भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 119

119.1

उत्तरस्थान
दीर्घम् आयुः स्मृतिं मेधाम् आरोग्यं तरुणं वयः ।
प्रभा-वर्ण-स्वरौदार्यं देहेन्द्रिय-बलोदयम्

119.2

वाक्-सिद्धिं वृष-तां कान्तिम् अवाप्नोति रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम्

119.3

39.2च्व् लाभोपायो हि सप्तानां
पूर्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः ।
स्निग्धस्य स्रुत-रक्तस्य विशुद्धस्य च सर्व-था

119.4

अ-विशुद्धे शरीरे हि युक्तो रासायनो विधिः ।
वाजी-करो वा मलिने वस्त्रे रङ्ग इवा-फलः

119.5

39.4द्व् वस्त्रे राग इवा-फलः
रसायनानां द्वि-विधं प्रयोगम् ऋषयो विदुः ।
कुटी-प्रावेशिकं मुख्यं वातातपिकम् अन्य-था

119.6

पुरे प्राप्योपकरणे हर्म्य-निर्-वात-निर्-भये ।
दिश्य् उदीच्यां शुभे देशे त्रि-गर्भां सूक्ष्म-लोचनाम्

119.7

39.6अव् निर्-वाते निर्-भये धर्म्ये 39.6अव् निर्-वाते निर्-भये हर्म्ये
39.6ब्व् प्राप्योपकरणे पुरे 39.6च्व् दिश्य् ऐशान्यां शुभे देशे
धूमातप-रजो-व्याल-स्त्री-मूर्खाद्य-विलङ्घिताम् ।
सज्ज-वैद्योपकरणां सु-मृष्टां कारयेत् कुटीम्

119.8

अथ पुण्ये ऽह्नि संपूज्य पूज्यांस् तां प्रविशेच् छुचिः ।
तत्र संशोधनैः शुद्धः सुखी जात-बलः पुनः

119.9

ब्रह्म-चारी धृति-युतः श्रद्-दधानो जितेन्द्रियः ।
दान-शील-दया-सत्य-व्रत-धर्म-परायणः

119.10

देवतानुस्मृतौ युक्तो युक्त-स्वप्न-प्रजागरः ।
प्रियौषधः पेशल-वाग् आरभेत रसायनम्

119.11

39.10च्व् प्रियौषधः पेशल-वाक् 39.10द्व् प्रारभेत रसायनम्
हरीतकीम् आमलकं सैन्धवं नागरं वचाम् ।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्

119.12

स्निग्ध-स्विन्नो नरः पूर्वं तेन साधु विरिच्यते ।
ततः शुद्ध-शरीराय कृत-संसर्जनाय च

119.13

39.12अव् स्निग्धः स्विन्नो नरः पूर्वं 39.12ब्व् तेन साधु विशुध्यति
त्रि-रात्रं पञ्च-रात्रं वा सप्ताहं वा घृतान्वितम् ।
दद्याद् यावकम् आ-शुद्धेः पुराण-शकृतो ऽथ-वा

119.14

इत्थं संस्कृत-कोष्ठस्य रसायनम् उपाहरेत् ।
यस्य यद् यौगिकं पश्येत् सर्वम् आलोच्य सात्म्य-वित्

119.15

पथ्या-सहस्रं त्रि-गुण-धात्री-फल-समन्वितम् ।
पञ्चानां पञ्च-मूलानां सार्धं पल-शत-द्वयम्

119.16

जले दश-गुणे पक्त्वा दश-भाग-स्थिते रसे ।
आपोथ्य कृत्वा व्य्-अस्थीनि विजयामलकान्य् अथ

119.17

विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम् ।
त्वग्-एला-मुस्त-रजनी-पिप्पल्य्-अगुरु-चन्दनम्

119.18

मण्डूकपर्णी-कनक-शङ्खपुष्पी-वचा-प्लवम् ।
यष्ट्य्-आह्वयं विडङ्गं च चूर्णितं तुलयाधिकम्

119.19

सितोपलार्ध-भारं च पात्राणि त्रीणि सर्पिषः ।
द्वे च तैलात् पचेत् सर्वं तद् अग्नौ लेह-तां गतम्

119.20

अवतीर्णं हिमं युञ्ज्याद् विंशैः क्षौद्र-शतैस् त्रिभिः ।
ततः खजेन मथितं निदध्याद् घृत-भाजने

119.21

या नोपरुन्ध्याद् आहारम् एकं मात्रास्य सा स्मृता ।
षष्टिकः पयसा चात्र जीर्णे भोजनम् इष्यते

119.22

39.21ब्व् एका मात्रास्य सा स्मृता
वैखानसा बालखिल्यास् तथा चान्ये तपो-धनाः ।
ब्रह्मणा विहितं धन्यम् इदं प्राश्य रसायनम्

119.23

39.22अव् वैखानसा बालिखिल्यास्
तन्द्रा-श्रम-क्लम-वली-पलितामय-वर्जिताः ।
मेधा-स्मृति-बलोपेता बभूवुर् अ-मितायुषः

119.24

अभयामलक-सहस्रं निर्-आमयं पिप्पली-सहस्र-युतम् ।
तरुण-पलाश-क्षार-द्रवी-कृतं स्थापयेद् भाण्डे

119.25

उपयुक्ते च क्षारे छाया-संशुष्क-चूर्णितं योज्यम् ।
पादांशेन सितायाश् चतुर्-गुणाभ्यां मधु-घृताभ्याम्

119.26

39.25अव् उपयुक्ते च क्वाथे
तद् घृत-कुम्भे भूमौ निधाय षण्-मास-संस्थम् उद्धृत्य ।
प्राह्णे प्राश्य यथानलम् उचिताहारो भवेत् सततम्

119.27

39.26ब्व् निखाय षण्-मास-संस्थम् उद्धृत्य 39.26च्व् प्राह्णे प्राश्य
यथा-बलम्
इत्य् उपयुञ्ज्या-शेषं वर्ष-शतम् अन्-आमयो जरा-रहितः ।
जीवति बल-पुष्टि-वपुः-स्मृति-मेधाद्य्-अन्वितो विशेषेण

119.28

39.27अव् इत्य् उपयोज्या-शेषं
नी-रुजार्द्र-पलाशस्य च्छिन्ने शिरसि तत् क्षतम् ।
अन्तर् द्वि-हस्तं गम्भीरं पूर्यम् आमलकैर् नवैः

119.29

39.28ब्व् च्छिन्ने शिरसि तक्षितम्
आ-मूलं वेष्टितं दर्भैः पद्मिनी-पङ्क-लेपितम् ।
आदीप्य गो-मयैर् वन्यैर् निर्-वाते स्वेदयेत् ततः

119.30

स्विन्नानि तान्य् आमलकानि तृप्त्या खादेन् नरः क्षौद्र-घृतान्वितानि ।
क्षीरं शृतं चानु पिबेत् प्र-कामं तेनैव वर्तेत च मासम् एकम्

119.31

वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनापि ।
एका-दशाहे ऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश् च

119.32

39.31ब्व् स्पृशेन् न शीताम्बु च पाणिनापि
अथाल्पकैर् एव दिनैः सु-रूपः स्त्रीष्व् अ-क्षयः कुञ्जर-तुल्य-वीर्यः ।
विशिष्ट-मेधा-बल-बुद्धि-सत्-त्वो भवत्य् असौ वर्ष-सहस्र-जीवी

119.33

दश-मूल-बला-मुस्त-जीवकर्षभकोत्पलम् ।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटी

119.34

जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी ।
पुनर्नवर्द्धि-काकोली-काकनासामृता-द्वयम्

119.35

39.34च्व् पुनर्नवा-द्वि-काकोली- 39.34द्व् -काकनासामृताह्वयाः
विदारी वृष-मूलं च तद् ऐकध्यं पलोन्मितम् ।
जल-द्रोणे पचेत् पञ्च धात्री-फल-शतानि च

119.36

पाद-शेषं रसं तस्माद् व्य्-अस्थीन्य् आमलकानि च ।
गृहीत्वा भर्जयेत् तैल-घृताद् द्वा-दशभिः पलैः

119.37

39.36अव् पाद-शेषे रसे तस्मिन्
मत्स्यण्डिका-तुलार्धेन युक्तं तल् लेह-वत् पचेत् ।
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश् चतुः-पलम्

119.38

39.37च्व् स्नेहार्धं मधुनः शीते
पिप्पल्या द्वि-पलं दद्याच् चतुर्-जातं कणार्धितम् ।
अतो ऽवलेहयेन् मात्रां कुटी-स्थः पथ्य-भोजनः

119.39

39.38ब्व् चतुर्-जातं कणार्धिकम् 39.38ब्व् चतुर्-जातं कणार्धकम् 39.38द्व्
कुटी-स्थं पथ्य-भोजिनम्
इत्य् एष च्यवन-प्राशो यं प्राश्य च्यवनो मुनिः ।
जरा-जर्जरितो ऽप्य् आसीन् नारी-नयन-नन्दनः

119.40

कासं श्वासं ज्वरं शोषं हृद्-रोगं वात-शोणितम् ।
मूत्र-शुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति

119.42

बाल-वृद्ध-क्षत-क्षीण-कृशानाम् अङ्ग-वर्धनः ॥ 41अब् ॥
मेधां स्मृतिं कान्तिम् अन्-आमय-त्वम् आयुः-प्रकर्षं पवनानुलोम्यम् ॥ 41च्द् ॥
स्त्रीषु प्रहर्षं बलम् इन्द्रियाणाम् अग्नेश् च कुर्याद् विधिनोपयुक्तः ॥ 41एf ॥
मधुकेन तवक्षीर्या पिप्पल्या सिन्धु-जन्मना ।
पृथग् लोहैः सुवर्णेन वचया मधु-सर्पिषा

119.43

सितया वा समा युक्ता समायुक्ता रसायनम् ।
त्रि-फला सर्व-रोग-घ्नी मेधायुः-स्मृति-बुद्धि-दा

119.44

39.43अव् सितयाथ समायुक्ता 39.43ब्व् रौप्य-युक्ता रसायनी
मण्डूकपर्ण्याः स्व-रसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसं गुडूच्यास् सह-मूल-पुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः

119.45

आयुः-प्रदान्य् आमय-नाशनानि बलाग्नि-वर्ण-स्वर-वर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी

119.46

39.45द्व् मेध्या विशेषेण च शङ्खपुष्पी
नलदं कटु-रोहिणी पयस्या मधुकं चन्दन-शारिवोग्रगन्धाः ।
त्रि-फला कटुक-त्रयं हरिद्रे स-पटोलं लवणं च तैः सु-पिष्टैः

119.47

त्रि-गुणेन रसेन शङ्खपुष्प्याः स-पयस्कं घृत-नल्वणं विपक्वम् ।
उपयुज्य भवेज् जडो ऽपि वाङ्मी श्रुत-धारी प्रतिभान-वान् अ-रोगः

119.48

39.47द्व् श्रुति-धारी प्रतिभान-वान् अ-रोगः 39.47द्व् श्रुति-धारी प्रतिभान-वान्
अ-रोगी
पेष्यैर् मृणाल-बिस-केसर-पत्त्र-बीजैः सिद्धं स-हेम-शकलं पयसा च सर्पिः ।
पञ्चारविन्दम् इति तत् प्रथितं पृथिव्यां प्रभ्रष्ट-पौरुष-बल-प्रतिभैर् निषेव्यम्

119.49

39.48च्व् पञ्चारविन्दम् इति सर्पिर् उदार-वीर्यं
यन् नाल-कन्द-दल-केसर-वद् विपक्वं नीलोत्पलस्य तद् अपि प्रथितं द्वितीयम् ।
सर्पिश् चतुष्-कुवलयं स-हिरण्य-पत्त्रं मेध्यं गवाम् अपि भवेत् किम् उ मानुषाणाम्

119.50

ब्राह्मी-वचा-सैन्धव-शङ्खपुष्पी-मत्स्याक्षक-ब्रह्मसुवर्चलैन्द्र्यः ।
वैदेहिका च त्रि-यवाः पृथक् स्युर् यवौ सुवर्णस्य तिलो विषस्य

119.51

सर्पिषश् च पलम् एकत एतद् योजयेत् परिणते च घृताढ्यम् ।
भोजनं स-मधु वत्सरम् एवं शीलयन्न् अधिक-धी-स्मृति-मेधः

119.52

39.51द्व् शीलयन्न् अधिक-धी-स्मृति-वेषः
अतिक्रान्त-जरा-व्याधि-तन्द्रालस्य-श्रम-क्लमः ।
जीवत्य् अब्द-शतं पूर्णं श्री-तेजः-कान्ति-दीप्ति-मान्

119.53

39.52द्व् श्री-तेजः-कान्ति-मूर्ति-मान्
विशेषतः कुष्ठ-किलास-गुल्म-विष-ज्वरोन्माद-गरोदराणि ।
अथर्व-मन्त्रादि-कृताश् च कृत्याः शाम्यन्त्य् अनेनाति-बलाश् च वाताः

119.54

शरन्-मुखे नागबलां पुष्य-योगे समुद्धरेत् ।
अक्ष-मात्रं ततो मूलाच् चूर्णितात् पयसा पिबेत्

119.55

39.54च्व् अक्ष-मात्रं ततो मूलं 39.54द्व् चूर्णितं पयसा पिबेत्
लिह्यान् मधु-घृताभ्यां वा क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एवं वर्ष-प्रयोगेन जीवेद् वर्ष-शतं बली

119.56

फलोन्-मुखो गोक्षुरकः स-मूलश् छाया-विशुष्कः सु-विचूर्णिताङ्गः ।
सु-भावितः स्वेन रसेन तस्मान् मात्रां परां प्रासृतिकीं पिबेद् यः

119.57

39.56द्व् मात्रां परं प्रासृतिकीं पिबेद् यः
क्षीरेण तेनैव च शालिम् अश्नन् जीर्णे भवेत् स द्वि-तुलोपयोगात् ।
शक्तः सु-रूपः सु-भगः शतायुः कामी ककुद्-मान् इव गो-कुल-स्थः

119.58

वाराही-कन्दम् आर्द्रार्द्रं क्षीरेण क्षीर-पः पिबेत् ।
मासं निर्-अन्नो मासं च क्षीरान्नादो जरां जयेत्

119.59

तत्-कन्द-श्लक्ष्ण-चूर्णं वा स्व-रसेन सु-भावितम् ।
घृत-क्षौद्र-प्लुतं लिह्यात् तत्-पक्वं वा घृतं पिबेत्

119.60

39.59च्व् घृत-क्षौद्र-युतं लिह्यात्
तद्-वद् विदार्य्-अतिबला-बला-मधुक-वायसीः ।
श्रेयसी-श्रेयसी-युक्ता-पथ्या-धात्री-स्थिरामृताः

119.61

39.60च्व् जीवन्ती-श्रेयसी-युक्ता-
मण्डूकी-शङ्खकुसुमा-वाजिगन्धा-शतावरीः ।
उपयुञ्जीत मेधा-धी-वयः-स्थैर्य-बल-प्रदाः

119.62

39.61च्व् उपयुञ्जीत धी-मेधा- 39.61च्व् उपयुञ्जीत मेधावी 39.61द्व्
वयः-स्थैर्य-बल-प्रदाः
यथा-स्वं चित्रकः पुष्पैर् ज्ञेयः पीत-सितासितैः ।
यथोत्तरं स गुण-वान् विधिना च रसायनम्

119.63

छाया-शुष्कं ततो मूलं मासं चूर्णी-कृतं लिहन् ।
सर्पिषा मधु-सर्पिर्भ्यां पिबन् वा पयसा यतिः

119.64

अम्भसा वा हितान्नाशी शतं जीवति नी-रुजः ।
मेधावी बल-वान् कान्तो वपुष्-मान् दीप्त-पावकः

119.65

तैलेन लीढो मासेन वातान् हन्ति सु-दुस्-तरान् ।
मूत्रेण श्वित्र-कुष्ठानि पीतस् तक्रेण पायु-जान्

119.66

39.65ब्व् वातान् हन्ति सु-दारुणान्
भल्लातकानि पुष्टानि धान्य-राशौ निधापयेत् ।
ग्रीष्मे संगृह्य हेमन्ते स्वादु-स्निग्ध-हिमैर् वपुः

119.67

39.66द्व् स्वादु-स्निग्ध-हिमैः पुनः
संस्कृत्य तान्य् अष्ट-गुणे सलिले ऽष्टौ विपाचयेत् ।
अष्टांश-शिष्टं तत्-क्वाथं स-क्षीरं शीतलं पिबेत्

119.68

39.67च्व् अष्टांश-शिष्टं तं क्वाथं
वर्धयेत् प्रत्य्-अहं चानु तत्रैकैकम् अरुष्करम् ।
सप्त-रात्र-त्रयं यावत् त्रीणि त्रीणि ततः परम्

119.69

आ-चत्वारिंशतस् तानि ह्रासयेद् वृद्धि-वत् ततः ।
सहस्रम् उपयुञ्जीत सप्ताहैर् इति सप्तभिः

119.70

39.69द्व् सप्ताहैर् अपि सप्तभिः
यन्त्रितात्मा घृत-क्षीर-शालि-षष्टिक-भोजनः ।
तद्-वत् त्रि-गुणितं कालं प्रयोगान्ते ऽपि चाचरेत्

119.71

39.70द्व् प्रयोगान्ते ऽप्य् उपाचरेत्
आशिषो लभते ऽ-पूर्वा वह्नेर् दीप्तिं विशेषतः ।
प्रमेह-कृमि-कुष्ठार्शो-मेदो-दोष-विवर्जितः

119.72

39.71अव् आशिषो लभते पूर्वा
पिष्ट-स्वेदनम् अ-रुजैः पूर्णं भल्लातकैर् विजर्जरितैः ।
भूमि-निखाते कुम्भे प्रतिष्ठितं कृष्ण-मृल्-लिप्तम्

119.73

39.72ब्व् पूर्णं भल्लातकैः सु-जर्जरितैः
परिवारितं समन्तात् पचेत् ततो गो-मयाग्निना मृदुना ।
तत्-स्व-रसो यश् च्यवते गृह्णीयात् तं दिने ऽन्यस्मिन्

119.74

39.73ब्व् पचेत् तद् गो-मयाग्निना मृदुना
अमुम् उपयुज्य स्व-रसं मध्व्-अष्टम-भागिकं द्वि-गुण-सर्पिः ।
पूर्व-विधि-यन्त्रितात्मा प्राप्नोति गुणान् स तान् एव

119.75

39.74अव् अमुम् उपयुञ्ज्यात् स्व-रसं
पुष्टानि पाकेन परिच्युतानि भल्लातकान्य् आढक-संमितानि ।
घृष्ट्वेष्टिका-चूर्ण-कणैर् जलेन प्रक्षाल्य संशोष्य च मारुतेन

119.76

जर्जराणि विपचेज् जल-कुम्भे पाद-शेष-घृत-गालित-शीतम् ।
तद्-रसं पुनर् अपि श्रपयेत क्षीर-कुम्भ-सहितं चरण-स्थे

119.77

39.76ब्व् पाद-शेष-घृत-गालित-शेषम् 39.76ब्व् पाद-शेष-घृत-गालित-शीते
39.76ब्व् पाद-शेषम् अवतारित-शीतम् 39.76च्व् तं रसं पुनर् अपि श्रपयेत
39.76द्व् क्षीर-कुम्भ-सहितं चरण-स्थम्
सर्पिः पक्वं तत्र तुल्य-प्रमाणं युञ्ज्यात् स्वेच्छं शर्करया रजोभिः ।
एकी-भूतं तत् खज-क्षोभणेन स्थाप्यं धान्ये सप्त-रात्रं सु-गुप्तम्

119.78

39.77अव् सर्पिः पक्वं तेन तुल्य-प्रमाणं 39.77ब्व् युञ्ज्यात् प्रस्थं शर्करया
रजोभिः
39.77ब्व् युञ्ज्यात् स्वच्छं शर्करया रजोभिः 39.77च्व् एकी-भूतं तं
खज-क्षोभणेन
तम् अमृत-रस-पाकं यः प्रगे प्राशम् अश्नन्न् अनुपिबति यथेष्टं वारि दुग्धं रसं
वा ।
स्मृति-मति-बल-मेधा-सत्-त्व-सारैर् उपेतः कनक-निचय-गौरः सो ऽश्नुते दीर्घम् आयुः

119.79

द्रोणे ऽम्भसो व्रणकृतां त्रि-शताद् विपक्वात् क्वाथाढके पल-समैस् तिल-तैल-पात्रम् ।
तिक्ता-विषा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः सिद्धं परं निखिल-कुष्ठ-निबर्हणाय

119.81

39.79अव् द्रोणे ऽम्भसो व्रणकृतां त्रि-शतानि पक्त्वा 39.79च्व्
तिक्ता-निशा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः
39.79च्व् तिक्ता-निशा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः 39.79च्व्
तिक्ता-विषा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः
39.79च्व् तिक्ता-विषा-द्वय-वरा-गिरिजात-तार्क्ष्यैः
सहामलक-शुक्तिभिर् दधि-सरेण तैलेन वा ॥ 80अ ॥
गुडेन पयसा घृतेन यव-सक्तुभिर् वा सह ॥ 80ब् ॥
तिलेन सह माक्षिकेण पललेन सूपेन वा ॥ 80च् ॥
वपुष्-करम् अरुष्करं परम-मेध्यम् आयुष्-करम् ॥ 80द् ॥
भल्लातकानि तीक्ष्णानि पाकीन्य् अग्नि-समानि च ।
भवन्त्य् अमृत-कल्पानि प्रयुक्तानि यथा-विधि

119.82

39.81द्व् कल्पितानि यथा-विधि
कफ-जो न स रोगो ऽस्ति न विबन्धो ऽस्ति कश्-च-न ।
यं न भल्लातकं हन्याच् छीघ्रम् अग्नि-बल-प्रदम्

119.83

39.82द्व् छीघ्रं वह्नि-बल-प्रदम्
वातातप-विधाने ऽपि विशेषेण विवर्जयेत् ।
कुलत्थ-दधि-शुक्तानि तैलाभ्यङ्गाग्नि-सेवनम्

119.84

वृक्षास् तुबरका नाम पश्चिमार्णव-तीर-जाः ।
वीची-तरङ्ग-विक्षोभ-मारुतोद्धूत-पल्लवाः

119.85

तेभ्यः फलान्य् आददीत सु-पक्वान्य् अम्बु-दागमे ।
मज्ज्ञः फलेभ्यश् चादाय शोषयित्वावचूर्ण्य च

119.86

39.85च्व् मज्जां फलेभ्यश् चादाय 39.85च्व् मज्जाः फलेभ्यश् चादाय 39.85द्व्
शोषयित्वा विचूर्ण्य च
तिल-वत् पीडयेद् द्रोण्यां क्वाथयेद् वा कुसुम्भ-वत् ।
तत्-तैलं संभृतं भूयः पचेद् आ-सलिल-क्षयात्

119.87

39.86च्व् तत्-तैलं स-घृतं भूयः 39.86च्व् तत्-तैलं संसृतं भूयः 39.86च्व्
तत्-तैलं संहृतं भूयः
अवतार्य करीषे च पक्ष-मात्रं निधापयेत् ।
स्निग्ध-स्विन्नो हृत-मलः पक्षाद् उद्धृत्य तत् ततः

119.88

39.87द्व् पक्षाद् उद्धृत्य यत्न-वान्
चतुर्थ-भक्तान्तरितः प्रातः पाणि-तलं पिबेत् ।
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे

119.89

मज्ज-सार महा-वीर्य सर्वान् धातून् विशोधय ।
शङ्ख-चक्र-गदा-पाणिस् त्वाम् आज्ञापयते ऽ-च्युतः

119.90

39.89अव् मज्जा-सार महा-वीर्य 39.89द्व् त्वाम् आज्ञापयते ऽ-च्युत
तेनास्योर्ध्वम् अधस्-ताच् च दोषा यान्त्य् अ-सकृत् ततः ।
सायम् अ-स्नेह-लवणां यवागूं शीतलां पिबेत्

119.91

39.90ब्व् दोषा यान्त्य् अ-सकृत्-सकृत्
पञ्चाहानि पिबेत् तैलम् इत्थं वर्ज्यान् विवर्जयन् ।
पक्षं मुद्ग-रसान्नाशी सर्व-कुष्ठैर् विमुच्यते

119.92

39.91ब्व् इत्थं वर्ज्यानि वर्जयेत्
तद् एव खदिर-क्वाथे त्रि-गुणे साधु साधितम् ।
निहितं पूर्व-वत् पक्षं पिबेन् मासं सु-यन्त्रितः

119.93

तेनाभ्यक्त-शरीरश् च कुर्वन्न् आहारम् ईरितम् ।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्

119.94

भिन्न-स्वरं रक्त-नेत्रं शीर्णाङ्गं कृमि-भक्षितम् ॥ 93.1+(1)अब् ॥
39.93.1+(1)अव् भग्न-स्वरं रक्त-नेत्रं 39.93.1+(1)ब्व् शीर्णाङ्गं कृमिभिश्
चितम्
सर्पिर्-मधु-युतं पीतं तद् एव खदिराद् विना ।
पक्षं मांस-रसाहारं करोति द्वि-शतायुषम्

119.95

39.94च्व् पक्व-मांस-रसाहारं 39.94च्व् पक्वं मांस-रसाहारं
तद् एव नस्ये पञ्चाशद् दिवसान् उपयोजितम् ।
वपुष्-मतं श्रुत-धरं करोति त्रि-शतायुषम्

119.96

39.95च्व् वपुष्-मतं श्रुति-धरं
वली-पलित-निर्मुक्तं स्थिर-स्मृति-कच-द्वि-जम् ॥ 95.1+(1)अब् ॥
पञ्चाष्टौ सप्त दश वा पिप्पलीर् मधु-सर्पिषा ।
रसायन-गुणान्वेषी समाम् एकां प्रयोजयेत्

119.97

39.96द्व् मासम् एकं प्रयोजयेत्
तिस्रस् तिस्रस् तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुक-क्षार-भाविता घृत-भर्जिताः

119.98

39.97ब्व् भुक्त्वाग्रे भोजनस्य तु
प्रयोज्या मधु-संमिश्रा रसायन-गुणैषिणा ।
क्रम-वृद्ध्या दशाहानि दश-पैप्पलिकं दिनम्

119.99

39.98च्व् दश-वृद्ध्या दशाहानि 39.98द्व् दश-पिप्पलिकं दिनम्
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ।
जीर्णौषधश् च भुञ्जीत षष्टिकं क्षीर-सर्पिषा

119.100

पिप्पलीनां सहस्रस्य प्रयोगो ऽयं रसायनम् ।
पिष्टास् ता बलिभिः पेयाः शृता मध्य-बलैर् नरैः

119.101

शीती-कृता हीन-बलैर् वीक्ष्य दोषामयान् प्रति ॥ 100+(1)अब् ॥
39.100+(1)अव् शीती-कृता क्षीण-बलैर् 39.100+(1)ब्व् वीक्ष्य दोषान् प्रयोजयेत्
तद्-वच् च च्छाग-दुग्धेन द्वे सहस्रे प्रयोजयेत् ।
एभिः प्रयोगैः पिप्पल्यः कास-श्वास-गल-ग्रहान्

119.102

यक्ष्म-मेह-ग्रहण्य्-अर्शः-पाण्डु-त्व-विषम-ज्वरान् ।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वात-शोणितम्

119.103

बिल्वार्ध-मात्रेण च पिप्पलीनां पात्रं प्रलिम्पेद् अयसो निशायाम् ।
प्रातः पिबेत् तत् सलिलाञ्जलिभ्यां वर्षं यथेष्टाशन-पान-चेष्टः

119.104

शुण्ठी-विडङ्ग-त्रि-फला-गुडूची- यष्टी-हरिद्रातिबला-बलाश् च ।
मुस्ता-सुराह्वागुरु-चित्रकाश् च सौगन्धिकं पङ्क-जम् उत्पलानि

119.105

39.104च्व् मुस्ता-शताह्वागुरु-चित्रकाश् च
धवाश्वकर्णासन-बालपत्त्र-सारास् तथा पिप्पलि-वत् प्रयोज्याः ।
लोहोपलिप्ताः पृथग् एव जीवेत् समाः शतं व्याधि-जरा-विमुक्तः

119.106

39.105ब्व् -सारास् तथा पिप्पलि-वत् प्रयुञ्ज्याः 39.105च्व् लोह-प्रलेपात् पृथग् एव
जीवेत्
39.105च्व् लोहोपलेपात् पृथग् एव जीवेत्
क्षीराञ्जलिभ्यां च रसायनानि युक्तान्य् अमून्य् आयस-लेपनानि ।
कुर्वन्ति पूर्वोक्त-गुण-प्रकर्षम् आयुः-प्रकर्षं द्वि-गुणं ततश् च

119.107

असन-खदिर-यूषैर् भावितां सोमराजीं मधु-घृत-शिखि-पथ्या-लोह-चूर्णैर् उपेताम् ।
शरदम् अवलिहानः पारिणामान् विकारांस् त्यजति मित-हिताशी तद्-वद् आहार-जातान्

119.108

39.107ब्व् मधु-घृत-गद-पथ्या-लोह-चूर्णैर् उपेताम्
तीव्रेण कुष्ठेन परीत-मूर्तिर् यः सोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्ण-तिल-द्वितीयां स सोमराजीं वपुषातिशेते

119.109

ये सोमराज्या वि-तुषी-कृतायाश् चूर्णैर् उपेतात् पयसः सु-जातात् ।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तद् एवानुपिबन्ति चान्ते

119.110

कुष्ठिनः शीर्यमाणाङ्गास् ते जाताङ्गुलि-नासिकाः ।
भान्ति वृक्षा इव पुनः प्ररूढ-नव-पल्लवाः

119.111

39.110अव् कुष्ठिनः कुथ्यमानाङ्गास्
शीत-वात-हिम-दग्ध-तनूनां स्तब्ध-भग्न-कुटिल-व्यथितास्थ्नाम् ।
भेषजस्य पवनोपहतानां वक्ष्यते विधिर् अतो लशुनस्य ॥ 110+(1) ॥
39.110+(1)अव् शीत-वात-परिदग्ध-तनूनां 39.110+(1)ब्व्
स्तब्ध-भुग्न-कुटिल-व्यथितास्थ्नाम्
39.110+(1)च्व् भेषजं च पवनोपहतानां
राहोर् अमृत-चौर्येण लूनाद् ये पतिता गलात् ।
अमृतस्य कणा भूमौ ते लशुन-त्वम् आगताः

119.112

39.111अव् राहोर् अच्युत-चक्रेण
द्वि-जा नाश्नन्ति तम् अतो दैत्य-देह-समुद्भवम् ।
साक्षाद् अमृत-संभूतेर् ग्रामणीः स रसायनम्

119.113

शीलयेल् लशुनं शीते वसन्ते ऽपि कफोल्बणः ।
घनोदये ऽपि वातार्तः सदा वा ग्रीष्म-लीलया

119.114

39.113ब्व् वसन्ते च कफोल्बणः
स्निग्ध-शुद्ध-तनुः शीत-मधुरोपस्कृताशयः ।
तद्-उत्तंसावतंसाभ्यां चर्चितानुचराजिरः

119.115

तस्य कन्दान् वसन्तान्ते हिमवच्-छक-देश-जान् ।
अपनीत-त्वचो रात्रौ तिमयेन् मदिरादिभिः

119.116

39.115च्व् अपनीय त्वचो रात्रौ 39.115द्व् तीमयेन् मदिरादिभिः 39.115द्व्
पेषयेन् मदिरादिभिः
तत्-कल्क-स्व-रसं प्रातः शुचि-तान्तव-पीडितम् ।
मदिरायाः सु-रूढायास् त्रि-भागेन समन्वितम्

119.117

मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा ।
तत्-काल एव वा युक्तं युक्तम् आलोच्य मात्रया

119.118

39.117अव् मद्यस्यान्यस्य तैलस्य
तैल-सर्पिर्-वसा-मज्ज-क्षीर-मांस-रसैः पृथक् ।
क्वाथेन वा यथा-व्याधि रसं केवलम् एव वा

119.119

39.118ब्व् क्षीर-सर्पिर्-वसा-मज्ज- 39.118ब्व् -धन्व-मांस-रसैः पृथक्
39.118ब्व् -धन्व-मांसैः पृथक् पृथक्
पिबेद् गण्डूष-मात्रं प्राक् कण्ठ-नाली-विशुद्धये ।
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते

119.120

39.119च्व् प्रततं स्वेदनं चात्र
शीताम्बु-सेकः सहसा वमि-मूर्छाययोर् मुखे ।
शेषं पिबेत् क्लमापाये स्थिर-तां गत ओजसि

119.121

विदाह-परिहाराय परं शीतानुलेपनः ।
धारयेत् साम्बु-कणिका मुक्ता-कर्पूर-मालिकाः

119.122

39.121च्व् धारयेत् साम्बु-कणिकां 39.121द्व् मुक्तां कर्पूर-मालिकाम्
39.121द्व् मुक्ता-कर्पूर-मालिकाम्
कुडवो ऽस्य परा मात्रा तद्-अर्धं केवलस्य तु ।
पलं पिष्टस्य तन्-मज्ज्ञः स-भक्तं प्राक् च शीलयेत्

119.123

जीर्ण-शाल्य्-ओदनं जीर्णे शङ्ख-कुन्देन्दु-पाण्डुरम् ।
भुञ्जीत यूषैर् पयसा रसैर् वा धन्व-चारिणाम्

119.124

मद्यम् एकं पिबेत् तत्र तृट्-प्रबन्धे जलान्वितम् ।
अ-मद्य-पस् त्व् आरनालं फलाम्बु परिसिक्थकाम्

119.125

39.124अव् मद्यम् एकं पिबेत् त्व् अत्र 39.124ब्व् तृट्-[प्र]वृद्धे जलान्वितम्
39.124ब्व् तृड्-विबन्धे जलान्वितम्
39.124द्व् फलाम्बु परिसिक्थिकाम् 39.124द्व् फलाम्बु परिसित्थिकाम् 39.124द्व्
फलाम्बु परिसिक्थिकम्
39.124द्व् फलाम्बु-परिषेचितम्
तत्-कल्कं वा सम-घृतं घृत-पात्रे खजाहतम् ।
स्थितं दशाहाद् अश्नीयात् तद्-वद् वा वसया समम्

119.126

39.125द्व् तद्-वद् वा पयसा समम्
वि-कञ्चुक-प्राज्य-रसोन-गर्भान् स-शूल्य-मांसान् विविधोपदंशान् ।
निमर्दकान् वा घृत-शुक्त-युक्तान् प्र-कामम् अद्याल् लघु तुच्छम् अश्नन्

119.127

39.126च्व् विमर्दकान् वा घृत-शुक्त-युक्तान् 39.126द्व् प्र-कामम् अद्याल् लघु
तुत्थम् अश्नन्
पित्त-रक्त-विनिर्मुक्त-समस्तावरणावृते ।
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात् परम्

119.128

39.127अव् पित्त-रक्त-विनिर्मुक्ते 39.127ब्व् समस्तावरणावृते
प्रियाम्बु-गुड-दुग्धस्य मांस-मद्याम्ल-विद्विषः ।
अ-तितिक्षोर् अ-जीर्णं च लशुनो व्यापदे ध्रुवम्

119.129

39.128ब्व् मांस-मद्यादि-विद्विषः 39.128च्व् अ-तित्यक्षोर् अ-जीर्णम् च 39.128च्व्
अति-रूक्षैर् अ-जीर्णे च
पित्त-कोप-भयाद् अन्ते युञ्ज्यान् मृदु विरेचनम् ।
रसायन-गुणान् एवं परिपूर्णान् समश्नुते

119.130

ग्रीष्मे ऽर्क-तप्ता गिरयो जतु-तुल्यं वमन्ति यत् ।
हेमादि-षड्-धातु-रसं प्रोच्यते तच् छिला-जतु

119.131

सर्वं च तिक्त-कटुकं नात्य्-उष्णं कटु पाकतः ।
छेदनं च विशेषेण लौहं तत्र प्रशस्यते

119.132

गो-मूत्र-गन्धि कृष्णं गुग्गुल्व्-आभं वि-शर्करं मृत्स्नम् ।
स्निग्धम् अन्-अम्ल-कषायं मृदु गुरु च शिला-जतु श्रेष्ठम्

119.133

व्याधि-व्याधित-सात्म्यं समनुस्मरन् भावयेद् अयः-पात्रे ।
प्राक् केवल-जल-धौतं शुष्कं क्वाथैस् ततो भाव्यम्

119.134

सम-गिरिजम् अष्ट-गुणिते निःक्वाथ्यं भावनौषधं तोये ।
तन्-निर्यूहे ऽष्टांशे पूतोष्णे प्रक्षिपेद् गिरिजम्

119.135

तत् सम-रस-तां यातं संशुष्कं प्रक्षिपेद् रसे भूयः ।
स्वैः स्वैर् एवं क्वाथैर् भाव्यं वारान् भवेत् सप्त

119.136

अथ स्निग्धस्य शुद्धस्य घृतं तिक्तक-साधितम् ।
त्र्य्-अहं युञ्जीत गिरिजम् एकैकेन तथा त्र्य्-अहम्

119.137

39.136अव् अथ स्निग्ध-विशुद्धस्य
फल-त्रयस्य यूषेण पटोल्या मधुकस्य च ।
योगं योग्यं ततस् तस्य कालापेक्षं प्रयोजयेत्

119.138

39.137च्व् योग-योग्यं ततस् तस्य 39.137च्व् योगे योज्यं ततस् तस्य 39.137द्व्
कालापेक्षं तु योजयेत्
शिला-जम् एवं देहस्य भवत्य् अत्य्-उपकारकम् ।
गुणान् समग्रान् कुरुते सहसा व्यापदं न च

119.139

एक-त्रि-सप्त-सप्ताहं कर्षम् अर्ध-पलं पलम् ।
हीन-मध्योत्तमो योगः शिला-जस्य क्रमान् मतः

119.140

संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम् ।
युक्तं व्यस्तैः समस्तैर् वा ताम्रायो-रूप्य-हेमभिः

119.141

क्षीरेणालोडितं कुर्याच् छीघ्रं रासायनं फलम् ।
कुलत्थान् काकमाचीं च कपोतांश् च सदा त्यजेत्

119.142

न सो ऽस्ति रोगो भुवि साध्य-रूपो जत्व् अश्म-जं यं न जयेत् प्रसह्य ।
तत्-काल-योगैर् विधि-वत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति

119.143

39.142ब्व् जत्व् अश्म-जं यं न हरेत् प्रसह्य 39.142द्व् स्वस्थस्य चोर्जां
विपुलां ददाति
कुटी-प्रवेशः क्षणिनां परिच्छद-वतां हितः ।
अतो ऽन्य-था तु ये तेषां सौर्य-मारुतिको विधिः

119.144

39.143अव् कुटी-प्रवेशः क्षमिणां 39.143अव् कुटी-प्रवेशः क्षीणानां
39.143द्व् सूर्य-मारुतिको विधिः
वातातप-सहा योगा वक्ष्यन्ते ऽतो विशेषतः ।
सुखोपचारा भ्रंशे ऽपि ये न देहस्य बाधकाः

119.145

शीतोदकं पयः क्षौद्रं घृतम् एकैक-शो द्वि-शः ।
त्रि-शः समस्तम् अथ-वा प्राक् पीतं स्थापयेद् वयः

119.146

गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा ।
द्वे द्वे खादन् सदा पथ्ये जीवेद् वर्ष-शतं सुखी

119.147

हरीतकीं सर्पिषि संप्रताप्य समश्नतस् तत् पिबतो घृतं च ।
भवेच् चिर-स्थायि बलं शरीरे सकृत् कृतं साधु यथा कृत-ज्ञे

119.148

39.147ब्व् समश्नुते चेत् पिबतो घृतं च 39.147च्व् भवेच् चिर-स्थायि-बलं
शरीरं
39.147द्व् सकृत् कृतं साधु यथा कृत-ज्ञाः
धात्री-रस-क्षौद्र-सिता-घृतानि हिताशनानां लिहतां नराणाम् ।
प्रणाशम् आयान्ति जरा-विकारा ग्रन्था विशाला इव दुर्-गृहीताः

119.149

39.148ब्व् हिताशिनां वै लिहतां नराणाम्
धात्री-कृमिघ्नासन-सार-चूर्णं स-तैल-सर्पिर्-मधु-लोह-रेणु ।
निषेवमाणस्य भवेन् नरस्य तारुण्य-लावण्यम् अ-विप्रणष्टम्

119.150

39.149द्व् तारुण्य-लावण्यम् अति-प्रतिष्ठम् 39.149द्व् तारुण्य-लावण्यम् अपि
प्रणष्टम्
लौहं रजो वेल्ल-भवं च सर्पिः-क्षौद्र-द्रुतं स्थापितम् अब्द-मात्रम् ।
समुद्गके बीजक-सार-कॢप्ते लिहन् बली जीवति कृष्ण-केशः

119.151

39.150अव् लोहं रजो वेल्ल-भवं च सर्पिः- 39.150अव् लोहाद् रजो वेल्ल-भवं च
सर्पिः-
39.150च्व् समुद्गके बीजक-सार-लिप्ते 39.150च्व् सामुद्गके बीजक-क्षार-कॢप्ते
विडङ्ग-भल्लातक-नागराणि ये ऽश्नन्ति सर्पिर्-मधु-संयुतानि ।
जरा-नदीं रोग-तरङ्गिणीं ते लावण्य-युक्ताः पुरुषास् तरन्ति

119.152

खदिरासन-यूष-भावितायास् त्रि-फलाया घृत-माक्षिक-प्लुतायाः ।
नियमेन नरा निषेवितारो यदि जीवन्त्य् अ-रुजः किम् अत्र चित्रम्

119.153

39.152ब्व् त्रि-फलाया घृत-माक्षिकान्वितायाः 39.152द्व् यदि जीवन्त्य् अ-जराः किम्
अत्र चित्रम्
बीजकस्य रसम् अङ्गुलि-हार्यं शर्करां मधु घृतं त्रि-फलां च ।
शीलयत्सु पुरुषेषु जरत्-ता स्व्-आगतापि विनिवर्तत एव

119.154

39.153ब्व् शर्करा-मधु-घृतं त्रि-फलां च 39.153ब्व् शर्करा-मधु-युतं
त्रि-फलां च
पुनर्नवस्यार्ध-पलं नवस्य पिष्टं पिबेद् यः पयसार्ध-मासम् ।
मास-द्वयं तत्-त्रि-गुणं समां वा जीर्णो ऽपि भूयः स पुनर्-नवः स्यात्

119.155

मूर्वा-बृहत्य्-अंशुमती-बलानाम् उशीर-पाठासन-शारिवाणाम् ।
कालानुसार्यागुरु-चन्दनानां वदन्ति पौनर्नवम् एव कल्पम्

119.156

शतावरी-कल्क-कषाय-सिद्धं ये सर्पिर् अश्नन्ति सिता-द्वितीयम् ।
ताञ् जीविताध्वानम् अभिप्रपन्नान् न विप्रलुम्पन्ति विकार-चौराः

119.157

पीताश्वगन्धा पयसार्ध-मासं घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सु-वृष्टिः

119.158

39.157ब्व् घृतेन तैलेन सु-सूक्ष्म-पिष्टा 39.157द्व् बालस्य वृक्षस्य
यथाम्बु-वृष्टिः
दिने दिने कृष्ण-तिल-प्रकुञ्चं समश्नतां शीत-जलानु-पानम् ।
पोषः शरीरस्य भवत्य् अन्-अल्पो दृढी-भवन्त्य् आ-मरणाच् च दन्ताः

119.159

39.158ब्व् समश्नतः शीत-जलानु-पानम्
चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् स-सर्पिर् मधु-भाग-मिश्रम् ।
वृषः स्थिरः शान्त-विकार-दुःखः समाः शतं जीवति कृष्ण-केशः

119.160

39.159ब्व् लिहन् स-सर्पिर् मधुना प्रयुक्तम् 39.159ब्व् लिहन् स-सर्पिर्
मधु-भाग-युक्तम्
सार्धं तिलैर् आमलकानि कृष्णैर् अक्षाणि संक्षुद्य हरीतकीर् वा ।
ये ऽद्युर् मयूरा इव ते मनुष्या रम्यं परीणामम् अवाप्नुवन्ति

119.161

शिला-जतु-क्षौद्र-विडङ्ग-सर्पिर्-लोहाभया-पारद-ताप्य-भक्षः ।
आपूर्यते दुर्-बल-देह-धातुस् त्रि-पञ्च-रात्रेण यथा शशाङ्कः

119.162

ये मासम् एकं स्व-रसं पिबन्ति दिने दिने भृङ्गरजः-समुत्थम् ।
क्षीराशिनस् ते बल-वीर्य-युक्ताः समाः शतं जीवितम् आप्नुवन्ति

119.163

39.162द्व् समा-शतं जीवितम् आप्नुवन्ति
मासं वचाम् अप्य् उपसेवमानाः क्षीरेण तैलेन घृतेन वापि ।
भवन्ति रक्षोभिर् अ-धृष्य-रूपा मेधाविनो निर्-मल-मृष्ट-वाक्याः

119.164

मण्डूकपर्णीम् अपि भक्षयन्तो भृष्टां घृते मासम् अन्-अन्न-भक्षाः ।
जीवन्ति कालं विपुलं प्रगल्भास् तारुण्य-लावण्य-गुणोदय-स्थाः

119.165

39.164अव् मण्डूकपर्णीं परिभक्षयन्तो 39.164ब्व् भृष्टां घृते मासम्
अन्-अन्न-भक्ष्याः
लाङ्गली-त्रि-फला-लोह-पल-पञ्चाशता कृतम् ।
मार्कव-स्व-रसे षष्ट्या गुटिकानां शत-त्रयम्

119.166

39.165ब्व् -पल-पञ्चाशतः कृतात् 39.165ब्व् -पल-पञ्चाशती-कृतम् 39.165च्व्
मार्कव-स्व-रसे पिष्टाद्
39.165च्व् मार्कव-स्व-रसे पिष्ट्वा 39.165द्व् गुटिकानां शत-त्रयात्
छाया-विशुष्कं गुटिकार्धम् अद्यात् पूर्वं समस्ताम् अपि तां क्रमेण ।
भजेद् विरिक्तः क्रम-शश् च मण्डं पेयां विलेपीं रसकौदनं च

119.167

39.166अव् छाया-विशुष्काद् गुटिकार्धम् अद्यात्
सर्पिः-स्निग्धं मासम् एकं यतात्मा मासाद् ऊर्ध्वं सर्व-था स्वैर-वृत्तिः ।
वर्ज्यं यत्नात् सर्व-कालं त्व् अ-जीर्णं वर्षेणैवं योगम् एवोपयुञ्ज्यात्

119.168

39.167ब्व् मासाद् ऊर्ध्वं सर्व-शः स्वैर-वृत्तिः 39.167द्व् वर्षेणैवं योगम्
एवोपयुञ्ज्य
भवति विगत-रोगो यो ऽप्य् अ-साध्यामयार्तः प्रबल-पुरुष-कारः शोभते यो ऽपि वृद्धः
।
उपचित-पृथु-गात्र-श्रोत्र-नेत्रादि-युक्तस् तरुण इव समानां पञ्च जीवेच् छतानि

119.170

गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करान् ॥ 169अ ॥
39.169अव् गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करं
पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मयैः ॥ 169ब् ॥
39.169ब्व् पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मलैः
39.169ब्व् पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः
39.169ब्व् पिष्ट्वाष्टौ दश-षड्-गुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः
पात्रे लोह-मये त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेद् ॥ 169च् ॥
39.169च्व् पात्रे लोह-कृते त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेद्
अग्नौ चानु मृदौ स-लोह-शकलं पाद-स्थितं तत् पचेत् ॥ 169द् ॥
पूतस्यांशः क्षीरतो ऽंशस् तथांशौ भार्गान् निर्यासाद् द्वौ वरायास् त्रयो ऽंशाः ।
अंशाश् चत्वारश् चेह हैयङ्गवीनाद् एकी-कृत्यैतत् साधयेत् कृष्ण-लौहे

119.171

39.170ब्व् भार्गी-निर्यासाद् द्वौ वरायास् त्रयो ऽंशाः 39.170च्व् अंशाश् चत्वारश् चैव
हैयङ्गवीनाद्
वि-मल-खण्ड-सिता-मधुभिः पृथग् युतम् अ-युक्तम् इदं यदि वा घृतम् ।
स्व-रुचि-भोजन-पान-विचेष्टितो भवति ना पल-शः परिशीलयन्

119.173

39.171अव् वि-मलया सितया मधुनाथ-वा 39.171द्व् भवति ना पल-शः
परिशीलयेत्
श्री-मान् निर्धूत-पाप्मा वन-महिष-बलो वाजि-वेगः स्थिराङ्गः ॥ 172अ ॥
केशैर् भृङ्गाङ्ग-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी ॥ 172ब् ॥
39.172ब्व् केशैर् भृङ्गाति-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी
वाङ्-मेधा-धी-समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाद् ॥ 172च् ॥
39.172च्व् वाङ्-मेधावी समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाद्
धत्ते ऽसौ नारसिंहं वपुर् अनल-शिखा-तप्त-चामीकराभम् ॥ 172द् ॥
अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्य् अपि ।
चक्रोज्ज्वल-भुजं भीता नारसिंहम् इवासुराः

119.174

39.173च्व् चक्रोज्ज्वल-भुजा भीता
भृङ्ग-प्रवालान् अमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा ।
विशुद्ध-कोष्ठो ऽसन-सार-सिद्ध-दुग्धानुपस् तत्-कृत-भोजनार्थः

119.175

मासोपयोगात् स सुखी जीवत्य् अब्द-शत-त्रयम् ।
गृह्णाति सकृद् अप्य् उक्तम् अ-विलुप्त-स्मृतीन्द्रियः

119.176

39.175ब्व् जीवत्य् अब्द-शत-द्वयम्
अनेनैव च कल्पेन यस् तैलम् उपयोजयेत् ।
तान् एवाप्नोति स गुणान् कृष्ण-केशश् च जायते

119.177

उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि ।
महानुशंसान्य् अपि चापराणि प्राप्त्य्-आदि-कष्टानि न कीर्तितानि

119.178

39.177च्व् महानुभावान्य् अपि चापराणि 39.177च्व् महानुशंस्यान्य् अपि चापराणि
रसायन-विधि-भ्रंशाज् जायेरन् व्याधयो यदि ।
यथा-स्वम् औषधं तेषां कार्यं मुक्त्वा रसायनम्

119.179

सत्य-वादिनम् अ-क्रोधम् अध्य्-आत्म-प्रवणेन्द्रियम् ।
शान्तं सद्-वृत्त-निरतं विद्यान् नित्य-रसायनम्

119.180

गुणैर् एभिः समुदितः सेवते यो रसायनम् ।
स निवृत्तात्मा दीर्घायुः पर-त्रेह च मोदते

119.181

39.180अव् गुणैर् एतैः समुदितैः 39.180च्व् स निर्वृतात्मा दीर्घायुः
शास्त्रानुसारिणी चर्या चित्त-ज्ञाः पार्श्व-वर्तिनः ।
बुद्धिर् अ-स्खलितार्थेषु परिपूर्णं रसायनम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc