अष्टाङ्गहृदयसूत्र · अध्याय 81
6.29अव् तुला पल-शतं तासां
सौम्यं पथ्यं च तत्राद्यम् आग्नेयं वैन्ध्यम् औषधम् ॥ 29ऊअब् ॥
6.29ऊअव् सौम्यं तत्राद्यम् आग्नेयं 6.29ऊब्व् वैन्ध्यम् औषधम् ईरितम्
उत्तरस्थान
जात-मात्रं विशोध्योल्बाद् बालं सैन्धव-सर्पिषा ।
प्रसूति-क्लेशितं चानु बला-तैलेन सेचयेत्
अश्मनोर् वादनं चास्य कर्ण-मूले समाचरेत् ।
अथास्य दक्षिणे कर्णे मन्त्रम् उच्चारयेद् इमम्
अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे ।
आत्मा वै पुत्र-नामासि संजीव शरदां शतम्
1.3द्व् संजीव शरदः शतम्
शतायुः शत-वर्षो ऽसि दीर्घम् आयुर् अवाप्नुहि ।
नक्षत्राणि दिशो रात्रिर् अहश् च त्वाभिरक्षतु
1.4द्व् अहश् चत्वारि रक्षतु
स्वस्थी-भूतस्य नाभिं च सूत्रेण चतुर्-अङ्गुलात् ।
बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायाम् अवसञ्जयेत्
1.5च्व् बद्ध्वोर्ध्वं वर्धयित्वा तु 1.5द्व् ग्रीवायाम् अवसज्जयेत्
नाभिं च कुष्ठ-तैलेन सेचयेत् स्नापयेद् अनु ।
क्षीरि-वृक्ष-कषायेण सर्व-गन्धोदकेन वा
1.6अव् नाभिं तु कुष्ठ-तैलेन 1.6ब्व् सेचयेत् स्नपयेद् अनु
कोष्णेन तप्त-रजत-तपनीय-निमज्जनैः ।
ततो दक्षिण-तर्जन्या तालून्नम्यावगुण्ठयेत्
शिरसि स्नेह-पिचुना प्राश्यं चास्य प्रयोजयेत् ।
हरेणु-मात्रं मेधायुर्-बलार्थम् अभिमन्त्रितम्
1.8ब्व् प्राशं चास्य प्रयोजयेत्
ऐन्द्री-ब्राह्मी-वचा-शङ्खपुष्पी-कल्कं घृतं मधु ।
चामीकर-वचा-ब्राह्मी-ताप्य-पथ्या रजी-कृताः
1.9द्व् -कुष्ठ-पथ्या रजी-कृताः
लिह्यान् मधु-घृतोपेता हेम-धात्री-रजो ऽथ-वा ।
गर्भाम्भः सैन्धव-वता सर्पिषा वामयेत् ततः
1.10च्व् गर्भाम्भः सैन्धव-वचा- 1.10द्व् -सर्पिषा वामयेत् ततः
प्राजापत्येन विधिना जात-कर्माणि कारयेत् ।
सिराणां हृदय-स्थानां विवृत-त्वात् प्रसूतितः
तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते ।
प्रथमे दिवसे तस्मात् त्रि-कालं मधु-सर्पिषी
अनन्ता-मिश्रिते मन्त्र-पाविते प्राशयेच् छिशुम् ।
द्वितीये लक्ष्मणा-सिद्धं तृतीये च घृतं ततः
प्राङ्-निषिद्ध-स्तनस्यास्य तत्-पाणि-तल-संमितम् ।
स्तन्यानु-पानं द्वौ कालौ नव-नीतं प्रयोजयेत्
मातुर् एव पिबेत् स्तन्यं तद् ध्य् अलं देह-वृद्धये ।
स्तन्य-धात्र्याव् उभे कार्ये तद्-अ-संपदि वत्सले
1.15ब्व् तत् परं देह-वृद्धये
अ-व्यङ्गे ब्रह्म-चारिण्यौ वर्ण-प्रकृतितः समे ।
नी-रुजे मध्य-वयसौ जीवद्-वत्से न लोलुपे
हिताहार-विहारेण यत्नाद् उपचरेच् च ते ।
शुक्-क्रोध-लङ्घनायासाः स्तन्य-नाशस्य हेतवः
स्तन्यस्य सीधु-वर्ज्यानि मद्यान्य् आनूप-जा रसाः ।
क्षीरं क्षीरिण्य ओषध्यः शोकादेश् च विपर्ययः
1.18च्व् क्षीरं क्षीरिण्य् औषधयः
विरुद्धाहार-भुक्तायाः क्षुधिताया वि-चेतसः ।
प्रदुष्ट-धातोर् गर्भिण्याः स्तन्यं रोग-करं शिशोः
1.19अव् विरुद्धाहार-चेष्टायाः
स्तन्या-भावे पयश् छागं गव्यं वा तद्-गुणं पिबेत् ।
ह्रस्वेन पञ्च-मूलेन स्थिराभ्यां वा सिता-युतम्
1.20च्व् मूलैः सिद्धं बृहत्य्-आद्यैः
षष्ठीं निशां विशेषेण कृत-रक्षा-बलि-क्रियाः ।
जागृयुर् बान्धवास् तस्य दधतः परमां मुदम्
दशमे दिवसे पूर्णे विधिभिः स्व-कुलोचितैः ।
कारयेत् सूतिकोत्थानं नाम बालस्य चार्चितम्
1.22ब्व् विधि-वत् स्व-कुलोचितैः
बिभ्रतो ऽङ्गैर् मनोह्वाल-रोचनागुरु-चन्दनम् ।
नक्षत्र-देवता-युक्तं बान्धवं वा समाक्षरम्
ततः प्रकृति-भेदोक्त-रूपैर् आयुः-परीक्षणम् ।
प्राग्-उदक्-शिरसः कुर्याद् बालस्य ज्ञान-वान् भिषक्
शुचि-धौतोपधानानि निर्-वलीनि मृदूनि च ।
शय्यास्तरण-वासांसि रक्षो-घ्नैर् धूपितानि च
काको विशस्तः शस्तश् च धूपने त्रिवृतान्वितः ।
जीवत्-खड्गादि-शृङ्गोत्थान् सदा बालः शुभान् मणीन्
1.26अव् कङ्को विशस्तः शस्तश् च 1.26च्व् जीवत्-खड्गादि-शृङ्ग-स्थान्
धारयेद् औषधीः श्रेष्ठाः ब्राह्म्य्-ऐन्द्री-जीवकादिकाः ।
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम्
1.27अव् धारयेच् चौषधीः श्रेष्ठा 1.27अव् धारयेद् औषधीश् चेष्टा
आयुर्-मेधा-स्मृति-स्वास्थ्य-करीं रक्षो-ऽभिरक्षिणीम् ।
षट्-सप्ताष्टम-मासेषु नी-रुजस्य शुभे ऽहनि
1.28च्व् षट्-सप्ताष्टसु मासेषु
कर्णौ हिमागमे विध्येद् धात्र्य्-अङ्क-स्थस्य सान्त्वयन् ।
प्राग् दक्षिणं कुमारस्य भिषग् वामं तु योषितः
दक्षिणेन दधत् सूचीं पालीम् अन्येन पाणिना ।
मध्यतः कर्ण-पीठस्य किञ्-चिद् गण्डाश्रयं प्रति
जरायु-मात्र-प्रच्छन्ने रवि-रश्म्य्-अवभासिते ।
घृतस्य निश्-चलं सम्यग् अलक्तक-रसाङ्किते
विध्येद् दैव-कृते च्छिद्रे सकृद् एवर्जु लाघवात् ।
नोर्ध्वं न पार्श्वतो नाधः सिरास् तत्र हि संश्रिताः
कालिका-मर्मरी-रक्तास् तद्-व्यधाद् राग-रुग्-ज्वराः ।
स-शोफ-दाह-संरम्भ-मन्या-स्तम्भापतानकाः
1.33ब्व् तद्-बाधाद् राग-रुग्-ज्वराः
तेषां यथामयं कुर्याद् विभज्याशु चिकित्सितम् ।
स्थाने व्यधान् न रुधिरं न रुग्-रागादि-संभवः
1.34च्व् स्थान-व्यधान् न रुधिरं
स्नेहाक्तं सूच्य्-अनुस्यूतं सूत्रं चानु निधापयेत् ।
आम-तैलेन सिञ्चेच् च बहलां तद्-वद् आरया
विध्येत् पालीं हित-भुजः संचार्याथ स्थवीयसी ।
वर्तिस् त्र्य्-अहात् ततो रूढं वर्धयेत शनैः शनैः
1.36ब्व् संचार्यान्या स्थवीयसी 1.36च्व् वर्तिस् त्र्य्-अहात् ततो रूढां
अथैनं जात-दशनं क्रमेणापनयेत् स्तनात् ।
पूर्वोक्तं योजयेत् क्षीरम् अन्नं च लघु बृंहणम्
1.37अव् जात-दन्तं शिशुं शीते 1.37ब्व् क्रम-शो ऽपनयेत् स्तनात्
प्रियाल-मज्ज-मधुक-मधु-लाज-सितोपलैः ।
अप-स्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः
दीपनो बाल-बिल्वैला-शर्करा-लाज-सक्तुभिः ।
संग्राही धातकी-पुष्प-शर्करा-लाज-तर्पणैः
रोगांश् चास्य जयेत् सौम्यैर् भेषजैर् अ-विषादकैः ।
अन्य-त्रात्ययिकाद् व्याधेर् विरेकं सु-तरां त्यजेत्
1.40ब्व् भेषजैर् अ-विषादिकैः 1.40ब्व् भेषजैर् अ-विपादिकैः 1.40ब्व् भेषजैर्
अ-विपादकैः
त्रासयेन् ना-विधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः ।
वस्त्र-वातात् पर-स्पर्शात् पालयेल् लङ्घनाच् च तम्
1.41अव् त्रासयेन् ना-विधेयं च 1.41च्व् वस्त्र-पातात् खर-स्पर्शात् 1.41च्व्
वस्त्र-पातात् पर-स्पर्शात्
1.41द्व् पालयेल् लङ्घिताच् च तम्
ब्राह्मी-सिद्धार्थक-वचा-शारिवा-कुष्ठ-सैन्धवैः ।
स-कणैः साधितं पीतं वाङ्-मेधा-स्मृति-कृद् घृतम्
आयुष्यं पाप्म-रक्षो-घ्नं भूतोन्माद-निबर्हणम् ।
वचेन्दुलेखा-मण्डूकी-शङ्खपुष्पी-शतावरीः
1.43च्व् वचेन्दुलेखा मण्डूकी 1.43द्व् शङ्खपुष्पी शतावरी
ब्रह्मसोमामृता-ब्राह्मीः कल्की-कृत्य पलांशिकाः ।
अष्टाङ्गं विपचेत् सर्पिः प्रस्थं क्षीर-चतुर्-गुणम्
1.44अव् ब्रह्मसोमांर्ता ब्राह्मी 1.44ब्व् कल्की-कृत्य पलांशिकैः 1.44द्व्
प्रस्थं क्षीरं चतुर्-गुणम्
तत् पीतं धन्यम् आयुष्यं वाङ्-मेधा-स्मृति-बुद्धि-कृत् ।
अजा-क्षीराभया-व्योष-पाठोग्रा-शिग्रु-सैन्धवैः
1.45ब्व् वाङ्-मेधा-स्मृति-कृत् परम् 1.45ब्व् वाङ्-मेधा-स्मृति-वह्नि-कृत् 1.45द्व्
-पाठोग्रा-शक्र-सैन्धवैः
सिद्धं सारस्वतं सर्पिर् वाङ्-मेधा-स्मृति-वह्नि-कृत् ।
वचामृता-शठी-पथ्या-शङ्खिनी-वेल्ल-नागरैः
1.46ब्व् वाङ्-मेधा-स्मृति-बुद्धि-कृत् 1.46च्व् वचामृता-वरी-पथ्या-
अपामार्गेण च घृतं साधितं पूर्व-वद् गुणैः ।
हेम श्वेत-वचा कुष्ठम् अर्कपुष्पी स-काञ्चना
1.47च्व् हेम श्वेत-वचा कुष्ठं 1.47द्व् शङ्खपुष्पी स-काञ्चना 1.47द्व्
शङ्खपुष्पी स-रोचना
हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा ।
चत्वार एते पादोक्ताः प्राशा मधु-घृत-प्लुताः
1.48अव् हेम मत्स्याक्षकः फञ्जी 1.48ब्व् कैडर्यं कनकं वचा 1.48द्व्
प्राश्या मधु-घृत-प्लुताः
वर्षं लीढा वपुर्-मेधा-बल-वर्ण-कराः शुभाः ।
वचा-यष्ट्य्-आह्व-सिन्धूत्थ-पथ्या-नागर-दीप्यकैः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0