भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 85

85.1

उत्तरस्थान
भूतं जयेद् अ-हिंसेच्छं जप-होम-बलि-व्रतैः ।
तपः-शील-समाधान-दान-ज्ञान-दयादिभिः

85.2

5.1अव् भूतं जयेद् अ-हिंसोत्थं 5.1च्व् तपः-शील-समाध्यान-
हिङ्गु-व्योषाल-नेपाली-लशुनार्क-जटा-जटाः ।
अजलोमी स-गोलोमी भूतकेशी वचा लता

85.3

5.2ब्व् -लशुनार्क-जटामयाः 5.2द्व् भूतकेशी-वचा-लताः 5.2द्व् भूतकेशी वचा
बला
कुक्कुटी सर्पगन्धाख्या तिलाः काण-विकाणिके ।
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्य् अपि

85.4

5.3ब्व् तिलाः काल-विकाणिके 5.3ब्व् तिलाः काण-विषाणिके 5.3ब्व् तथा
काण-विकाणिके
5.3च्व् वज्रप्रोक्ता वयःस्था वा
स्रोतो-जाञ्जन-रक्षोघ्नं रक्षो-घ्नं चान्यद् औषधम् ।
खराश्व-श्वाविद्-उष्ट्रर्क्ष-गोधा-नकुल-शल्यकात्

85.5

5.4द्व् -गोधा-नकुल-मत्स्यकात्
द्वीपि-मार्जार-गो-सिंह-व्याघ्र-सामुद्र-सत्-त्वतः ।
चर्म-पित्त-द्वि-ज-नखा वर्गे ऽस्मिन् साधयेद् घृतम्

85.6

पुराणम् अथ-वा तैलं नवं तत् पान-नस्ययोः ।
अभ्यङ्गे च प्रयोक्तव्यम् एषां चूर्णं च धूपने

85.7

एभिश् च गुटिकां युञ्ज्याद् अञ्जने सावपीडने ।
प्रलेपे कल्कम् एतेषां क्वाथं च परिषेचने

85.8

5.7ब्व् अञ्जने सावपीडके
प्रयोगो ऽयं ग्रहोन्मादान् सापस्माराञ् छमं नयेत् ।
गजाह्वा-पिप्पली-मूल-व्योषामलक-सर्षपान्

85.9

गोधा-नकुल-मार्जार-झष-पित्त-प्रपेषितान् ।
नावनाभ्यङ्ग-सेकेषु विदधीत ग्रहापहान्

85.10

5.9ब्व् -शश-पित्त-प्रपेषितान् 5.9ब्व् -ऋक्ष-पित्त-प्रपेषितान्
सिद्धार्थक-वचा-हिङ्गु-प्रियङ्गु-रजनी-द्वयम् ।
मञ्जिष्ठा श्वेत-कटभी वरा श्वेताद्रिकर्णिका

85.11

5.10च्व् मञ्जिष्ठा-श्वेत-कटभी- 5.10द्व् -वरा-श्वेताद्रिकर्णिकाः
निम्बस्य पत्त्रं बीजं तु नक्तमाल-शिरीषयोः ।
सुराह्वं त्र्य्-ऊषणं सर्पिर् गो-मूत्रे तैश् चतुर्-गुणे

85.12

5.11द्व् गो-मूत्रे च चतुर्-गुणे
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् ।
ग्रहान् सर्वान् निहन्त्य् आशु विशेषाद् आसुरान् ग्रहान्

85.13

कृत्या-लक्ष्मी-विषोन्माद-ज्वरापस्मार-पाप्म च ।
एभिर् एवौषधैर् बस्त-वारिणा कल्पितो ऽ-गदः

85.14

5.13ब्व् -ज्वरापस्मार-पाप्म-नुत्
पान-नस्याञ्जनालेप-स्नानोद्घर्षण-योजितः ।
गुणैः पूर्व-वद् उद्दिष्टो राज-द्वारे च सिद्धि-कृत्

85.15

5.14च्व् स गुणैः पूर्व-वद् दिष्टो
सिद्धार्थक-व्योष-वचाश्वगन्धा निशा-द्वयं हिङ्गु-पलाण्डु-कन्दः ।
बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थ-वृक्षात्

85.16

5.15ब्व् निशा-द्वयं हिङ्गु-पलाण्डु-कन्दम् 5.15द्व् फलं च कल्कश् च
कपित्थ-वृक्षात्
5.15द्व् फलं च पुष्पं च कपित्थ-वृक्षात् 5.15द्व् फलं च वल्कश् च
कपित्थ-वृक्षात्
स-माणिमन्थं स-नतं स-कुष्ठं श्योणाक-मूलं किणिही सिता च ।
बस्तस्य मूत्रेण सु-भावितं तत् पित्तेन गव्येन गुडान् विदध्यात्

85.17

दुष्ट-व्रणोन्माद-तमो-निशान्धान् उद्बन्धकान् वारि-निमग्न-देहान् ।
दिग्धाहतान् दर्पित-सर्प-दष्टांस् ते साधयन्त्य् अञ्जन-नस्य-लेपैः

85.21

5.17अव् दुष्ट-व्रणोन्माद-तमो-निशान्ध्यम् 5.17ब्व् उद्बद्धकान्
वारि-निमग्न-देहान्
5.17द्व् तान् साधयन्त्य् अञ्जन-नस्य-लेपैः 5.17द्व् ते साधयन्त्य्
अञ्जन-पान-लेपैः
कार्पासास्थि-मयूर-पत्त्र-बृहती-निर्माल्य-पिण्डीतक- ॥ 18अ ॥
5.18अव् कार्पासास्थि-मयूर-पिच्छ-बृहती-निर्माल्य-पिण्डीतक-
-त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोककैः ॥ 18ब् ॥
5.18ब्व् -त्वग्-वांशी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः
5.18ब्व् -त्वग्-वांशी-वृष-दंश-विण्-नख-वचा-केशाहि-निर्मोचनैः
5.18ब्व् -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः
नागेन्द्र-द्वि-ज-शृङ्ग-हिङ्गु-मरिचैस् तुल्यैः कृतं धूपनं ॥ 18च् ॥
स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ज्वर-घ्नं परम् ॥ 18द् ॥
5.18द्व् स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ग्रह-घ्नं परम्
त्रि-कटुक-दल-कुङ्कुम-ग्रन्थिक-क्षार-सिंही-निशा-दारु-सिद्धार्थ-युग्माम्बु-शक्राह्व्
अयैः ॥ 19अ ॥
सित-लशुन-फल-त्रयोशीर-तिक्ता-वचा-तुत्थ-यष्टी-बला-लोहितैला-शिला-पद्मकैः ॥ 19ब् ॥
दधि-तगर-मधूक-सार-प्रियाह्वा-विषाख्या-विषा-तार्क्ष्य-शैलैः स-चव्यामयैः
कल्कितैः ॥ 19च् ॥
घृतम् अ-नवम् अ-शेष-मूत्रांश-सिद्धं मतं भूत-रावाह्वयं पानतस् तद्
ग्रह-घ्नं परम् ॥ 19द् ॥
नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटली-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग्
-लता-रोहिणी- ॥ 20अ ॥
5.20अव्
नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटला-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग्
-लता-रोहिणी-
-बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा
म्बु देन्द्राह्वयैः ॥ 20ब् ॥
5.20ब्व्
-बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा
म्बुदेन्द्राह्वयैः
5.20ब्व्
-मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा
म्बुदेन्द्राह्वयैः
5.20ब्व्
मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा
म्बुदेन्द्राह्वयैः
5.20ब्व्
-मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामृता-कोल-कोशातकी-शिग्रु-निम्बा
म्बुदेन्द्राह्वयैः
गद-शुकतरु-पुष्प-बीजोग्र-यष्ट्य्-अद्रिकर्णी-निकुम्भाग्नि-बिल्वैः समैः कल्कितैर्
मूत्र-वर्गेण सिद्धं घृतं ॥ 20च् ॥
विधि-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस्
तन् महा-भूत- रावं स्मृतम् ॥ 20द् ॥
5.20द्व् विधि-वन् निहितम् आशु सर्वैः क्रमैर् योजितं हन्ति
सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम्
5.20द्व् चिर-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति
सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत-रावं स्मृतम्
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः ।
दिनेषु बलि-होमादीन् प्रयुञ्जीत चिकित्सकः

85.22

स्नान-वस्त्र-वसा-मांस-मद्य-क्षीर-गुडादि च ।
रोचते यद् यदा येभ्यस् तत् तेषाम् आहरेत् तदा

85.23

5.22अव् स्नानं वस्त्रं वसा मांसं 5.22ब्व् मद्यं क्षीर-गुडानि वा
रत्नानि गन्ध-माल्यानि बीजानि मधु-सर्पिषी ।
भक्ष्याश् च सर्वे सर्वेषां सामान्यो विधिर् इत्य् अयम्

85.24

5.23अव् रक्तानि गन्ध-माल्यानि 5.23च्व् भक्षाश् च सर्वे सर्वेषां
सुरर्षि-गुरु-वृद्धेभ्यः सिद्धेभ्यश् च सुरालये ।
दिश्य् उत्तरस्यां तत्रापि देवायोपहरेद् बलिम्

85.25

पश्चिमायां यथा-कालं दैत्य-भूताय चत्वरे ।
गन्धर्वाय गवां मार्गे स-वस्त्राभरणं बलिम्

85.26

पितृ-नाग-ग्रहे नद्यां नागेभ्यः पूर्व-दक्षिणे ।
यक्षाय यक्षायतने सरितोर् वा समागमे

85.27

5.26अव् पितृ-नाम-ग्रहे नद्यां
चतुष्-पथे राक्षसाय भीमेषु गहनेषु च ।
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्म-रक्षसाम्

85.28

5.27ब्व् भीमेषु गहनेषु वा
शून्यालये पिशाचाय पश्चिमां दिशम् आस्थिते ।
शुचि-शुक्लानि माल्यानि गन्धाः क्षैरेयम् ओदनम्

85.29

5.28ब्व् पश्चिमां दिशम् आश्रिते 5.28ब्व् पश्चिमायां दिशि स्थिते
दधि च्छत्त्रं च धवलं देवानां बलिर् इष्यते ।
हिङ्गु-सर्षप-षड्ग्रन्था-व्योषैर् अर्ध-पलोन्मितैः

85.30

चतुर्-गुणे गवां मूत्रे घृत-प्रस्थं विपाचयेत् ।
तत्-पान-नावनाभ्यङ्गैर् देव-ग्रह-विमोक्षणम्

85.31

नस्याञ्जनं वचा-हिङ्गु-लशुनं बस्त-वारिणा ।
दैत्ये बलिर् बहु-फलः सोशीर-कमलोत्पलः

85.32

5.31अव् नस्याञ्जने वचा-हिङ्गु-
नागानां सुमनो-लाज-गुडापूप-गुडौदनैः ।
परमान्न-मधु-क्षीर-कृष्ण-मृन्-नागकेसरैः

85.33

वचा-पद्म-पुरोशीर-रक्तोत्पल-दलैर् बलिः ।
श्वेतपत्त्रं च लोध्रं च तगरं नाग-सर्षपाः

85.34

5.33अव् वचा-पाठा-पुरोशीर-
शीतेन वारिणा पिष्टं नावनाञ्जनयोर् हितम् ।
यक्षाणां क्षीर-दध्य्-आज्य-मिश्रकौदन-गुग्गुलु

85.35

देवदारूत्पलं पद्मं उशीरं वस्त्र-काञ्चनम् ।
हिरण्यं च बलिर् योज्यो मूत्राज्य-क्षीरम् एकतः

85.36

5.35ब्व् उशीरं वस्त्र-चन्दनम् 5.35ब्व् उशीरं वस्त्र-कम्बलम्
सिद्धं समोन्मितं पान-नावनाभ्यञ्जने हितम् ।
हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा

85.37

5.36अव् सिद्धं पलोन्मितं पान-
निम्ब-पत्त्रं च बस्ताम्बु-कल्कितं नावनाञ्जनम् ।
ब्रह्म-रक्षो-बलिः सिद्धं यवानां पूर्णम् आढकम्

85.38

5.37द्व् यवानां चूर्णम् आढकम्
तोयस्य कुम्भः पललं छत्त्रं वस्त्रम् विलेपनम् ।
गायत्री-विंशति-पल-क्वाथे ऽर्ध-पलिकैः पचेत्

85.39

5.38अव् तोय-कुम्भं च पललं
त्र्य्-ऊषण-त्रि-फला-हिङ्गु-षड्ग्रन्था-मिशि-सर्षपैः ।
स-निम्ब-पत्त्र-लशुनैः कुडवान् सप्त सर्पिषः

85.40

गो-मूत्रे त्रि-गुणे पान-नस्याभ्यङ्गेषु तद् धितम् ।
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम्

85.41

5.40अव् गो-मूत्रे त्रि-गुणे सिद्धं 5.40ब्व् पानाभ्यङ्गेषु तद् धितम् 5.40द्व्
कुसुमं मिश्रकौदनः
बलिः पक्वाम-मांसानि निष्पावा रुधिरोक्षिताः ।
नक्तमाल-शिरीष-त्वङ्-मूल-पुष्प-फलानि च

85.42

5.41द्व् -मूलं पुष्पं फलानि च 5.41द्व् -मूले पुष्पं फलानि च
तद्-वच् च कृष्ण-पाटल्या बिल्व-मूलं कटु-त्रिकम् ।
हिङ्ग्व्-इन्द्रयव-सिद्धार्थ-लशुनामलकी-फलम्

85.43

नावनाञ्जनयोर् योज्यो बस्त-मूत्र-युतो ऽ-गदः ।
एभिर् एव घृतं सिद्धं गवां मूत्रे चतुर्-गुणे

85.44

5.43ब्व् बस्त-मूत्र-हृतो ऽ-गदः 5.43ब्व् बस्त-मूत्र-द्रुतो ऽ-गदः
रक्षो-ग्रहान् वारयते पानाभ्यञ्जन-नावनैः ।
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि

85.45

मूलकं लवणं सर्पिः स-भूतौदन-यावकम् ।
हरिद्रा-द्वय-मञ्जिष्ठा-मिशि-सैन्धव-नागरम्

85.46

5.45ब्व् प्रभूतौदन-यावकम् 5.45ब्व् प्राग्-भूतौदन-यावकम् 5.45द्व्
-मिशि-सैन्धव-नागरैः
हिङ्गु-प्रियङ्गु-त्रि-कटु-लशुन-त्रि-फला वचा ।
पाटली-श्वेत-कटभी-शिरीष-कुसुमैर् घृतम्

85.47

5.46ब्व् -लशुन-त्रि-फला-वचाः 5.46च्व् पटोली-श्वेत-कटभी- 5.46च्व्
पाटला-श्वेत-कटभी-
गो-मूत्र-पादिकं सिद्धं पानाभ्यञ्जनयोर् हितम् ।
बस्ताम्बु-पिष्टैस् तैर् एव योज्यम् अञ्जन-नावनम्

85.48

देवर्षि-पितृ-गन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् ।
सर्पिः-पानादि मृद्व् अस्मिन् भैषज्यम् अवचारयेत्

85.49

ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् ।
स-वैद्यम् आतुरं घ्नन्ति क्रुद्धास् ते हि महौजसः

85.50

ईश्वरं द्वा-दश-भुजं नाथम् आर्यावलोकितम् ।
सर्व-व्याधि-चिकित्सां च जपन् सर्व-ग्रहान् जयेत्

85.51

5.50च्व् सर्व-व्याधि-चिकित्सन्तं 5.50च्व् सर्व-व्याधि-चिकित्सं च 5.50च्व्
सर्व-व्याधि-चिकित्सितं
तथोन्मादान् अपस्मारान् अन्यं वा चित्त-विप्लवम् ।
महा-विद्यां च मायूरीं शुचिं तं श्रावयेत् सदा

85.52

5.51ब्व् अन्यान् वा चित्त-विभ्रमान् 5.51द्व् शुचिस् तं श्रावयेत् सदा
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश् च तद्-गणान् ।
जपन् सिद्धांश् च तन्-मन्त्रान् ग्रहान् सर्वान् अपोहति

85.53

यच् चान्-अन्तरयोः किञ्-चिद् वक्ष्यते ऽध्याययोर् हितम् ।
यच् चोक्तम् इह तत् सर्वं प्रयुञ्जीत परस्-परम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc