अष्टाङ्गहृदयसूत्र · अध्याय 84
3.60द्व् ग्रह-व्यापद्य् उपद्रवान्
बालामय-निषेधोक्त-भेषजैः समुपाचरेत् ॥ 60ऊअब् ॥
3.60ऊब्व् -भैषज्यैः समुपाचरेत्
उत्तरस्थान
लक्षयेज् ज्ञान-विज्ञान-वाक्-चेष्टा-बल-पौरुषम् ।
पुरुषे ऽ-पौरुषं यत्र तत्र भूत-ग्रहं वदेत्
भूतस्य रूप-प्रकृति-भाषा-गत्य्-आदि-चेष्टितैः ।
यस्यानुकारं कुरुते तेनाविष्टं तम् आदिशेत्
सो ऽष्टा-दश-विधो देव-दानवादि-विभेदतः ।
हेतुस् तद्-अनुषक्तौ तु सद्यः पूर्व-कृतो ऽथ-वा
4.3द्व् सद्यः पूर्वं कृतो ऽथ-वा
प्रज्ञापराधः सु-तरां तेन कामादि-जन्मना ।
लुप्त-धर्म-व्रताचारः पूज्यान् अप्य् अतिवर्तते
4.4द्व् पूज्यानाम् अतिवर्तनैः
तं तथा भिन्न-मर्यादं पापम् आत्मोपघातिनम् ।
देवादयो ऽप्य् अनुघ्नन्ति ग्रहाश् छिद्र-प्रहारिणः
छिद्रं पाप-क्रियारम्भः पाको ऽन्-इष्टस्य कर्मणः ।
एकस्य शून्ये ऽवस्थानं श्मशानादिषु वा निशि
दिग्-वासस्-त्वं गुरोर् निन्दा रतेर् अ-विधि-सेवनम् ।
अ-शुचेर् देवतार्चादि पर-सूतक-संकरः
4.7च्व् अ-शुचेर् देवताराद्धिः 4.7द्व् पर-सूतक-संकरात्
होम-मन्त्र-बलीज्यानां वि-गुणं परिकर्म च ।
समासाद् दिन-चर्यादि-प्रोक्ताचार-व्यतिक्रमः
4.8द्व् -प्रोक्तानां च विपर्ययः
गृह्णन्ति शुक्ल-प्रतिपत्-त्रयो-दश्योः सुरा नरम् ।
शुक्ल-त्रयो-दशी-कृष्ण-द्वा-दश्योर् दानवा ग्रहाः
4.9द्व् -द्वा-दश्योर् दानव-ग्रहाः
गन्धर्वास् तु चतुर्-दश्यां द्वा-दश्यां चोरगाः पुनः ।
पञ्चम्यां शुक्ल-सप्तम्य्-एका-दश्योस् तु धनेश्वराः
4.10च्व् पञ्चम्यां शुक्ल-सप्तम्याम् 4.10द्व् एका-दश्यां धनेश्वराः
शुक्लाष्ट-पञ्चमी-पौर्णमासीषु ब्रह्म-राक्षसाः ।
कृष्णे रक्षः-पिशाचाद्या नव-द्वा-दश-पर्वसु
4.11अव् शुक्लाष्ट-पञ्चमी-पूर्ण- 4.11ब्व् -मासीषु ब्रह्म-राक्षसाः
दशामावास्ययोर् अष्ट-नवम्योः पितरो ऽपरे ।
गुरु-वृद्धादयः प्रायः कालं संध्यासु लक्षयेत्
4.12अव् दर्शामावास्ययोर् अष्ट- 4.12अव् दशामावास्ययोः षष्ठी-
फुल्ल-पद्मोपम-मुखं सौम्य-दृष्टिम् अ-कोपनम् ।
अल्प-वाक्-स्वेद-विण्-मूत्रं भोजनान्-अभिलाषिणम्
4.13च्व् स्व्-अल्प-वाक्-स्वेद-विण्-मूत्रं
देव-द्वि-जाति-परमं शुचिं संस्कृत-वादिनम् ।
मीलयन्तं चिरान् नेत्रे सुरभिं वर-दायिनम्
शुक्ल-माल्याम्बर-सरिच्-छैलोच्च-भवन-प्रियम् ।
अ-निद्रम् अ-प्रधृष्यं च विद्याद् देव-वशी-कृतम्
4.15अव् शुक्ल-माल्याम्बर-धरं 4.15ब्व् शैलोच्च-भवन-प्रियम्
जिह्म-दृष्टिं दुर्-आत्मानं गुरु-देव-द्वि-ज-द्विषम् ।
निर्-भयं मानिनं शूरं क्रोधनं व्यवसायिनम्
4.16च्व् निर्-भयं मानिनं क्रूरं
रुद्रः स्कन्दो विशाखो ऽहम् इन्द्रो ऽहम् इति वादिनम् ।
सुरा-मांस-रुचिं विद्याद् दैत्य-ग्रह-गृहीतकम्
4.17अव् रुद्रः स्कन्दः पिशाचो ऽहम् 4.17च्व् मद्य-मांस-रुचिं विद्याद् 4.17द्व्
दैत्य-ग्रह-वशी-कृतम्
स्व्-आचारं सुरभिं हृष्टं गीत-नर्तन-कारिणम् ।
स्नानोद्यान-रुचिं रक्त-वस्त्र-माल्यानुलेपनम्
4.18अव् स्व्-आचार-सुरभि-शिष्ट- 4.18अव् स्वे-चरं सुरभिं हृष्टं 4.18ब्व्
-गीत-नर्तन-कारिणम्
4.18च्व् स्नानोद्यान-रतं रक्त-
शृङ्गार-लीलाभिरतं गन्धर्वाध्युषितं वदेत् ।
रक्ताक्षं क्रोधनं स्तब्ध-दृष्टिं वक्र-गतिं चलम्
4.19अव् शृङ्गार-माल्याभिरतं 4.19अव् शृङ्गार-लीलाभिहितं
श्वसन्तम् अ-निशं जिह्वा-लोलिनं सृक्किणी-लिहम् ।
प्रिय-दुग्ध-गुड-स्नानम् अधो-वदन-शायिनम्
उरगाधिष्ठितं विद्यात् त्रस्यन्तं चातप-त्रतः ।
विप्लुत-त्रस्त-रक्ताक्षं शुभ-गन्धं सु-तेजसम्
प्रिय-नृत्य-कथा-गीत-स्नान-माल्यानुलेपनम् ।
मत्स्य-मांस-रुचिं हृष्टं तुष्टं बलिनम् अ-व्यथम्
4.22अव् प्रिय-नर्त-कथा-गीत- 4.22च्व् मत्स्य-मांस-रुचिं हृष्ट- 4.22द्व्
-तुष्टं बलिनम् अ-व्यथम्
4.22द्व् तुष्टं बलिनम् अ-व्ययम्
चलिताग्र-करं कस्मै किं ददामीति वादिनम् ।
रहस्य-भाषिणं वैद्य-द्वि-जाति-परिभाविनम्
4.23द्व् -द्वि-जाति-परिवादिनम्
अल्प-रोषं द्रुत-गतिं विद्याद् यक्ष-गृहीतकम् ।
हास्य-नृत्य-प्रियं रौद्र-चेष्टं छिद्र-प्रहारिणम्
4.24अव् अल्प-रोषं हृत-गतिं 4.24च्व् हास्य-नृत्त-प्रियं रौद्र- 4.24च्व्
हास्य-नृत्य-करं रौद्र-
आक्रोशिनं शीघ्र-गतिं देव-द्वि-ज-भिषग्-द्विषम् ।
आत्मानं काष्ठ-शस्त्राद्यैर् घ्नन्तं भोः-शब्द-वादिनम्
4.25द्व् घ्नन्तं गो-शब्द-वादिनम्
शास्त्र-वेद-पठं विद्याद् गृहीतं ब्रह्म-राक्षसैः ।
स-क्रोध-दृष्टिं भ्रू-कुटीम् उद्वहन्तं स-संभ्रमं
4.26ब्व् गृहीतं ब्रह्म-राक्षसा
प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् ।
अन्नाद् विनापि बलिनं नष्ट-निद्रं निशा-चरम्
4.27ब्व् रुदन्तं भैरवाननम्
निर्-लज्जम् अ-शुचिं शूरं क्रूरं परुष-भाषिणम् ।
रोषणं रक्त-माल्य-स्त्री-रक्त-मद्यामिष-प्रियम्
4.28द्व् -मेघ-मद्यामिष-प्रियम्
दृष्ट्वा च रक्तं मांसं वालिहानं दशन-च्छदौ ।
हसन्तम् अन्न-काले च राक्षसाधिष्ठितं वदेत्
4.29अव् दृष्ट्वा च रक्त-मांसानि 4.29ब्व् लिहानं दशन-च्छदौ
अ-स्वस्थ-चित्तं नैक-त्र तिष्ठन्तं परिधाविनम् ।
उच्छिष्ट-नृत्य-गन्धर्व-हास-मद्यामिष-प्रियम्
निर्भर्त्सनाद् दीन-मुखं रुदन्तम् अ-निमित्ततः ।
नखैर् लिखन्तम् आत्मानं रूक्ष-ध्वस्त-वपुः-स्वरम्
आवेदयन्तम् दुःखादि संबद्धा-बद्ध-भाषिणम् ।
नष्ट-स्मृतिं शून्य-रतिं लोलं नग्नं मलीमसम्
4.32अव् आवेदयन्तम् दुःखानि
रथ्या-चैल-परीधानं तृण-माला-विभूषणम् ।
आरोहन्तं च काष्ठाश्वं तथा संकर-कूटकम्
4.33च्व् आरोहन्तं च काष्ठाश्म- 4.33द्व् -राशिं संकर-कूटकम् 4.33द्व् तथा
संकार-कूटकम्
बह्व्-आशिनं पिशाचेन विजानीयाद् अधिष्ठितम् ।
प्रेताकृति-क्रिया-गन्धं भीतम् आहार-विद्विषम्
4.34द्व् भीरुम् आहार-विद्विषम्
तृण-च्छिदं च प्रेतेन गृहीतं नरम् आदिशेत् ।
बहु-प्रलापं कृष्णास्यं प्रविलम्बित-यायिनम्
शून-प्रलम्ब-वृषणं कूष्माण्डाधिष्ठितं वदेत् ।
गृहीत्वा काष्ठ-लोष्टादि भ्रमन्तं चीर-वाससम्
4.36च्व् गृहीत्वा काष्ठ-लोहादि
नग्नं धावन्तम् उत्त्रस्त-दृष्टिं तृण-विभूषणम् ।
श्मशान-शून्यायतन-रथ्यैक-द्रुम-सेविनम्
तिलान्न-मद्य-मांसेषु सततं सक्त-लोचनं ।
निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च
4.38ब्व् संसक्तं रक्त-लोचनम् 4.38ब्व् सततं रक्त-लोचनम् 4.38ब्व्
स-रक्तं रक्त-लोचनम्
4.38च्व् कर्कोटाधिष्ठितं विन्द्याद्
याचन्तम् उदकं चान्नं त्रस्त-लोहित-लोचनम् ।
उग्र-वाक्यं च जानीयान् नरम् औकिरणार्दितम्
4.39अव् धावन्तम् उदकं नान्नं 4.39अव् याचन्तम् उदकं नान्नं 4.39अव्
याचन्तम् उदकान्नं च
4.39ब्व् रक्त-वित्रस्त-लोचनम् 4.39द्व् नरम् औत्किरणार्दितम् 4.39द्व् नरं
मौकिरणार्दितम्
4.39द्व् नरम् उत्तरुणार्दितम्
गन्ध-माल्य-रतिं सत्य-वादिनं परिवेपिनम् ।
बहु-निद्रं च जानीयाद् वेतालेन वशी-कृतम्
4.40अव् गन्ध-माल्य-रतं सत्य- 4.40अव् गन्ध-माल्य-रुचिं सत्य- 4.40ब्व्
-वादिनं परिवेदिनम्
4.40ब्व् -वादिनं परिदेविनम् 4.40द्व् वैतालेन वशी-कृतम्
अ-प्रसन्न-दृशं दीन-वदनं शुष्क-तालुकम् ।
चलन्-नयन-पक्ष्माणं निद्रालुं मन्द-पावकम्
अपसव्य-परीधानं तिल-मांस-गुड-प्रियम् ।
स्खलद्-वाचं च जानीयात् पितृ-ग्रह-वशी-कृतम्
4.42च्व् स्खलद्-वाचं विजानीयात्
गुरु-वृद्धर्षि-सिद्धाभिशाप-चिन्तानुरूपतः ।
व्याहाराहार-चेष्टाभिर् यथा-स्वं तद्-ग्रहं वदेत्
4.43अव् गुरु-वृद्धर्षि-सिद्धानां 4.43ब्व् शाप-चिन्तानुरूपतः 4.43ब्व्
ंशाप-चित्तानुरूपतः
4.43ब्व् शाप-चित्तानुरूपतः 4.43च्व् विहाराहार-चेष्टाभिर् 4.43द्व् यथा-स्वं
तं ग्रहं वदेत्
कुमार-वृन्दानुगतं नग्नम् उद्धत-मूर्ध-जम् ।
अ-स्वस्थ-मनसं दैर्घ्य-कालिकं स-ग्रहं त्यजेत्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0