भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 86

86.1

5.53च्व् यथोक्तम् इह तत् सर्वं
उत्तरस्थान
उन्मादाः षट् पृथग्-दोष-निचयाधि-विषोद्भवाः ।
उन्मादो नाम मनसो दोषैर् उन्मार्ग-गैर् मदः

86.2

शारीर-मानसैर् दुष्टैर् अ-हिताद् अन्न-पानतः ।
विकृता-सात्म्य-स-मलाद् विषमाद् उपयोगतः

86.3

6.2अव् शारीर-मानसैर् दोषैर् 6.2च्व् विकृता-सात्म्य-स-मल- 6.2द्व् -विषमाद्
उपयोगतः
विषण्णस्याल्प-सत्-त्वस्य व्याधि-वेग-समुद्गमात् ।
क्षीणस्य चेष्टा-वैषम्यात् पूज्य-पूजा-व्यतिक्रमात्

86.4

6.3ब्व् व्याधि-वेग-समुद्भवात् 6.3ब्व् व्याधि-वेग-समुद्भ्रमात्
आधिभिर् चित्त-विभ्रंशाद् विषेणोपविषेण च ।
एभिर् हि हीन-सत्-त्वस्य हृदि दोषाः प्रदूषिताः

86.5

6.4ब्व् विषेणोपविषेण वा 6.4च्व् एभिर् विहीन-सत्-त्वस्य
धियो विधाय कालुष्यं हृत्वा मार्गान् मनो-वहान् ।
उन्मादं कुर्वते तेन धी-विज्ञान-स्मृति-भ्रमात्

86.6

देहो दुःख-सुख-भ्रष्टो भ्रष्ट-सारथि-वद् रथः ।
भ्रमत्य् अ-चिन्तितारम्भस् तत्र वातात् कृशाङ्ग-ता

86.7

6.6अव् देही दुःख-सुख-भ्रष्टो
अ-स्थाने रोदनाक्रोश-हसित-स्मित-नर्तनम् ।
गीत-वादित्र-वाग्-अङ्ग-विक्षेपास्फोटनानि च

86.8

अ-साम्ना वेणु-वीणादि-शब्दानुकरणं मुहुः ।
आस्यात् फेनागमो ऽजस्रम् अटनं बहु-भाषि-ता

86.9

6.8अव् अभीक्ष्णं वेणु-वीणादि- 6.8अव् आस्येन वेणु-वीणादि- 6.8ब्व्
-शब्दादि-करणं मुहुः
6.8द्व् अटनं बहु-भाषितम्
अलङ्कारो ऽन्-अलङ्कारैर् अ-यानैर् गमनोद्यमः ।
गृद्धिर् अभ्यवहार्येषु तल्-लाभे चावमान-ता

86.10

6.9द्व् तल्-लाभे वावमान-ता 6.9द्व् तल्-लाभेष्व् अवमान-ता
उत्पिण्डितारुणाक्षि-त्वं जीर्णे चान्ने गदोद्भवः ।
पित्तात् संतर्जनं क्रोधो मुष्टि-लोष्टाद्य्-अभिद्रवः

86.11

6.10अव् उत्पीडितारुणाक्षि-त्वं
शीत-च्छायोदकाकाङ्क्षा नग्न-त्वं पीत-वर्ण-ता ।
अ-सत्य-ज्वलन-ज्वाला-तारका-दीप-दर्शनम्

86.12

6.11ब्व् नेत्र-त्वक्-पीत-वर्ण-ता 6.11च्व् अ-सति ज्वलने ज्वाला- 6.11च्व्
अ-सत्य-ज्वलनोल्कादि-
कफाद् अ-रोचकश् छर्दिर् अल्पेहाहार-वाक्य-ता ।
स्त्री-काम-ता रहः-प्रीतिर् लाला-सिङ्घाणक-स्रुतिः

86.13

बैभत्स्यं शौच-विद्वेषो निद्रा श्वयथुर् आनने ।
उन्मादो बल-वान् रात्रौ भुक्त-मात्रे च जायते

86.14

सर्वायतन-संस्थान-संनिपाते तद्-आत्मकम् ।
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत्

86.15

6.14ब्व् -संनिपातात् तद्-आत्मकम्
धन-कान्तादि-नाशेन दुः-सहेनाभिषङ्ग-वान् ।
पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते

86.16

रोदित्य् अ-कस्मान् म्रियते तद्-गुणान् बहु मन्यते ।
शोक-क्लिष्ट-मना ध्यायञ् जागरूको विचेष्टते

86.17

6.16अव् रोदित्य् अ-कस्मात् स्मयते
विषेण श्याव-वदनो नष्ट-च्छाया-बलेन्द्रियः ।
वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत्

86.18

6.17ब्व् नष्ट-च्छायो ऽ-बलेन्द्रियः
अथानिल-ज उन्मादे स्नेह-पानं प्रयोजयेत् ।
पूर्वम् आवृत-मार्गे तु स-स्नेहं मृदु शोधनम्

86.19

कफ-पित्त-भवे ऽप्य् आदौ वमनं स-विरेचनम् ।
स्निग्ध-स्विन्नस्य वस्तिं च शिरसः स-विरेचनम्

86.20

6.19अव् कफ-पित्तोद्भवे ऽप्य् आदौ 6.19च्व् स्निग्ध-स्विन्नस्य वस्तींश् च
6.19द्व् शिरसश् च विरेचनम्
तथास्य शुद्ध-देहस्य प्रसादं लभते मनः ।
इत्थम् अप्य् अनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम्

86.21

6.20अव् तथैव शुद्ध-देहस्य
हर्षणाश्वासनोत्त्रास-भय-ताडन-तर्जनम् ।
अभ्यङ्गोद्वर्तनालेप-धूपान् पानं च सर्पिषः

86.22

6.21द्व् -धूमान् पानं च सर्पिषः
युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः ।
हिङ्गु-सौवर्चल-व्योषैर् द्वि-पलांशैर् घृताढकम्

86.23

सिद्धं स-मूत्रम् उन्माद-भूतापस्मार-नुत् परम् ।
द्वौ प्रस्थौ स्व-रसाद् ब्राह्म्या घृत-प्रस्थं च साधितम्

86.24

व्योष-श्यामा-त्रिवृद्-दन्ती-शङ्खपुष्पी-नृपद्रुमैः ।
स-सप्तला-कृमिहरैः कल्कितैर् अक्ष-संमितैः

86.25

6.24अव् व्योष-श्यामा-त्रिवृद्-बिम्बी- 6.24च्व् सातला-कृमिजित्-कल्कैः 6.24द्व् सर्वैस्
तैर् अक्ष-संमितैः
पल-वृद्ध्या प्रयुञ्जीत परं मात्रा चतुः-पलम् ।
उन्माद-कुष्ठापस्मार-हरं वन्ध्या-सुत-प्रदम्

86.26

वाक्-स्वर-स्मृति-मेधा-कृद् धन्यं ब्राह्मी-घृतं स्मृतम् ।
वरा-विशाला-भद्रैला-देवदार्व्-एलवालुकैः

86.27

6.26च्व् वरा-विशालाकौत्पला- 6.26च्व् वरा-विशाला-पत्त्रैला-
द्वि-शारिवा-द्वि-रजनी-द्वि-स्थिरा-फलिनी-नतैः ।
बृहती-कुष्ठ-मञ्जिष्ठा-नागकेसर-दाडिमैः

86.28

वेल्ल-तालीश-पत्त्रैला-मालती-मुकुलोत्पलैः ।
स-दन्ती-पद्मक-हिमैः कर्षांशैः सर्पिषः पचेत्

86.29

6.28ब्व् -मालती-कुमुदोत्पलैः 6.28च्व् रुदन्ती-पद्मक-हिमैः
प्रस्थं भूत-ग्रहोन्माद-कासापस्मार-पाप्मसु ।
पाण्डु-कण्डू-विषे शोषे मोहे मेहे गरे ज्वरे

86.30

6.29ब्व् -कासापस्मार-पाप्म-जित् 6.29च्व् पाण्डु-कण्डू-विषे शोफे
अ-रेतस्य् अ-प्रजसि वा दैवोपहत-चेतसि ।
अ-मेधसि स्खलद्-वाचि स्मृति-कामे ऽल्प-पावके

86.31

6.30अव् अ-रेतस्य् अल्प-रजसि
बल्यं मङ्गल्यम् आयुष्यं कान्ति-सौभाग्य-पुष्टि-दम् ।
कल्याणकम् इदं सर्पिः श्रेष्ठं पुं-सवनेषु च

86.32

एभ्यो द्वि-शारिवादीनि जले पक्त्वैक-विंशतिम् ।
रसे तस्मिन् पचेत् सर्पिर् गृष्टि-क्षीर-चतुर्-गुणम्

86.33

6.32द्व् गृष्टि-क्षीरे चतुर्-गुणे 6.32द्व् गृष्टि-क्षीरं चतुर्-गुणम्
वीरा-द्वि-मेदा-काकोली-कपिकच्छू-विषाणिभिः ।
शूर्पपर्णी-युतैर् एतन् महा-कल्याणकं परम्

86.34

6.33अव् वीरर्द्धि-मेदा-काकोली- 6.33द्व् महा-कल्याणकं स्मृतम्
बृंहणं संनिपात-घ्नं पूर्वस्माद् अधिकं गुणैः ।
जटिला पूतना केशी चारटी मर्कटी वचा

86.35

त्रायमाणा जया वीरा चोरकः कटु-रोहिणी ।
वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा

86.36

6.35द्व् अतिच्छत्त्रा पलङ्कषा
महापुरुषदन्ता च कायस्था नाकुली-द्वयम् ।
कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम्

86.37

6.36च्व् कटम्भरा-वृश्चिकाली- 6.36द्व् -स्थिराश् चाहृत्य तैर् घृतम्
सिद्धं चातुर्थिकोन्माद-ग्रहापस्मार-नाशनम् ।
महा-पैशाचकं नाम घृतम् एतद् यथामृतम्

86.38

6.37अव् सिद्धं चतुर्थकोन्माद- 6.37अव् सिद्धं चातुर्थकोन्माद-
बुद्धि-मेधा-स्मृति-करं बालानां चाङ्ग-वर्धनम् ।
ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम्

86.39

6.38अव् स्मृति-बुद्धि-करं चैव 6.38ब्व् बालानाम् अङ्ग-वर्धनम्
रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् ।
ज्योतिष्मतीं नागविन्नाम् अनन्तां स-हरीतकीम्

86.40

6.39अव् रास्नां विषघ्नीं लशुनं
काङ्क्षीं च हस्ति-मूत्रेण पिष्ट्वा छाया-विशोषीता ।
वर्तिर् नस्याञ्जनालेप-धूपैर् उन्माद-सूदनी

86.41

6.40अव् काच्छीं च हस्ति-मूत्रेण 6.40अव् सौराष्ट्रीं बस्त-मूत्रेण 6.40द्व्
-धूपैर् उन्माद-नाशिनी
अवपीडाश् च विविधाः सर्षपाः स्नेह-संयुताः ।
कटु-तैलेन चाभ्यङ्गो ध्मापयेच् चास्य तद् रजः

86.42

स-हिङ्गुस् तीक्ष्ण-धूमश् च सूत्र-स्थानोदितो हितः ।
शृगाल-शल्यकोलूक-जलौका-वृष-बस्त-जैः

86.43

6.42अव् स-हिङ्गु तीक्ष्ण-धूमश् च 6.42द्व् -जलूका-वृष-बस्त-जैः 6.42द्व्
-जलौका-वृक-बस्त-जैः
मूत्र-पित्त-शकृद्-रोम-नख-चर्मभिर् आचरेत् ।
धूप-धूमाञ्जनाभ्यङ्ग-प्रदेह-परिषेचनम्

86.44

धूपयेत् सततं चैनं श्व-गो-मत्स्यैः सु-पूतिभिः ।
वात-श्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते

86.45

तिक्तकं जीवनीयं च सर्पिः स्नेहश् च मिश्रकः ।
शीतानि चान्न-पानानि मधुराणि लघूनि च

86.46

विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।
निवाते शाययेद् एवं मुच्यते मति-विभ्रमात्

86.47

6.46अव् विध्येत् सिरां यथोक्तां च
प्रक्षिप्या-सलिले कूपे शोषयेद् वा बुभुक्षया ।
आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थ-संहितैः

86.48

6.47च्व् आश्वासयेत् सुहृद्भिस् तं
ब्रूयाद् इष्ट-विनाशं वा दर्शयेद् अद्भुतानि वा ।
बद्धं सर्षप-तैलाक्तं न्यसेद् वोत्तानम् आतपे

86.49

6.48अव् ब्रूयाद् इष्टस्य नाशं वा 6.48द्व् न्यस्तं चोत्तानम् आतपे
कपिकच्छ्वाथ-वा तप्तैर् लोह-तैल-जलैः स्पृशेत् ।
कशाभिस् ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत्

86.50

6.49द्व् बद्ध्वा श्वभ्रे विनिःक्षिपेत्
अथ-वा वीत-शस्त्राश्म-जने संतमसे गृहे ।
सर्पेणोद्धृत-दंष्ट्रेण दान्तैः सिंहैर् गजैश् च तम्

86.51

त्रासयेच् छस्त्र-हस्तैर् वा किराताराति-तस्करैः ॥ 50+(1)अब् ॥
6.50+(1)ब्व् तस्करैः शत्रुभिस् तथा
अथ-वा राज-पुरुषा बहिर् नीत्वा सु-संयतम् ।
भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया

86.52

देह-दुःख-भयेभ्यो हि परं प्राण-भयं मतम् ।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः

86.53

6.52द्व् सर्वतो ऽपसृतं मनः
सिद्धा क्रिया प्रयोज्येयं देश-कालाद्य्-अपेक्षया ।
इष्ट-द्रव्य-विनाशात् तु मनो यस्योपहन्यते

86.54

6.53अव् सिद्धाः क्रिया प्रयोक्तव्या
तस्य तत्-सदृश-प्राप्ति-सान्त्वाश्वासैः शमं नयेत् ।
काम-शोक-भय-क्रोध-हर्षेर्ष्या-लोभ-संभवान्

86.55

6.54अव् तस्य तत्-सदृश-प्राप्तिः 6.54ब्व् -सान्त्वाश्वासैः प्रसादयेत् 6.54ब्व्
-प्रियाश्वासैः प्रदर्शयेत्
6.54ब्व् सान्त्वाश्वासैः शमं नयेत्
परस्-पर-प्रति-द्वन्द्वैर् एभिर् एव शमं नयेत् ।
भूतानुबन्धम् ईक्षेत प्रोक्त-लिङ्गाधिकाकृतिम्

86.56

6.55च्व् भूतानुबद्धम् ईक्षेत
यद्य् उन्मादे ततः कुर्याद् भूत-निर्दिष्टम् औषधम् ।
बलिं च दद्यात् पललं यावकं सक्तु-पिण्डिकाम्

86.57

6.56अव् यद्य् उन्मादे च तत् कुर्याद्
स्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् ।
पक्वामकानि मांसानि सुरां मैरेयम् आसवम्

86.58

6.57च्व् पक्वामाह्वानि मांसानि 6.57द्व् सुरा-मैरेयम् आसवम्
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च ।
चतुष्-पथे गवां तीर्थे नदीनां संगमेषु च

86.59

निवृत्तामिष-मद्यो यो हिताशी प्रयतः शुचिः ।
निजागन्तुभिर् उन्मादैः सत्-त्व-वान् न स युज्यते

86.60

6.59अव् निवृत्तामिष-मद्यो ऽपि
प्रसाद इन्द्रियार्थानां बुद्ध्य्-आत्म-मनसां तथा ।
धातूनां प्रकृति-स्थ-त्वं विगतोन्माद-लक्षणम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc