अष्टाङ्गनिघण्टु · श्लोक 321-340
कुञ्जरः शतपत्त्रश् च कण्टकाढ्यश् च कुब्जकः
अट्टहासः शङ्खशुक्ला नाम्ना सा शङ्खयूथिका ॥
ऋषिर् दमनको दान्तो विनीतः कुलपत्त्रकः
दमनः पाण्डुरागः स्यात् तथा गन्धोत्कटो मुनिः ॥
पानीयम् अम्बु सलिलं तोयं चोदकवारिणी
पयः कीलालममृतं जीवनं भुवनं वनम् ॥
क्षीरं स्वादु पयो दुग्धं स्तन्यं वारि स्तनोद्भवम्
दधि माङ्गल्यकं चैव संतानं स्तनिका स्मृता ॥
घोषं दण्डाहतं तक्रं कालशेयमुदाहृतम्
घृतमाज्यं हविः सर्पिः नवनीतं घृतालयः ॥
गुडस्त्विक्षुविकारः स्यात् खण्डं फुल्लमिति स्मृतम्
सितोपला शर्करा च सिता मत्स्यण्डिका स्मृता ॥
माक्षिकं सारघं क्षौद्रं मधु पुष्परसोद्भवम्
मधूच्छिष्टं च मदनं सिक्थकं मक्षिकामलम् ॥
तैलम् अभ्यञ्जनवरं तिलजं तिलसम्भवम्
प्रसन्ना वारुणी ज्ञेया परिस्विन्ना च सा स्मृता ॥
कादम्बरी घना सुरा मैरेयो ह्य् आसवो मदः
मार्द्वीकं मधु विज्ञेयं माध्वीकं मधुना कृतम् ॥
गुडेन गौडं सितया शार्करं सैन्धम् ऐक्षवम्
खण्डेन खण्डवासः स्यात् पैष्टकं पिष्टसम्भवम् ॥
अवन्तिसोमो धान्याम्लम् आरनालं च काञ्जिकम्
शुक्तं सौवीरकं चेति तुषोदं तु तुषोदकम् ॥
यवोत्थं तण्डुलोदं च रसाम्लं शुक्तकाञ्जिकम्
ब्रह्माम्बु गोम्बु गोमूत्रं गोमलं गोमयं स्मृतम् ॥
शालिर् व्रीहिर् वरश् चैव धान्यकं रक्तशूकरः
यवश् च स्थूलमध्यश् च वरुणो मुनिभिक्षितः ॥
अकृष्टपच्यो नीवारः शकुन्तमुनिभोजनम्
चणकस्तु कलायः स्याद् गोधूमो म्लेच्छभोजनः ॥
चमसी चातिबीजा स्यात् कोरदूषस्तु कोद्रवः
कङ्गुः संध्यन्थिसंबन्धी प्रियङ्गुः पीततण्डुलः ॥
गवेधुका च गोजिह्वा कर्शनीया सिता तथा
उद्दालकस्तु जूर्णाह्वो यावनालः शुकप्रियः ॥
वासन्तः कृष्णमुद्गस्तु माधवश् च सुराष्ट्रजः
मकुष्ठो वनमुद्गश् च मसूरः पित्तभेषजम् ॥
हरिमन्थाः सुगन्धाश् च चणकाः कृष्णकञ्चुकाः
कुलत्थः कालवृत्तश् च ताम्रवर्णो ऽनिलापहा ॥
माषस्तु पिच्छिलरसः कुरुविन्दो वृषाकरः
राजमाषो ऽलसान्द्रः स्यात् खञ्जकाख्यः कलायकः ॥
आढकी तुवरी प्रोक्ता निष्पावा शिम्बिका स्मृता
तिलः स्नेहफलः स्नेह पूर्णश् च कृष्णतैलकः ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0