अष्टाङ्गहृदयसूत्र · अध्याय 94
उत्तरस्थान
विध्येत् सु-जातं निष्-प्रेक्ष्यं लिङ्ग-नाशं कफोद्भवम् ।
आवर्तक्य्-आदिभिः षड्भिर् विवर्जितम् उपद्रवैः
सो ऽ-संजातो हि विषमो दधि-मस्तु-निभस् तनुः ।
शलाकयावकृष्टो ऽपि पुनर् ऊर्ध्वं प्रपद्यते
14.2द्व् पुनर् ऊर्ध्वं प्रवर्तते
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः ।
श्लेष्मलैः पूर्यते चाशु सो ऽन्यैः सोपद्रवश् चिरात्
14.3द्व् सो ऽन्यैः सोपद्रवैश् चिरात्
श्लैष्मिको लिङ्ग-नाशो हि सित-त्वाच् छ्लेष्मणः सितः ।
तस्यान्य-दोषाभिभवाद् भवत्य् आ-नील-ता गदः
14.4द्व् भवत्य् आ-नील-ता गदे 14.4द्व् भवत्य् आ-नीलिका गदे
तत्रावर्त-चला दृष्टिर् आवर्तक्य् अरुणासिता ।
शर्करार्क-पयो-लेश-निचितेव घनाति च
14.5ब्व् आवर्तक्य् अरुणा सिता
राजी-मती दृङ् निचिता शालि-शूकाभ-राजिभिः ।
विषम-च्छिन्न-दग्धाभा स-रुक् छिन्नांशुका स्मृता
दृष्टिः कांस्य-सम-च्छाया चन्द्रकी चन्द्रकाकृतिः ।
छत्त्राभा नैक-वर्णा च छत्त्रकी नाम नीलिका
न विध्येद् अ-सिरार्हाणां न तृट्-पीनस-कासिनाम् ।
ना-जीर्णि-भीरु-वमित-शिरः-कर्णाक्षि-शूलिनाम्
14.8ब्व् न दृक्-पीनस-कासिनाम्
अथ साधारणे काले शुद्ध-संभोजितात्मनः ।
देशे प्रकाशे पूर्वाह्णे भिषग् जानूच्च-पीठ-गः
यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः ।
अङ्गुष्ठ-मृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम्
स्वां नासां प्रेक्षमाणस्य निष्-कम्पं मूर्ध्नि धारिते ।
कृष्णाद् अर्धाङ्गुलं मुक्त्वा तथार्धार्धम् अपाङ्गतः
14.11अव् स्व-नासां प्रेक्षमाणस्य 14.11द्व् तद् अर्धार्धम् अपाङ्गतः
तर्जनी-मध्यमाङ्गुष्ठैः शलाकां निश्-चलं धृताम् ।
दैव-च्छिद्रं नयेत् पार्श्वाद् ऊर्ध्वम् आमन्थयन् इव
सव्यं दक्षिण-हस्तेन नेत्रं सव्येन चेतरत् ।
विध्येत् सु-विद्धे शब्दः स्याद् अ-रुक् चाम्बु-लव-स्रुतिः
सान्त्वयन्न् आतुरं चानु नेत्रं स्तन्येन सेचयेत् ।
शलाकायास् ततो ऽग्रेण निर्लिखेन् नेत्र-मण्डलम्
14.14द्व् निर्लिखेद् दृष्टि-मण्डलम्
अ-बाधमानः शनकैर् नासां प्रति नुदंस् ततः ।
उच्छिङ्घनाच् चापहरेद् दृष्टि-मण्डल-गं कफम्
14.15च्व् उच्छिङ्खनाच् चापहरेद्
स्थिरे दोषे चले वाति स्वेदयेद् अक्षि बाह्यतः ।
अथ दृष्टेषु रूपेषु शलाकाम् आहरेच् छनैः
14.16अव् स्थिरे दोषे चले वापि
घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत् ततः ।
विद्धाद् अन्येन पार्श्वेन तम् उत्तानं द्वयोर् व्यधे
14.17च्व् व्यधाद् अन्येन पार्श्वेन
निवाते शयने ऽभ्यक्त-शिरः-पादं हिते रतम् ।
क्षवथुं कासम् उद्गारं ष्ठीवनं पानम् अम्भसः
14.18ब्व् -शिरो-गात्रं हिते रतम्
अधो-मुख-स्थितिं स्नानं दन्त-धावन-भक्षणम् ।
सप्ताहं नाचरेत् स्नेह-पीत-वच् चात्र यन्त्रणा
शक्तितो लङ्घयेत् सेको रुजि कोष्णेन सर्पिषा ।
स-व्योषामलकं वाट्यम् अश्नीयात् स-घृतं द्रवम्
विलेपीं वा त्र्य्-अहाच् चास्य क्वाथैर् मुक्त्वाक्षि सेचयेत् ।
वात-घ्नैः सप्तमे त्व् अह्नि सर्व-थैवाक्षि मोचयेत्
यन्त्रणाम् अनुरुध्येत दृष्टेर् आ-स्थैर्य-लाभतः ।
रूपाणि सूक्ष्म-दीप्तानि सहसा नावलोकयेत्
शोफ-राग-रुजादीनाम् अधिमन्थस्य चोद्भवः ।
अ-हितैर् वेध-दोषाच् च यथा-स्वं तान् उपाचरेत्
14.23च्व् अ-हितैर् वेध्य-दोषाच् च 14.23द्व् यथा-स्वं तान् उपक्रमेत्
कल्किताः स-घृता दूर्वा-यव-गैरिक-शारिवाः ।
मुखालेपे प्रयोक्तव्या रुजा-रागोपशान्तये
स-सर्षपास् तिलास् तद्-वन् मातुलुङ्ग-रसाप्लुताः ।
पयस्या-शारिवा-पत्त्र-मञ्जिष्ठा-मधुयष्टिभिः
अजा-क्षीर-युतैर् लेपः सुखोष्णः शर्म-कृत् परम् ।
लोध्र-सैन्धव-मृद्वीका-मधुकैश् छागलं पयः
14.26अव् अजा-क्षीरान्वितैर् लेपः
शृतम् आश्च्योतनं योज्यं रुजा-राग-विनाशनम् ।
मधुकोत्पल-कुष्ठैर् वा द्राक्षा-लाक्षा-सितान्वितैः
14.27च्व् मधुकोत्पल-कुष्ठैला- 14.27द्व् द्राक्षा-लाक्षा-रसान्वितैः 14.27द्व्
-द्राक्षा-लाक्षा-सितान्वितैः
14.27द्व् -द्राक्षा-लाक्षा-रसान्वितैः
वात-घ्न-सिद्धे पयसि शृतं सर्पिश् चतुर्-गुणे ।
पद्मकादि-प्रतीवापं सर्व-कर्मसु शस्यते
सिरां तथान्-उपशमे स्निग्ध-स्विन्नस्य मोक्षयेत् ।
मन्थोक्तां च क्रियां कुर्याद् वेधे रूढे ऽञ्जनं मृदु
14.29द्व् व्यधे रूढे ऽञ्जनं मृदु
आढकी-मूल-मरिच-हरिताल-रसाञ्जनैः ।
विद्धे ऽक्ष्णि स-गुडा वर्तिर् योज्या दिव्याम्बु-पेषिता
जाती-शिरीष-धव-मेषविषाणि-पुष्प-वैडूर्य-मौक्तिक-फलं पयसा सु-पिष्टम् ।
आजेन ताम्रम् अमुना प्रतनु प्रदिग्धं सप्ताहतः पुनर् इदं पयसैव पिष्टम्
14.31अव् जाती-शिरीष-धव-मेषविषाण-पुष्प-
पिण्डाञ्जनं हितम् अन्-आतप-शुष्कम् अक्ष्णि विद्धे प्रसाद-जननं बल-कृच् च दृष्टेः ।
स्रोतो-ज-विद्रुम-शिलाम्बु-धि-फेन-तीक्ष्णैर् अस्यैव तुल्यम् उदितं गुण-कल्पनाभिः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0