अष्टाङ्गहृदयसूत्र · अध्याय 95
14.32च्व् स्रोतो-ज-विद्रुम-शिलार्णव-फेन-तीक्ष्णैर्
उत्तरस्थान
वातेन नेत्रे ऽभिष्यण्णे नासानाहो ऽल्प-शोफ-ता ।
शङ्खाक्षि-भ्रू-ललाटस्य तोद-स्फुरण-भेदनम्
15.1अव् वातेन नेत्रे ऽभिष्यन्दे 15.1च्व् शङ्खाक्षि-भ्रू-ललाटास्य- 15.1द्व्
-तोद-स्फुरण-भेदनम्
शुष्काल्पा दूषिका शीतम् अच्छं चाश्रु चला रुजः ।
निमेषोन्मेषणं कृच्छ्राज् जन्तूनाम् इव सर्पणम्
15.2ब्व् अच्छम् अश्रु चला रुजः
अक्ष्य् आध्मातम् इवाभाति सूक्ष्मैः शल्यैर् इवाचितम् ।
स्निग्धोष्णैश् चोपशमनं सो ऽभिष्यन्द उपेक्षितः
15.3च्व् स्निग्धोष्णेच्छोपशमनं
अधिमन्थो भवेत् तत्र कर्णयोर् नदनं भ्रमः ।
अरण्येव च मथ्यन्ते ललाटाक्षि-भ्रुवादयः
हताधिमन्थः सो ऽपि स्यात् प्रमादात् तेन वेदनाः ।
अनेक-रूपा जायन्ते व्रणो दृष्टौ च दृष्टि-हा
मन्याक्षि-शङ्खतो वायुर् अन्यतो वा प्रवर्तयन् ।
व्यथां तीव्राम् अ-पैच्छिल्य-राग-शोफं विलोचनम्
15.6ब्व् अन्यतो वा प्रवर्तयेत्
संकोचयति पर्य्-अश्रु सो ऽन्यतो-वात-संज्ञितः ।
तद्-वज् जिह्मं भवेन् नेत्रम् ऊनं वा वात-पर्यये
15.7च्व् तद्-वज् जिह्मं भवेन् नेत्रं 15.7च्व् तद्-वन् नेत्रं भवेज् जिह्मम्
15.7द्व् शूनं वा वात-पर्यये
दाहो धूमायनं शोफः श्याव-ता वर्त्मनो बहिः ।
अन्तः-क्लेदो ऽश्रु पीतोष्णं रागः पीताभ-दर्शनम्
क्षारोक्षित-क्षताक्षि-त्वं पित्ताभिष्यन्द-लक्षणम् ।
ज्वलद्-अङ्गार-कीर्णाभं यकृत्-पिण्ड-सम-प्रभम्
अधिमन्थे भवेन् नेत्रं स्यन्दे तु कफ-संभवे ।
जाड्यं शोफो महान् कण्डूर् निद्रान्नान्-अभिनन्दनम्
सान्द्र-स्निग्ध-बहु-श्वेत-पिच्छा-वद्-दूषिकाश्रु-ता ।
अधिमन्थे नतं कृष्णम् उन्नतं शुक्ल-मण्डलम्
15.11ब्व् -पिच्छा-वद्-दूषिकास्र-ता
प्रसेको नासिकाध्मानं पांसु-पूर्णम् इवेक्षणम् ।
रक्ताश्रु-राजी-दूषीका-रक्त-मण्डल-दर्शनम्
15.12च्व् रक्तास्र-राजी-दूषीका- 15.12द्व् -शुक्ल-मण्डल-दर्शनम्
रक्त-स्यन्देन नयनं स-पित्त-स्यन्द-लक्षणम् ।
मन्थे ऽक्षि ताम्र-पर्य्-अन्तम् उत्पाटन-समान-रुक्
रागेण बन्धूक-निभं ताम्यति स्पर्शना-क्षमम् ।
असृङ्-निमग्नारिष्टाभं कृष्णम् अग्न्य्-आभ-दर्शनम्
अधिमन्था यथा-स्वं च सर्वे स्यन्दाधिक-व्यथाः ।
शङ्ख-दन्त-कपोलेषु कपाले चाति-रुक्-कराः
वात-पित्तातुरं घर्ष-तोद-भेदोपदेह-वत् ।
रूक्ष-दारुण-वर्त्माक्षि कृच्छ्रोन्मील-निमीलनम्
15.16अव् वात-पित्तोत्तरं घर्ष-
विकूणन-विशुष्क-त्व-शीतेच्छा-शूल-पाक-वत् ।
उक्तः शुष्कादि-पाको यं स-शोफः स्यात् त्रिभिर् मलैः
15.17अव् विकूणनं विशुष्कं च 15.17अव् विकूणेन विशुष्क-त्वं 15.17ब्व्
शीतेच्छा-शूल-पाक-वत्
स-रक्तैस् तत्र शोफो ऽति-रुग्-दाह-ष्ठीवनादि-मान् ।
पक्वोदुम्बर-संकाशं जायते शुक्ल-मण्डलम्
अश्रूष्ण-शीत-विशद-पिच्छिलाच्छ-घनं मुहुः ।
अल्प-शोफे ऽल्प-शोफस् तु पाको ऽन्यैर् लक्षणैस् तथा
15.19च्व् अल्प-शोफो ऽल्प-शोफस् तु
अक्षि-पाकात्यये शोफः संरम्भः कलुषाश्रु-ता ।
कफोपदिग्धम् असितं सितं प्रक्लेद-राग-वत्
15.20च्व् कफेन दिग्धम् असितं
दाहो दर्शन-संरोधो वेदनाश् चान्-अवस्थिताः ।
अन्न-सारो ऽम्ल-तां नीतः पित्त-रक्तोल्बणैर् मलैः
सिराभिर् नेत्रम् आरूढः करोति श्याव-लोहितम् ।
स-शोफ-दाह-पाकाश्रु भृशं चाविल-दर्शनम्
अम्लोषितो ऽयम् इत्य् उक्ता गदाः षो-डश सर्व-गाः ।
हताधिमन्थम् एतेषु साक्षि-पाकात्ययं त्यजेत्
15.23च्व् हताधिमन्थं चैतेषु
वातोद्भूतः पञ्च-रात्रेण दृष्टिं सप्ताहेन श्लेष्म-जातो ऽधिमन्थः ।
रक्तोत्पन्नो हन्ति तद्-वत् त्रि-रात्रान् मिथ्याचारात् पैत्तिकः सद्य एव
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0