भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 92

92.1

11.58द्व् तीक्ष्णाञ्जनैर् दृक् प्रततं प्रयुक्तैः
उत्तरस्थान
सिरानुसारिणि मले प्रथमं पटलं श्रिते ।
अ-व्यक्तम् ईक्षते रूपं व्यक्तम् अप्य् अ-निमित्ततः

92.2

12.1ब्व् प्रथमं पटलं गते 12.1च्व् अ-व्यक्तम् ईक्ष्यते रूपं
प्राप्ते द्वितीयं पटलं अ-भूतम् अपि पश्यति ।
भूतं तु यत्नाद् आसन्नं दूरे सूक्ष्मं च नेक्षते

92.3

12.2द्व् दूरं सूक्ष्मं च नेक्षते
दूरान्तिक-स्थं रूपं च विपर्यासेन मन्यते ।
दोषे मण्डल-संस्थाने मण्डलानीव पश्यति

92.4

द्वि-धैकं दृष्टि-मध्य-स्थे बहु-धा बहु-धा-स्थिते ।
दृष्टेर् अभ्यन्तर-गते ह्रस्व-वृद्ध-विपर्ययम्

92.5

12.4द्व् ह्रस्व-दीर्घ-विपर्ययम् 12.4द्व् ह्रस्वं बहु विपर्ययम्
नान्तिक-स्थम् अधः-संस्थे दूर-गं नोपरि स्थिते ।
पार्श्वे पश्येन् न पार्श्व-स्थे तिमिराख्यो ऽयम् आमयः

92.6

प्राप्नोति काच-तां दोषे तृतीय-पटलाश्रिते ।
तेनोर्ध्वम् ईक्षते नाधस् तनु-चैलावृतोपमम्

92.7

12.6च्व् तेनोर्ध्वम् ईक्ष्यते नाधस्
यथा-वर्णं च रज्येत दृष्टिर् हीयेत च क्रमात् ।
तथाप्य् उपेक्षमाणस्य चतुर्थं पटलं गतः

92.8

12.7अव् यथा-दोषं च रज्येत
लिङ्ग-नाशं मलः कुर्वंश् छादयेद् दृष्टि-मण्डलम् ।
तत्र वातेन तिमिरे व्याविद्धम् इव पश्यति

92.9

चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः ।
जालानि केशान् मशकान् रश्मींश् चोपेक्षिते ऽत्र च

92.10

12.9अव् धूमाविलारुणाभासं 12.9ब्व् प्रसन्नं वीक्षते मुहुः 12.9द्व्
रश्मींश् चोपेक्षिते ऽत्र तु
काची-भूते दृग् अरुणा पश्यत्य् आस्यम् अ-नासिकम् ।
चन्द्र-दीपाद्य्-अनेक-त्वं वक्रम् ऋज्व् अपि मन्यते

92.11

वृद्धः काचो दृशं कुर्याद् रजो-धूमावृताम् इव ।
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हत-दर्शनाम्

92.12

12.11च्व् स्फुटारुणाभां विस्तीर्णां
स लिङ्ग-नाशो वाते तु संकोचयति दृक्-सिराः ।
दृङ्-मण्डलं विशत्य् अन्तर् गम्भीरा दृग् असौ स्मृता

92.13

पित्त-जे तिमिरे विद्युत्-खद्योत-द्योत-दीपितम् ।
शिखि-तित्तिरि-पत्त्राभं प्रायो नीलं च पश्यति

92.14

12.13ब्व् -खद्योतोद्योत-दीपितम् 12.13च्व् शिखि-तित्तिरि-पिच्छाभं
काचे दृग् काच-नीलाभा तादृग् एव च पश्यति ।
अर्केन्दु-परिवेषाग्नि-मरीचीन्द्र-धनूंषि च

92.15

12.14अव् काचे दृग् कांस्य-नीलाभा
भृङ्ग-नीला निर्-आलोका दृक् स्निग्धा लिङ्ग-नाशतः ।
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्व-दर्शिनी

92.16

भवेत् पित्त-विदग्धाख्या पीता पीताभ-दर्शना ।
कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति

92.17

12.16ब्व् पीता पीताभ-दर्शिनी
शङ्खेन्दु-कुन्द-कुसुमैः कुमुदैर् इव चाचितम् ।
काचे तु निष्-प्रभेन्द्व्-अर्क-प्रदीपाद्यैर् इवाचितम्

92.18

12.17ब्व् कुमुदैर् इव वाचितम्
सिताभा सा च दृष्टिः स्याल् लिङ्ग-नाशे तु लक्ष्यते ।
मूर्तः कफो दृष्टि-गतः स्निग्धो दर्शन-नाशनः

92.19

बिन्दुर् जलस्येव चलः पद्मिनी-पुट-संस्थितः ।
उष्णे संकोचम् आयाति च्छायायां परिसर्पति

92.20

12.19ब्व् पद्मिनी-पुट-संश्रितः 12.19ब्व् पद्मिनी-पत्त्र-संश्रितः
शङ्ख-कुन्देन्दु-कुमुद-स्फटिकोपम-शुक्लिमा ।
रक्तेन तिमिरे रक्तं तमो-भूतं च पश्यति

92.21

काचेन रक्ता कृष्णा वा दृष्टिस् तादृक् च पश्यति ।
लिङ्ग-नाशे ऽपि तादृग् दृङ् निष्-प्रभा हत-दर्शना

92.22

संसर्ग-संनिपातेषु विद्यात् संकीर्ण-लक्षणान् ।
तिमिरादीन् अ-कस्माच् च तैः स्याद् व्यक्ताकुलेक्षणः

92.23

12.22द्व् तैः स्याद् वक्राकुलेक्षणः 12.22द्व् तैः स्याद् व्यक्ताकुलेक्षणम्
तिमिरे शेषयोर् दृष्टौ चित्रो रागः प्रजायते ।
द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः

92.24

नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि ।
अर्के ऽस्त-मस्तक-न्यस्त-गभस्तौ स्तम्भम् आगताः

92.25

स्थगयन्ति दृशं दोषा दोषान्धः स गदो ऽपरः ।
दिवा-कर-कर-स्पृष्टा भ्रष्टा दृष्टि-पथान् मलाः

92.26

विलीन-लीना यच्छन्ति व्यक्तम् अत्राह्नि दर्शनम् ।
उष्ण-तप्तस्य सहसा शीत-वारि-निमज्जनात्

92.27

त्रि-दोष-रक्त-संपृक्तो यात्य् ऊष्मोर्ध्वं ततो ऽक्षिणि ।
दाहोषे मलिनं शुक्लम् अहन्य् आविल-दर्शनम्

92.28

रात्राव् आन्ध्यं च जायेत विदग्धोष्णेन सा स्मृता ।
भृशम् अम्लाशनाद् दोषैः सास्रैर् या दृष्टिर् आचिता

92.29

स-क्लेद-कण्डू-कलुषा विदग्धाम्लेन सा स्मृता ।
शोक-ज्वर-शिरो-रोग-संतप्तस्यानिलादयः

92.30

12.29ब्व् विदग्धाम्लेन सा मता
धूमाविलां धूम-दृशं दृशं कुर्युः स धूमरः ।
सहसैवाल्प-सत्-त्वस्य पश्यतो रूपम् अद्भुतम्

92.31

12.30अव् धूमाविलां धूम-दृशां 12.30ब्व् दृशं कुर्युः स धूसरः 12.30ब्व्
दृशं कुर्युः स धूमकः
भास्वरं भास्-करादिं वा वाताद्या नयनाश्रिताः ।
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषित-दर्शनाम्

92.32

12.31अव् भासुरं भास्-करादिं वा
वैडूर्य-वर्णां स्तिमितां प्रकृति-स्थाम् इवा-व्यथाम् ।
औपसर्गिक इत्य् एष लिङ्ग-नाशो ऽत्र वर्जयेत्

92.33

विना कफाल् लिङ्ग-नाशान् गम्भीरां ह्रस्व-जाम् अपि ।
षट् काचा नकुलान्धश् च याप्याः शेषांस् तु साधयेत्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc