भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 80

80.1

कल्पस्थान
धन्वे साधारणे देशे समे सन्-मृत्तिके शुचौ ।
श्मशान-चैत्यायतन-श्वभ्र-वल्मीक-वर्जिते

80.2

6.1अव् धन्व-साधारणे देशे 6.1च्व् श्मशान-चैत्याद्यतन-
मृदौ प्रदक्षिण-जले कुश-रोहिष-संस्तृते ।
अ-फाल-कृष्टे ऽन्-आक्रान्ते पादपैर् बल-वत्-तरैः

80.3

6.2ब्व् कुश-रोहिष-संस्कृते
शस्यते भेषजं जातं युक्तं वर्ण-रसादिभिः ।
जन्त्व्-अ-जग्धं दवा-दग्धम् अ-विदग्धं च वैकृतैः

80.4

6.3च्व् जन्त्व्-अ-जुष्टं दवा-दग्धम् 6.3द्व् अ-विजग्धं च वैकृतैः
भूतैश् छायातपाम्ब्व्-आद्यैर् यथा-कालं च सेवितम् ।
अवगाढ-महा-मूलम् उदीचीं दिशम् आश्रितम्

80.5

6.4द्व् उदीचीं दिशम् आस्थितम्
महेन्द्र-राम-कृष्णानां ब्राह्मणानां गवाम् अपि ।
तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै ॥ 4+(1) ॥
6.4+(1)च्व् तपसां तेजसां वापि 6.4+(1)द्व् प्रशाम्यध्वं शमाय वै
मन्त्रेणानेन मति-मान् सर्वम् अप्य् औषधं नयेत् ॥ 4+(2)अब् ॥
अथ कल्याण-चरितः श्राद्धः शुचिर् उपोषितः ।
गृह्णीयाद् औषधं सु-स्थं स्थितं काले च कल्पयेत्

80.6

स-क्षीरं तद् अ-संपत्ताव् अन्-अतिक्रान्त-वत्सरम् ।
ऋते गुड-घृत-क्षौद्र-धान्य-कृष्णा-विडङ्गतः

80.7

6.6च्व् ऋते घृत-गुड-क्षौद्र-
पयो बाष्कयणं ग्राह्यं विण्-मूत्रं तच् च नी-रुजाम् ।
वयो-बल-वतां धातु-पिच्छ-शृङ्ग-खुरादिकम्

80.8

6.7ब्व् विण्-मूत्रं तच् च नी-रुजि 6.7ब्व् विण्-मूत्रं तच् च नी-रुजम् 6.7द्व्
-पुच्छ-शृङ्ग-खुरादिकम्
6.7द्व् -पित्त-शृङ्ग-खुरादिकम्
कषाय-योनयः पञ्च रसा लवण-वर्जिताः ।
रसः कल्कः शृतः शीतः फाण्टश् चेति प्रकल्पना

80.9

6.8द्व् फाण्टश् चेति प्रकल्पनाः
पञ्च-धैव कषायाणां पूर्वं पूर्वं बलाधिका ।
सद्यः-समुद्धृतात् क्षुण्णाद् यः स्रवेत् पट-पीडितात्

80.10

6.9अव् पञ्च चैव कषायाणां 6.9ब्व् पूर्वं पूर्वं बलाधिकाः 6.9ब्व् पूर्वं
पूर्वं बलावहाः
6.9च्व् सद्यः-समुद्धृत-क्षुण्णाद् 6.9द्व् यः स्रवेत् पट-पीडनात्
स्व-रसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः ।
चूर्णो ऽ-प्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः

80.11

6.10द्व् शीतो रात्रौ द्रवे स्थितः
सद्यो-ऽभिषुत-पूतस् तु फाण्टस् तन्-मान-कल्पने ।
युञ्ज्याद् व्याध्य्-आदि-बलतस् तथा च वचनं मुनेः

80.12

6.11अव् सद्यो-ऽभिक्षुण्ण-पूतस् तु
मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः ।
आलोच्य देश-कालौ च योज्या तद्-वच् च कल्पना

80.13

6.12अव् मात्राया नास्त्य् अवस्थानं 6.12ब्व् दोषम् अग्निं बलं वयः
मध्यं तु मानं निर्दिष्टं स्व-रसस्य चतुः-पलम् ।
पेष्यस्य कर्षम् आलोड्यं तद् द्रवस्य पल-त्रये

80.14

6.13अव् मध्य-मानं विनिर्दिष्टं
क्वाथं द्रव्य-पले कुर्यात् प्रस्थार्धं पाद-शेषितम् ।
शीतं पले पलैः षड्भिश् चतुर्भिस् तु ततो ऽपरम्

80.15

6.14द्व् चतुर्भिश् च ततो ऽपरम् 6.14द्व् चतुर्भिस् तु ततः परम्
स्नेह-पाके त्व् अ-मानोक्तौ चतुर्-गुण-विवर्धितम् ।
कल्क-स्नेह-द्रवं योज्यम् अधीते शौनकः पुनः

80.16

स्नेहे सिध्यति शुद्धाम्बु-निःक्वाथ-स्व-रसैः क्रमात् ।
कल्कस्य योजयेद् अंशं चतुर्थं षष्ठम् अष्टमम्

80.17

पृथक् स्नेह-समं दद्यात् पञ्च-प्रभृति तु द्रवम् ।
नाङ्गुली-ग्राहि-ता कल्के न स्नेहे ऽग्नौ स-शब्द-ता

80.18

6.17अव् द्रवं तु पञ्च-प्रभृति 6.17ब्व् पृथक् स्नेह-समं क्षिपेत्
शुष्क-द्रव्यं यदा न स्यात् तदा सद्यः-समुद्धृतम् ।
द्वि-गुणं तत् प्रयोक्तव्यं कुडवादि द्रवं तथा ॥ 17.1+1 ॥
वर्णादि-संपच् च यदा तदैनं शीघ्रम् आहरेत् ।
घृतस्य फेनोपशमस् तैलस्य तु तद्-उद्भवः

80.19

6.18द्च् तैलस्य च तद्-उद्भवः
लेहस्य तन्तु-मत्-ताप्सु मज्जनं सरणं न च ।
पाकस् तु त्रि-विधो मन्दश् चिक्कणः खर-चिक्कणः

80.20

6.19ब्व् मज्जनं शरणं न च
मन्दः कल्क-समे किट्टे चिक्कणो मदनोपमे ।
किञ्-चित् सीदति कृष्णे च वर्त्य-माने च पश्चिमः

80.21

6.20द्व् वर्ति-माने च पश्चिमः 6.20द्व् वर्तमाने च पश्चिमः 6.20द्व्
वर्तमाने तु पश्चिमः
दग्धो ऽत ऊर्ध्वं निष्कार्यः स्याद् आमस् त्व् अग्नि-साद-कृत् ।
मृदुर् नस्ये खरो ऽभ्यङ्गे पाने वस्तौ च चिक्कणः

80.22

शाणं पाणि-तलं मुष्टिं कुडवं प्रस्थम् आढकम् ।
द्रोणं वहं च क्रम-शो विजानीयाच् चतुर्-गुणम्

80.23

द्वि-गुणं योजयेद् आर्द्रं कुडवादि तथा द्रवम् ।
पेषणालोडने वारि स्नेह-पाके च निर्-द्रवे

80.24

कल्पयेत् सदृशान् भागान् प्रमाणं यत्र नोदितम् ।
कल्की-कुर्याच् च भैषज्यम् अ-निरूपित-कल्पनम्

80.25

अङ्गान्-उक्तौ तु मूलं स्याद् अ-प्रसिद्धौ तद् एव तु ।
द्वौ शाणौ वटकः कोलं बदरं द्रङ्क्षणश् च तौ

80.26

6.25अव् अ-निर्दिष्टा-प्रसिद्धेषु 6.25ब्व् मूलं ग्राह्यं त्वग्-आदिषु 6.25च्व्
द्वौ शाणौ वटकः कोलो
षड् वंश्यस् तु मरीचिः स्यात् षण् मरीच्यस् तु सर्षपः ।
तण्डुलः सर्षपास् त्व् अष्टौ धान्य-माषस् तु तौ यवः ॥ 25.1+(1) ॥
6.25.1+(1)द्व् धान्य-माषश् च तौ यवः
ताव् अण्डिका चतुर्भिस् तैर् माषकः शाणकस् तथा ॥ 25.1+(2)अब् ॥
6.25.1+(2)अव् तावन्तो गदिता माषाः 6.25.1+(2)अव् तैस् तुर्यैर् गुञ्जका माषस्
6.25.1+(2)ब्व् शाणो ऽयं मुनिभिः स्मृतः 6.25.1+(2)ब्व् तुर्याभिः शाणकः स्मृतः
अक्षं पिचुः पाणि-तलं सुवर्णं कवड-ग्रहः ।
कर्षो बिडाल-पदकं तिन्दुकः पाणि-मानिका

80.27

6.26ब्व् सुवर्णं कवड-ग्रहम् 6.26द्व् तिन्दुकं पाणि-मानिका
शब्दान्य-त्वम् अ-भिन्ने ऽर्थे शुक्तिर् अष्टमिका पिचू ।
पलं प्रकुञ्चो बिल्वं च मुष्टिर् आम्रं चतुर्थिका

80.28

6.27अव् शब्दान् एवम् अ-भिन्ने ऽर्थे 6.27अव् शब्दा ह्य् अमी अ-भिन्ने ऽर्थे
द्वे पले प्रसृतस् तौ द्वाव् अञ्जलिस् तौ तु मानिका ।
आढकं भाजनं कंसो द्रोणः कुम्भो घटो ऽर्मणम्

80.29

6.28अव् द्वे पले प्रसृतिस् तौ द्वाव्
तुला पल-शतं तानि विंशतिर् भार उच्यते ।
हिमवद्-विन्ध्य-शैलाभ्यां प्रायो व्याप्ता वसुन्धरा

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc