भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 301-320

301

फलं द्वीपमरीचं च कटुकं कटुकीफलम्
लवंगं देवकुसुमं कुसुमं शेखरं लवम् ॥

302

निष्पत्त्रं च महापुष्पं स्वर्गपुष्पं वरालकम्
शिलापुष्पं तु शैलेयं शिलाजं स्थविरं तथा ॥

303

पुष्पाञ्जनं रीतिपुष्पं पुष्पकेतुश् च रीतिजम्
समुद्रफेनं शुष्कं च फेनं वारिधिजं मलम् ॥

304

शङ्खो वारिभवः कम्बुः जलजो दीर्घनिःस्वनः
प्रवालं वल्लिजं रक्तं विद्रुमं च प्रकीर्तितम् ॥

305

रूप्यकं रजतं तारं सुवर्णं कनकं स्मृतम्
जातरूपं तथा हेम शातकुम्भं च हाटकम् ॥

306

जाम्बूनदं हिरण्यं च तपनीयं च काञ्चनम्
ताम्रमौदुम्बरं शुल्बं मिहिरं हरिनामकम् ॥

307

रीतिका पित्तलं पूति पीतलोहं च सैंहलम्
त्रपुसं त्रपुसंज्ञं च तगरं रूप्यशत्रुकः ॥

308

सीसकं नागमुरगं कांस्यं काशं च घोषकम्
वार्त्तालोहं वर्तलोहं त्रिलोहं पञ्चलोहकम् ॥

309

कृष्णलोहमयः सार मायसं च शिलोद्भवम्
अयोरजो लोहरजस् तत् किट्टं स्याद् अयोमलम् ॥

310

चिपिटं चिप्पटं चिट्टं वालुका सिकता स्मृता
लोहकान्तमयस्कान्तं कान्तं भ्रामरचुम्बकम् ॥

311

मृदुलोहं तीक्ष्णलोहं तीक्ष्णाख्यं सूक्ष्मलोहकम्
कालकूटो महामुस्तो वत्सनाभो हलाहलः ॥

312

वत्सदन्ती महाशृङ्गी लेलिहस् तालपत्त्रकः
विषं च मूलकं शृङ्गी गरं कृत्रिमसंज्ञकम् ॥

313

तोयच्छदा वारिपर्णी कुम्भिका जलकुम्भिका
दीर्घमूलं जलावासं शैवालं जलसम्भवम् ॥

314

पङ्कजं पुण्डरीकं च शतपत्त्रं कुशेशयम्
बिसप्रसूनराजीव जलजाम्भोरुहाणि च ॥

315

शशिप्रियं च गन्धाढ्यं कुमुदं कोकनन्दनम्
काकोत्पलं तु काकोत्थं काकाख्यं ह्रस्वमुत्पलम् ॥

316

तेषां फलं तु कुम्भीकं मूलं शालूककन्दकम्
कशेरुकः सुगन्धिश् च सुकन्दो मुस्तकन्दकः ॥

317

शृङ्गाटको जलफलं जलकन्दस् त्रिकोणकः
करवीरो ऽश्वमारस्तु बकुलं मद्यकेसरम् ॥

318

अलक्ता माल्यशेफाली रूपिका ताम्रपुष्पिका
रक्तपुष्पी जया रुद्रा -म्लायनी वनमालिका (?) ॥

319

आम्लायनो राजसैर्यः कोरण्डो नखरञ्जनः
तिलकः पूर्णकः श्रीमान् सुद्युतिः शुक्लपुष्पकः ॥

320

मालती सुमना जाती यूथिका गन्धनामिका
मल्लिकोक्ता विचकिला द्विपुष्पी पुष्पटी तथा ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc