-4) यज्ञस्य प्रमाभिमोम्ना प्रतिमा वेद्यां क्रियमाणायां ।
(अव्प्र्_3.1:95।4-5) पशव उत्तरवेद्यां ।
(अव्प्र्_3.1:95।5) द्यौर् हविर्धाने ।
(अव्प्र्_3.1:95।5) अन्तरिक्षम् आग्नीध्रीये ।
(अव्प्र्_3.1:95।6) पृथिवी सदसि

3.2

(अव्प्र्_3.2:95।6) प्राण उपरवेषु ।
(अव्प्र्_3.2:95।6) भ्रातृव्या धिष्ण्येषु ।
(अव्प्र्_3.2:95।6-7) पशवो बर्हिषि । वेद्यां स्तीर्यमाणायाम् ।
(अव्प्र्_3.2:95।7) अप्सु विसर्जने ।
(अव्प्र्_3.2:95।7-8) प्रजापतिर् ह्रियमाणो ।
(अव्प्र्_3.2:95।8) अग्निर् आग्नीध्रीये ।
(अव्प्र्_3.2:95।8-9) वैष्णव आसन्नकर्मणि ।
(अव्प्र्_3.2:95।9) हस्तो विसृष्टो ।
(अव्प्र्_3.2:95।9) वैष्णवो यूप ।
(अव्प्र्_3.2:95।9-10) ओषधयो रशनायां ।
(अव्प्र्_3.2:95।10) मेध आप्रीषु ।
(अव्प्र्_3.2:95।10) हविः पर्यग्निकृतः ।
(अव्प्र्_3.2:95।10-11) पितृदेवत्यः पशौ संज्ञप्यमाने ।
(अव्प्र्_3.2:95।11-12) यज्ञस्य मिथुनं पन्नेजनेषु ।
(अव्प्र्_3.2:95।12) रक्षसां भागधेयं वपायाम् उद्गृह्यमाणायां ।
(अव्प्र्_3.2:95।13) यज्ञस्य संततिर् वसतीवरीष्व् अभिह्रियमाणास्व् ।
(अव्प्र्_3.2:95।13-15) इन्द्राग्न्योर् धेनुर् दक्षिणस्याम् उत्तरवेदिश्रोण्याम् अवसादयति ।
(अव्प्र्_3.2:95।15) मित्रावरुणयोर् धेनुर् ।
(अव्प्र्_3.2:95।15-16) उत्तरस्याम् उत्तरवेदिश्रोण्याम् अवसादयति ।
(अव्प्र्_3.2:95।16-17) विश्वेषां देवानाम् आग्नीध्रीये ।
(अव्प्र्_3.2:95।17) छंदांस्य् उपवसथे ।
(अव्प्र्_3.2:95।17) हविरुपावहृतः ।
(अव्प्र्_3.2:95।18) सारस्वतः प्रातरनुवाके ।
(अव्प्र्_3.2:95।18) अथर्वाभ्युप्तः ।
(अव्प्र्_3.2:95।18-19) प्रजापतिर् विभज्यमाने ।
(अव्प्र्_3.2:95।19) देवता विभक्ते ।
(अव्प्र्_3.2:95।19-29) इन्द्रो वृत्रहेन्द्रो ऽभिमातिहेन्द्रो इन्द्रो वृत्रतुर् उन्नीयमान ।
(अव्प्र्_3.2:95।20-21) आयुर् उपांश्वन्तर्यामयोर् ।
(अव्प्र्_3.2:95।21) यमो ऽभिहितः

3.3

(अव्प्र्_3.3:95-96।21-1) निभूयपुराधावनीये सुपूतः पूतभृति सुशुक्रश्रीर् मन्थश्रीः सक्तुश्रीः क्षीरश्रीः ककुभः पात्रेषु ।
(अव्प्र्_3.3:96।1-2) वायुर् बहिष्पवमाने ।
(अव्प्र्_3.3:96।2) होत्रा प्रवरे ।
(अव्प्र्_3.3:96।2) वसवः प्रयाजेषु ।
(अव्प्र्_3.3:96।2-3) यद्देवत्यः सोमस् तद्देवत्यः पशुर् ।
(अव्प्र्_3.3:96।3) वैश्वदेव उन्नीयमान ।
(अव्प्र्_3.3:96।4) ऐन्द्राग्न उन्नीतो ।
(अव्प्र्_3.3:96।4) रुद्रो हूयमानो ।
(अव्प्र्_3.3:96।4-5) वातो मारुतो गणो ऽभ्यावृत्तो ।
(अव्प्र्_3.3:96।5) नृचक्षाः प्रतिख्यातो ।
(अव्प्र्_3.3:96।5-6) भक्षो भक्ष्यमाणः ।
(अव्प्र्_3.3:96।6) सखा भक्षितः ।
(अव्प्र्_3.3:96।6) पितरो नाराशंसा ।
(अव्प्र्_3.3:96।6-7) [आ]ग्नेयं प्रातःसवनम् ।
(अव्प्र्_3.3:96।7) ऐन्द्रं माध्यंदिनं सवनं ।
(अव्प्र्_3.3:96।7-8) यज्ञो दक्षिणायाम् ।
(अव्प्र्_3.3:96।8) ऐन्द्राणि पृष्ठानि ।
(अव्प्र्_3.3:96।8-9) वैश्वदेवं तृतीयसवनं ।
(अव्प्र्_3.3:96।9) वैश्वानरो ऽग्निष्टोमम् ।
(अव्प्र्_3.3:96।10) ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति ।
(अव्प्र्_3.3:96।10-11) ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति ।
(अव्प्र्_3.3:96।11-12) ऐन्द्रावैष्णवम् अछावाकस्योक्थं भवति ।
(अव्प्र्_3.3:96।12) ऐन्द्रः षोडशीरात्रः ।
(अव्प्र्_3.3:96।12-13) पर्यायाग्नेयो ।
(अव्प्र्_3.3:96।13) राथंतरः सन्धिः ।
(अव्प्र्_3.3:96।13) सौर्यम् आश्विनम् ।
(अव्प्र्_3.3:96।13-14) अहर् यज्ञ ।
(अव्प्र्_3.3:96।14) आदित्या अनुयाजेषु ।
(अव्प्र्_3.3:96।14) यद् अन्तरा क्रियते स समुद्रो ।
(अव्प्र्_3.3:96।14-15) वरुणो ऽवभृथे ।
(अव्प्र्_3.3:96।15) समुद्र र्जीषे ।
(अव्प्र्_3.3:96।15-16) यद् अवारे तीर्थं तत् प्रायणीयं ।
(अव्प्र्_3.3:96।16) यत् परे तद् उदयनीयं ।
(अव्प्र्_3.3:96।16) वैष्णवो वशायां ।
(अव्प्र्_3.3:96।17) स्वर् दिवि ।
(अव्प्र्_3.3:96।17) कासु ब्रह्म समिष्ट्याम्

3.4

(अव्प्र्_3.4:96।17-19) यस्या यस्यान्ततः सोमो व्यापद्येत तस्यै तस्यै देवताया इष्टिं निर्वपेद् आज्यहोमान् वा ।
(अव्प्र्_3.4:96।19) अथ जुहुयात् ।
(अव्प्र्_3.4:96।19-20) त्वां यज्ञो विष्णुर् इति च ।
(अव्प्र्_3.4:96।20-21) त्वां यज्ञो विष्णुर् यज्ञविष्णू अनूनं हित्वा आत्मानं देवेषु विदयामीति ।
(अव्प्र्_3.4:96।21-23) वनस्पते ऽन्ततः स्यानुष्टुभं छन्दसो यं तम् अभ्युक्त एतेन संदधामीति संधाय <यन् मे स्कन्नम् [सेए अबोवे]> इति स्कन्ने ।
(अव्प्र्_3.4:96-97।24-1) <यद् अस्मृति [प्स् 20.8.9, ;स्स् 7.106.1]>_इति च कर्मविपर्यासेति च तद् <यद् ऋक्त ओं भूर् जनद् [च्f. ग्ब् 1.3.3ए]> इति गार्हपत्ये जुहुयात् ।
(अव्प्र्_3.4:97।1-2) यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुहुयात् ।
(अव्प्र्_3.4:97।3) यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात् ।
(अव्प्र्_3.4:97।4-5) यद्य् अथर्वत ओं भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात् ।
(अव्प्र्_3.4:97।5) अथ दैवतान्य् ।
(अव्प्र्_3.4:97।5) आग्नेयं हौत्रं ।
(अव्प्र्_3.4:97।6) वायव्यम् आध्वर्यवं ।
(अव्प्र्_3.4:97।6) सौर्यम् औद्गात्रं ।
(अव्प्र्_3.4:97।6-7) चान्द्रमसं ब्रह्मत्वं ।
(अव्प्र्_3.4:97।7) तस्य ह वा अग्निर् होतासीत् ।
(अव्प्र्_3.4:97।7) वायुर् अध्वर्युः ।
(अव्प्र्_3.4:97।8) सूर्य उद्गाता ।
(अव्प्र्_3.4:97।8) चन्द्रमा ब्रह्मा ।
(अव्प्र्_3.4:97।8-9) पृथिवी वा ऋचाम् आयतनम् ।
(अव्प्र्_3.4:97।9) अग्निर् ज्योतिर् अन्तरिक्षं (वै) यजुषाम् आयतनं ।
(अव्प्र्_3.4:97।10) वायुर् ज्योतिर् द्यौर् (वै) साम्नाम् आयतनम् ।
(अव्प्र्_3.4:97।10-12) आदित्य ज्योतिर् आपो ऽथर्वणाम् आयतनं चन्द्रमा ज्योतिर् इति च

3.5

(अव्प्र्_3.5:97।12-15) अथ यद् अवोचामापत्तौ सोमं चेति यजमानं चेद् राजानं स्तेन ह वा प्रथमश् चाहरेयुश् चित्तव्यापत्युर् वा भवेत् । इत्य् आहाश्मरथ्यः ।
(अव्प्र्_3.5:97।15) नेत्य् आहतुः काण्वगोपायनौ ।
(अव्प्र्_3.5:97।15-17) यदैव कर्माभ्यध्वर्युर् विहितस् तदैव सर्वक्रतून् प्रत्य् आपदो विहिताः । इत्य् आहुर् आचार्याः ।
(अव्प्र्_3.5:97।17-18) अथ कथम् अत्र यजमानकर्माणि स्युर् ।
(अव्प्र्_3.5:97।18-19) उपचारभक्षप्रतिश् चेत्य् अध्वर्युर् अस्य यजमानकर्माणि कुर्यात् ।
(अव्प्र्_3.5:97।19-21) अत्र यजमानासने मार्जालीये वा चमसौ निधाय तत्रास्य भक्षकाले भक्षाण्य् उपस्थापयेयुर् आ समिष्टयजुषो होमात् ।
(अव्प्र्_3.5:97-98।21-2) प्राक् समिष्टयजुर् होमाच् चेद् यजमान आगच्छेत् समस्तान् एव भक्षजपान् जप्त्वा भक्षयेच् छेषं ।
(अव्प्र्_3.5:98।2-3) समाप्यावभृथम् अभ्युपेयुः

3.6

(अव्प्र्_3.6:98।3-4) अथ ह यं जीवन् न श्रुतिपथं गछेत् कियन्तम् अस्य कालम् अग्निहोत्रं जुहुयुर् ।
(अव्प्र्_3.6:98।4-7) यद्य् एव हितम् आयुस् तस्याशेषं प्रसंख्या[य] तावन्तं कालं तद् अस्याग्निहोत्रं हुत्वाथास्य प्रायणीयेन प्रचरेयुर् ।
(अव्प्र्_3.6:98।7-8) व्याख्यातः पात्रविनियोगो ऽपि यथैव शरीरादर्शने ।
(अव्प्र्_3.6:98।8-9) स चेज् जीवन्न् आगछेत् कथं वा प्रोष्यागताय यथाकार्यं कर्माणि कुर्यात् । [एद्. कर्ंआणि]
(अव्प्र्_3.6:98।9-11) स चेत् स्वयमुत्थ[ः] स्याद् पुनर् अस्याग्नीन् आधायाद्भुतानि वाचको जपम् ।
(अव्प्र्_3.6:98।11) इति हुत्वा मार्जयित्वा ततो ऽयम् आगतः कर्माणि कुर्यात् ।
(अव्प्र्_3.6:98।12-13) स चेत् पुनर् अनुत्थ[ः] स्यात् तथा संस्थितम् एवास्य तद् अग्निहोत्रं भवति ।
(अव्प्र्_3.6:98।13-14) जरामर्यं वा एतत् सत्त्रं यद् अग्निहोत्रम् ।
(अव्प्र्_3.6:98।14) इति ह श्रुतिर् भवति

3.7

(अव्प्र्_3.7:98।14-16) अथ य आहिताग्निर् विप्रवसन्न् अग्निभिः प्रमीयेत कथं तत्र पात्रविनियोगं प्रतीयात् । इत्य् आहाश्मरथ्यः ।
(अव्प्र्_3.7:98।17-18) यद्य् अन्यानि पात्राणि यज्ञायुधानीत्य् उपसाद्य विहृत्याग्निम् आहृत्य प्रज्वाल्य विहरेयुर् निर्मथ्यम् वा प्रज्वाल्य विहरेत् ।
(अव्प्र्_3.7:98।19-20) इत्य् एतावताङ्गप्रभृतिभिः संस्थाप्यैवं पात्रविनियोगम् इत्य् अनुछादयेत् ।
(अव्प्र्_3.7:98।20-21) यद् यद् उत्सन्नाः स्युर् वारणीसहितानि पात्राणीत्य् अप्सु समावपेत् ।
(अव्प्र्_3.7:98।21) एषा ते ऽग्ने ।
(अव्प्र्_3.7:99।1) यो अग्निस् ।
(अव्प्र्_3.7:99।1-3) तया मे ह्य् आरोह तया मे ह्य् आविशेत्य् अश्ममयानि वा लोहमयानि वा ब्राह्मणेभ्यः प्रदद्यात् ।
(अव्प्र्_3.7:99।3) दशरात्रं नियतव्रता[ः] स्युः ।
(अव्प्र्_3.7:99।3-4) संवत्सरं चापि गोत्रिणः ।
(अव्प्र्_3.7:99।4) एकादश्यां केशश्मश्रुलोमनखानि वापयित्वा ।
(अव्प्र्_3.7:99।5-6) अद्भुतानि प्रायश्चित्तानि वाचाकां जपम् इति हुत्वा मार्जयित्वा ततो यथासुखचारिणो भवन्ति

3.8

(अव्प्र्_3.8:99।6-9) अथ यद्य् एनम् अनाहिताग्निम् इव वृथाग्निना दहेयुर् एवम् अस्यैष मृत्पात्रविनियोगेति पत्न्य भवतीत्य् आहाश्मरथ्यः ।
(अव्प्र्_3.8:99।9) नेत्य् आहतुः काण्वगोपायनौ ।
(अव्प्र्_3.8:99।9-11) यदैव कार्माभ्य् अध्वर्युर् विहितस् तदैव सर्वक्रतून् प्रत्य् आपदो विहिताः । इत्य् आहुर् आचार्याः ।
(अव्प्र्_3.8:99।11-13) अथ कथम् अस्याम् आपत्तौ यथैव शरीरादर्शने वा समाम्नातानाम् आपदां कथं तत्र पात्रविनियोगं प्रतीयाद् इत्य् आहाश्मरथ्यः ।
(अव्प्र्_3.8:99।14-16) अरण्योर् अग्नीन् समारोप्य शरीराणाम् अर्धम् ..... एषा तूष्णीं निर्मथ्य प्रज्वाल्य विहृत्य मध्ये ऽग्नीनाम् एधांश् चित्वा दर्भान् संस्तीर्य तत्रास्य शरीराणि निदध्युः ।
(अव्प्र्_3.8:99।16-17) भारुण्डसामानि गापयेत् ।
(अव्प्र्_3.8:99।17-18) यद्य् अगाथः स्याद् अथाप्य् असाम कुर्यात् ।
(अव्प्र्_3.8:99।18-20) शरीरादर्शने पालाशत्सरूण्य् आहृत्याथैतानि पुरुषाकृतीनि कृत्वा घृत्[एन्]आभ्यज्य मांसत्वगस्थ्य् अस्य घृतं च भवतीति ह विज्ञायते । [एद्. वि(र्)ज्ञा-]
(अव्प्र्_3.8:99।20-22) यद्य् आहवनीयो देवलोकं यदि दक्षिणाग्निः पितृलोकं यदि गार्हपत्यो मानुष्यलोकं ।
(अव्प्र्_3.8:99।22-23) यदि युगपत् सर्वेष्व् अस्य लोकेष्व् अवरुद्धं भवतीति ह विज्ञायते ।
(अव्प्र्_3.8:99।23-25) तस्माद् युगपद् एव सर्वांत् सादयित्वाथ यद्य् एनम् अन्[व्]आलभेत पुनर् दहेत् ।
(अव्प्र्_3.8:99।25) स्तेनम् इव त्व् एव ब्रूयात् ।
(अव्प्र्_3.8:99।25-27) यत् किं चाविधिविहितं कर्म क्रियते तस्यैषैव सर्वस्य क्;ल्प्तिः सर्वस्य प्रायश्चित्तिश् चेति हि श्रुतिर् भवति ।
(अव्प्र्_3.8:99-100।27-1) अथाप्य् अत्राग्नेर् अयता सोमतनूर् भवति ।
(अव्प्र्_3.8:100।1-2) समन्वागमेवावां कर्मसु समन्व् आत्रागमयेत् ।
(अव्प्र्_3.8:100।2-4) यत् किंचिद् यज्ञे विरिष्टम् आपद्येत तस्यैषैव सर्वस्य क्;ल्प्तिः सार्वस्य प्रायश्चित्तिश् च । इति हि श्रुतिर् भवति

3.9

(अव्प्र्_3.9:100।4-5) अथातः सत्त्रिणां वक्ष्यामः ।
(अव्प्र्_3.9:100।5-7) प्रवृत्ते तन्त्रे ऽन्तस्तन्त्रे वा गृहपतिर् उपतापः यस्यायुर् गृही[त्]वानुगछेः कामं तस्य पुत्रं भ्रातरं वोपदीक्ष्य समाप्नुयुर् ।
(अव्प्र्_3.9:100।7-8) (न समाप्नुयुर्) ।
(अव्प्र्_3.9:100।8) न वा ऋत्विजां चैकम् इव ।
(अव्प्र्_3.9:100।8-9) नेत्य् आहाश्मरथ्यः ।
(अव्प्र्_3.9:100।9) न हि गृहपतेर् उपदीक्षा विद्यते ।
(अव्प्र्_3.9:100।9-10) गृहपतिं समीक्ष्य यदि मन्येत ।
(अव्प्र्_3.9:100।10-11) जीवेद् अयम् अहोरात्राव् इत्य् एकाहान्य् (एकद्विवासवने) सर्वाणि सवनानि समावेशयेत् ।
(अव्प्र्_3.9:100।11-12) यस्मिंस् तु समावेशयेत् तस्य सवनस्य वशम् उपयान्तीतराणि ।
(अव्प्र्_3.9:100।12-14) सवनानि नानातन्त्राणि चेद् अपि भवन्ति दुर्गापत्तौ च समासे वेष्टीनां समावेश[येद्] वक्ष्यकामः ।
(अव्प्र्_3.9:100।14-16) याः काश् चैकतन्त्रा इष्टय[ः] स्युर् अव्यवहिताः कामं ता एकतन्त्रे समावेश्य हविषाम् आनुपूर्व्येण प्रचरेत् ।
(अव्प्र्_3.9:100।16-17) प्राक् स्विष्टकृतो मुखं तु पञ्चाज्याहुतीर् जुहुयात् ।
(अव्प्र्_3.9:100।17-18) अग्नये सोमाय विष्णव इन्द्राग्निभ्यां प्रजापतय इति ।
(अव्प्र्_3.9:100।18-20) यदि सौविष्तकृत्या प्रचरन्ति खलु वै यदि बहूनि वा स्रुवेण यथावदानेनातिक्रामेत्

3.10

(अव्प्र्_3.10:100।20) अथातः स[त्]त्रिणां वक्ष्यामः ।
(अव्प्र्_3.10:100।21-22) प्रवृत्ते तन्त्रे संनद्धेध्माबर्हिषि पश्चाच् चन्द्रमसं पश्येत् ।
(अव्प्र्_3.10:100।22-23) य एषामा(मा)वास्यायाम् आग्नेयः पुरोडाशस् तं पाथिकृतं करोति प्रकृत्येतरं विना ।
(अव्प्र्_3.10:100।23-24) एतद् यज्ञश् छिद्यते य एताम् अन्तरेष्टिं तन्वीत । इति हि श्रुतिर् भवति ।
(अव्प्र्_3.10:100-101।24-2) अथ यस्य पौर्णमास्यं (वा) व्यापद्येत कामं तत्र प्राकृतीः कुर्यात् ।
(अव्प्र्_3.10:101।2-3) तद् य[ः] क्रतुर् [द्यावाक्रतो वा वायो] विद्यते ऽथ निर्वपति ।
(अव्प्र्_3.10:101।3-4) आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम् आसाद्य हवींषि प्रायश्चित्तीर् जुहुयात् ।
(अव्प्र्_3.10:101।4-6) यद् उदगान् महतो महिमा अस्य मानो अस्य जगतः पार्थिवस्य मा नः प्रापद् दुछुना काचिद् अन्या । [एद्. उछुना, च्f. प्स् 19.16.5द्]
(अव्प्र्_3.10:101।6-7) कस्मै देवाय हविषा परिददेम स्वाहेति ।
(अव्प्र्_3.10:101।7) अथातः पशुबन्धः ।
(अव्प्र्_3.10:101।7-9) परि यज्ञस्य भोज्यस्य भोज्यवत्का मो ये केचित् तत्रस्थाः पशवः सोमकारिणा तेषां भक्षभक्षणं ।
(अव्प्र्_3.10:101।9-10) तद् यथा ।
(अव्प्र्_3.10:101।10-12) वराह-मार्जा[र]-माहिषां शकुनो ऽन्यो ऽवदानानि मांसानि जांगलानि च यद्य् अशिषः स्यान् मासि मासि षड्ढोतारं जुहुयात् ।
(अव्प्र्_3.10:101।12-19) सूर्यं ते चक्षुर् गच्छतु वातो आत्मानं प्राणो द्यां पृष्ठम् अन्तरिक्षम् आत्माङ्गैर् यज्ञं पृथिवीं शरीरैः वाचस्पते ऽछिद्रया वाचाछिद्रया जुह्वा देवावृधं दिवि होत्राम् ऐरयत् स्वाहेति षड्ढोतारं हुत्वा प्रजापतिः सर्वम् एवेदम् उत्सृजेत् । इति हि श्रुतिर् भवति

मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc