भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 341-360

341

फलत्रयं तु त्रिफला वरा श्रेष्ठा तथोत्तमा
द्विपं च मूलं दशकं दशमूलं दशाङ्घ्रिकम् ॥

342

त्रिकटु त्र्यूषणं व्योषं कटुत्रयम् इहोच्यते
पञ्चकोलं पञ्चकटु त्रिसुगन्धि त्रिजातकम् ॥

343

औषधं भेषजं पथ्यम् अगदं च भिषग्जितम्
कलभो वारणो दन्ती मातंगो द्विरदो द्विपः ॥

344

गजो हस्ती करीभश् च करेणुर् हस्तिनी स्मृता
हयो ऽश्वस् तुरगो वाजी सप्तिर् वाहस् तु बाडवः ॥

345

बालेयो रासभो ज्ञेयो धूसरो गर्दभः खरः
करभो दीर्घगश् चोष्ट्रः क्षमी वेसरको बली ॥

346

शार्दूलश् चित्रकायस्तु व्याघ्रः स्यात् पुण्डरीकः (?)
पञ्चास्यो मृगराट् सिंहो हर्यक्षः केसरी हरिः ॥

347

कण्ठीरवश् च विज्ञेयः पिङ्गदृष्टिर् मृगादनः
मृगे कुरङ्गवातायु हरिणाजिनयोनयः ॥

348

ताम्राभो हरिणः कृष्णस् त्व् एणस् त्वक्कोमलः स्मृतः
कृष्णसारश् चित्रमृगः रोमशा चमरी स्मृता ॥

349

वराहः शूकरः कीटी दंष्ट्री घोणी च रोमशः
स्तब्धरोमा पृथुस्कन्धः क्रोडः कोलस्तथा किरिः ॥

350

कपिः प्लवंगप्लवग शाखामृगवलीमुखाः
मर्कटो वानरः कीशः वनौकाः फलभक्षकः ॥

351

शृगालो जम्बुकः क्रोष्टा गोमायुर् मृगधूर्तकः
पारावतः कलरवो गेहपक्षी कपोतकः ॥

352

कृकवाकुस् ताम्रचूडः कुक्कुटश् चरणायुधः
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् ॥

353

शिखावलः शिखी केकी कलापी मेघनादिनी
उलूको वायसारिस्तु कौशिको रजनीचरः ॥

354

काकस्तु करटो ऽरिष्टः बलिपुष्टः सकृत्प्रजः
परभूर् बलिभुग् ध्वाङ्क्षश् चिरजीवी च वायसः ॥

355

एकदृष्टिश् चात्मघोषः द्रोणकाकस्तु कृष्टलः
चटकः कलविङ्कश् च कुलिङ्गश् चटकापि च ॥

356

विज्ञेयश् चर्मपथिकः जातुषश् चर्मसाह्वयः
भरद्वाजो द्विजो ब्राह्मो व्याघ्राटः खञ्जरीटकः ॥

357

सारङ्गः खञ्जनश् चैव मेघवृत्तिस्तु चातकः
वनप्रियः परभृतः कोकिलः सुस्वरः पिकः ॥

358

गूढपात् कच्छपः कूर्मः कुलीरः कर्कटः स्मृतः
शम्बूको वृत्तशङ्खश् च शङ्खको मातृगेहकः ॥

359

मीनो मत्स्यो ऽण्डजश् चैव जलौका जलशायनः
मण्डूको दर्दुरो भेकः काकाहिस् तोयसर्पकः ॥

360

सर्पः पृदाकुर्भुजगो भुजंगो ऽहिर् भुजंगमः
आशीविषो विषधरश् चक्री व्यालः सरीसृपः ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc