भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 82

82.1

शुध्यते वाग् घविर्-लीढैः स-कुष्ठ-कण-जीरकैः ॥ 49ऊअब् ॥
1.49ऊअव् शुध्यते वाग् घृतालीढैः
उत्तरस्थान
त्रि-विधः कथितो बालः क्षीरान्नोभय-वर्तनः ।
स्वास्थ्यं ताभ्याम् अ-दुष्टाभ्यां दुष्टाभ्यां रोग-संभवः

82.2

यद् अद्भिर् एक-तां याति न च दोषैर् अधिष्ठितम् ।
तद् विशुद्धं पयो वाताद् दुष्टं तु प्लवते ऽम्भसि

82.3

2.2द्व् दुष्टं तु प्लवते जले
कषायं फेनिलं रूक्षं वर्चो-मूत्र-विबन्ध-कृत् ।
पित्ताद् उष्णाम्ल-कटुकं पीत-राज्य् अप्सु दाह-कृत्

82.4

कफात् स-लवणं सान्द्रं जले मज्जति पिच्छिलम् ।
संसृष्ट-लिङ्गं संसर्गात् त्रि-लिङ्गं सांनिपातिकम्

82.5

यथा-स्व-लिङ्गांस् तद् व्याधीन् जनयत्य् उपयोजितम् ।
शिशोस् तीक्ष्णम् अभीक्ष्णं च रोदनाल् लक्षयेद् रुजम्

82.6

2.5च्व् शिशोस् तीक्ष्णम् अ-तीक्ष्णं च
स यं स्पृशेद् भृशं देशं यत्र च स्पर्शना-क्षमः ।
तत्र विद्याद् रुजं मूर्ध्नि रुजं चाक्षि-निमीलनात्

82.7

2.6अव् स्वयं स्पृशेद् भृशं देशं 2.6ब्व् यत्र च स्पर्शना-क्षमम्
हृदि जिह्वौष्ठ-दशन-श्वास-मुष्टि-निपीडनैः ।
कोष्ठे विबन्ध-वमथु-स्तन-दंशान्त्र-कूजनैः

82.8

2.7ब्व् -श्वास-मुष्टि-निपीडितैः 2.7द्व् -स्तन्य-द्वेषान्त्र-कूजनैः
आध्मान-पृष्ठ-नमन-जठरोन्नमनैर् अपि ।
वस्तौ गुह्ये च विण्-मूत्र-सङ्गोत्त्रास-दिग्-ईक्षणैः

82.9

अथ धात्र्याः क्रियां कुर्याद् यथा-दोषं यथामयम् ।
तत्र वातात्मके स्तन्ये दश-मूलं त्र्य्-अहं पिबेत्

82.10

अथ-वाग्नि-वचा-पाठा-कटुका-कुष्ठ-दीप्यकम् ।
स-भार्गी-दारु-सरल-वृश्चिकाली-कणोषणम्

82.11

ततः पिबेद् अन्य-तमं वात-व्याधि-हरं घृतम् ।
अनु चाच्छ-सुराम् एवं स्निग्धां मृदु विरेचयेत्

82.12

2.11ब्व् वात-व्याधि-हितं घृतम्
वस्ति-कर्म ततः कुर्यात् स्वेदादींश् चानिलापहान् ।
रास्नाजमोदा-सरल-देवदारु-रजो-ऽन्वितम्

82.13

बालो लिह्याद् घृतं तैर् वा विपक्वं स-सितोपलम् ।
पित्त-दुष्टे ऽमृताभीरु-पटोली-निम्ब-चन्दनम्

82.14

धात्री कुमारश् च पिबेत् क्वाथयित्वा स-शारिवम् ।
अथ-वा त्रि-फला-मुस्त-भूनिम्ब-कटु-रोहिणीः

82.15

शारिवादिं पटोलादिं पद्मकादिं तथा गणम् ।
घृतान्य् एभिश् च सिद्धानि पित्त-घ्नं च विरेचनम्

82.16

शीतांश् चाभ्यङ्ग-लेपादीन् युञ्ज्याच् छ्लेष्मात्मके पुनः ।
यष्ट्य्-आह्व-सैन्धव-युतं कुमारं पाययेद् घृतम्

82.17

सिन्धूत्थ-पिप्पली-मद् वा पिष्टैः क्षौद्र-युतैर् अथ ।
राठ-पुष्पैः स्तनौ लिम्पेच् छिशोश् च दशन-च्छदौ

82.18

2.17अव् सिन्धूत्थ-पिप्पली-मद्य- 2.17अव् सिन्धूत्थ-पिप्पली-मुस्ता- 2.17अव्
सिन्धूत्थ-पिप्पली-मूर्वा-
2.17ब्व् -पिष्टैः क्षौद्र-युतैर् अथ
सुखम् एवं वमेद् बालः तीक्ष्णैर् धात्रीं तु वामयेत् ।
अथाचरित-संसर्गी मुस्तादिं क्वथितं पिबेत्

82.19

तद्-वत् तगर-पृथ्वीका-सुरदारु-कलिङ्गकान् ।
अथ-वातिविषा-मुस्त-षड्ग्रन्था-पञ्च-कोलकम्

82.20

2.19ब्व् -सुरदारु-कलिङ्गकम् 2.19द्व् -षड्ग्रन्था-पञ्च-कोलकान्
स्तन्ये त्रि-दोष-मलिने दुर्-गन्ध्य् आमं जलोपमम् ।
विबद्धम् अच्छं विच्छिन्नं फेनिलं चोपवेश्यते

82.21

शकृन् नाना-व्यथा-वर्णं मूत्रं पीतं सितं घनम् ।
ज्वरा-रोचक-तृट्-छर्दि-शुष्कोद्गार-विजृम्भिकाः

82.22

अङ्ग-भङ्गो ऽङ्ग-विक्षेपः कूजनं वेपथुर् भ्रमः ।
घ्राणाक्षि-मुख-पाकाद्या जायन्ते ऽन्ये ऽपि तं गदम्

82.23

2.22ब्व् क्वणनं वेपथुर् भ्रमः
क्षीरालसकम् इत्य् आहुर् अत्ययं चाति-दारुणम् ।
तत्राशु धात्रीं बालं च वमनेनोपपादयेत्

82.24

विहितायां च संसर्ग्यां वचादिं योजयेद् गणम् ।
निशादिं वाथ-वा माद्री-पाठा-तिक्ता-घनामयान्

82.25

पाठा-शुण्ठ्य्-अमृता-तिक्त-तिक्ता-देवाह्व-शारिवाः ।
स-मुस्त-मूर्वेन्द्रयवाः स्तन्य-दोष-हराः परम्

82.26

अनुबन्धे यथा-व्याधि प्रतिकुर्वीत काल-वित् ।
दन्तोद्भेदश् च रोगाणां सर्वेषाम् अपि कारणम्

82.27

विशेषाज् ज्वर-विड्-भेद-कास-च्छर्दि-शिरो-रुजाम् ।
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते

82.28

पृष्ठ-भङ्गे बिडालानां बर्हिणां च शिखोद्भवे ।
दन्तोद्भेदे च बालानां न हि किञ्-चिन् न दूयते

82.29

2.28च्व् दन्तोद्भवे च बालानां
यथा-दोषं यथा-रोगं यथोद्रेकं यथा-भयम् ।
विभज्य देश-कालादींस् तत्र योज्यं भिषग्-जितम्

82.30

2.29ब्व् यथोद्रेकं यथा-बलम् 2.29ब्व् यथोद्रेकं यथा-वयः 2.29ब्व्
यथोद्रेकं यथाशयम्
त एव दोषा दूष्याश् च ज्वराद्या व्याधयश् च यत् ।
अतस् तद् एव भैषज्यं मात्रा त्व् अस्य कनीयसी

82.31

2.30ब्व् ज्वराद्या व्याधयश् च ते
सौकुमार्याल्प-काय-त्वात् सर्वान्नान्-उपसेवनात् ।
स्निग्धा एव सदा बाला घृत-क्षीर-निषेवणात्

82.32

2.31ब्व् सर्वान्नान्-उपसेवनैः
सद्यस् तान् वमनं तस्मात् पाययेन् मति-मान् मृदु ।
स्तन्यस्य तृप्तं वमयेत् क्षीर-क्षीरान्न-सेविनम्

82.33

पीत-वन्तं तनुं पेयाम् अन्नादं घृत-संयुताम् ।
वस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम्

82.34

युञ्ज्याद् विरेचनादींस् तु धात्र्या एव यथोदितान् ।
मूर्वा-व्योष-वरा-कोल-जम्बू-त्वग्-दारु-सर्षपाः

82.35

2.34अव् युञ्ज्याद् विरेचनादींश् च 2.34च्व् मूर्वा-व्योष-वचा-कोल- 2.34च्व्
मूर्वा-व्योष-वराङ्कोल्ल-
स-पाठा मधुना लीढाः स्तन्य-दोष-हराः परम् ।
दन्त-पालीं स-मधुना चूर्णेन प्रतिसारयेत्

82.36

2.35ब्व् स्तन्य-दोष-निबर्हणाः
पिप्पल्या धातकी-पुष्प-धात्री-फल-कृतेन वा ।
लाव-तित्तिरि-वल्लूर-रजः पुष्प-रस-द्रुतम्

82.37

2.36ब्व् -धात्री-फल-रसेन वा 2.36द्व् -रजः पुष्प-रस-प्लुतम् 2.36द्व् -रजः
पुष्प-रसाप्लुतम्
द्रुतं करोति बालानां दन्त-केसर-वन् मुखम् ।
वचा-द्वि-बृहती-पाठा-कटुकातिविषा-घनैः

82.38

मधुरैश् च घृतं सिद्धं सिद्धं दशन-जन्मनि ।
रजनी-दारु-सरल-श्रेयसी-बृहती-द्वयम्

82.39

2.38च्व् रजनी-दारु-सरलाः 2.38द्व् श्रेयसी-बृहती-द्वयम्
पृश्निपर्णी शताह्वा च लीढं माक्षिक-सर्पिषा ।
ग्रहणी-दीपनं श्रेष्ठं मारुतस्यानुलोमनम्

82.40

अतीसार-ज्वर-श्वास-कामला-पाण्डु-कास-नुत् ।
बालस्य सर्व-रोगेषु पूजितं बल-वर्ण-दम्

82.41

2.40ब्व् -कामला-पाण्डु-रोग-नुत्
समङ्गा-धातकी-लोध्र-कुटन्नट-बला-द्वयैः ।
महा-सहा-क्षुद्र-सहा-मुद्ग-बिल्व-शलाटुभिः

82.42

2.41ब्व् -कुटन्नट-बलाह्वयैः 2.41ब्व् -कुटन्नट-वटाह्वयैः
स-कार्पासी-फलैस् तोये साधितैः साधितं घृतम् ।
क्षीर-मस्तु-युतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्

82.43

विविधान् आमयान् एतद् वृद्ध-काश्यप-निर्मितम् ।
दन्तोद्भवेषु रोगेषु न बालम् अतियन्त्रयेत्

82.44

2.43च्व् दन्तोद्भेदोत्थ-रोगेषु
स्वयम् अप्य् उपशाम्यन्ति जात-दन्तस्य यद्-गदाः ।
अत्य्-अहः-स्वप्न-शीताम्बु-श्लैष्मिक-स्तन्य-सेविनः

82.45

2.44द्व् -श्लैष्मिक-स्तन्य-पायिनः
शिशोः कफेन रुद्धेषु स्रोतःसु रस-वाहिषु ।
अ-रोचकः प्रतिश्यायो ज्वरः कासश् च जायते

82.46

कुमारः शुष्यति ततः स्निग्ध-शुक्ल-मुखेक्षणः ।
सैन्धव-व्योष-शार्ङ्गष्टा-पाठा-गिरि-कदम्बकान्

82.47

2.46द्व् -पाठा-गिरि-कदम्बकम्
शुष्यतो मधु-सर्पिर्भ्याम् अ-रुच्य्-आदिषु योजयेत् ।
अशोक-रोहिणी-युक्तं पञ्च-कोलं च चूर्णितम्

82.48

बदरी-धातकी-धात्री-चूर्णं वा सर्पिषा द्रुतम् ।
स्थिरा-वचा-द्वि-बृहती-काकोली-पिप्पली-नतैः

82.49

2.48ब्व् -चूर्णं वा सर्पिषाप्लुतम्
निचुलोत्पल-वर्षाभू-भार्गी-मुस्तैश् च कार्षिकैः ।
सिद्धं प्रस्थार्धम् आज्यस्य स्रोतसां शोधनं परम्

82.50

सिंह्य्-अश्वगन्धा-सुरसा-कणा-गर्भं च तद्-गुणम् ।
यष्ट्य्-आह्व-पिप्पली-लोध्र-पद्मकोत्पल-चन्दनैः

82.51

तालीश-शारिवाभ्यां च साधितं शोष-जिद् घृतम् ।
शृङ्गी-मधूलिका-भार्गी-पिप्पली-देवदारुभिः

82.52

अश्वगन्धा-द्वि-काकोली-रास्नर्षभक-जीवकैः ।
शूर्पपर्णी-विडङ्गैश् च कल्कितैः साधितं घृतम्

82.53

शशोत्तमाङ्ग-निर्यूहे शुष्यतः पुष्टि-कृत् परम् ।
वचा-वयःस्था-तगर-कायस्था-चोरकैः शृतम्

82.54

बस्त-मूत्र-सुराभ्यां च तैलम् अभ्यञ्जने हितम् ।
लाक्षा-रस-समं तैल-प्रस्थं मस्तु चतुर्-गुणम्

82.55

2.54ब्व् तैलान् मस्तु चतुर्-गुणम् 2.54च्व् लाक्षा-रस-समं तैलं 2.54द्व्
प्रस्थं मस्तु चतुर्-गुणम्
अश्वगन्धा-निशा-दारु-कौन्ती-कुष्ठाब्द-चन्दनैः ।
स-मूर्वा-रोहिणी-रास्ना-शताह्वा-मधुकैः समैः

82.56

सिद्धं लाक्षादिकं नाम तैलम् अभ्यञ्जनाद् इदम् ।
बल्यं ज्वर-क्षयोन्माद-श्वासापस्मार-वात-नुत्

82.57

यक्ष-राक्षस-भूत-घ्नं गर्भिणीनां च शस्यते ।
मधुनातिविषा-शृङ्गी-पिप्पलीर् लेहयेच् छिशुम्

82.58

एकां वातिविषां कास-ज्वर-च्छर्दिर्-उपद्रुतम् ।
पीतं पीतं वमति यः स्तन्यं तं मधु-सर्पिषा

82.59

2.58ब्व् -ज्वर-च्छर्दिभिर् अर्दितम् 2.58च्व् पीतं पीतं च वमति 2.58द्व् यः
स्तन्यं मधु-सर्पिषा
द्वि-वार्ताकी-फल-रसं पञ्च-कोलं च लेहयेत् ।
पिप्पली-पञ्च-लवणं कृमिजित्-पारिभद्रकम्

82.60

2.59च्व् पिप्पली-पञ्च-लवण- 2.59द्व् -कृमिजित्-पारिभद्रकम् 2.59द्व् विडङ्गं
पारिभद्रकम्
तद्-वल् लिह्यात् तथा व्योषं मषीं वा रोम-चर्मणाम् ।
लाभतः शल्यक-श्वाविद्-गोधर्क्ष-शिखि-जन्मनाम्

82.61

खदिरार्जुन-तालीश-कुष्ठ-चन्दन-जे रसे ।
स-क्षीरं साधितं सर्पिर् वमथुं विनियच्छति

82.62

हनु-मूल-गतो वायुर् दन्त-देशास्थि-गो-चरः ।
यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्वि-जाः ॥ 61+(1) ॥
2.61+(1)अव् हनु-मूलाश्रितो वायुर् 2.61+(1)ब्व् दन्त-देशान् विशोषयेत् 2.61+(1)ब्व्
दन्त-देशान् विशोधयेत्
रूक्षाशिनो वातिकस्य चालयत्य् अनिलः सिराः ।
हन्व्-आश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्य् अतः ॥ 61+(2) ॥
स-दन्तो जायते यस् तु दन्ताः प्राग् यस्य चोत्तराः ।
कुर्वीत तस्मिन्न् उत्पाते शान्तिं तं च द्वि-जातये

82.63

2.62द्व् शान्तिकं च द्वि-जातये
दद्यात् स-दक्षिणं बालं नैगमेषं च पूजयेत् ।
तालु-मांसे कफः क्रुद्धः कुरुते तालु-कण्टकम्

82.64

2.63ब्व् सैनिकेशं च पूजयेत्
तेन तालु-प्रदेशस्य निम्न-ता मूर्ध्नि जायते ।
तालु-पातः स्तन-द्वेषः कृच्छ्रात् पानं शकृद्-द्रवम्

82.65

तृड्-आस्य-कण्ड्व्-अक्षि-रुजा ग्रीवा-दुर्-धर-ता वमिः ।
तत्रोत्क्षिप्य यव-क्षार-क्षौद्राभ्यां प्रतिसारयेत्

82.66

तालु तद्-वत् कणा-शुण्ठी-गो-शकृद्-रस-सैन्धवैः ।
शृङ्गवेर-निशा-भृङ्गं कल्कितं वट-पल्लवैः

82.67

बद्ध्वा गो-शकृता लिप्तम् कुकूले स्वेदयेत् ततः ।
रसेन लिम्पेत् ताल्व्-आस्यं नेत्रे च परिषेचयेत्

82.68

हरीतकी-वचा-कुष्ठ-कल्कं माक्षिक-संयुतम् ।
पीत्वा कुमारः स्तन्येन मुच्यते तालु-कण्टकात्

82.69

मलोपलेपात् स्वेदाद् वा गुदे रक्त-कफोद्भवः ।
ताम्रो व्रणो ऽन्तः कण्डू-मान् जायते भूर्य्-उपद्रवः

82.70

के-चित् तं मातृका-दोषं वदन्त्य् अन्ये ऽहि-पूतनम् ।
पृष्ठारुर् गुद-कुट्टं च के-चिच् च तम् अ-नामिकम्

82.71

2.70अव् के-चिच् च तम् अ-नामकम् 2.70ब्व् वदन्त्य् अन्ये ऽपि पूतनम् 2.70ब्व्
वदन्त्य् अन्ये तु पूतनम्
2.70ब्च् वदन्त्य् अन्ये हि पूतनम् 2.70च्व् पृष्ठारुर् गुद-कण्डूं च 2.70च्व्
पृष्ठारुर् गुद-किट्टं च
2.70च्व् पृष्ठारुर् गुद-कुष्ठं च
तत्र धात्र्याः पयः शोध्यं पित्त-श्लेष्म-हरौषधैः ।
शृत-शीतं च शीताम्बु-युक्तम् अन्तर-पानकम्

82.72

2.71च्व् सित-शीतं च शीताम्बु-
स-क्षौद्र-तार्क्ष्य-शैलेन व्रणं तेन च लेपयेत् ।
त्रि-फला-बदरी-प्लक्ष-त्वक्-क्वाथ-परिषेचितम्

82.73

कासीस-रोचना-तुत्थ-मनोह्वाल-रसाञ्जनैः ।
लेपयेद् अम्ल-पिष्टैर् वा चूर्णितैर् वावचूर्णयेत्

82.74

सु-श्लक्ष्णैर् अथ-वा यष्टी-शङ्ख-सौवीरकाञ्जनैः ।
शारिवा-शङ्खनाभिभ्याम् असनस्य त्वचाथ-वा

82.75

राग-कण्डूत्कटे कुर्याद् रक्त-स्रावं जलौकसा ।
सर्वं च पित्त-व्रण-जिच् छस्यते गुद-कुट्टके

82.76

2.75द्व् छस्यते गुद-किट्टके
पाठा-वेल्ल-द्वि-रजनी-मुस्त-भार्गी-पुनर्नवैः ।
स-बिल्व-त्र्य्-ऊषणैः सर्पिः वृश्चिकाली-युतैः शृतम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc