अष्टाङ्गहृदयसूत्र · अध्याय 83
लिहानो मात्रया रोगैर् मुच्यते मृत्तिकोद्भवैः ॥ 77अब् ॥
व्याधेर् यद्य् अस्य भैषज्यं स्तनस् तेन प्रलेपितः ॥ 77च्द् ॥
स्थितो मुहूर्तं धौतो ऽनु पीतस् तं तं जयेद् गदम् ॥ 77एf ॥
2.77fव् पीतस् तत् तं जयेद् गदम्
उत्तरस्थान
पुरा गुहस्य रक्षार्थं निर्मिताः शूल-पाणिना ।
मनुष्य-विग्रहाः पञ्च सप्त स्त्री-विग्रहा ग्रहाः
स्कन्दो विशाखो मेषाख्यः श्व-ग्रहः पितृ-संज्ञितः ।
शकुनिः पूतना शीत-पूतना-दृष्टि-पूतना
3.2अव् स्कन्दो विशाखो मेषास्यः
मुख-मण्डितिका तद्-वद् रेवती शुष्क-रेवती ।
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः
3.3अव् मुख-मण्डनिका तद्-वद् 3.3अव् मुख-मण्डिनिका तद्-वद्
सामान्यं रूपम् उत्त्रास-जृम्भा-भ्रू-क्षेप-दीन-ताः ।
फेन-स्रावोर्ध्व-दृष्ट्य्-ओष्ठ-दन्त-दंश-प्रजागराः
3.4ब्व् -जृम्भा-भ्रूत्क्षेप-दीन-ताः
रोदनं कूजनं स्तन्य-विद्वेषः स्वर-वैकृतम् ।
नखैर् अ-कस्मात् परितः स्व-धात्र्य्-अङ्ग-विलेखनम्
तत्रैक-नयन-स्रावी शिरो विक्षिपते मुहुः ।
हतैक-पक्षः स्तब्धाङ्गः स-स्वेदो नत-कन्धरः
3.6ब्व् शिरो विक्षेपते मुहुः 3.6ब्व् शिरो विक्षिप्यते मुहुः
दन्त-खादी स्तन-द्वेषी त्रस्यन् रोदिति वि-स्वरम् ।
वक्र-वक्त्रो वमन् लालां भृशम् ऊर्ध्वं निरीक्षते
3.7ब्व् त्रसन् रोदिति वि-स्वरम् 3.7च्व् वक्र-वक्त्रो वमेल् लालां
वसासृग्-गन्धिर् उद्विग्नो बद्ध-मुष्टि-शकृच् छिशुः ।
चलितैकाक्षि-गण्ड-भ्रूः संरक्तोभय-लोचनः
स्कन्दार्तस् तेन वैकल्यं मरणं वा भवेद् ध्रुवम् ।
संज्ञा-नाशो मुहुः केश-लुञ्चनं कन्धरा-नतिः
3.9ब्व् मरणं वा भवेद् द्रुतम् 3.9च्व् संज्ञा-नाशो भवेत् केश-
विनम्य जृम्भमाणस्य शकृन्-मूत्र-प्रवर्तनम् ।
फेनोद्वमनम् ऊर्ध्वेक्षा हस्त-भ्रू-पाद-नर्तनम्
स्तन-स्व-जिह्वा-संदंश-संरम्भ-ज्वर-जागराः ।
पूय-शोणित-गन्धश् च स्कन्दापस्मार-लक्षणम्
आध्मानं पाणि-पादस्य स्पन्दनं फेन-निर्वमः ।
तृण्-मुष्टि-बन्धातीसार-स्वर-दैन्य-वि-वर्ण-ताः
3.12अव् आध्मानं पाणि-पादास्य- 3.12ब्व् -स्पन्दनं फेन-निर्वमः 3.12ब्व्
स्पन्दनं फेन-निर्गमः
3.12ब्व् स्पन्दनं हननं भ्रमः
कूजनं स्तननं छर्दिः कास-हिध्मा-प्रजागराः ।
ओष्ठ-दंशाङ्ग-संकोच-स्तम्भ-बस्ताभ-गन्ध-ताः
3.13अव् कूजनं श्वसनं छर्दिः 3.13अव् कूजनं स्तम्भनं छर्दिः 3.13अव्
कूजनं स्वननं छर्दिः
ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः ।
मूर्छैक-नेत्र-शोफश् च नैगमेष-ग्रहाकृतिः
कम्पो हृषित-रोम-त्वं स्वेदश् चक्षुर्-निमीलनम् ।
बहिर्-आयामनं जिह्वा-दंशो ऽन्तः-कण्ठ-कूजनम्
3.15अव् कम्पो हर्षित-रोम-त्वं
धावनं विट्-स-गन्ध-त्वं क्रोशनं च श्व-वच् छुनि ।
रोम-हर्षो मुहुस् त्रासः सहसा रोदनं ज्वरः
3.16ब्व् क्रोशनं श्वान-वच् छुनि 3.16च्व् रोम-हर्षो मुहुः श्वासः
कासातीसार-वमथु-जृम्भा-तृट्-शव-गन्ध-ताः ।
अङ्गेष्व् आक्षेप-विक्षेप-शोष-स्तम्भ-वि-वर्ण-ताः
मुष्टि-बन्धः स्रुतिश् चाक्ष्णोर् बालस्य स्युः पितृ-ग्रहे ।
स्रस्ताङ्ग-त्वम् अतीसारो जिह्वा-तालु-गले व्रणाः
स्फोटाः स-दाह-रुक्-पाकाः संधिषु स्युः पुनः पुनः ।
निश्य् अह्नि प्रविलीयन्ते पाको वक्त्रे गुदे ऽपि वा
भयं शकुनि-गन्ध-त्वं ज्वरश् च शकुनि-ग्रहे ।
पूतनायां वमिः कम्पस् तन्द्रा रात्रौ प्रजागरः
हिध्माध्मानं शकृद्-भेदः पिपासा मूत्र-निग्रहः ।
स्रस्त-हृष्टाङ्ग-रोम-त्वं काक-वत् पूति-गन्धि-ता
शीत-पूतनया कम्पो रोदनं तिर्यग्-ईक्षणम् ।
तृष्णान्त्र-कूजो ऽतीसारो वसा-वद् विस्र-गन्ध-ता
पार्श्वस्यैकस्य शीत-त्वम् उष्ण-त्वम् अपरस्य च ।
अन्ध-पूतनया छर्दिर् ज्वरः कासो ऽल्प-निद्र-ता
3.23द्व् ज्वरः कासो ऽल्प-वह्नि-ता
वर्चसो भेद-वैवर्ण्य-दौर्गन्ध्यान्य् अङ्ग-शोषणम् ।
दृष्टेः सादाति-रुक्-कण्डू-पोथकी-जन्म-शून-ताः
3.24च्व् दृष्टि-प्रसादो रुक्-कण्डू- 3.24च्व् दृष्टि-सादो ऽक्षि-रुक्-कण्डू- 3.24च्व्
दृष्टि-सादो ऽति-रुक् कण्डूः
3.24च्व् दृष्टि-सादो ऽति-रुक्-कण्डू- 3.24च्व् दृष्टेः सादो ऽक्षि-रुक्-कण्डू- 3.24द्व्
पोथकी-जन्म शून-ता
3.24द्व् -पोथकी-जन्म शून-ता 3.24द्व् -पोथकी-जन्म शून्य-ता
हिध्मोद्वेग-स्तन-द्वेष-वैवर्ण्य-स्वर-तीक्ष्ण-ताः ।
वेपथुर् मत्स्य-गन्ध-त्वम् अथ-वा साम्ल-गन्ध-ता
3.25ब्व् -वैवर्ण्यं स्वर-तीक्ष्ण-ता 3.25च्व् वमथुर् मत्स्य-गन्ध-त्वम्
मुख-मण्डितया पाणि-पादास्य-रमणीय-ता ।
सिराभिर् असिताभाभिर् आचितोदर-ता ज्वरः
3.26अव् मुख-मण्डिकया पाणि- 3.26ब्व् -पादस्य रमणीय-ता
अ-रोचको ऽङ्ग-ग्लपनं गो-मूत्र-सम-गन्ध-ता ।
रेवत्यां श्याव-नील-त्वं कर्ण-नासाक्षि-मर्दनम्
3.27च्व् रेवत्या श्याव-नील-त्वं
कास-हिध्माक्षि-विक्षेप-वक्र-वक्त्र-त्व-रक्त-ताः ।
बस्त-गन्धो ज्वरः शोषः पुरीषं हरितं द्रवम्
जायते शुष्क-रेवत्यां क्रमात् सर्वाङ्ग-संक्षयः ।
केश-शातो ऽन्न-विद्वेषः स्वर-दैन्यं वि-वर्ण-ता
3.29अव् जायते शुष्क-रेवत्या
नाना-वर्ण-पुरीष-त्वम् उदरे ग्रन्थयः सिराः ॥ 29+1अब् ॥
रोदनं गृध्र-गन्ध-त्वं दीर्घ-कालानुवर्तनम् ।
उदरे ग्रन्थयो वृत्ता यस्य नाना-विधं शकृत्
जिह्वाया निम्न-ता मध्ये श्यावं तालु च तं त्यजेत् ।
भुञ्जानो ऽन्नं बहु-विधं यो बालः परिहीयते
3.31अव् जिह्वायां निम्न-ता मध्ये
तृष्णा-गृहीतः क्षामाक्षो हन्ति तं शुष्क-रेवती ।
हिंसा-रत्य्-अर्चनाकाङ्क्षा ग्रह-ग्रहण-कारणम्
तत्र हिंसात्मके बालो महान् वा स्रुत-नासिकः ।
क्षत-जिह्वः क्वणेद् बाढम् अ-सुखी साश्रु-लोचनः
3.33च्व् क्षत-जिह्वः क्वणन् बाढम् 3.33च्व् क्षत-जिह्वः क्वणेद् गाढम्
3.33च्व् क्षत-जिह्वो वमेद् बाढम्
3.33द्व् अ-सुखी सास्र-लोचनः
दुर्-वर्णो हीन-वचनः पूति-गन्धिश् च जायते ।
क्षामो मूत्र-पुरीषं स्वं मृद्नाति न जुगुप्सते
3.34ब्व् पूति-गन्धिस् तु जायते 3.34द्व् गृह्णाति न जुगुप्सते
हस्तौ चोद्यम्य संरब्धो हन्त्य् आत्मानं तथा परम् ।
तद्-वच् च शस्त्र-काष्ठाद्यैर् अग्निं वा दीप्तम् आविशेत्
3.35अव् हस्तौ चोद्यम्य संक्रुद्धो
अप्सु मज्जेत् पतेत् कूपे कुर्याद् अन्यच् च तद्-विधम् ।
तृड्-दाह-मोहान् पूयस्य च्छर्दनं च प्रवर्तयेत्
3.36च्व् तृड्-दाह-मोहाः पूयस्य
रक्तं च सर्व-मार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत् ।
रहः-स्त्री-रति-संलाप-गन्ध-स्रग्-भूषण-प्रियः
3.37ब्व् रिष्टोत्पत्तिश् च तं त्यजेत्
हृष्टः शान्तश् च दुः-साध्यो रति-कामेन पीडितः ।
दीनः परिमृशन् वक्त्रं शुष्कौष्ठ-गल-तालुकः
3.38च्व् दीनः परिमृशेद् वक्त्रं
शङ्कितं वीक्षते रौति ध्यायत्य् आयाति दीन-ताम् ।
अन्नम् अन्नाभिलाषे ऽपि दत्तं नाति बुभुक्षते
गृहीतं बलि-कामेन तं विद्यात् सुख-साधनम् ।
हन्तु-कामं जयेद् धोमैः सिद्ध-मन्त्र-प्रवर्तितैः
3.40अव् गृहीतं मह-कामेन
इतरौ तु यथा-कामं रति-बल्य्-आदि-दानतः ।
अथ साध्य-ग्रहं बालं विविक्ते शरणे स्थितम्
त्रिर् अह्नः सिक्त-संमृष्टे सदा संनिहितानले ।
विकीर्ण-भूति-कुसुम-पत्त्र-बीजान्न-सर्षपे
3.42अव् त्रिर् अह्नं सिक्त-संमृष्टे 3.42अव् त्रिर् अह्नः सिक्त-संसृष्टे 3.42अव् त्रिर्
अह्नि सिक्त-संमृष्टे
3.42अव् त्रिर् अह्नि सिक्त-संसृष्टे 3.42च्व् विकीर्ण-भूरि-कुसुम-
रक्षो-घ्न-तैल-ज्वलित-प्रदीप-हत-पाप्मनि ।
व्यवाय-मद्य-पिशित-निवृत्त-परिचारके
3.43ब्व् -प्रदीपे हत-पाप्मनि
पुराण-सर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना ।
साधितेन बला-निम्ब-वैजयन्ती-नृपद्रुमैः
पारिभद्रक-कट्वङ्ग-जम्बू-वरुण-कट्तृणैः ।
कपोतवङ्कापामार्ग-पाटला-मधु-शिग्रुभिः
3.45द्व् -पाटली-मधुशिग्रुभिः 3.45द्व् -मालती-मधुशिग्रुभिः
काकजङ्घा-महाश्वेता-कपित्थ-क्षीरि-पादपैः ।
स-कदम्ब-करञ्जैश् च धूपं स्नातस्य चाचरेत्
3.46ब्व् -कपित्थ-क्षीर-पादपैः
द्वीपि-व्याघ्राहि-सिंहर्क्ष-चर्मभिर् घृत-मिश्रितैः ।
पूति-दशाङ्ग-सिद्धार्थ-वचा-भल्लात-दीप्यकैः
3.47च्व् पूति-दशाङ्गी-सिद्धार्थ-
स-कुष्ठैः स-घृतैर् धूपः सर्व-ग्रह-विमोक्षणः ।
सर्षपा निम्ब-पत्त्राणि मूलम् अश्वखुरा वचा
3.48अव् स-कुष्ठैः साधितो धूपः 3.48द्व् मूत्रम् अश्वखुरा वचा 3.48द्व्
मूलम् अश्वखुरं वचा
भूर्ज-पत्त्रं घृतं धूपः सर्व-ग्रह-निवारणः ।
अनन्ताम्रास्थि-तगरं मरिचं मधुरो गणः
3.49ब्व् सर्व-ग्रह-निबर्हणः 3.49च्व् अनन्ताम्रास्थि-तगर- 3.49द्व् -मरिचं
मधुरो गणः
शृगालविन्ना मुस्ता च कल्कितैस् तैर् घृतं पचेत् ।
दश-मूल-रस-क्षीर-युक्तं तद् ग्रह-जित् परम्
रास्ना-द्व्य्-अंशुमती-वृद्ध-पञ्च-मूल-बला-घनात् ।
क्वाथे सर्पिः पचेत् पिष्टैः शारिवा-व्योष-चित्रकैः
3.51अव् रास्ना-द्व्य्-अंशुमती-पत्त्र- 3.51अव् रास्ना-द्व्य्-अंशुमती-लोध्र- 3.51ब्व्
-पञ्च-मूल-वचा-घनात्
पाठा-विडङ्ग-मधुक-पयस्या-हिङ्गु-दारुभिः ।
स-ग्रन्थिकैः सेन्द्रयवैः शिशोस् तत् सततं हितम्
3.52द्व् शिशोस् तु सततं हितम्
सर्व-रोग-ग्रह-हरं दीपनं बल-वर्ण-दम् ।
शारिवा-सुरभि-ब्राह्मी-शङ्खिनी-कुष्ठ-सर्षपैः
3.53ब्व् दीपनं बल-वर्धनम् 3.53द्व् -शङ्खिनी-कृष्ण-सर्षपैः
वचाश्वगन्धा-सुरस-युक्तैः सर्पिर् विपाचयेत् ।
तन् नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च
3.54अव् वचाश्वगन्धा-सुरसा-
गो-शृङ्ग-चर्म-वालाहि-निर्मोकं वृष-दंश-विट् ।
निम्ब-पत्त्राज्य-कटुका-मदनं बृहती-द्वयम्
3.55अव् गो-शृङ्ग-चर्म-वालास्थि- 3.55अव् गो-शृङ्ग-रोम-वालाहि-
कार्पासास्थि-यव-च्छाग-रोम-देवाह्व-सर्षपम् ।
मयूर-पत्त्र-श्रीवासं तुष-केशं स-रामठम्
3.56अव् कार्पासास्थि-यव-वचा- 3.56अव् कार्पासास्थि-वचा-बिल्व- 3.56अव्
कार्पासास्थि-वचा-लोध्र-
3.56अव् मयूर-पिच्छ-श्रीवास- 3.56अव् मयूर-पिच्छ-श्रीवासं 3.56ब्व्
-लोध्र-देवाह्व-सर्षपम्
3.56ब्व् -देवाह्वं यव-सर्षपम् 3.56च्व् मयूर-पत्त्र-श्रीवास- 3.56द्व्
-नर-केशं स-रामठम्
मृद्-भाण्डे बस्त-मूत्रेण भावितं श्लक्ष्ण-चूर्णितम् ।
धूपनं च हितं सर्व-भूतेषु विषम-ज्वरे
3.57च्व् धूपनार्थं हितं सर्व-
घृतानि भूत-विद्यायां वक्ष्यन्ते यानि तानि च ।
युञ्ज्यात् तथा बलिं होमं स्नपनं मन्त्र-तन्त्र-वित्
पूति-करञ्ज-त्वक्-पत्त्रं क्षीरिभ्यो बर्बराद् अपि ।
तुम्बी-विशालारलुक-शमी-बिल्व-कपित्थतः
3.59अव् पूति-करञ्ज-त्वक्-पत्त्र- 3.59अव् पूति-करञ्जात् त्वक्-पत्त्रं 3.59ब्व्
-क्षीरिभ्यो वेदराद् अपि
3.59ब्व् -मूलेभ्यो बर्बराद् अपि 3.59ब्व् -मूलेभ्यो वर्धराद् अपि 3.59द्व्
-शमी-बिल्व-कपित्थकम्
उत्क्वाथ्य तोयं तद् रात्रौ बालानां स्नपनं शिवम् ।
अनुबन्धान् यथा-कृच्छ्रं ग्रहापाये ऽप्य् उपद्रवान्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0