भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 88

88.1

उत्तरस्थान
सर्व-रोग-निदानोक्तैर् अ-हितैः कुपिता मलाः ।
अ-चक्षुष्यैर् विशेषेण प्रायः पित्तानुसारिणः

88.2

सिराभिर् ऊर्ध्वं प्रसृता नेत्रावयवम् आश्रिताः ।
वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वम् अक्षि वा

88.3

रोगान् कुर्युश् चलस् तत्र प्राप्य वर्त्माश्रयाः सिराः ।
सुप्तोत्थितस्य कुरुते वर्त्म-स्तम्भं स-वेदनम्

88.4

पांसु-पूर्णाभ-नेत्र-त्वं कृच्छ्रोन्मीलनम् अश्रु च ।
विमर्दनात् स्याच् च शमः कृच्छ्रोन्मूलं वदन्ति तत्

88.5

चालयन् वर्त्मनी वायुर् निमेषोन्मेषणं मुहुः ।
करोत्य् अ-रुङ् निमेषो ऽसौ वर्त्म यत् तु निमील्यते

88.6

विमुक्त-संधि निश्-चेष्टं हीनं वात-हतं हि तत् ।
कृष्णाः पित्तेन बह्व्यो ऽन्तर्-वर्त्म कुम्भीक-बीज-वत्

88.7

8.6च्व् पित्तेन वर्त्मनो ऽन्तर्-जा 8.6द्व् बह्व्यः कुम्भीक-बीज-वत्
आध्मायन्ते पुनर् भिन्नाः पिटिकाः कुम्भि-संज्ञिताः ।
स-दाह-क्लेद-निस्तोदं रक्ताभं स्पर्शना-क्षमम्

88.8

8.7ब्व् पिटिकाः कुम्भि-संज्ञकाः
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टम् उशन्ति तत् ।
करोति कण्डूं दाहं च पित्तं पक्ष्ंआन्तम् आस्थितम्

88.9

8.8द्व् पित्तं पक्ष्ंआन्तम् आश्रितम्
पक्ष्मणां शातनं चानु पक्ष्म-शातं वदन्ति तम् ।
पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात्

88.10

8.9अव् पक्ष्मणां शतनं चानु 8.9अव् पक्ष्मणां सदनं चानु
शोफोपदेह-रुक्-कण्डू-पिच्छिलाश्रु-समन्विताः ।
कफोत्क्लिष्टं भवेद् वर्त्म स्तम्भ-क्लेदोपदेह-वत्

88.11

ग्रन्थिः पाण्डुर-रुक्-पाकः कण्डू-मान् कठिनः कफात् ।
कोल-मात्रः स लगणः किञ्-चिद् अल्पस् ततो ऽथ-वा

88.12

8.11द्व् किञ्-चिद् अल्पस् ततो ऽपि वा
रक्ता रक्तेन पिटिका तत्-तुल्य-पिटिकाचिता ।
उत्सङ्गाख्या तथोत्क्लिष्टं राजी-मत् स्पर्शना-क्षमम्

88.13

8.12अव् रक्ता रक्तेन पिटिकास् 8.12ब्व् तत्-तुल्य-पिटिकाचिताः 8.12च्व् उत्सङ्गाख्यास्
तथोत्क्लिष्टं
अर्शो ऽधि-मांसं वर्त्मान्तः स्तब्धं स्निग्धं स-दाह-रुक् ।
रक्तं रक्तेन तत्-स्रावि च्छिन्नं छिन्नं च वर्धते

88.14

मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषा-रुग्-वती स्थिरा ।
मुद्ग-मात्रासृजा ताम्रा पिटिकाञ्जन-नामिका

88.15

दोषैर् वर्त्म बहिः शूनं यद् अन्तः सूक्ष्म-खाचितम् ।
स-स्रावम् अन्तर्-उदकं बिसाभं बिस-वर्त्म तत्

88.16

यद् वर्त्मोत्क्लिष्टम् उत्क्लिष्टम् अ-कस्मान् म्लान-ताम् इयात् ।
रक्त-दोष-त्रयोत्क्लेशाद् भवत्य् उत्क्लिष्ट-वर्त्म तत्

88.17

8.16द्व् वदन्त्य् उत्क्लिष्ट-वर्त्म तत्
श्याव-वर्त्म मलैः सास्रैः श्यावं रुक्-क्लेद-शोफ-वत् ।
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डू-श्वयथु-रागिणी

88.18

वर्त्मनो ऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः ।
सिकता-वर्त्म कृष्णं तु कर्दमं कर्दमोपमम्

88.19

बहलं बहलैर् मांसैः स-वर्णैश् चीयते समैः ।
कुकूणकः शिशोर् एव दन्तोत्पत्ति-निमित्त-जः

88.20

स्यात् तेन शिशुर् उच्छून-ताम्राक्षो वीक्षणा-क्षमः ।
स-वर्त्म-शूल-पैच्छिल्यः कर्ण-नासाक्षि-मर्दनः

88.21

8.20ब्व् -ताम्राक्षो वीक्षणे ऽ-क्षमः
पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा ।
खर-तान्तर्-मुख-त्वं च रोम्णाम् अन्यानि वा पुनः

88.22

8.21ब्व् वर्त्मनो जायते तथा
कण्टकैर् इव तीक्ष्णाग्रैर् घृष्टं तैर् अक्षि शूयते ।
उष्यते चानिलादि-द्विड् अल्पाहः शान्तिर् उद्धृतैः

88.23

8.22ब्व् घृष्टं तैर् अक्षि सूयते 8.22च्व् उष्यते वानिलादि-द्विड् 8.22च्व् उष्यते
चानिलाद्यैश् च
8.22द्व् अल्पाहं शान्तिर् उद्धृतैः
कनीनके बहिर्-वर्त्म कठिनो ग्रन्थिर् उन्नतः ।
ताम्रः पक्वो ऽस्र-पूय-स्रुद् अलज्य् आध्मायते मुहुः

88.24

वर्त्मान्तर् मांस-पिण्डाभः श्वयथुर् ग्रथितो ऽ-रुजः ।
सास्रैः स्याद् अर्बुदो दोषैर् विषमो बाह्यतश् चलः

88.25

चतुर्-विंशतिर् इत्य् एते व्याधयो वर्त्म-संश्रयाः ।
आद्यो ऽत्र भेषजैः साध्यो द्वौ ततो ऽर्शश् च वर्यजेत्

88.26

पक्ष्मोपरोधो याप्यः स्याच् छेषाञ् छस्त्रेण साधयेत् ।
कुट्टयेत् पक्ष्म-सदनं छिन्द्यात् तेष्व् अपि चार्बुदम्

88.27

8.26च्व् कुट्टयेत् पक्ष्म-शदनं
भिन्द्याल् लगण-कुम्भीका-बिसोत्सङ्गाञ्जनालजीः ।
पोथकी-श्याव-सिकता-श्लिष्टोत्क्लिष्ट-चतुष्टयम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc