भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 93

93.1

12.33च्व् षट् काचा नकुलान्ध्यश् च
द्वा-दशेति गदा दृष्टौ निर्दिष्टाः सप्त-विंशतिः ॥ 33ऊअब् ॥
उत्तरस्थान
तिमिरं काच-तां याति काचो ऽप्य् आन्ध्यम् उपेक्षया ।
नेत्र-रोगेष्व् अतो घोरं तिमिरं साधयेद् द्रुतम्

93.2

तुलां पचेत जीवन्त्या द्रोणे ऽपां पाद-शेषिते ।
तत्-क्वाथे द्वि-गुण-क्षीरं घृत-प्रस्थं विपाचयेत्

93.3

13.2च्व् तत्-क्वाथे द्वि-गुणं क्षीरं
प्रपौण्डरीक-काकोली-पिप्पली-लोध्र-सैन्धवैः ।
शताह्वा-मधुक-द्राक्षा-सिता-दारु-फल-त्रयैः

93.4

कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् ।
द्राक्षा-चन्दन-मञ्जिष्ठा-काकोली-द्वय-जीवकैः

93.5

13.4ब्व् तिमिराणां हरं परम्
सिता-शतावरी-मेदा-पुण्ड्राह्व-मधुकोत्पलैः ।
पचेज् जीर्ण-घृत-प्रस्थं सम-क्षीरं पिचून्मितैः

93.6

13.5च्व् पचेज् जीर्णं घृत-प्रस्थं
हन्ति तत् काच-तिमिर-रक्त-राजी-शिरो-रुजः ।
पटोल-निम्ब-कटुका-दार्वी-सेव्य-वरा-वृषम्

93.7

स-धन्वयास-त्रायन्ती-पर्पटं पालिकं पृथक् ।
प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि

93.8

तद्-आढके ऽर्ध-पलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ।
मुस्त-भूनिम्ब-यष्ट्य्-आह्व-कुटजोदीच्य-चन्दनैः

93.9

13.8अव् तद्-आढके ऽर्ध-पलिकैर् 13.8ब्व् घृत-प्रस्थं विपाचयेत्
स-पिप्पलीकैस् तत् सर्पिर् घ्राण-कर्णास्य-रोग-जित् ।
विद्रधि-ज्वर-दुष्टारुर्-विसर्पापचि-कुष्ठ-नुत्

93.10

13.9अव् स-व्योष-चव्यैस् तत् सर्पिर् 13.9ब्व् घ्राण-कर्णाक्षि-रोग-जित् 13.9च्व्
विद्रधि-ज्वर-दुष्टास्र-
विशेषाच् छुक्र-तिमिर-नक्तान्ध्योष्णाम्ल-दाह-हृत् ।
त्रि-फलाष्ट-पलं क्वाथ्यं पाद-शेषं जलाढके

93.11

13.10ब्व् -नक्तान्ध्योष्णाम्ल-दाह-नुत् 13.10द्व् पाद-शेषे जलाढके
तेन तुल्य-पयस्केन त्रि-फला-पल-कल्क-वान् ।
अर्ध-प्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा

93.12

युक्तं पिबेत् तत् तिमिरी तद्-युक्तं वा वरा-रसम् ।
यष्टीमधु-द्वि-काकोली-व्याघ्री-कृष्णामृतोत्पलैः

93.13

पालिकैः स-सिता-द्राक्षैर् घृत-प्रस्थं पचेत् समैः ।
अजा-क्षीर-वरा-वसा-मार्कव-स्व-रसैः पृथक्

93.14

महा-त्रैफलम् इत्य् एतत् परं दृष्टि-विकार-जित् ।
त्रैफलेनाथ हविषा लिहानस् त्रि-फलां निशि

93.15

13.14ब्व् परं दृष्टि-विकार-नुत्
यष्टीमधुक-संयुक्तां मधुना च परिप्लुताम् ।
मासम् एकं हिताहारः पिबन्न् आमलकोदकम्

93.16

सौपर्णं लभते चक्षुर् इत्य् आह भग-वान् निमिः ।
ताप्यायो-हेम-यष्ट्य्-आह्व-सिता-जीर्णाज्य-माक्षिकैः

93.17

संयोजिता यथा-कामं तिमिर-घ्नी वरा वरा ।
स-घृतं वा वरा-क्वाथं शीलयेत् तिमिरामयी

93.18

अपूप-सूप-सक्तून् वा त्रि-फला-चूर्ण-संयुतान् ।
पायसं वा वरा-युक्तं शीतं स-मधु-शर्करम्

93.19

13.18अव् अपूप-तक्र-सक्तून् वा
प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् ।
मृद्वीका-शर्करा-क्षौद्रैः सततं तिमिरातुरः

93.20

13.19अव् प्रातर् भुक्तस्य वा पूर्वम्
स्रोतो-जांशांश् चतुः-षष्टिं ताम्रायो-रूप्य-काञ्चनैः ।
युक्तान् प्रत्य्-एकम् एकांशैर् अन्ध-मूषोदर-स्थितान्

93.21

ध्मापयित्वा समावृत्तं ततस् तच् च निषेचयेत् ।
रस-स्कन्ध-कषायेषु सप्त-कृत्वः पृथक् पृथक्

93.22

वैडूर्य-मुक्ता-शङ्खानां त्रिभिर् भागैर् युतं ततः ।
चूर्णाञ्जनं प्रयुञ्जीत तत् सर्व-तिमिरापहम्

93.23

13.22द्व् तत् सर्वं तिमिरापहम्
मांसी-त्रि-जातकायः-कुङ्कुम-नीलोत्पलाभया-तुत्थैः ।
सित-काच-शङ्ख-फेनक-मरिचाञ्जन-पिप्पली-मधुकैः

93.24

चन्द्रे ऽश्विनी-स-नाथे सु-चूर्णितैर् अञ्जयेद् युगलं अक्ष्णोः ।
तिमिरार्म-रक्त-राजी-कण्डू-काचादि-शमम् इच्छन्

93.25

मरिच-वर-लवण-भागौ भागौ द्वौ कण-समुद्र-फेनाभ्याम् ।
सौवीर-भाग-नवकं चित्रायां चूर्णितं कफामय-जित्

93.26

13.25द्व् चित्रा-संचूर्णितं कफामय-जित्
मनोह्वा-तुत्थ-कस्तूरी-मांसी-मलय-रोचनाः ।
दश-कर्पूर-संयुक्तम् अशीति-गुणम् अञ्जनम् ॥ 25+(1) ॥
13.25+(1)च्व् दर-कर्पूर-संयुक्तम्
पिष्टं चित्राश्विनी-पुष्ये षड्-विधे तिमिरे हितम् ।
प्रसादनं च दृष्टेः स्याच् चक्षुषेणावभाषितम् ॥ 25+(2) ॥
द्राक्षा-मृणाली-स्व-रसे क्षीर-मद्य-वसासु च ।
पृथक् दिव्याप्सु स्रोतो-जं सप्त-कृत्वो निषेचयेत्

93.27

तच् चूर्णितं स्थितं शङ्खे दृक्-प्रसादनम् अञ्जनम् ।
शस्तं सर्वाक्षि-रोगेषु विदेह-पति-निर्मितम्

93.28

13.27अव् तच् चूर्णितं घृतं शङ्खे
निर्दग्धं बादराङ्गारैस् तुत्थं चेत्थं निषेचितम् ।
क्रमाद् अजा-पयः-सर्पिः-क्षौद्रे तस्मात् पल-द्वयम्

93.29

13.28ब्व् तुत्थं चैवं निषेचितम् 13.28च्व् क्रमाच् छाग-पयः-सर्पिः-
कार्षिकैस् ताप्य-मरिच-स्रोतो-ज-कटुका-नतैः ।
पटु-लोध्र-शिला-पथ्या-कणैलाञ्जन-फेनकैः

93.30

युक्तं पलेन यष्ट्याश् च मूषान्तर्-ध्मात-चूर्णितम् ।
हन्ति काचार्म-नक्तान्ध्य-रक्त-राजीः सु-शीलितः

93.31

चूर्णो विशेषात् तिमिरं भास्-करो भास्-करो यथा ।
त्रिंशद्-भागा भुजङ्गस्य गन्ध-पाषाण-पञ्चकम्

93.32

शुल्ब-तालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् ।
अन्ध-मूषी-कृतं ध्मातं पक्वं वि-मलम् अञ्जनम्

93.34

13.32अव् शुल्ब-तारकयोर् द्वौ द्वौ 13.32च्व् अन्ध-मूषा-गतं ध्मातं
तिमिरान्त-करं लोके द्वितीय इव भास्-करः ॥ 33अब् ॥
13.33अव् तिमिरापहरं लोके
गो-मूत्रे छगण-रसे ऽम्ल-काञ्जिके च स्त्री-स्तन्ये ॥ 33च् ॥
13.33च्व् गो-मूत्रे छगल-रसे ऽम्ल-काञ्जिके च
हविषि विषे च माक्षिके च ॥ 33द् ॥
यत् तुत्थं ज्वलितम् अनेक-शो निषिक्तं ॥ 33ए ॥
तत् कुर्याद् गरुड-समं नरस्य चक्षुः ॥ 33f ॥
तुत्थं स-काशं कनकं स-फलं शङ्ख-शिला-गैरिकम् अञ्जनं च ।
नरः कपाल-सहि-कूङ्कुडाण्डं सप्त-द्वि-सप्त-त्रि-समयो गतः ॥ 33+1 ॥
भृङ्गोद्भव-स्व-रस-भावितम् आज-दुग्धे मूत्रे गवाम् पयसि च त्रि-फला-कषाये ।
द्राक्षा-रसे च परिशुद्धम् इति क्रमेण सौवीरम् अञ्जनम् इदं तिमिरं निहन्ति ॥ 33+2
॥
श्रेष्ठा-जलं भृङ्ग-रसं स-विषाज्यम् अजा-पयः ।
यष्टी-रसं च यत् सीसं सप्त-कृत्वः पृथक् पृथक्

93.35

13.34अव् श्रेष्ठा-रसं भृङ्ग-रसं
तप्तं तप्तं पायितं तच्-छलाका नेत्रे युक्ता साञ्जनान्-अञ्जना वा ।
तैमिर्यार्म-स्राव-पैच्छिल्य-पैल्लं कण्डूं जाड्यं रक्त-राजीं च हन्ति

93.36

रसेन्द्र-भुजगौ तुल्यौ तयोस् तुल्यम् अथाञ्जनम् ।
ईषत्-कर्पूर-संयुक्तम् अञ्जनं तिमिरापहम्

93.37

13.36च्व् ईषत्-कर्पूर-सहितम् 13.36द्व् अञ्जनं तिमिरे वरम् 13.36द्व् अञ्जनं
नयनामृतम्
यो गृध्रस् तरुण-रवि-प्रकाश-गल्लस् तस्यास्यं समय-मृतस्य गो-शकृद्भिः ।
निर्दग्धं सम-घृतम् अञ्जनं च पेष्यं योगो ऽयं नयन-बलं करोति गार्ध्रम्

93.38

कृष्ण-सर्प-वदने स-हविष्कं दग्धम् अञ्जन-निःसृत-धूमम् ।
चूर्णितं नलद-पत्त्र-विमिश्रं भिन्न-तारम् अपि रक्षति चक्षुः

93.39

13.38ब्व् दग्धम् अञ्जन-निर्गत-धूमम् 13.38च्व् योजितं नलद-पत्त्र-विमिश्रं
नागाञ्जनाश्माल-शिलार्क-वङ्गैस् त्रिंशद्-द्वि-पञ्च-द्वयम् अ-द्विकैकैः ।
अन्ध-मूषी-कृतैश् छाग-पयो-निषिक्तैर् दृष्टेर् इदं भास्-करम् अञ्जनं स्यात् ॥ 38+1 ॥
स्रोतो-ऽश्म-वीरं ... वेष्ट्याजमोदा-वट-च्छदैः ।
षट्कं तिमिर-जित् क्लिष्टं मृल्-लिप्तं गो-मयाग्निना ॥ 38+2 ॥
ताम्रायस्-कान्त-गन्धाह्वा-तार्क्षा यत् सु-च्छलं रजः ।
लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टि-रोग-जित् ॥ 38+3 ॥
13.38+3ब्व् -तार्क्ष्या यत् सु-च्छलं रजः
कृष्ण-सर्पं मृतं न्यस्य चतुरश् चापि वृश्चिकान् ।
क्षीर-कुम्भे त्रि-सप्ताहं क्लेदयित्वा प्रमन्थयेत्

93.40

13.39द्व् क्लेदयित्वानु मन्थयेत् 13.39द्व् क्लेदयित्वाथ मन्थयेत्
तत्र यन् नव-नीतं स्यात् पुष्णीयात् तेन कुक्कुटम् ।
अन्धस् तस्य पुऋईषेण प्रेक्षते ध्रुवम् अञ्जनात्

93.41

कृष्ण-सर्प-वसा शङ्खः कतकात् फलम् अञ्जनम् ।
रस-क्रियेयम् अ-चिराद् अन्धानां दर्शन-प्रदा

93.42

मरिचानि दशार्ध-पिचुस् ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः ।
क्षीरार्द्र-दग्धम् अञ्जनम् अ-प्रतिसाराख्यम् उत्तमं तिमिरे

93.43

13.42च्व् मरिचानि दश द्वि-पलं
अक्ष-बीज-मरिचामलक-त्वक्-तुत्थ-यष्टिमधुकैर् जल-पिष्टैः ।
छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्य् अ-चिरेण

93.44

मरिचामलक-जलोद्भव-तुत्थाञ्जन-ताप्य-धातुभिः क्रम-वृद्धैः ।
षण्-माक्षिक इति योगस् तिमिरार्म-क्लेद-काच-कण्डू-हन्ता

93.45

13.44द्व् तिमिरार्म-क्लेद-काच-कण्डू-हा 13.44द्व्
तिमिरार्म-क्लेद-काच-कण्डू-घ्नः
रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतो-ऽञ्जनं ताम्रम् अयः स-शङ्खं ।
कु-चन्दनं लोहित-गैरिकं च चूर्णाञ्जनं सर्व-दृग्-आमय-घ्नम्

93.46

तिल-तैलम् अक्ष-तैलं भृङ्ग-स्व-रसो ऽसनाच् च निर्यूहः ।
आयस-पात्र-विपक्वं करोति दृष्टेर् बलं नस्यम्

93.47

13.46द्व् करोति दृष्टेर् बलं नस्यात्
दोषानुरोधेन च नैक-शस् तं स्नेहास्र-विस्रावण-रेक-नस्यैः ।
उपाचरेद् अञ्जन-मूर्ध-वस्ति-वस्ति-क्रिया-तर्पण-लेप-सेकैः

93.49

सामान्यं साधनम् इदं प्रति-दोषम् अतः शृणु ॥ 48अब् ॥
वात-जे तिमिरे तत्र दश-मूलाम्भसा घृतम् ।
क्षीरे चतुर्-गुणे श्रेष्ठा-कल्क-पक्वं पिबेत् ततः

93.50

त्रि-फला-पञ्च-मूलानां कषायं क्षीर-संयुतम् ।
एरण्ड-तैल-संयुक्तं योजयेच् च विरेचनम्

93.51

13.50च्व् एरण्ड-तैल-संमिश्रं 13.50द्व् योजयेत विरेचनम्
स-मूल-जाल-जीवन्ती-तुलां द्रोणे ऽम्भसः पचेत् ।
अष्ट-भाग-स्थिते तस्मिंस् तैल-प्रस्थं पयः-समे

93.52

13.51द्व् तैल-प्रस्थं पयः-समम्
बला-त्रितय-जीवन्ती-वरी-मूलैः पलोन्मितैः ।
यष्टी-पलैश् चतुर्भिश् च लोह-पात्रे विपाचयेत्

93.53

13.52अव् बला-त्रि-जात-जीवन्ती-
लोह एव स्थितं मासं नावनाद् ऊर्ध्व-जत्रु-जान् ।
वात-पित्तामयान् हन्ति तद् विशेषाद् दृग्-आश्रयान्

93.54

13.53अव् लोह-पात्र-स्थितं मासं 13.53द्व् तद् विशेषाद् दृग्-आमयान्
केशास्य-कन्धरा-स्कन्ध-पुष्टि-लावण्य-कान्ति-दम् ।
सितैरण्ड-जटा-सिंही-फल-दारु-वचा-नतैः

93.55

13.54ब्व् -पुष्टि-लावण्य-कान्ति-कृत्
घोषया बिल्व-मूलैश् च तैलं पक्वं पयो-ऽन्वितम् ।
नस्यं सर्वोर्ध्व-जत्रूत्थ-वात-श्लेष्मामयार्ति-जित्

93.56

13.55अव् शताह्वा-बिल्व-मूलैश् च
वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते ।
गृध्राहि-कुक्कुटोत्था वा मधुकेनान्विता पृथक्

93.57

प्रत्यञ्जने च स्रोतो-जं रस-क्षीर-घृते क्रमात् ।
निषिक्तं पूर्व-वद् योज्यं तिमिर-घ्नम् अन्-उत्तमम्

93.58

13.57ब्व् रस-क्षीर-घृतैः क्रमात्
न चेद् एवं शमं याति ततस् तर्पणम् आचरेत् ।
शताह्वा-कुष्ठ-नलद-काकोली-द्वय-यष्टिभिः

93.59

प्रपौण्डरीक-सरल-पिप्पली-देवदारुभिः ।
सर्पिर् अष्ट-गुण-क्षीरं पक्वं तर्पणम् उत्तमम्

93.60

मेदसस् तद्-वद् ऐणेयाद् दुग्ध-सिद्धात् खजाहतात् ।
उद्धृतं साधितं तेजो मधुकोशीर-चन्दनैः

93.61

श्वाविच्-छल्यक-गोधानां दक्ष-तित्तिरि-बर्हिणाम् ।
पृथक् पृथग् अनेनैव विधिना कल्पयेद् वसाम्

93.62

13.61अव् श्वाविच्-छल्यक-गोधानाम् 13.61अव् श्वा-विष्किराक-गोधानाम् 13.61ब्व्
ऋक्ष-तित्तिरि-बर्हिणाम्
प्रसादनं स्नेहनं च पुट-पाकं प्रयोजयेत् ।
वात-पीनस-वच् चात्र निरूहं सानुवासनम्

93.63

13.62द्व् निरूहं चानुवासनम्
पित्त-जे तिमिरे सर्पिर् जीवनीय-फल-त्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम्

93.64

शर्करैला-त्रिवृच्-चूर्णैर् मधु-युक्तैर् विरेचयेत् ।
सु-शीतान् सेक-लेपादीन् युञ्ज्यान् नेत्रास्य-मूर्धसु

93.65

शारिवा-पद्मकोशीर-मुक्ता-शाबर-चन्दनैः ।
वर्तिः शस्ताञ्जने चूर्णस् तथा पत्त्रोत्पलाञ्जनैः

93.66

13.65च्व् वर्तिः शस्ताञ्जनं चूर्णस् 13.65द्व् तथा पद्मोत्पलाञ्जनैः
स-नागपुष्प-कर्पूर-यष्ट्य्-आह्व-स्वर्ण-गैरिकैः ।
सौवीराञ्जन-तुत्थक-शृङ्गी-धात्री-फल-स्फटिक-कर्पूरम्

93.67

पञ्चांशं पञ्चांशं त्र्य्-अंशम् अथैकांशम् अञ्जनं तिमिर-घ्नम् ।
नस्यं चाज्यं शृतं क्षीर-जीवनीय-सितोत्पलैः

93.68

श्लेष्मोद्भवे ऽमृता-क्वाथ-वरा-कण-शृतं घृतम् ।
विध्येत् सिरां पीत-वतो दद्याच् चानु विरेचनम्

93.69

क्वाथं पूगाभया-शुण्ठी-कृष्णा-कुम्भ-निकुम्भ-जम् ।
ह्रीवेर-दारु-द्वि-निशा-कृष्णा-कल्कैः पयो-ऽन्वितैः

93.70

द्वि-पञ्च-मूल-निर्यूहे तैलं पक्वं च नावनम् ।
शङ्ख-प्रियङ्गु-नेपाली-कटु-त्रिक-फल-त्रिकैः

93.71

दृग्-वैमल्याय वि-मला वर्तिः स्यात् कोकिला पुनः ।
कृष्ण-लोह-रजो-व्योष-सैन्धव-त्रि-फलाञ्जनैः

93.72

13.71ब्व् वर्तिः स्यात् कौलिका पुनः
शश-गो-खर-सिंहोष्ट्र-द्वि-जा लालाटम् अस्थि च ।
श्वेत-गो-वाल-मरिच-शङ्ख-चन्दन-फेनकम्

93.73

पिष्टं स्तन्याज्य-दुग्धाभ्यां वर्तिस् तिमिर-शुक्र-जित् ।
रक्त-जे पित्त-वत् सिद्धिः शीतैश् चास्रं प्रसादयेत्

93.74

मधूक-साराञ्जन-ताम्र-त्रि-कटुक-विडङ्ग-पौण्डरीकाणि ।
स-लवण-तुत्थ-त्रि-फला-लोध्राणि नभो-ऽम्बु-पिष्टानि ॥ 73+1 ॥
वर्तिश् चतुर्-दशाङ्गी नयनामय-नाशनी शिला-स्तम्भे ।
लिखिता हिताय जगतस् तिमिरापहरी विशेषेण ॥ 73+2 ॥
एक-गुणा मागधिका द्वि-गुणा च हरीतकी सलिल-पिष्टा ।
वर्तिर् इयं तिमिर-पटल-काच-कण्ड्व्-अस्र-हरी ॥ 73+3 ॥
द्राक्षया नलद-लोध्र-यष्टिभिः शङ्ख-ताम्र-हिम-पद्म-पद्मकैः ।
सोत्पलैश् छगल-दुग्ध-वर्तितैर् अस्र-जं तिमिरम् आशु नश्यति

93.75

13.74अव् द्राक्षया नलद-लोध्र-यष्टिका- 13.74ब्व्
-शङ्ख-ताम्र-हिम-पद्म-पद्मकैः
13.74ब्व् -शङ्ख-ताम्र-हिम-पद्म-पत्त्रकैः
संसर्ग-संनिपातोत्थे यथा-दोषोदयं क्रिया ।
सिद्धं मधूक-कृमिजिन्-मरिचामरदारुभिः

93.76

स-क्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च ।
नत-नीलोत्पलानन्ता-यष्ट्य्-आह्व-सुनिषण्णकैः

93.77

साधितं नावने तैलं शिरो-वस्तौ च शस्यते ।
दद्याद् उशीर-निर्यूहे चूर्णितं कण-सैन्धवम्

93.78

13.77अव् साधितं नावनं तैलं
तत् स्रुतं स-घृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् ।
शीते चास्मिन् हितम् इदं सर्व-जे तिमिरे ऽञ्जनम्

93.79

13.78अव् तच् छृतं स-घृतं भूयः
अस्थीनि मज्ज-पूर्णानि सत्-त्वानां रात्रि-चारिणाम् ।
स्रोतो-जाञ्जन-युक्तानि वहत्य् अम्भसि वासयेत्

93.80

13.79च्व् स्रोतो-ऽञ्जनेन युक्तानि
मासं विंशति-रात्रं वा ततश् चोद्धृत्य शोषयेत् ।
स-मेषशृङ्गी-पुष्पाणि स-यष्ट्य्-आह्वानि तान्य् अनु

93.81

13.80द्व् स-यष्ट्य्-आह्वानि तानि तु
चूर्णितान्य् अञ्जनं श्रेष्ठं तिमिरे सांनिपातिके ।
काचे ऽप्य् एषा क्रिया मुक्त्वा सिरां यन्त्र-निपीडिताः

93.82

13.81द्व् सिरा यन्त्र-निपीडिताः 13.81द्व् सिरां यन्त्र-निपीडनात्
आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्व् अस्रे जलौकसः ।
गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमाद् रजः

93.83

13.82अव् आन्ध्याय स्युर् अतो दद्यात्
रस-क्रियेयं स-क्षौद्रा काच-यापनम् अञ्जनम् ।
नकुलान्धे त्रि-दोषोत्थे तैमिर्य-विहितो विधिः

93.84

13.83द्व् तैमिर्य-विधि-वत् क्रियाः
रस-क्रिया घृत-क्षौद्र-गो-मय-स्व-रस-द्रुतैः ।
तार्क्ष्य-गैरिक-तालीशैर् निशान्धे हितम् अञ्जनम्

93.85

13.84द्व् निशान्ध्ये हितम् अञ्जनम्
दध्ना विघृष्टं मरिचं रात्र्य्-अन्धे ऽञ्जनम् उत्तमम् ।
करञ्जिकोत्पल-स्वर्ण-गैरिकाम्भो-ज-केसरैः

93.86

13.85ब्व् रात्र्य्-अन्धाञ्जनम् उत्तमम् 13.85च्व् कारञ्जिकोत्पल-स्वर्ण-
पिष्टैर् गो-मय-तोयेन वर्तिर् दोषान्ध-नासिनी ।
अजा-मूत्रेण वा कौन्ती-कृष्णा-स्रोतो-ज-सैन्धवैः

93.87

13.86ब्व् वर्तिर् दोषान्ध्य-नासिनी
कालानुसारी-त्रि-कटु-त्रि-फलाल-मनःशिलाः ।
स-फेनाश् छाग-दुग्धेन रात्र्य्-अन्धे वर्तयो हिताः

93.88

13.87द्व् रात्र्य्-आन्ध्ये वर्तयो हिताः
संनिवेश्य यकृन्-मध्ये पिप्पलीर् अ-दहन् पचेत् ।
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम्

93.89

13.88द्व् निशान्ध्ये श्रेष्ठम् अञ्जनम् 13.88द्व् नक्तान्ध्ये श्रेष्ठम् अञ्जनम्
खादेच् च प्लीह-यकृती माहिषे तैल-सर्पिषा ।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत्

93.90

तथातिमुक्तकैरण्ड-शेफाल्य्-अभीरु-जानि च ।
भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम्

93.91

13.90च्व् सिद्धं घृतं कुम्भ-योनेः 13.90द्व् पत्त्रैः पाने ऽति-पूजितम्
धूमराख्याम्ल-पित्तोष्ण-विदाहे जीर्ण-सर्पिषा ।
स्निग्धं विरेचयेच् छीतैः शीतैर् दिह्याच् च सर्वतः

93.92

गो-शकृद्-रस-दुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् ।
स्वर्ण-गैरिक-तालीश-चूर्णावापा रस-क्रिया

93.93

मेदा-शाबरकानन्ता-मञ्जिष्ठा-दार्वि-यष्टिभिः ।
क्षीराष्टांशं घृतं पक्वं स-तैलं नावनं हितम्

93.94

तर्पणं क्षीर-सर्पिः स्याद् अ-शाम्यति सिरा-व्यधः ।
चिन्ताभिघात-भी-शोक-रौक्ष्यात् सोत्कटकासनात्

93.95

13.94द्व् -रूक्षाम्ल-कटुकाशनात्
विरेक-नस्य-वमन-पुट-पाकादि-विभ्रमात् ।
विदग्धाहार-वमनात् क्षुत्-तृष्णादि-विधारणात्

93.96

अक्षि-रोगावसानाच् च पश्येत् तिमिर-रोगि-वत् ।
यथा-स्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम्

93.97

सूर्योपरागानल-विद्युद्-आदि-विलोकनेनोपहतेक्षणस्य ।
संतर्पणं स्निग्ध-हिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम्

93.98

चक्षू-रक्षायां सर्व-कालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावद् इच्छा ।
व्यर्थो लोको ऽयं तुल्य-रात्रिन्-दिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते

93.99

त्रि-फला रुधिर-स्रुतिर् विशुद्धिर् मनसो निर्वृतिर् अञ्जनं स-नस्यम् ।
शकुनाशन-ता स-पाद-पूजा घृत-पानं च सदैव नेत्र-रक्षा

93.100

13.99ब्व् मनसो निर्वृतिर् अञ्जनं च नस्यम् 13.99च्व् शयनासन-ता स-पाद-पूजा
13.99च्व् शयनासन-तोष-पाद-पूजा
अ-हिताद् अशनात् सदा निवृत्तिर् भृश-भास्-वच्-चल-सूक्ष्म-वीक्षणाच् च ।
मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc