भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 87

87.1

6.60अव् इन्द्रियाणां प्रसन्न-त्वं 6.60द्व् गतोन्मादस्य लक्षणम्
उत्तरस्थान
स्मृत्य्-अपायो ह्य् अपस्मारः स धी-सत्-त्वाभिसंप्लवात् ।
जायते ऽभिहते चित्ते चिन्ता-शोक-भयादिभिः

87.2

7.1ब्व् स धी-सत्-त्वादि-संप्लवात्
उन्माद-वत् प्रकुपितैश् चित्त-देह-गतैर् मलैः ।
हते सत्-त्वे हृदि व्याप्ते संज्ञा-वाहिषु खेषु च

87.3

तमो विशन् मूढ-मतिर् बीभत्साः कुरुते क्रियाः ।
दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन्

87.4

7.3द्व् हस्तौ पादौ च कम्पयन्
पश्यन्न् अ-सन्ति रूपाणि प्रस्खलन् पतति क्षितौ ।
विजिह्माक्षि-भ्रुवो दोष-वेगे ऽतीते विबुध्यते

87.5

कालान्तरेण स पुनश् चैवम् एव विचेष्टते ।
अपस्मारश् चतुर्-भेदो वाताद्यैर् निचयेन च

87.6

रूपम् उत्पत्स्यमाने ऽस्मिन् हृत्-कम्पः शून्य-ता भ्रमः ।
तमसो दर्शनं ध्यानं भ्रू-व्युदासो ऽक्षि-वैकृतम्

87.7

7.6अव् रूपम् उत्पद्यमाने ऽस्मिन्
अ-शब्द-श्रवणं स्वेदो लाला-सिङ्घाणक-स्रुतिः ।
अ-विपाको ऽ-रुचिर् मूर्छा कुक्ष्य्-आटोपो बल-क्षयः

87.8

निद्रा-नाशो ऽङ्ग-मर्दस् तृट् स्वप्ने गानं स-नर्तनम् ।
पानं तैलस्य मद्यस्य तयोर् एव च मेहनम्

87.9

तत्र वातात् स्फुरत्-सक्थिः प्रपतंश् च मुहुर् मुहुः ।
अपस्मरति संज्ञां च लभते वि-स्वरं रुदन्

87.10

7.9ब्व् प्रततं च मुहुर् मुहुः
उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते ।
आविध्यति शिरो दन्तान् दशत्य् आध्मात-कन्धरः

87.11

परितो विक्षिपत्य् अङ्गं विषमं विनताङ्गुलिः ।
रूक्ष-श्यावारुणाक्षि-त्वङ्-नखास्यः कृष्णम् ईक्षते

87.12

चपलं परुषं रूपं वि-रूपं विकृताननम् ।
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति

87.13

7.12अव् चपलं परमं रूपं 7.12अव् चपलं परुषं रूक्षं
पीत-फेनाक्षि-वक्त्र-त्वग् आस्फालयति मेदिनीम् ।
भैरवादीप्त-रुषित-रूप-दर्शी तृषान्वितः

87.14

कफाच् चिरेण ग्रहणं चिरेणैव विबोधनम् ।
चेष्टाल्पा भूयसी लाला शुक्ल-नेत्र-नखास्य-ता

87.15

शुक्लाभ-रूप-दर्शि-त्वं सर्व-लिङ्गं तु वर्जयेत् ।
अथावृतानां धी-चित्त-हृत्-खानां प्राक्-प्रबोधनम्

87.16

तीक्ष्णैः कुर्याद् अपस्मारे कर्मभिर् वमनादिभिः ।
वातिकं वस्ति-भूयिष्ठैः पैत्तं प्रायो विरेचनैः

87.17

श्लैष्मिकं वमन-प्रायैर् अपस्मारम् उपाचरेत् ।
सर्वतः सु-विशुद्धस्य सम्यग् आश्वासितस्य च

87.18

अपस्मार-विमोक्षार्थं योगान् संशमनाञ् छृणु ।
गो-मय-स्व-रस-क्षीर-दधि-मूत्रैः शृतं हविः

87.19

अपस्मार-ज्वरोन्माद-कामलान्त-करं पिबेत् ।
द्वि-पञ्च-मूल-त्रि-फला-द्वि-निशा-कुटज-त्वचः

87.20

7.19च्व् द्वि-पञ्च-मूली-त्रि-फला-
सप्तपर्णम् अपामार्गं नीलिनीं कटु-रोहिणीम् ।
शम्याक-पुष्कर-जटा-फल्गु-मूल-दुरालभाः

87.21

7.20च्व् श्योणाक-पुष्कर-जटा-
द्वि-पलाः सलिल-द्रोणे पक्त्वा पादावशेषिते ।
भार्गी-पाठाढकी-कुम्भ-निकुम्भ-व्योष-रोहिषैः

87.22

7.21अव् द्वि-पलानि जल-द्रोणे
मूर्वा-भूतिक-भूनिम्ब-श्रेयसी-शारिवा-द्वयैः ।
मदयन्त्य्-अग्नि-निचुलैर् अक्षांशैः सर्पिषः पचेत्

87.23

7.22अव् मूर्वा-पूतिक-भूनिम्ब-
प्रस्थं तद्-वद् द्रवैः पूर्वैः पञ्च-गव्यम् इदं महत् ।
ज्वरापस्मार-जठर-भगन्दर-हरं परम्

87.24

शोफार्शः-कामला-पाण्डु-गुल्म-कास-ग्रहापहम् ।
ब्राह्मी-रस-वचा-कुष्ठ-शङ्खपुष्पी-शृतं घृतम्

87.25

7.24ब्व् -गुल्म-कास-भ्रमापहम्
पुराणं मेध्यम् उन्मादा-लक्ष्म्य्-अपस्मार-पाप्म-जित् ।
तैल-प्रस्थं घृत-प्रस्थं जीवनीयैः पलोन्मितैः

87.26

क्षीर-द्रोणे पचेत् सिद्धम् अपस्मार-विमोक्षणम् ।
कंसे क्षीरेक्षु-रसयोः काश्मर्ये ऽष्ट-गुणे रसे

87.27

कार्षिकैर् जीवनीयैश् च सर्पिः-प्रस्थं विपाचयेत् ।
वात-पित्तोद्भवं क्षिप्रम् अपस्मारं निहन्ति तत्

87.28

तद्-वत् काश-विदारीक्षु-कुश-क्वाथ-शृतं पयः ।
कूष्माण्ड-स्व-रसे सर्पिर् अष्टा-दश-गुणे शृतम्

87.29

7.28ब्व् -कुश-क्वाथे शृतं पयः 7.28ब्व् -कुश-क्वाथैः शृतं पयः
यष्टी-कल्कम् अपस्मार-हरं धी-वाक्-स्वर-प्रदम् ।
कपिलानां गवां पित्तं नावने परमं हितम्

87.30

7.29अव् यष्टी-कल्कं अपस्मारं 7.29ब्व् नावनं परमं हितम् 7.29ब्व्
हरेद् धी-वाक्-स्वर-प्रदम्
श्व-शृगाल-बिडालानां सिंहादीनां च पूजितम् ।
गोधा-नकुल-नागानां पृषतर्क्ष-गवाम् अपि

87.31

7.30द्व् वृषभर्क्ष-गवाम् अपि 7.30द्व् वृक-चर्क-गवाम् अपि
पित्तेषु साधितं तैलं नस्ये ऽभ्यङ्गे च शस्यते ।
त्रि-फला-व्योष-पीतद्रु-यव-क्षार-फणिज्जकैः

87.32

7.31अव् पित्तेषु साधयेत् तैलं 7.31ब्व् नस्याभ्यङ्गेषु शस्यते
श्र्य्-आह्वापामार्ग-कारञ्ज-बीजैस् तैलं विपाचितम् ।
बस्त-मूत्रे हितं नस्यं चूर्णं वा ध्मापयेद् भिषक्

87.33

7.32अव् श्यामापामार्ग-कारञ्ज- 7.32ब्व् -बीजैस् तैलं प्रसाधितम् 7.32ब्व्
-बीजैस् तैलं विपाचयेत्
नकुलोलूक-मार्जार-गृध्र-कीटाहि-काक-जैः ।
तुण्डैः पक्षैः पुरीषैश् च धूपम् अस्य प्रयोजयेत्

87.34

7.33द्व् धूमम् अस्य प्रयोजयेत् 7.33द्व् धूपम् अस्मै प्रयोजयेत्
शीलयेत् तैल-लशुनं पयसा वा शतावरीम् ।
ब्राह्मी-रसं कुष्ठ-रसं वचां वा मधु-संयुताम्

87.35

समं क्रुद्धैर् अपस्मारो दोषैः शारीर-मानसैः ।
यज् जायते यतश् चैष महा-मर्म-समाश्रयः

87.36

तस्माद् रसायनैर् एनं दुश्-चिकित्स्यम् उपाचरेत् ।
तद्-आर्तं चाग्नि-तोयादेर् विषमात् पालयेत् सदा

87.37

7.36अव् तस्माद् रसायनेनैनं 7.36च्व् तद्-आर्तं चाग्नि-तोयादि- 7.36द्व् -विषमात्
पालयेत् सदा
मुक्तं मनो-विकारेण त्वम् इत्थं कृत-वान् इति ।
न ब्रूयाद् विषयैर् इष्टैः क्लिष्टं चेतो ऽस्य बृंहयेत्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc