भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 361-380

361

कुण्डली गूडपाच् चक्षुः श्रवाः काकोदरः फणी
दर्वीकरो दीर्घपृष्ठो जिह्मगः पवनाशनः ॥

362

लेलिहानो दन्दशूको द्विजिह्वश् च बिलेशयः
कृकलासो मयूरादी कालेयो बहुपन्नगः ॥

363

शतपात् सरटा चक्री नकुलः सर्पभक्षकः
नालिनी नालहूलीका तलाटा स्थूलदन्तिका ॥

364

आखून्दुरुर् मूषकश् च वृकश् च दूषकः स्मृतः
छुछुन्दरी राजपुत्री विज्ञेया गन्धमूषिका ॥

365

पुरोहिता कुड्यमत्स्या गौरी च गृहगोधिका
गौधेरकाकृतिर् गोधा प्राग्बाहुर् युग्मजिह्वकः ॥

366

ओतुर् बिडालो मार्जारो वृषदंशक आखुभुक्
उदङ्घा कपिजङ्घा तु लोहिताङ्गः पिपीलकः ॥

367

गण्डूपदा भूमिलता भूनागो वर्षजालकः
मधुयुतो मधुकरो मधुलिट् मधुपस्तथा ॥

368

द्विरेफः पुष्पलिड् भृङ्गः षट्पदभ्रमरावलिः
इन्दिन्दिरश् चञ्चरीकः सरघा मधुमक्षिका ॥

369

लम्बरोमा मक्षिका च परा दीपनिवारणी
पतंगिका पुत्तिका स्यात् दंशस्तु वनमक्षिका ॥

370

भृङ्गारी चीरुका चीरी झिल्लिका घर्घरस्वना
पतंगः शलभो ज्ञेयः स्वद्योतो ज्योतिरिङ्गणः ॥

371

लुलायो महिषो वाह द्वेषी कासरसैरिभौ
वन्यस्तु गवयो ज्ञेयः ककुद्मान् गोपतिर् वृषः ॥

372

उक्षान् अड्वान् बलीवर्दः सुरभिर् गोपकः स्मृतः
सकृत्प्रसूता गृष्टिः स्यात् बष्कयण्य् एकहायनी ॥

373

अन्नसारो रसो रक्त योनिः स्याद् दृढधातुकः
रक्तं शोणं मांसकरं शोणितं क्षतजम् असृक् ॥

374

पलं मांसं शोणितोत्थं पिशितं क्रव्यम् आमिषम्
पिच्छा मांसोद्भवं मेदो वसा मेदःसमुद्भवा ॥

375

मेदःसम्भवम् अस्थि स्याद् देहसंधानधारणम्
अस्थिसारस्तथा मज्जा स्नेहसारो ऽस्थिसम्भवः ॥

376

शुक्लं तेजो बीजपुंस्त्वे रेतो वीर्यान्त्यधातुके
ओजस्तु धातुसारः स्यात् सौम्यो हृदयदीपनः ॥

377

अनिलो मारुतो वायुः मरुत्प्राणः प्रभञ्जनः
समीरणो मातरिश्वा पवनश् च सदागतिः ॥

378

मायुः पित्तं वह्निकान्तं कफः श्लेष्मा च पिच्छिलः
कर्दमः पङ्कजम्बालौ मृत्सा मृत्स्ना च मृत्तिका ॥

379

हसन्तिकाङ्गारधानी तैलपात्रं कुतूः स्मृता
पाषाणप्रस्तरग्रावो -पलाश्मानः शिला दृषत् ॥

380

पृथ्वी वसुंधराख्या च गौर् भूमिर् मेदिनी मही
धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc