भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 91

91.1

10.31ब्व् सास्र-नाडी-व्रणावृतम्
पञ्चेत्य् उक्ता गदाः कृष्णे साध्या-साध्य-विभागतः ॥ 31ऊअब् ॥
उत्तरस्थान
उपनाहं भिषक् स्विन्नं भिन्नं व्रीहि-मुखेन च ।
लेखयेन् मण्डलाग्रेण ततश् च प्रतिसारयेत्

91.2

11.1ब्व् भिन्नं व्रीहि-मुखेन तु
पिप्पली-क्षौद्र-सिन्धूत्थैर् बध्नीयात् पूर्व-वत् ततः ।
पटोल-पत्त्रामलक-क्वाथेनाश्च्योतयेच् च तम्

91.3

पर्वणी बडिशेनात्ता बाह्य-संधि-त्रि-भागतः ।
वृद्धि-पत्त्रेण वर्ध्यार्धे स्याद् अश्रु-गतिर् अन्य-था

91.4

11.3अव् पर्वणी बडिशेनान्तर्- 11.3ब्व् -बाह्य-संधि-त्रि-भागतः 11.3द्व् स्याद्
अस्र-गतिर् अन्य-था
11.3द्व् स्याद् अस्र-स्रुतिर् अन्य-था
चिकित्सा चार्म-वत् क्षौद्र-सैन्धव-प्रतिसारिता ।
पूयालसे सिरां विध्येत् ततस् तम् उपनाहयेत्

91.5

11.4द्व् ततस् तद् उपनाहयेत्
कुर्वीत चाक्षि-पाकोक्तं सर्वं कर्म यथा-विधि ।
सैन्धवार्द्रक-कासीस-लोह-ताम्रैः सु-चूर्णितैः

91.6

चूर्णाञ्जनं प्रयुञ्जीत स-क्षौद्रैर् वा रस-क्रियाम् ।
कृमि-ग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च

91.7

त्रि-फला-क्षौद्र-कासीस-सैन्धवैः प्रतिसारयेत् ।
पित्ताभिष्यन्द-वच् छुक्तिं बलासाह्वय-पिष्टके

91.8

11.7द्व् बलासाह्वय-पिष्टकौ
कफाभिष्यन्द-वन् मुक्त्वा सिरा-व्यधम् उपाचरेत् ।
बीजपूर-रसाक्तं च व्योष-कट्फलम् अञ्जनम्

91.9

जाती-मुकुल-सिन्धूत्थ-देवदारु-महौषधैः ।
पिष्टैः प्रसन्नया वर्तिः शोफ-कण्डू-घ्नम् अञ्जनम्

91.10

11.9द्व् शोफ-कण्डू-घ्नम् औषधम्
रक्त-स्यन्द-वद् उत्पात-हर्ष-जालार्जुन-क्रिया ।
सिरोत्पाते विशेषेण घृत-माक्षिकम् अञ्जनम्

91.11

सिरा-हर्षे तु मधुना श्लक्ष्ण-घृष्टं रसाञ्जनम् ।
अर्जुने शर्करा-मस्तु-क्षौद्रैर् आश्च्योतनं हितम्

91.12

स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाञ्जनम् ।
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह

91.13

11.12अव् स्फटिकं कुङ्कुमं शङ्खं 11.12ब्व् कासीसं मधुनाञ्जनम्
अर्मोक्तं पञ्च-धा तत्र तनु धूमाविलं च यत् ।
रक्तं दधि-निभं यच् च शुक्र-वत् तस्य भेषजम्

91.14

उत्तानस्येतरत् स्विन्नं स-सिन्धूत्थेन चाञ्जितम् ।
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत्

91.15

इत्थं संरोषिताक्षस्य प्रचले ऽर्माधि-मांसके ।
घृतस्य निश्-चलं मूर्ध्नि वर्त्मनोश् च विशेषतः

91.16

11.15ब्व् प्रबले ऽर्माधि-मांसके
अपाङ्गम् ईक्षमाणस्य वृद्धे ऽर्मणि कनीनकात् ।
वली स्याद् यत्र तत्रार्म बडिशेनावलम्बितम्

91.17

नात्य्-आयतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः ।
समन्तान् मण्डलाग्रेण मोचयेद् अथ मोक्षितम्

91.18

11.17अव् नात्य्-आयतं समुत्पाट्य
कनीनकम् उपानीय चतुर्-भागावशेषितम् ।
छिन्द्यात् कनीनकं रक्षेद् वाहिनीश् चाश्रु-वाहिनीः

91.19

11.18च्व् छिन्द्यात् कनीनकं रक्षन् 11.18च्व् छिन्द्यात् कनीनकं रक्ष्ये
कनीनक-व्यधाद् अश्रु नाडी चाक्ष्णि प्रवर्तते ।
वृद्धे ऽर्मणि तथापाङ्गात् पश्यतो ऽस्य कनीनकम्

91.20

11.19अव् कनीनक-वधाद् अश्रु 11.19अव् कनीनक-वधाद् आशु 11.19अव्
कनीनक-व्यधाद् अ-स्रु-
11.19ब्व् -नाडी चाक्ष्णि प्रवर्तते
सम्यक्-छिन्नं मधु-व्योष-सैन्धव-प्रतिसारितम् ।
उष्णेन सर्पिषा सिक्तम् अभ्यक्तं मधु-सर्पिषा

91.21

बध्नीयात् सेचयेन् मुक्त्वा तृतीयादि-दिनेषु च ।
करञ्ज-बीज-सिद्धेन क्षीरेण क्वथितैस् तथा

91.22

स-क्षौद्रैर् द्वि-निशा-लोध्र-पटोली-यष्टि-किंशुकैः ।
कुरण्ट-मुकुलोपेतैर् मुञ्चेद् एवाह्नि सप्तमे

91.23

11.22च्व् कोरण्ट-मुकुलोपेतैर्
सम्यक्-छिन्ने भवेत् स्वास्थ्यं हीनाति-च्छेद-जान् गदान् ।
सेकाञ्जन-प्रभृतिभिर् जयेल् लेखन-बृंहणैः

91.24

सिता-मनःशिलैलेय-लवणोत्तम-नागरम् ।
अर्ध-कर्षोन्मितं तार्क्ष्यं पलार्धं च मधु-द्रुतम्

91.25

11.24द्व् पलार्धं च मधु-प्लुतम्
अञ्जनं श्लेष्म-तिमिर-पिल्ल-शुक्रार्म-शोष-जित् ।
त्रि-फलैक-तम-द्रव्य-त्वचं पानीय-कल्किताम्

91.26

11.25ब्व् -पिल्ल-शुक्रार्म-काच-जित्
शराव-पिहितां दग्ध्वा कपाले चूर्णयेत् ततः ।
पृथक्-शेषौषध-रसैः पृथग् एव च भाविता

91.27

सा मषी शोषिता पेष्या भूयो द्वि-लवणान्विता ।
त्रीण्य् एतान्य् अञ्जनान्य् आह लेखनानि परं निमिः

91.28

सिरा-जाले सिरा यास् तु कठिना लेखनौषधैः ।
न सिध्यन्त्य् अर्म-वत् तासां पिटिकानां च साधनम्

91.29

दोषानुरोधाच् छुक्रेषु स्निग्ध-रूक्षा वरा घृतम् ।
तिक्तम् ऊर्ध्वम् असृक्-स्रावो रेक-सेकादि चेष्यते

91.30

11.29अव् दोषानुबन्धाच् छुक्रेषु 11.29ब्व् स्निग्धा रूक्षा वरा घृतम्
11.29ब्व् स्निग्ध-रूक्ष-वरा घृतम्
11.29च्व् तिक्तम् ऊर्ध्वम् असृक्-स्राव- 11.29द्व् -रेक-सेकादि चेष्यते
त्रिस् त्रिवृद्-वारिणा पक्वं क्षत-शुक्रे घृतं पिबेत् ।
सिरयानु हरेद् रक्तं जलौकोभिश् च लोचनात्

91.31

सिद्धेनोत्पल-काकोली-द्राक्षा-यष्टी-विदारिभिः ।
स-सितेनाज-पयसा सेचनं सलिलेन वा

91.32

रागाश्रु-वेदना-शान्तौ परं लेखनम् अञ्जनम् ।
वर्तयो जाति-मुकुल-लाक्षा-गैरिक-चन्दनैः

91.33

प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षत-शुक्रकम् ।
दन्तैर् दन्ति-वराहोष्ट्र-गवाश्वाज-खरोद्भवैः

91.34

11.33अव् प्रसादयन्ति पित्तासृक् 11.33द्व् -गो-रासभ-समुद्भवैः
स-शङ्ख-मौक्तिकाम्भो-धि-फेनैर् मरिच-पादिकैः ।
क्षत-शुक्रम् अपि व्यापि दन्त-वर्तिर् निवर्तयेत्

91.35

तमाल-पत्त्रं गो-दन्त-शङ्ख-फेनो ऽस्थि गार्दभम् ।
ताम्रं च वर्तिर् मूत्रेण सर्व-शुक्रक-नाशिनी

91.36

11.35च्व् ताम्रं च बस्त-मूत्रेण
रत्नानि दन्ताः शृङ्गाणि धातवस् त्र्य्-ऊषणं त्रुटी ।
करञ्ज-बीजं लशुनो व्रण-सादि च भेषजम्

91.37

स-व्रणा-व्रण-गम्भीर-त्वक्-स्थ-शुक्र-घ्नम् अञ्जनम् ।
निम्नम् उन्नमयेत् स्नेह-पान-नस्य-रसाञ्जनैः

91.38

स-रुजं नी-रुजं तृप्ति-पुट-पाकेन शुक्रकम् ।
शुद्ध-शुक्रे निशा-यष्टी-शारिवा-शाबराम्भसा

91.39

11.38द्व् -शारिवा-साधिताम्भसा
सेचनं लोध्र-पोटल्या कोष्णाम्भो-मग्नयाथ-वा ।
बृहती-मूल-यष्ट्य्-आह्व-ताम्र-सैन्धव-नागरैः

91.40

धात्री-फलाम्बुना पिष्टैर् लेपितं ताम्र-भाजनम् ।
यवाज्यामलकी-पत्त्रैर् बहु-शो धूपयेत् ततः

91.41

तत्र कुर्वीत गुटिकास् ता जल-क्षौद्र-पेषिताः ।
महा-नीला इति ख्याताः शुद्ध-शुक्र-हराः परम्

91.42

स्थिरे शुक्रे घने चास्य बहु-शो ऽपहरेद् असृक् ।
शिरः-काय-विरेकांश् च पुट-पाकांश् च भूरि-शः

91.43

कुर्यान् मरिच-वैदेही-शिरीष-फल-सैन्धवैः ।
हर्षणं त्रि-फला-क्वाथ-पीतेन लवणेन वा

91.44

11.43च्व् घर्षणं त्रि-फला-क्वाथ- 11.43च्व् सर्षप-त्रि-फला-क्वाथ-
कुर्याद् अञ्जन-योगौ वा श्लोकार्ध-गदिताव् इमौ ।
शङ्ख-कोलास्थि-कतक-द्राक्षा-मधुक-माक्षिकैः

91.45

सुरा-दन्तार्णव-मलैः शिरीष-कुसुमान्वितैः ।
धात्री-फणिज्जक-रसे क्षारो लाङ्गलिकोद्भवः

91.46

11.45अव् खर-दन्तार्णव-मलैः 11.45द्व् क्षारो लाङ्गलिका-भवः 11.45द्व्
क्षारो लाङ्गलिकी-भवः
उषितः शोषितश् चूर्णः शुक्र-हर्षणम् अञ्जनम् ।
मुद्गा वा निस्-तुषाः पिष्टाः शङ्ख-क्षौद्र-समायुताः

91.47

11.46ब्व् शुक्र-घर्षणम् अञ्जनम्
सारो मधूकान् मधु-मान् मज्जा वाक्षात् स-माक्षिका ।
गो-खराश्वोष्ट्र-दशनाः शङ्खः फेनः समुद्र-जः

91.48

11.47अव् सारो मधूकात् स-मधुर् 11.47अव् सारो मधूकान् मधुना
वर्तिर् अर्जुन-तोयेन हृष्ट-शुक्रक-नाशिनी ।
उत्सन्नं वा स-शल्यं वा शूक्रं वालादिभिर् लिखेत्

91.49

11.48ब्व् पिष्टा शुक्रक-नाशिनी 11.48ब्व् दुष्ट-शुक्रक-नाशिनी
सिरा-शुक्रे त्व् अ-दृष्टि-घ्ने चिकित्सा व्रण-शुक्र-वत् ।
पुण्ड्र-यष्ट्य्-आह्व-काकोली-सिंही-लोह-निशाञ्जनम्

91.50

कल्कितं छाग-दुग्धेन स-घृतैर् धूपितं यवैः ।
धात्री-पत्त्रैश् च पर्यायाद् वर्तिर् अत्राञ्जनं परम्

91.51

11.50द्व् वर्तिर् अत्राञ्जनं हितम् 11.50द्व् वर्तिर् नेत्राञ्जनं परम्
अ-शान्ताव् अर्म-वच् छस्त्रम् अजकाख्ये च योजयेत् ।
अजकायाम् अ-साध्यायां शुक्रे ऽन्य-त्र च तद्-विधे

91.52

वेदनोपशमं स्नेह-पानासृक्-स्रावणादिभिः ।
कुर्याद् बीभत्स-तां जेतुं शुक्रस्योत्सेध-साधनम्

91.53

11.52द्व् शुक्ल-त्वोत्सेध-साधनम्
नारिकेलास्थि-भल्लात-ताल-वंश-करीर-जम् ।
भस्माद्भिः स्रावयेत् ताभिर् भावयेत् करभास्थि-जम्

91.54

चूर्णं शुक्रेष्व् अ-साध्येषु तद् वैवर्ण्य-घ्नम् अञ्जनम् ।
साध्येषु साधनायालम् इदम् एव च शीलितम्

91.55

अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्

91.56

व्रणं गो-मांस-चूर्णेन बद्धं बद्धं विमुच्य च ।
सप्त-रात्राद् व्रणे रूढे कृष्ण-भागे समे स्थिरे

91.57

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीर-सर्पिषा ।
तथापि पुनर्-आध्माने भेद-च्छेदादिकां क्रियाम्

91.58

11.57च्व् तथापि पुनर्-आध्माते
युक्त्या कुर्याद् यथा नाति-च्छेदेन स्यात् निमज्जनम् ॥ 57ऊअब् ॥
11.57ऊअव् युक्त्या युञ्ज्याद् यथा नाति-
नित्यं च शुक्रेषु शृतं यथा-स्वं पाने च मर्शे च घृतं विदध्यात् ।
न हीयते लब्ध-बला तथान्तस् तीक्ष्णाञ्जनैर् दृक् सततं प्रयुक्तैः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc